________________
नयामृततरङ्गिणी-तरङ्गिणीऩरणिभ्यां समलङ्कृतो नयोपदेश! |
इति स्मृतिरप्युपपद्यते । अथाऽव्याप्यवृत्तिनीलादिकल्पने गौरवम, तथाहि - अवच्छेदकतासम्बन्धेन नीलादिकं प्रति समवायेन नीलेतररूपादीनां प्रतिबन्धकत्वमस्मिन् पक्षे वाच्यम्, अन्यथा पीतावयवावच्छेदेन नीलोत्पत्तिप्रसङ्गात् न च नीलस्य स्वाश्रयावच्छेदेन नीलजनकत्वस्वाभाव्यादेव न तदापत्तिः, विनैतादृशप्रतिबध्यप्रतिबन्धकभावं तथास्वाभाव्या निर्वाहात् । ननु समवायेन नीलं जायत एव पीतावयवावच्छेदेनेत्यत्र चापादकाभाव इति चेत् ? न - समवायस्येवावच्छेदकताया अपि कारणनियम्यत्वात्, एवं च नीलादौ नीलेतररूपादीनाम्, नीलेतररूपादौ वा नीलादीनां प्रतिबन्धकत्वे विनिगमकाभावः, मम तु नीलेतररूपादौ नीलादीनां न प्रतिबन्धकत्वम्, नील- पीतारब्धे नीरूपत्वप्रसङ्गस्य बाधकत्वादिति चेत् ? मैवम् - ममापि नीलत्वादिकमेव प्रतिबध्यतावच्छेदकम्, न तु नीलेतररूपत्वादि गौरसमावेशप्रतिपादिका तदैवोपपद्येत यद्येकस्मिन्नानाव्याप्यवृत्तिरूपाभ्युपगमः स्यादिति । प्राचीनमतानुयायी शङ्कते - अथेति । अवयविनि अव्याप्यवृत्तिरूपं तदेव स्याद् यद्यवयवे अवच्छेदकतासम्बन्धेन तदुत्पद्येत तद् यदि सर्वावयवेषूत्पद्येत तदा व्याप्यवृत्त्येव स्यान्नाव्याप्यवृतीत्यतः समवायेनावयविन्यव्याप्यवृत्तिनीलमुत्पद्यमानमवच्छेदकतया स्त्रैवायवे उत्पद्यते यत्र समवायेन नीलरूपमस्ति, यत्र तु समवायेन नीलेतररूपादीनि सन्ति तत्रावच्छेदकतया तन्नोत्पद्यत इत्येतदर्थं समवायेन नीलेतररूपादिकमवच्छेदकतया नीलं प्रति प्रतिबन्धकं वाच्यमिति गौरवमित्याह - तथाहीति । 'नीलादिकम्' इत्यत्रादिपदात् पीतादेरुपग्रहः । 'नीलेतर रूपादीनाम्' इत्यत्रादिपदात् पीतेतररूपादेः परिग्रहः । अस्मिन् पक्षे एकस्मिन्नवयविन्यव्याप्यवृत्तिनानारूपाभ्युपगन्तृपक्षे । अन्यथा अवच्छेदकतासम्बन्धेन नीलादिकं प्रति समवायेन नीलेतररूपादीनां प्रतिबन्धकत्वानभ्युपगमे । नन्ववयवगतं नोलमवयविगतनीलं प्रति कारणम्, तस्य चायमेव स्वभावः यदुत - स्वाश्रयावच्छेदेनैव नीलमुपजनयति इति न पीतावयवावच्छेदेन नीलोत्पत्तिप्रसङ्ग इत्याशङ्कय प्रतिक्षिपति - न चेति । न तदापत्तिः न पीतावयवावच्छेदेन नीलोत्लत्त्यापत्तिः । निषेधे हेतुमाह - विनेति । एतादृशेति- अवच्छेदकतासम्बन्धेन नीलादिकं प्रति समवायेन नीलेतररूपादीनां प्रतिबन्धकत्वमित्येवस्वरूपेत्यर्थः । तथास्वाभाव्येति - नीलस्य स्वाश्रयावच्छेदेन नीलजननस्वा भाव्येत्यर्थः । उक्तःशङ्कायां नवीनानुयायी समाधानमाशङ्कते - नन्विति समवायेनावयविनि