________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
ऽसंबन्धाभ्यां भेदः, तथा स्वसमय-परसमयस्थविचित्रनयानां प्रमाणवाक्यान्तर्भाव बहिर्भावाभ्याम् , तौ च पदार्थवाक्यार्थादिभावेन साकाङ्कतया स्वातन्त्र्येण निराकासतया चेति न जातिभेदानुपपत्तिः, स्वसमयनयेषु निराकासप्रमाणबोधपर्यवसानेन तदत्यन्तोत्कर्षरूपकेवलज्ञानफलोद्देशः, परसमयनयेषु च उक्तभावनामात्रफलोद्देश इति फलतोऽपि भेदो व्यक्त एवेति सर्वमवदातम् ।
ननु यद्येवं नयार्था आपेक्षिकास्तदा अवयव्येकत्वमपि द्वित्वादिवद् बुद्धिजन्यमेव स्यात् , उभयमपि वा ज्ञानाकारमात्रमिति चेत्, न- एकत्व द्वित्वादीनामनन्तानां संख्यापर्यायाणामेकद्रव्यवृत्तीनामेव सतां यथाक्षयोपशमं बुद्धिविशेषेण प्रतिनियतानामेव ग्रहणमित्यभ्युपगमात् , युक्तं चैतत् , अन्यथा एकत्रैव घटे 'तद्रूप-तद्रसवतोरैक्यम्' इत्यादिना द्विवचनप्रयोगस्य, बहुषु च करि-तुरग रथ-पदातिषु 'सेना' इत्येकवचनप्रयोगस्यानुपपत्तः । अथैकत्वद्वित्वादि तत्तद्धर्मप्रकारकवुद्धिविषयत्वादिकं गौणमेव द्वित्वादिव्यवहारनिमित्तम् , तच्च तत्तद्धर्मावच्छेदेन पर्याप्तमिति न ‘एको द्वौ' इत्यादेः प्रसङ्गः, मुख्यं तु द्वित्ववाक्यान्तर्भूतत्वम् , परसमयस्थविचित्रनयानां प्रमाणवाक्यबहिर्भूतत्वमित्येवं स्वसमय-परसमयस्थनयानां विशेष इत्यर्थः । यदा च प्रमाणवाक्यान्तर्भाव-बहिर्भावाभ्यां स्वसमय-परसमयस्थविचित्रनयानां भेदो व्यवस्थितो भवति तदा जातिभेदोऽपि तेषां सूपपादः, यतः सप्तमभङ्गयात्मकप्रमाणवाक्यान्तर्भूतं च नयवाक्यं प्रमाणवाक्यार्थांशप्रतिपादकत्वात् पदस्थानीयं तदर्थस्य पदार्थान्तरसाकाङ्क्षत्वम् , प्रमाणवाक्यबहिर्भूतं च नयवाक्यं स्वतन्त्रत्वाद् वाक्यमेव तदर्थस्य निराकासत्वमित्येवं प्रमाणवाक्यान्तर्भूत-प्रमाणबहिभूतौ पदार्थ-वाक्यार्थभावेन साकाङ्क्षतया स्वातन्त्र्येण निराकासतया च विभिन्नजातीयाविति न जातिभेदानुपपत्तिरित्याह-तौ चेति- प्रमाणवाक्यान्तर्भावबहिर्भावौ चेत्यर्थः । एतावता जातितो भेदास्योपपादनेन स्वसमयस्थनयवाक्यानां जातितः शुद्धिः, परसमयस्थनयवाक्यानां जातितोऽशुद्धिः समर्पिता । इदानी फलभेदोपप,दनद्वारा फलतः शुद्ध्यशुद्धी उपदइते- स्वसमयनयेष्विति । तदत्यन्तोत्कर्षरूपेति- निराकाङ्क्षप्रमाणबोधात्यन्तोत्कर्षरूपेत्यर्थः । उक्तभावनेति- उक्तानित्यत्वभावना-निरुक्तकत्वभावनेत्यर्थः ।
