SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । २१५ न्वयस्य निराकासत्वात् सङ्ग्रहनयमतेन षण्णां प्रदेश इत्यन्ये ॥ ५५ ॥ व्यवहारस्तु पश्चानां, साधारण्यं न वित्तवत् । इति पञ्चविधो वाच्यः, प्रदेश इति मन्यते ॥ ५६ ॥ नयामृत-व्यवहारस्त्विति । व्यवहारनयस्त्विति मन्यते-यथा पञ्चानां वित्ते साधारण्यं स्वामित्वं, तथा प्रदेशेन साधारण्यं पञ्चवृत्तित्वमिति, पञ्चानां प्रदेश इति न वाच्यम् , किन्तु पञ्चविधः प्रदेश इति वाच्यमिति । पञ्चानां प्रदेश इति यदि पञ्चत्वपर्याप्तिमद्वृत्तित्वमादाय प्रयुज्यते, तदा न तत्र कुत्रापि प्रदेश इत्ययोग्यत्वम् । यदि च पञ्चत्वाश्रयवृत्तित्वमादाय प्रयुज्यते, तदा पश्चानां धर्मास्ति. कायप्रदेश इत्यपि स्यादित्येवं सङ्ग्रहमतं दूषणीयमित्येतत्तात्पर्यम् । नन्वेवं घट-पटयो रूपमित्यपि न स्यादिति चेत् ? न स्यादेव, समुदितवृत्तित्वबोधायैव व्यवहारसामर्थ्यात् , घटपटोभयसम्बन्धिना इत्यत्र 'सङ्ग्रहनयमते न' इत्येवं छेदः । यदि देश-देशिनोभिदः किन्तु भेद एव, तथा सति वृक्षाणां परस्परविभिन्नानां छायाऽपि विभिनव, अथापि छायात्वेनैकरूपेणकीकृता छाया सर्वेषामन्वययोग्या भवति, न च तत्र निराकाक्षता, तथा देशस्यापि भिन्नस्य भिन्ना छाया स्यादेव तदन्वययोग्या, तत्रापि साकाङ्क्षता न काकभक्षितेति देश-देशिनोरभेदादेव यैव देशिच्छाया सैव देशच्छायेत्यत एव पञ्चानां वृक्षाणां तद्देशस्य च च्छायेति न भवति तथैव प्रकृतेऽपोत्यस्वरसः 'अन्य' इत्युक्त्या सूचितः ॥ ५५ ॥ यथा धनस्यैकस्याने स्वामित्वं तथा नैकस्य प्रदेशस्याने कसम्बन्धित्वमिति धर्मास्तिकायादीनां पञ्चानां परस्पर विभिन्नप्रदेशानां नैकप्रदेशकत्वमिति धर्मास्तिकायस्य प्रदेशोऽधर्मास्तिकायस्य प्रदेश इत्येवं पञ्चविधः प्रदेश इत्येव वक्तव्यम्, न तु धर्मास्तिकायादीनां पञ्चानां प्रदेश इति व्यवहारनयोऽभिमन्यते, तन्मन्तव्योपदर्शकं षट्पञ्चाशत्तमपद्यं विवृणोति-व्यवहारस्त्वितीति-अस्य ' इति मन्यते' इत्यनेनान्वयमुल्लिखति-व्यवहारनयस्त्विति मन्यते इति । 'मन्यते' इत्यस्य कर्म मूलोकं स्पष्टयति- यथा दृष्टान्ते साधारण्यं स्वामित्वं दान्तिके वृत्तित्वं तदित्याह-साधारण्यं स्वामित्वमिति । 'प्रदेशेन 'इत्यत्र 'प्रदेशे न' इति बोध्यम् । प्रदेशे पञ्चानां वृत्तित्वं नेत्यस्य फलितमाह-पश्चानां प्रदेश इति न पाच्यमिति । तर्हि किं वाच्यमिति पृच्छति-किन्त्विति । व्यवहारनयतात्पर्यमाविष्करोति-पश्चानामिति- पश्चानां प्रदेश इति यत् सङ्ग्रहस्य मतं तत्र यदि धर्मास्तिकायादिपञ्चगतपञ्चत्वसङ्ख्यापर्याप्तिमनिरूपितवृत्तित्ववान् प्रदेश इत्यर्थोऽभिप्रेतस्तदा तस्यायोग्यत्वान्न सम्भवः, यतो धर्मास्तिकायस्य प्रदेशो धर्मास्तिकाय एव वर्तते, नाधर्मास्तिकायादौ, तथाऽधर्मास्तिकायस्य प्रदेशोऽधर्मास्तिकाय एव वर्तते, इत्येवं प्रदेशमात्रस्य धर्मास्तिकायादावेककस्मिन्नेव वृत्तित्वं न तु धर्मास्तिकायादि. पञ्चगतपश्चत्वसङ्ख्यावच्छिन्ननिरूपितपर्याप्तिसम्बन्धावच्छिन्नवृत्तित्वं कस्यापि प्रदेशस्येति तादृशार्थविवक्षायां पञ्चानां प्रदेश इति न सम्भवति, यदि च पर्याप्तिसम्बन्धमनादृत्य निरुक्तपञ्चत्वाश्रयनिरूपितवृत्तितावान् प्रदेश इत्यर्थ एव परिगृह्यते तदा पञ्चत्वाश्रयधर्मास्तिकायाद्यकै कनिरूपितवृत्तित्वस्य धर्मास्तिकायप्रदेशादावे किस्मिन् सम्भवेन योग्यत्वात् पञ्चानां प्रदेश इति प्रयोगः सम्भवति, किन्तु निरुक्तपञ्चत्वाश्रयधर्मास्तिकायनिरूपितवृत्तित्वं धर्मास्तिकायप्रदेशे वर्तत इति योग्यत्वाद् धर्मास्ति. कायादिपञ्चानां धर्मास्तिकायप्रदेश इति प्रयोगोऽप्यापद्यत इत्यतः पञ्चानां प्रदेश इति सङ्ग्रहमतं न समीचीनमिति तात्पर्य मित्यर्थः । ननु यथा नैकस्य कस्यापि प्रदेशस्य धर्मास्तिकायादिपञ्चवृत्तित्वमिति पञ्चानां प्रदेश इति न सम्भवति तथा नैकस्यापि रूपस्य घट-पटोभयनिरूपितवृत्तित्वम् , घटरूपं घट एव वर्तते न तु पटे, पटरूपं पट एवं वर्तते न तु घटे, इति घट-पटयो रूपमित्यपि प्रयोगो व्यवहारनयमते न स्यादित्याशङ्कते-नन्वेवमिति । अत्रेष्टापत्तिमेव समाधानमाहन स्यादेवेति-व्यवहारनयमते घट-पटयो रूपमिति न भवत्येवेत्यर्थः । ननु घट-पटगतद्वित्वाश्रयघटनिरूपितवृत्तित्वस्य घटरूपे निरुक्तद्वित्वाश्रयपटनिरूपितवृत्तित्वस्य पटरूपे च सत्त्वात् कथं न तादृशार्थमुपादाय घट-पटयो रूपमिति प्रयोग इत्यत आह-समुदितेति- व्यवहारनये घट-पटयो रूपमिति वाक्यस्य घट-पटगतद्वित्वपर्यायधिकरणनिरूपितवृत्तित्ववद्रूपमित्याकारकबोधमुत्पादयितुमेव सामर्थ्यात् , निरुक्तद्वित्वपर्यायधिकरणनिरूपितवृत्तित्वं च रूपे न कस्मिनपीत्यतो घट-पटयो रूपमिति
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy