________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
""
""
-
नित्यविवेकादि लभते " इति । स च नित्यानित्य विवेक:-' इदं सर्वमनित्यं दृष्टश्रुताभ्याम् एतस्य विशर्माधिष्ठानं किञ्चिन्नित्यम्' इत्येवमालोचनात्मकः । तत ऐहिक- पारलौकिक फलेच्छा विरोधिचेतोवृत्ति - विशेषात्मको विरागः । ततः शमादिषट्कम् - शम- देम उपरति तितिक्षा - समाधान-श्रद्धाः, अन्तःकरणनिग्रहः शमः, बाह्येन्द्रियनिग्रहो दमः, उपरतिः संन्यासः, द्वन्द्वसहिष्णुत्वं तितिक्षा, श्रवणादिप्रावण्यं समाधानम्, साम्प्रदायिके विश्वासः श्रद्धा । ततो मुमुक्षा - मोक्षेच्छा । तदेतत्साधनचतुष्टयं श्रवणाधिकारिविशेषणम् । यत्तु मुमुक्षैव तथा, काम्याधिकारे कामनाया एव निरपेक्षाधिकारनिमित्तत्वादिति, तन्नकाम्याधिकारे सामर्थ्यादेरप्यधिकारत्वात् । अथ कामनाऽर्थिकं सामर्थ्याद्यपेक्षते, न श्रुतमन्यत्, तत् किं इति पाठो युक्तः । दृष्टश्रुताभ्यामित्यत्र दृष्टपदेन लौकिकप्रत्यक्षादिप्रमाणस्य ग्रहणम् । इदं सर्वमनित्यं प्रत्यक्षादिप्रमाणेनावसीयते तथा यथेह कर्मचितो लोकः क्षीयते, एवमेवामुत्र पुण्यचितो लोकः क्षीयते " [ इत्यादिश्रुतप्रमाणेनाप्यवसीयते, “अपाम सोमममृता अभूम [ अ. शिरः ३ २] इत्यादिश्रुतिश्च सोमलतादिपानजन्यफलस्य न नित्यत्वमवबोधयति, किन्तु चिरस्थितिकत्वमेव “आभूतसंप्लवं स्थानममृतत्वं हि भाष्यते ॥ ] इति वचनात् एतस्य विमर्शस्य दृष्टश्रुताभ्यां प्रमाणाभ्यामुपजातस्येदं सर्वमनित्यमित्या कारकस्य विमर्शस्य विचारणास्वरूपज्ञानस्य, अधिष्ठानं यत्रायं विचारः प्रादुर्भवति सर्वस्य शून्यत्वे निरधिष्ठानको विचारोऽपि न भवेदिति किश्चिदधिष्ठानं चैतन्यलक्षणमुपगन्तव्यम्, तच्च नित्यमिति, इत्येवमुक्तप्रकारेण यदालोचनं तदात्मको नित्यानित्यविवेक इत्यर्थः । विरागस्वरूपं द्वितीयं साधनमुपदर्शयति तत इति - निरुक्तनित्यानित्यविवेकत इत्यर्थः । ऐहिकेति - ऐतद्भविकं पारलौकिकं च यत् फलं तदिच्छायास्तत्कामनाया विरोधी प्रतिबन्धको यश्चेतोवृत्तिविशेषोऽन्तःकरणपरिणाम विशेषस्तदात्मको. विराग इत्यर्थः । तृतीयं साधनस्वरूपमुपदर्शयति - तत इति - निरुक्तविरागत इत्यर्थः । शमादिषट्कमित्यत्रादिपदात् किं ग्राह्यमित्यतस्तद् विशिष्योपदर्शयति- शमदमेत्यादिना । शमादीनां विभक्तलक्षणमुपदर्शयति- अन्तःकरणनिग्रहः शम इति - अन्तःकरणस्य मनसो यदनेकाकारपरिणमनरूपेण प्रतिक्षणमन्यान्यावस्थाविशेषस्तदनुत्पत्तिप्रयोजकयत्नविशेषोऽन्तःकरणनिग्रहः