________________
२७३
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः। नाव्यापिता नामादीनामिति तु परिभाषाव्याख्याने शोभते, न त्वेकरूपे व्याप्तिमहमूलके व्यवहार इति भावनीयं सुधीभिः ॥ ९३ ॥ ___ तदेवं प्रायिकव्याप्त्या नामादिचतुष्टयं सर्वत्रेच्छन्ति सर्वेऽपि द्रव्यार्थिकनया इति व्यवस्थापितम् , अत्र यः स्थापनानिक्षेपः सङ्ग्रहनये नेष्यते तन्मतमुपन्यस्य तत्र भाष्योक्तदूषणमेवानूद्य तत्रैव युक्त्यन्त. रपरिस्कारं कर्तुकाम आह
सङ्घहे स्थापना नेष्टा, तस्या नाम्नैव सङ्ग्रहात् ।
किं नेन्द्रचित्रं नामेन्द्र इन्द्रनामकपिण्डवत् ॥ ९४ ॥ नयामृत-सङ्ग्रह इति । सङ्ग्रहे-सङ्ग्रहनये, स्थापना नेष्टा-स्थापनानिक्षेपो नाभिमतः, तस्या:स्थापनायाः, नाम्नव-नामनिक्षेपेणैव संग्रहात् , सङ्घहप्रवणो ह्ययं व्यापके व्यापकं(व्याप्यं) संगृह्णात्येव, पद-प्रतिकृतिभ्यामनयोर्भेदः स्यात् , अत इन्द्रचित्रं किं इन्द्रनामकपिण्डवन्नामेन्द्रो न भवति ? काका भवत्येवेत्यर्थः, तथा च नामेन्द्रत्वं द्विविधम् , इन्द्र इति पदत्वमेकम् १, अपरं चेन्द्रपदसङ्केतविषयत्वम् २, आद्यं नाम्नि, द्वितीयं च पदार्थे, तञ्च नाम-स्थापनासाधारणमेवेति न दोष इति भावः ॥ ९४ ॥
तद् द्रव्यजीव इत्यर्थः । इति एवमभ्युपगमे सति । नाव्यापितेति- नामादोनामव्यापिता नेत्यन्वयः। नामादीनां नाम-स्थापन'-द्रव्य-भावानाम् । इति तु एवंस्वरूपं कस्यचिदाचार्यस्य व्याख्यानं पुनः। परिभाषाव्याख्याने जैनसिद्धान्ते केनचिदाचार्येण जीवशब्दार्थानुपयुक्त जीवशब्दार्थज्ञपुरुषे जीवशब्दार्थज्ञस्य जीवरहिते शरीरे द्रव्यजीवशब्दः परिभाषितःसङ्केतित इत्येवं परिभाषाया व्याख्याने अधिकृते सति उक्तव्याख्यानं शोभते इत्यर्थः । तर्हि कुत्र न शोभते ? इत्यपेक्षायामाह-न विति। एकरूपे जैनसिद्धान्ते तन्त्रान्तरे च समानस्वरूपे, व्याप्तिग्रहमूलके यत्र यत्र वस्तुत्वं तत्र नामादिनिक्षेपचतुष्टयमित्येवं व्यातिज्ञानप्रभवे, व्यवहारे सर्वे पदार्था नामादिनिक्षेपचतुष्टयवन्त इत्याकारकव्यवहारे, 'न तु शोभते' इत्यस्यात्रान्वयः । उक्तार्थस्य गम्भीरत्वमावेदयितुमुक्तम्- इति भावनीयं सुधीभिरिति ।। ९३ ॥
चतुर्नवतितमपद्यमवतारयितुमाह - तदेवमिति । प्रायिकव्याप्त्येति - या बहुस्थलेष्वात्मानं लभते क्वचिदेव तु न प्रवर्तते सा प्रायिकव्याप्तिस्तयेत्यर्थः। अत्र नयनिक्षेपयोजनविचारे। यैरित्यत्र यत्पदं तन्मतमिति तत्पदापेक्षम् । सङ्गहनये स्थापनानिक्षेपो नेष्ट इति यैरनिर्धारितनामकैराचारिष्यते अभ्युपगम्यते तन्मतं तेषामाचार्याणां मतम् , उपन्यस्य उद्भाव्य, तत्र तस्मिन्नाचार्यमते, भाष्योक्तदषणमेवानद्य यदेव भाष्ये दूषणमुपदर्शितं तदेव दूषणमुपदर्य । तत्रैव भाष्योक्तदूषण एव, युक्त्यन्तरपरिष्कार युक्त्यन्तरविवेचनाम् । विवृणोति-सङ्गह इतीति । कथं सङ्ग्रहनये नामनिक्षेपेणैव स्थापनानिक्षेपस्य सङ्ग्रह इत्यपेक्षायामाह-सहप्रवणो हीति । हि यतः, अयं सङ्ग्रहनयः, सङ्ग्रहप्रवणः अनेकस्यैकरूपेण सङ्ग्रहणस्वभावः, अत एव व्यापके सामान्यादिस्वभावे, व्याप्यं विशेषादिस्वरूपम् , सगृह्णात्येव अन्तर्भावयत्येव । पद-प्रतिकृतिभ्यां तत्तद्वर्णाव्यवहितोत्तरतत्तवर्णात्मकं पदं प्रतिकृतिराकृतिस्ताभ्याम् । अनयोः नामस्थापनयोः। अतः एतस्मात् कारणात् , यतो नाम-स्थापनयोर्विशेषरूपेणैव भेदो न सामान्यरूपेणापीत्येतस्मात् कारणा. दिति यावत् । काकेति- यथा “मश्नामि कौरवशतं समरे न कोपात् , दुश्शासनस्य रुधिरं न पिबाम्युरस्तः। सञ्चूर्णयामि गदया न सुयोधनोरू? सन्धि करोतु भवतां नृपतिः पणेन ॥१॥" [वेणीसंहारे ] इति भीमसेनोक्तौ न मनामीत्यादौ काका- स्वरविशेषेण नना निषेधो न प्रतिपाद्यते किन्तु विधेर्दाळमेव तथा प्रकृतेऽपीत्याशयः। तथा च आकृतेरपि नाम्ना सङ्ग्रहेण स्वाभिमतत्वे च । आद्यम् इन्द्र इति पदत्वलक्षणं नामेन्द्रत्वम् , नाम्नि इकारोत्तरनकारोत्तरदकारोत्तररेफोत्तराऽकाररूपे इन्द्र इति नाम्नि वर्तते, न तस्याकृतौ सम्भव इत्याशयः । द्वितीयं च इन्द्रपदसङ्केतविषयस्वरूपं नामेन्द्रत्वं च, पदार्थे यस्मिन् गोपालदारकादौ 'अयमिन्द्रशब्दाद् बोद्धव्यः' इये सङ्केतः क्रियते तत्र, वर्तते इत्यर्थः ।
३५