जायमानं नीलं पीतावयवा - वच्छेदेनापि जायत इत्यापादनमापदिकाभावान्न सम्भवतीत्यर्थः । यथा समवायेन नीलं प्रति स्वाश्रयसमवेतत्वसम्बन्धेन नीलं कारणमिति कार्यकारणभावबलादेवावयविनि नीलसमवायस्य सम्भवस्तथैवावयविगतनीलस्यावच्छेदकता नीलावयव एव न पीतावयवादावित्यत्रापि किञ्चित् कारणं वाच्यमेव तादृशकारणबल देवावच्छेदकताया नियमनसम्भवादित्याशयेनोक्तसमाधानाशङ्कां प्रतिक्षिपति नेति । एवं च अवच्छेदकतासम्बन्धेन नीलादिकं प्रति समवायेन नीलेतररूपादीनां प्रतिबन्धकत्वस्य नव्यमते आवश्यकत्वे च । नीलादाविति यथाऽवच्छेदकतासम्बन्धेन नीलादिकं प्रति समवायसम्बन्धेन नीलतररूपादीनां प्रतिबन्धकत्वं तथाऽवच्छेदकता सम्बन्धेन नीलेतररूपादिकं प्रति समवायसम्बन्धेन नीलादीनां प्रतिबन्धकत्वमपि विनिगमकाभावान्नव्यमते प्रसज्येतेत्यर्थः । मम त्विति प्राचीनमते तु यथा समवायेन नीलादिकं प्रति स्वाश्रयसमवेतत्वसम्बन्धेन नीलेतररूपादीनां प्रतिबन्धकत्वमिति नानारूपवदवयवारब्धेऽवयविनि नीलरूपाद्यसम्भवाच्चित्रं रूपं सिद्धयति, तथा समवायेन नीलेतररूपादौ स्वसमवायिसमवेतत्वसम्बन्धेन नीलादीनां प्रतिबन्धकत्वमिति न सम्भवति, तथा सति नीलपीताद्यवयवा धे यथा न नीलपीतादिरूपं तथा चित्ररूपस्यापि नीलेतररूपत्वादिलक्षणप्रतिबध्यतावच्छेदकधर्माक्रान्तत्वेन न स्यात् तत्र सम्भव इति नीरूपमेव तदवयविस्वरूपमिति तत्प्रत्यक्षमपि न भवेदिति विनिगमकस्य भावान्नीलादिकं प्रत्येव नीलेतररूपादीनां प्रतिबन्धकत्वम्, न तु नीलेतररूपादिकं प्रति नीलादीनां प्रतिबन्धकत्वमित्यर्थः । उक्तप्राचीन मतानुयायिशङ्कां नवीनमतानुयायिनः प्रतिक्षिपन्ति - मैवमिति । ममापि नवीनमतानुयायिनोऽपि । नीलत्वादिकमेवेति- अवच्छेदकतासम्ब न्धेन नीलादिकं प्रति समवायसम्बन्धेन नीलेतररूपादीनामेव प्रतिबन्धकत्वम्, न त्ववच्छेदकतासम्बधेन नीलेतररूपादिकं प्रति समवायसम्बन्धेन नीलादीनां प्रतिबन्धकत्वम्, नीलेतररूपत्वस्य प्रतिबध्यतावच्छेदकत्वकल्पनापेक्षया नीलत्वस्य प्रतिबध्यतावच्छेदकत्वे लाघवादिति गौरवरूपबाधकबलान्न नीलेतररूपत्वं प्रतिबध्यतावच्छेदकमिति विनिगमकस्य वक्तुं शक्यत्वादित्यर्थः । ननु अवच्छेदकतासम्बन्धेन नीलं प्रति समवायसम्बन्धेन नीलतररूपत्वेन प्रतिबन्धकत्वे नीलतररूपत्वं प्रतिबन्धकतावच्छेदकम्, अवच्छेदकतासम्बन्धेन नीलेतररूपत्वावच्छिन्नं प्रति समवायसम्बन्धेन नीलत्वेन प्रतिबन्धकत्वे नीलत्वं प्रतिबन्धकतावच्छेदकमिति नीलेतररूपत्वापेक्षया नीलत्वं लघुभूतमिति तदेव प्रतिबन्धकतावच्छेदकं भवितुमर्हतीत्यत्रापि दीयतां
६२