शम इत्यर्थः । बाह्येन्द्रियेति- बाह्येन्द्रियाणां चक्षुरादीनां निग्रहः - स्वस्वविषयप्रवृत्तिविरोधिप्रयत्न विशेषो दम इत्यर्थः । उपरतिरिति सर्वाभ्यः क्रियाभ्यो विरमणलक्षणः संन्यास उपरतिरित्यर्थः । द्वन्द्वेति- सुख-दुःखशीतोष्णादिद्वन्द्वसहिष्णुत्वं तितिक्षेत्यर्थः । श्रवणेति श्रवण-मनन-निदिध्यासनैकतानतालक्षणश्रवणादिप्रावण्यं समाधानमित्यर्थः । साम्प्रदायिक इति - आप्तपरम्परानुष्ठानगोचरे कर्मणि विश्वास इदमित्थमेव यथाऽऽप्तैराचरितमिति चित्तपरिणामविशेषलक्षणो विश्वासः श्रद्धेत्यर्थः । चतुर्थं साधनमुपदर्शयति तत इति निरुक्तलक्षणश्रद्धातः । मोक्षविषयिणी येच्छा मुक्तोऽहं स्यामि - त्याकारिका सैव मुमुक्षेत्यर्थः । उपसंहरति- तदेतदिति । मुमुक्षामात्रस्य श्रवणाधिकारिविशेषणत्वं पराभिप्रेतं प्रतिक्षेप्तुमुपदर्शयति-यत् त्विति । तथा श्रवणाधिकारिविशेषणम् । मोक्षेच्छयैव श्रवणादिकमाचरतीति श्रवणादिकं काम्यमतस्तदधिकारे मोक्षकामनैवान्यानपेक्षा श्रवणाद्यधिकारे निमित्तत्वात् तद्विशेषणमित्याह- काम्याधिकारे इति । प्रतिक्षिपति - तन्नेति । नहि तत्तत्कर्मासमर्थस्तत्तत्कर्मण्यधिकारीति तत्तत्कर्मसामर्थ्यादेरप्यधिकारिविशेषणत्वादिति प्रतिक्षेप हेतुमुपदर्शयति- काम्या धिकार इति । अधिकारत्वात् अधिकारिविशेषणत्वात् । शङ्कते अथेति सामर्थ्यमन्तरेण कामनया कर्म न भवतीत्यत आर्थिकमर्थात् प्राप्तं सामर्थ्यादिकं कामनाऽपेक्षते, श्रुतं किञ्चिन्नापेक्षते कामनेति स्वातिरिक्तश्रुतानपेक्षत्वात् कामनाया एवाधिकारिविशेषणत्वमिति शङ्काऽर्थः कामनाऽतिरिक्तस्य श्रुतस्य भावेऽपि तदपेक्षा नास्ति कामनायाः, आर्थिकस्य तु सामर्थ्यादेः श्रुतत्वाभावेऽपि लिङ्गप्रमाणगम्यस्यापेक्षा विद्यते कामनाया इत्यभ्युपगमे श्रुति-लिङ्गयोर्मध्ये लिङ्गस्य प्राबल्यमभ्युपगतं स्यात् तच्च "श्रुति-लिङ्ग वाक्य प्रकरण-स्थान- समाख्यानामुत्तरोत्तरदौर्बल्यात् पूर्वपूर्वं बलीयः " [ जैमिनिसू० ३, ३, १४ ] इति मीमांसा सिद्धान्तविरुद्धम्, तत्र समाख्या- नाम, नाम्ना च एकाकाङ्क्षालक्षणं स्थानं कल्प्यते यदीमनेनाऽऽकाङ्क्षितं न स्यात् कथमेतस्येदं नामेति, एकं यदन्यदाकाङ्क्षति तद् यदि तन्नाकाङ्क्षन्न तर्हि तयोरङ्गाङ्गिभावोऽवकल्पते इति स्थानादुभयाकाङ्क्षा लक्षणं प्रकरणं कल्प्यते प्रकरणेन चाङ्गबोधकवाक्याङ्गिबोधकवाक्ययोरेकवाक्यतालक्षणवाक्यं परिकल्प्यते, तेन च सामर्थ्यलक्षणं
३३३