________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
उभयप्रकारं रूपमित्याकारस्यैव व्यवहारनयजन्यबोधस्य तत्रोपपत्तेः ।। ५६ ।।
पञ्चप्रकारः प्रत्येकं, पञ्चविंशतिधा भवेत्।
प्रत्येकवृत्तौ प्राक्पक्षः, स्याद् गेहेष्विव वाजिनाम् ॥ ५७ ॥ नयामृत-पश्चप्रकार इति । पञ्चविधः प्रदेश इति यद् व्यवहारनयेन स्वीक्रियते, तत्र किं पञ्चविधत्वं ? पञ्चप्रकारत्रमिति चेत् ? कः प्रकारः ?, सङ्ख्या वा १, बुद्धिविशेषविषयत्वं वा २, भेदो वा ३ ?। नाद्यः-अनन्तेषु प्रदेशेषु पञ्चसङ्ख्यावधारणाऽसिद्धेः, न द्वितीयः पञ्चत्वप्रकारकबुद्धि. विषयत्वस्य प्रत्येकमभाविनः पञ्चस्वप्यभावात् , प्रत्येकं भावे चैकैकः प्रदेश पञ्चविध इति पञ्चविंशतिधा भवेत् । न च सामान्यतस्तदन्वयान्न बाध इति वाच्यम् , विशेषविनिर्मोकेण तसिद्धेः, यदि च न प्रयुज्यत इत्यर्थः। यदि घट-पटयो रूपमिति न प्रयुज्यते तर्हि कोहरव्यवहारस्तत्र भवतीत्यपेक्षायामाह-घट-पटोभयसम्बन्धिनेति- रूपस्यैकस्य घटात्मकं यत् सम्बन्धि यच्चापरस्य रूपस्य पटात्मकं सम्बन्धि तद्पोभय सम्बन्धिना घटस्य रूपं पटस्य रूपमित्येवमुभयप्रकारं रूपमित्याकारकस्यैव बोधस्य व्यवहारनयजन्यस्य घट-पटयो रूपमिति वाक्यस्थले उपपत्तेरित्यर्थः ॥ ५६ ॥
पञ्चानां प्रदेश इति सङ्ग्रहनयमतं दूषयित्वा पञ्चविधः प्रदेश इत्येव तत्र वाच्य इति स्वमतं यद् व्यवहारनयेन समर्थितं तद् विकल्पकवलितत्वान्न परीक्षकपरीक्षाक्षेत्रमिति ऋजुसूत्रवक्तव्योपदर्शक सप्तपञ्चाशत्तमपद्यं विवृणोति-पञ्चप्रकार इतीति । तत्र प्रदेशे । पञ्चविधः प्रदेश इति वाक्येन पञ्चप्रकारत्वलक्षणं पञ्चविधत्वं प्रतिपादयितुमिष्टमित्याशङ्कतेपञ्चप्रकारत्वमिति चेदिति । तत्र किं पञ्चविधत्वमिति पृच्छायां तदुत्तरमाशङ्कितं तद् विकल्प्य दूषयति-कः प्रकार इति-पञ्चप्रकारत्वमित्यत्र प्रकारशब्दवाच्यः क इत्यर्थः । प्रकारपदवाच्या सङ्ख्याऽभिमता, तथा च पञ्चप्रकारः प्रदेश इत्यनेन पञ्चसङ्ख्यकः प्रदेश इत्युक्तं स्यात् , तदपि न युक्तमित्याह- नाद्य इति। सर्व हि वाक्यं सावधारणमिति नियमेन पञ्चसङ्ख्यक एवं प्रदेश इत्युकवाक्यस्वरूपं भवेत् , ततश्च तेन वाक्येन प्रदेशे यत् पञ्चसंख्याऽवधारणं तन्न युज्यते प्रदेशानामनन्तसङ्ख्यकत्वादिति निषेधहेतुमुपदर्शयति अनन्तेष्विति । पञ्चप्रकारत्वमित्यनेन पञ्चत्वप्रकारकबुद्धिविशेषविषयत्वं प्रतिपादयितुमभिलषितमित्यपि न युक्तमित्याह-न द्वितीय इति । प्रत्येकावृत्तिधर्मस्य समुदायावृत्तित्वमिति नियमेन पञ्चत्वस्य प्रत्येक प्रदेशेऽभावेन प्रदेशपञ्चकेऽप्यभावादिति पञ्चत्वप्रकारकबुद्धिविशेषत्वस्यापि प्रत्येक प्रदेशेऽसतस्तत्पञ्चकेऽप्यसत्त्वादिति न पञ्चत्वप्रकारकबुद्धिविशेषविषयः प्रदेश इति सम्भवति यदि च प्रत्येकमपि प्रदेशे पञ्चत्वप्रकारकबुद्धिविशेषविषयत्वलक्षणं पञ्चविधत्वमिष्टं तदा धर्मास्तिकायस्य प्रदेशः पञ्चविधोऽधर्मास्तिकायस्य प्रदेशः पञ्चविधस्तथाऽऽकाशास्तिकाय-पुद्लास्तिकायजीवास्तिकायानां प्रदेशा अपि प्रत्येकमुक्तपञ्चविधत्वाकान्ता इति पञ्चविंशतिविधः प्रदेश इति प्रसज्यत इति निषेधहेतुमुपदर्शयति-पञ्चत्वप्रकारकेति । प्रत्येकमभाविनः एकैकधर्मास्तिकायादिप्रदेशव्यकावसतः । पञ्चस्वपि धर्मास्तिकायादिप्रदेशपञ्चकेष्वपि । प्रत्येकं भावे च एकैकधर्मास्तिकायादिप्रदेशव्यक्तौ पञ्चत्वप्रकारकबुद्धिविषयत्वस्य सत्त्वे तु । एकैक इति-धर्मास्तिकायप्रदेशः पञ्चविधः, अधर्मास्तिकायप्रदेशः पञ्चविध इत्येवं प्रत्येकं धर्मास्तिकायादिप्रदेशपञ्चकानां पञ्चविधत्वे पञ्चसङ्ख्यावतां प्रत्येकं पञ्चाख्या गुणितानां पञ्चविंशतिविधत्वं स्यादित्यर्थः । ननु प्रत्येकप्रदेशव्यक्तिगणनयाड नन्तसङ्ख्याक्त्सु प्रदेशेषु पञ्चत्वसङ्ख्याया बाधादन्वयासम्भवेऽपि धर्मास्तिकायप्रदेशत्वेन धर्मास्तिकायप्रदेश एकः, अधमास्तिकायप्रदेशत्वेनाधर्मास्तिकायप्रदेशस्तदन्यो द्वितीयः, आकाशास्तिकायप्रदेशत्वेनाकाशास्तिकायप्रदेशस्ताभ्यामन्यस्तृतीयः, पुदलास्तिकायप्रदेशत्वेन पुद्गलास्तिकायप्रदेशस्तेभ्योऽन्यश्चतुर्थः, जीवास्तिकायप्रदेशत्वेन जीवास्तिकायप्रदेशस्तेभ्योऽन्यः पञ्चम इति कृत्वा प्रदेशेषु पञ्चविधत्वस्यान्वयसम्भवान्न वाध इत्याशङ्कय प्रतिक्षिपति-न चेति- अस्य 'वाच्यम्' इत्यने नान्वयः। धर्मास्तिकायस्य यावत्यः प्रदेशव्यक्तयस्ताभ्योऽन्यद् धर्मास्तिकायप्रदेशसामान्य नास्त्येव, एवमधर्मास्तिकायादिप्रदेशसामान्यमप्यधर्मास्तिकायादिप्रदेशव्यक्तिभ्यो भिन्नं नास्त्येवेत्यनन्ता एवं प्रदेशव्यक्तयो न सामान्यतोऽपि पञ्चत्वसङ्ख्यापरिकलिता इति नोक्तदिशा निरुक्तपञ्चविधत्वस्यान्वयसम्भव इति निषेधहेतुमुपदर्शयति-विशेषविनिर्मोकेणेति