________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
परे तु-" नीलपीतोभयाभाव-पीतरक्तोभयाभावादीनां स्वसमवायिसमवेतत्वसम्बन्धावच्छिन्नप्रतियोगिताकानां ( समवायसम्बन्धावच्छिन्नप्रतियोगिताकानां च ) विजातीयपाकोभयाभावादीनां यावत्त्वावच्छिन्नप्रतियोगिताक एकोऽभावश्चित्रत्वावच्छिन्नं प्रति हेतुः" इत्याहुः ।
रूपत्वेनैव चित्रं प्रति हेतुत्वम् , कार्यसहभावेन चित्रेतराभावस्याहेतुत्वेनानतिप्रसङ्गादित्यन्ये । . परे तु-" चित्रत्वावच्छिन्ने रूपत्वेनैव हेतुत्वम् , नील-पीतोभयारब्धवृत्तिचित्रत्वान्तरवैलक्षण्यावच्छिन्ने च नील-पीतोभयत्वेन हेतुता, एवं तत्रितयारब्धे तत्रितयत्वेन नील-पीतोभयादिमात्रारब्धे च नीलपीतादीतररूपत्वेन प्रतिबन्धकत्वान्न त्रितयारब्धचित्रवति द्वितयारब्धत्वप्रसङ्गः, न चैवं गौरवम् , प्रामा
प्राचीनमतसमर्थन एवापरेषां मतमुपदर्शयति-परे त्विति-अस्य 'आहुः' इत्यनेन सम्बन्धः । नीलपीतो. भयाभाव-पीतरक्कोमयाभावादीनाम्' इत्यत्रादिपदात् नीलरतोभयाभाव-नीलश्वेतोभयाभाव रक्तश्वेतोभयाभाव-पीतश्वेतोभयाभावादीनां नील-पीत-रतत्रयाभावादीनां च ग्रहणम् , तेषां यावतामभावश्च नील-पीतोभयस्य पीत-रत्तोभयादेश्चैकैकस्य स्वसमवायिसमवेतत्वसम्बन्धेन सत्त्वेऽपि चित्ररूपोत्पत्तिनिर्वहतीति । 'विजातीयपाकोभयाभावादीनामितिअत्रादिपदाद् विजातीयपाकत्रयाभावादीनामुपग्रहः, विजातीयपाकोभयश्च नीलजनकतेजस्संयोगपीतजनकतेजस्संयोगोभयनीलजनकतेजस्संयोगरक्तजनकतेजस्संयोगोभय पीतजनकतेजस्संयोगरक्तजनकतेजस्संयोगोभयादिरूपः, एवं विजातीयपाकत्रयं च नीलजनकतेजस्संयोग-पीतजनकतेजस्संयोग-रक्तजनकतेजस्संयोगत्रयादिरूपम्, समवायसम्बन्धावछिन्नप्रतियोगिताकतदभावानां च यावन्मध्ये प्रवेशाद् यावत्त्वावच्छिन्नप्रतियोगिताकतदभावश्च प्रत्येकं नीलजनकतेजस्संयोग पं.तसंयोगोभयादेरैकैकस्य समवायसम्बन्धेन सत्त्वेऽपि सम्भवतीति यत्किञ्चित्पाकोभयतोऽपि चित्ररूपोत्पत्तिनिर्वाह इत्येकस्यैव निरूकाभावस्य चित्रत्वावच्छिन्नं प्रति कारणत्वे न कोऽपि दोष इति ।। __ अन्येषां मतमुपदर्शयति-रूपत्वेनैवेति- एवकारेण नीलेतररूपत्वादिना हेतुत्वस्य व्यवच्छेदः। नन्वेवं नीलकपाल.. द्वयारब्धघटेऽपि चित्ररूपं स्यात् , तत्रापि समवायसम्बन्धेन चित्रं प्रति स्वसमवायिसमवेतत्वसम्बन्धेन कारणस्य रूपत्वेन नीलरूपस्य सत्त्वादित्यत आह- कार्यसहभावेनेति । 'चित्रेतराभावस्याहेतुत्वेन' इति स्थाने 'चित्रेतररूपाभावस्य हेतुत्वेन ' इति पाठो युक्तः, तथा च तत्कपालावच्छेदेन समवायसम्बन्धेन चित्ररूपं प्रति समवायसम्बन्धावच्छिन्न प्रतियोगिताकचित्रेतररूपाभावस्य स्वरूपसम्बन्धेन हेतुत्वमिति नीलकपालद्वयाभ्यामारब्धे घंटे समवायसम्बन्धेन नीलरूपमुत्पद्यत इति समवायसम्बन्धेन चित्रेतररूपस्य नीलस्य तत्कपाले सत्त्वेन तदभावरूपकारणाभावान्न तत्र चित्ररूपोत्पत्यापत्तिः, नील-पीतकपालद्वयारब्धघटे तु चित्ररूपमेवोत्पद्यत इति तत्कपाले समवायसम्बन्धेन चित्रेतररूपस्य नीलादेस्तत्राभावात् तदभावरूपकारणस्य सत्वमित्याशयः ।
मतान्तरमाह-परे त्विति- अस्य 'आहुः' इत्यनेन सम्बन्धः। 'रूपत्वेनैव' इत्येवकारेण नीलेतररूपत्वादिना हेतुत्वस्य व्यवच्छेदः। नन्वेवं नील-पीतकपालाभ्यामारब्धे घटे यादृशं चित्रं ततो विलक्षणं चित्रं नील-रक्त-कपालाभ्यामारब्धे घटे, एवं नील-पीत-रक्तकपालैरारब्धे घटे, तदेतत्कार्यतावच्छेदकचित्रत्वस्य कारणतावच्छेदकरूपत्वस्याविशिष्टत्वेन नीलपीतोभयारब्धघटवृत्तिचित्ररूप-नीलपातरक्तकपालत्रयारब्धघटवृत्तिचित्ररूपादिवलक्षण्यस्यानिबन्धनस्यैव भावे तस्य नियमो न स्यादित्यत आह-नील-पीतोभयेति । 'चित्रत्वान्तर' इति स्थाने 'चित्रत्वावान्तर' इति पाठो युक्तः, तथा च नील-पीतोभयारब्धं यच्चित्ररूपम् , तवृत्ति यचित्रत्वावान्तरवलक्षण्यं चित्रत्वव्याप्यचित्रत्वविशेषलक्षणसामान्यम्, तदवच्छिन्ने नील-पीतोभयत्वेन हेतुत्वमित्यर्थः । एवम् उक्तप्रकारेण । तत्रियेति-नील-पीत-रक्तत्रयारब्धचित्ररूपवृत्तिचित्रत्वव्याप्यजातिविशेषावच्छिन्ने नील-पीत-रक्तत्रितयत्वेन हेतुत्वमित्यर्थः । तत्रितयत्वेन' इत्यनन्तरं हेतुता' इत्यनुवर्तते । ननु यत्र नील-पीत-रक्ततन्तुभिश्चित्रपट उत्पद्यते तत्र तन्तुद्वयगतनील-पीतरूपाभ्यामपि पटगतविजातीयचित्ररूपं स्यादित्यत आह-नील-पीतोभयादिमात्रारब्धे चेति- आदिपदाद् नील-रक्तोभयादेरुपग्रहः । 'नील-पीतादि' इत्यादिपदाद् नील-रक्तादेग्रहणम् ‘द्वितयारब्धत्वप्रसङ्गः' इत्यस्य स्थाने 'द्वितयारब्धस्य प्रसङ्गः' इति पाठो युक्तः । उक्त प्रतिबध्यप्रतिबन्धकभावकल्पनगौरवस्य प्रामाणिकत्वेनाऽदोषत्वमुपदर्शयति- न चैवमिति । एवम् उक्तप्रकारेण प्रतिबध्यप्रतिबन्धकभावाभ्युपगमे । यथा चोक्कत्रितयारब्धस्थले उक्तप्रतिबध्यप्रतिबन्धकभावकल्पनमन्तरेणापि न द्वितयारन्ध