नयार्थानामापेक्षिकत्वमसहमानः परः शङ्कते- नन्विति । एवम् उक्तप्रकारेण । द्वित्वादिवदिति- आदिपदात् त्रित्वादि. परार्धपर्यन्तसङ्ख्यानां परिग्रहः, “द्वित्वादयः परान्तिा अपेक्षाबुद्धिजा मताः" । [कारिकावलिश्लो० १०७] इति नैयायिकसिद्धान्ताद् यथा द्वित्वादिकमपेक्षाबुद्धिजन्यं तथाऽवयव्येकत्वमप्यपेक्षाबुद्धिजन्यं स्याद् आपेक्षिकत्वस्येत्थमेवोपपत्तेरित्यर्थः । अपक्षा वैज्ञानिकसम्बन्धरूपतयेष्टा, वैज्ञानिकसम्बन्धश्च विज्ञानजन्यत्वाद् विज्ञानाकाररूपत्वाद् वा सम्भवतीति तत्र विज्ञानजन्यत्वेनापेक्षिकत्वमापाद्य विज्ञानाकाररूपत्वेन तदापादयति-उभयमपि वेति-अवयव्येकत्व-द्वित्वाद्युभयमपि वेत्यर्थः, एकत्वद्वित्वादयः सर्वेऽपि सङ्खयापर्याया अनन्ता अप्येकत्र द्रव्ये सम्भवन्ति, परं तेषां मध्यात् प्रतिनियतानामेव तत्र सताम् , यथाक्षयोपशमं बुद्धिविशेषणम्, क्षयोपशमापेक्षबुद्धि विशेषग्राह्यत्वमपि वैज्ञानिकसम्बन्ध एवेत्येतावताऽऽपेक्षिकत्वमुपपद्यत इति समाधत्ते-नेति । एकत्रैव द्रव्ये एकत्व-द्वित्वादिकं समस्त्येव, अपेक्षया तु प्रतिनियतानां प्रहणमित्यस्य युक्तत्वं व्यवस्थापयति- युक्तं चैतदिति । अन्यथा अनन्तानां सङ्ख्यापर्यायाणामेकद्रव्यवृत्तित्वाभावे। द्विवचनप्रयोगस्य तद्रूप-तद्रसवतोः' इति षष्ठीद्विवचनप्रयोगस्य 'अनुपपत्तेः' इत्यनेनान्वयः, यद्यकस्मिन् घटे एकत्वमेव न द्वित्वं तदा तद्रूपवान् य एव घट स एव तद्रसवानपीति तस्यैकत्वेन द्वित्वार्थस्य तत्राघटमानत्वेन तदर्थकस्य द्विवचनप्रयोगस्यानुपपत्तरित्यर्थः । 'इत्यादिना' इत्यादिपदात् तद्रूप-तस-तत्स्पर्शवतामैक्यम्' इत्यादिप्रयोगस्यापि ग्रहणेन तत्रत्यबहुवचनप्रयोगस्याप्येकस्मिन् बहुत्वस्याभावेऽनुपपत्तरित्यपि बोध्यम् । बहुषु चेति- सेनापदेन बहूनां करि-तुरग-पदातीनामेवावबोधनम् , नोकः कर्येव तुरगादिरेव वा प्रत्येकं सेनेत्युच्यते, तथा च सेनापदप्रतिपाद्यानां बहूनां करि-तुरग-पदातिप्रभृतीनामेकत्वस्याभावे तदर्थकस्य सेनापदोत्तरैकवचनस्यानु-पत्तेरिति यत्रैकत्वं तत्र द्वित्वादिकमपि, यत्र द्वित्वादिकं तत्रैकत्वमपि, यथाक्षयोपशमं च बुद्धि विशेषेण प्रतिनियतस्य ग्रहणमेष्टव्यम् , तदेवाऽऽपेक्षिकत्वमित्यर्थः । एकस्मिन् द्रव्ये मुख्यं द्वित्वादिकमसहमानो नैयायिकः शङ्कते- अथेति- 'एकत्व-द्वित्वादि' इति स्थाने 'एकत्र द्वित्वादि' इति पाठो युक्तः, एकत्र द्वित्वादिव्यवहारनिमित्तं तत्तद्धर्मप्रकारकबुद्धिविषयकत्वादिकं गौणमेव द्वित्वादीत्यन्वयः । तच्च तत्तद्धर्मप्रकारकबुद्धिविषयत्वादिरूपं द्वित्वादि च।