________________
६८
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
हेत्वभावादेव न तत्र नीलोत्पत्तिरिति विभाव्यते तदा नीलं प्रति नीलेतररूपादेः प्रतिबन्धकत्वं चित्ररूपवादिना न कल्पनीयमित्यतिलाघवम् । एवं च 'सामानाधिकरण्यसम्बन्धावच्छिन्नप्रतियोगिताको नीलेतराभावः समानावच्छेदकत्वप्रत्यासत्त्या नीलहेतुः' इत्यपि निरस्तम् , सामानाधिकरण्यस्य व्याप्यवृत्तित्वेन तत्सम्बन्धावच्छिन्नप्रतियोगिताकनीलेतराभावासत्त्वाच्चेति बहवः सम्प्रदायमादधते ।
केचित् तु-"विजातीयचित्रं प्रति स्वविजातीयत्व स्वसंवलितत्वोभयसम्बन्धेन रूपविशिष्टरूपत्वेनैव हेतुत्वम् , स्ववैजात्यं च चित्रत्वातिरिक्तं यत् स्ववृत्ति तद्भिन्नधर्मसमवायित्वम् , स्वसंवलितत्वं च स्वसमवायिसमवेतद्रव्यसमवायिवृत्तित्वम् , न च स्वत्वाननुगमः सम्बन्धमध्ये एव तत्प्रवेशात् , सम्बन्धाननुगमस्य चादोषाद्" इत्याहुः ।। 'तदा नीलं प्रति' इति स्थाने 'तदा नीलादिकं प्रति' इति पाठो युक्तः, आदिपदात् पीतादेरुपग्रहः । 'नीलेतर. रूपादेः' इत्यत्रादिषदात् पीतेतररूपादेः परिग्रहः । एवं च नीलादिकं प्रति नीलेतररूपादेः प्रतिबन्धकत्वं चित्ररूपवादिना न कल्पनीयमिति व्यवस्थितौ च, नील-पीताभ्यामारब्धे नील-पीतरूपवति घटे नीलावयवावच्छेदेन नीलरूपमुत्पद्यते पीतावयवावच्छेदेन पीतरूपमुत्पद्यते, न तु पीतावयवावच्छेदेन नीलरूपस्य नीलावयवावच्छेदेन पीतस्योत्पत्तिप्रसङ्ग इत्यस्योपपत्तये अव्याप्यवृत्तिरूपवादिनेत्थं कार्यकारणभाव आधीयते । 'नीलेतराभावः' इत्यस्य स्थाने 'नीलेतररूपाभावः' इति पाठो युक्तः । समानावच्छेदकत्वप्रत्यासत्त्येति- अवच्छेदकतासम्बन्धन नीलं प्रति सामानाधिकरण्यसम्बन्धावच्छिन्नप्रतियोगिताको नीलेतररूपाभावोऽवच्छेदकतासम्बन्धन हेतुरित्यर्थः, तथा च सामानाधिकरण्यसम्बन्धन नीलेतररूपं पीतकपालावच्छेदेन तस्मिन् घटे वर्तते, सामानाधिकरण्यसम्बन्धस्य नीलेतररूपस्य पीतकपालावच्छेदेनैव भावादिति तत्सम्बन्धावच्छिन्नप्रतियोगिताको नीलेतररूपाभावो नीलकपालावच्छेदेन तत्र वर्तत इति सोऽभावोऽवच्छेदकतया नीलकपाले समस्ति, ततो नीलरूपमपि घटगतं नीलकपाल एवावच्छेदकतयोत्पद्यत इत्यपि नव्यानां कल्पनं गौरवादेव निरस्तमिति । किञ्च, सामानाधिकरण्यस्य व्याप्यवृत्तितया तस्य निरवच्छिन्नस्वरूपेगैव सत्त्वं न तु किञ्चिदवच्छेदेन, तेन सम्बन्धेन नीलेतररूपमपि तस्मिन् घटे निरवच्छिन्नतयैव वर्तत इति सामानाधिकरण्यसम्बन्धावच्छिन्नप्रतियोगिताकनीलेतररूपाभावस्य तस्मिन् घटेऽसत्त्वादेव तस्यावच्छेदकतया नीलं प्रति कारणत्वासम्भवादित्याह-सामानाधिकरण्यस्येति । तत्सम्बन्धेतिसामानाधिकरण्यसम्बन्धेत्यर्थः । इति एवं प्रकारेण । बहवः बहवोऽपि विद्वांसः । सम्प्रदायमादधते प्राचीनमतं व्यवस्थापयन्ति । __ प्राचीनमतमेव प्रकारान्तरेणोपपादयतां केषाञ्चिन्मतमुपदर्शयति- केचित् त्विति- अस्य 'आहुः' इत्यनेन सम्बन्धः । विजातीयचित्रं प्रतीति- पाकजचित्रविजातीयचित्रं प्रतीत्यर्थः । स्वविजातीयत्वेति- यत्र नील-पीतकपालाभ्यामारब्धे घटे चित्ररूपमुत्पद्यते तत्र, रूपं नीलरूपम् , तद्विशिष्टं पीतरूपम् , पीतरूपे नीलरूपस्य स्वविजातीयत्वसम्बन्धोऽपि परिष्कृतोऽस्ति, यतश्चित्रत्वातिरिक्तं यत् स्ववृत्ति- नीलवृत्ति नीलत्वं रूपत्वादि च, तद्भिन्नधर्मः पीतत्वम् , तत्समवायित्वं पीतत्वे वर्तते, स्वसंवलितत्वसम्बन्धोऽपि निरूप्यमाणः समस्ति, यतः स्वं नीलरूपम्, तत्समवायि कपालम् , तत्समवेतद्रव्यं घटः, तत्समत्रायि पीतकपालम् , तद्वत्तित्वं पीतरूपे वर्तत इति, तथा च नीलरूपविशिष्टपीतरूपलक्षणकारणस्य स्वसमवायिसमवेतत्वसम्बन्धेन तस्मिन् घटे सत्त्वात् तत्र विजातीयचित्रमुत्पद्यत इति, नील पीतादीनां रूपत्वेन साजात्यस्य सत्त्वात् कथं नीलरूपविजातीयत्वं पीतरूपस्येत्यतः स्वविजातीयत्वं पारिभाषिकं निरुक्तम्, तत्र 'चित्रत्वातिरिक्तम्' इति यदि स्ववृत्तेविशेषणं नोपादीयते तदा चित्राभ्यां कपालाभ्यामारब्धे घटे यच्चित्ररूपमुत्पद्यते तत्र रूपविशिष्टरूपत्वेन चित्ररूपविशिष्टचित्ररूपमेव कारणं वाच्यम् , तत्रैककपालचित्ररूपस्य स्वविजातीयत्वसम्बन्धोऽपरकपालचित्ररूपे न स्यात् , यतः स्वमेककपालचित्ररूपम् , तद्वत्ति चित्रत्व-रूत्वादिकम् , तद्भिन्नधर्मसमवायित्वस्याऽपरकपालचित्ररूपे न सत्त्वमिति, तदुपादाने च चित्रत्वातिरिक्तं स्ववृत्ति न चित्रत्वं किन्तु रूपत्वाद्येव, तद्भिन्नधर्मश्चित्रत्वम् , तत्समवायित्वमपरकपालचित्ररूपे समस्तीति, स्वसंवलितत्वमपि यदि स्वसामानाधिकरण्यं तदैककपालनीलरूपस्य सामानाधिकरण्यमपरकपालपीतरूपेऽभावात् तन्न स्यादतः 'स्वसमवायि' इत्यादि तन्निर्वचनम् । स्वत्वाननुगममाशय सम्बन्धमध्यप्रविष्टस्वत्वाननुगमदोषस्यादोषत्वो. पदर्शनेन परिहरति-न चेति । तत्प्रवेशात् स्वत्वस्य प्रवेशात् ।