SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ नयामततरङ्गिणी-तरङ्गिणीतरणिभ्यां समाहतो नयोपदेशः। नयामृत-धय॑श इति-- धर्मिणः- आत्मनः, अंशे-नास्तित्वभागे, एको बार्हस्पत्यः-चार्वाको नास्तिकः प्रकीर्तितः धर्माणाम् - आत्मनः शरीरपरिमाणत्व-नानात्व-परिणामित्व-ध्रुवस्व-सर्वज्ञजातीयत्वादीनाम् , अंशे-नास्तित्वपक्षे, सर्वेऽपि नैयायिक-वैशेषिक वेदान्ति-साङ्ख्य पातञ्जल जैमिनीयादय:परतीथिकाः, नास्तिकाः, ज्ञेयाः, यत्र यथा यदस्तित्वं तत्र तथा तदनभ्युपगमस्य स्वरसतो भगवद्वचना. श्रद्धानस्यैव वा नास्तिकपदप्रवृत्तिनिमित्तत्वादिति भावः, चार्वाकादिभिन्नदर्शनस्वीकर्तृत्वमेवास्तिकत्वमिति रूढिस्त्वनुकम्पामात्रम् ।। १२६ ।। सम्यक्त्व-मिथ्यात्वस्थानकयोरुक्तमेव प्रकार क्रियावाद-तदितरवादेष्वतिदिशन्नाह इत्थमेव क्रियावादे, सम्यक्त्वोक्तिर्न दुष्यति । मिथ्यात्वोक्तिस्तथाऽज्ञाना-क्रिया-विनयवादिषु ॥ १२७॥ नयामृत०-इत्थमेवेति । इत्थमेव मार्गप्रवेशत्यागाभ्यामेव, क्रियावादे सम्यक्त्वोक्तिः “सम्महिट्ठी किरियावाइ” इत्यादिलक्षणा । अक्रियाऽज्ञानविनयवादिषु च मिथ्यात्वोक्तिः- “ सेसा य मिच्छगा वा” इत्यादि, न दुष्यति० न दोषावहः भवति, फलत इत्थं विभागाभिप्रायस्याविरोधात्, जात्या चान्यत्र सर्वतौल्योक्तरुपपत्तेः ॥ १२७ ।। क्रियावादस्य सम्यक्त्वरूपतामेव युक्त्यन्तरेण द्रढयति क्रियायां पक्षपातो हि, पुंसां मार्गाभिमुख्यकृत् । अन्त्यपुद्गलभावित्वादन्येभ्यस्तस्य मुख्यता ॥ १२८॥ नयामृत-क्रियायामिति । क्रियायां पक्षपातो मोक्षेच्छयाऽऽवेशो हि पुंसां मार्गाभिमुख्य___षविंशत्युत्तरशततमपद्यमवतारयति- नन्विति । एतेषां नयानाम् । विवृणोति- धयश इतीति- धर्मिणोऽशो धर्म्यश इति समासमवलम्ब्य धर्मिण इत्यस्य विवरणमात्मन इति, अंशे इत्यस्य विवरणं- नास्तित्वमागे इति । बार्हस्पत्यः बृहस्पतिप्रणीतसूत्रानुसरणशीलः। स क इत्यपेक्षायामाह-चार्वाक इति- पृथिव्यादिचतुष्टयमेव तत्त्वम् , शरीरव्यतिरिक्त आत्मा नास्ति, प्रत्यक्षमेवैकं प्रमाणमित्याधुपगन्ता चार्वाकनामा धर्माणामंशो धांश इति समासमवलम्य धर्माणामित्यस्य विवरणमात्मनः शरीरपरिमाणत्व-नानात्व-परिणामित्व-ध्रुवत्व-सर्वचजातीयत्वादीनामिति । अंशे इत्यस्य विवरण- नास्तित्वपक्ष इति- आत्मनः शरीरपरिणामित्वादिकं नास्तीति पक्ष इति तदर्थः । सर्वेऽपीत्यस्य पर्यवसितार्थ नैयायिक वैशेषिक-वेदान्ति-साडय-पातञ्जल-जैमिनीयादय इति । किं नास्तिकपदप्रवृत्तिनिमित्तं येन तद्भावान्नैयायिकादयो नास्तिकपदव्यपदेश्या इत्यपेक्षायां तद्भावमुपदर्शयति- यत्र यथेति स्पष्टम् । तर्हि नैयायिकादीनां लोकरूस्याऽऽस्तिकव्यपदेश्यत्वं कथमित्यपेक्षायामाह - चार्वाकादिभिन्नेति । अनुकम्पामात्रमिति- अनुकम्पैव केवलम् , न तु वस्तुतो नैयायिकादय आस्तिका इति ॥ १२६ ॥ सप्तविंशत्युत्तरशततमपद्यमवतारयति- सम्यक्त्वेति। उक्तमेव प्रकारं अनन्तराभिहितमेव मार्गप्रवेश-तत्त्यागलक्षणप्रकारम् । तदितरेति-क्रियेतरेत्यर्थः । विवृणोति- इत्थमेवेतीति । इत्थमेवत्यस्य विवरणं- मार्गप्रवेश-त्यागाभ्यामेवेति । सम्म० इति- “ सम्यग्दृष्टिः क्रियावादी" इति संस्कृतम् । सेसा इति- “शेषाश्च मिथ्यात्वगा वा" इति संस्कृतम् । न दुष्यतीत्यस्य विवरणं- न दोषावहो भवतीति । तत्र हेतुमाह-फलत इति ॥ १२७ ॥ ___ अष्टाविंशत्युत्तरशततमपद्यमवतारयति क्रियावादस्येति । विवृणोति-क्रियायामितीति । पक्षपात इत्यस्य विवरणंमोक्षेच्छयाऽऽवेश इति । हि यतः। मार्गाभिमुख्य कृदित्यस्य विवरणं-मार्गानुसारितास्थैर्याधायको भवतीति।
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy