________________
७०
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । णिकत्वात् , वस्तुतः समवायेन द्वितयजचित्रादौ स्वाधिकरणपर्याप्तवृत्तिकत्वसम्बन्धेनैव द्वितयादीनां हेतुत्वम् , नातः प्रागुक्तप्रतिबन्धकत्वकल्पनागौरवम्" इत्याहुः ।
उच्छृङ्खलास्तु-" नील-पीत-रक्ताद्यारब्धघटादौ नील-पीत-रक्तादिभ्य एव नीलपीतोभयज-पीतरक्तोभयज-तत्रितयजादीनामुत्पत्तिः सर्वेषां सामग्रीसत्त्वात् , किन्त्वत्र चरमं व्याप्यवृत्तिरितराणि त्वव्याप्य. वृत्तिनीति विशेषः, न चैकमेव तदस्त्विति वाच्यम् , तत्तदवयवद्वयमात्रावच्छेदेनेन्द्रिय सन्निकर्षे विलक्षणविलक्षणचित्रोपलम्भात् , न च नील-पीतादिविशिष्टचित्रेणावान्तरचित्रप्रतीतिसम्भवः, अखण्डेऽभ्रे सामान्य. चित्रत्वेनाखण्डावान्तरचित्रत्वानां सामानाधिकरण्यप्रत्ययात्, न चेदेवं तदा नीलाद्यविशेषिता ये नीलादिभेदास्तत्तदाश्रयरूपसमुदायेनानुगतचित्रप्रतीतेश्चित्रत्वं नीलादिभेदसमुदायेन नीलाद्यनुगतप्रतीतिचित्ररूपप्रसङ्गस्तथोपदर्शनेन प्रतिबध्यप्रतिबन्धकभावगौरवम म्हस्तयति-वस्तुत इति । समवायनेति- नील-पीत-रक्तकपालत्रितयारब्धघटे नीलपीतकपालद्वयगतनील-पीतोभयं नील-रक्तकपालद्वयगतनील रक्तोभयं वा स्वाधिकरणपर्याप्तवृत्तिकत्वं तद्घटस्य नास्ति नील-पीत-रक्तकपालत्रितयपर्याप्तवृत्तिकत्वसम्बन्धन न वर्तते, यतः स्वपदेन नील-पीतोभयस्य ग्रहणे तदधिकरणं नील-पीतकपालोभयम् , तत्पर्याप्तवृत्तिकत्वात् , अत एव च नील-रक्तोभयस्यापि स्वाधिकरणपर्याप्तवृत्तिकत्वसम्बन्धेन न तत्र घटे सत्त्वमिति समवायेन द्वितयजचित्ररूपकारणस्य स्वाधिकरणपर्याप्तवृत्तिकत्वसम्बन्धेन द्वितयस्य त्रितयारब्धघटेडभावान्न द्वितयारब्धचित्ररूपविशेषप्रसङ्ग इत्यर्थः। अत इति-उक्त कार्यकारणभावाभ्युपगमादेवेत्यर्थः ।।
उच्छृङ्खलानां मतमुपदर्शयति- उच्छङ्खलास्त्विति- अस्य 'आहुः' इत्यनेन सम्बन्धः। 'रक्तादि' इत्यादि. पदाच्छुक्लादेरुपग्रहः, एवमग्रेऽपि। तत्रितयजेति-नील-पीत रक्ततत्रितयजेत्यर्थः, आदिपदान्नीलरतोभयज-नीलशुक्लोभयज रक्तशुक्लोभयजादीनां नीलपोतशुक्लैतत्रितयज पीतशुक्लरकैतत्रितयजादीनां नील-पीत-रक्त-शुक्कैतच्चतुष्टयजादीनां च ग्रहणम् । सर्वेषां नील-पीतोभयजादिनिखिलानाम् , नील-पीत-रक्तादित्रितयादिसत्त्वे नील-पीतोभयादेरपि नील-पीतोभया. दिजचित्रकारणस्य सत्तादित्यर्थः । किन्विति-नील पीत-रक्तैतत्रितयस्थले नीलपीतोभयज-नीलरक्कोभयज-पीतरक्तोभयज-नील पीतरक्ततत्रितयजानां चतुर्णा मध्ये चरमं नीलपीतरक्कैतत्रितयजं चित्रं व्याप्यवृत्तिः, सम्पूर्णेऽवयविनि तस्य सत्त्वात् , इतराणि तद्भिन्नानि नीलपीतोभयजादीनि त्रीणि चित्ररूपाणि अव्याप्यवृत्तीनि, यतो नील पीतोभयजं चित्रं रक्तावयवावच्छेदनावयविनि न वर्तते किन्तु नील-पीतावयवदयावच्छेदेन, एवं नील रक्कोभय चित्रं पीतावयवावच्छेदेन न वर्तते, किन्तु नील रक्कावयवद्वयावच्छेदेन, पोतरक्तोभय चित्रं नीलावयवाच्छेदेन न वर्तते किन्तु पीत-रक्तावयवद्वयावच्छेदेनेत्येवमव्याप्यवृत्तीनीत्यर्थः। ननु नील पीत-रक्तेभ्य एकमेव चित्रं तत्रोपजायत इत्याशङ्कय प्रतिक्षिपति-न चेति- अस्य 'वाच्यम्' इत्यनेनान्वयः। तत् चित्रम् । निषेधे हेतुमाह-तत्तदवयवद्वयेति -नीलपीतावयवद्वय-पोतरक्कावयवद्वयनीलरकावयवद्वयेत्यर्थः । नील-पीतावयवद्वयमात्रावच्छेदेनेन्द्रियसन्निकर्षे सति यादृशं विलक्षणं चित्ररूपमनुभूयते ततो विलक्षणं चित्रं पीत-रक्तावयवद्वयावच्छेदेनेन्द्रियसन्निकर्षे सत्यनुभूयते. ततोऽपि विलक्षणं चित्रं नील-रक्तावयवद्वयावच्छेदेनेन्द्रियसन्निको सत्यनुभूयते, एकचित्रस्यैव तत्र भावे त्वित्थं विलक्षणविलक्षणचित्रोपलम्भो न भवेदतस्तत्र नानैव चित्ररूपाण्यभ्युपेयानीत्यर्थः । ननु नील-पीतादिवैशिष्ट्यमेकस्मिन्नेव चित्रे उपादायाऽवान्तरचित्रप्रतीतिसम्भवान्नाऽनेकचित्राभ्युपगमो ज्यायानित्याशङ्कय प्रतिक्षिपति-न चेति । यद्यवयविन्येकं चित्रं स्यादपराणि च नीलादीन्यपि स्युस्तदेत्थमुपपादनं स्यादपि, न चैवम् , चित्ररूपाण्येव नानाविधानि तत्र यथाऽऽकाशेऽखण्डचित्रत्वसामान्यमप्यखण्डान्यवान्तरचित्रवान्यपि ततोऽखण्डचित्रत्वसामान्यं चित्रमात्रे वर्तत इति तेन सहाखण्डावान्तरचित्रत्वानां सामानाधिकरण्यं प्रतीयत इति तेषामुपगमस्तथैवैकस्मिन्नवयविनि नानाचित्राणां सामानाधिकरण्येनानुभूयमानत्वाद् नानाचित्राण्युपेयानीति निषेधहेतुमुपदर्शयति- अखण्डेऽभ्रसामान्येति- अत्र 'अखण्डसामान्य' इति पाठो युक्तः। यद्येवं न स्वीक्रियते तदा चित्रत्वं नीलत्वादिकं च किमिति स्वीकरणीयम् ? नीलविशिष्टरक्तन नील-रक्तद्वयजचित्रप्रतीतेनीलविशिष्टपीतेन नीलपीतद्वयजचित्रप्रतीतेरेवं दिशा नील पीनद्वराजचित्रप्रतीतीनां तन्नीलतन्नीलादितत्तन्नीलादिविशेषसमुदायेन नीलानुगतप्रतीतेः, एवं पीताद्यनुगतप्रतीतीनामप्युपपत्तेरित्याह-न चेदेवमिति । नीलाद्यविशेषिताः तन्नीलतन्नीलेत्यादिदिशा नीलाद्यविशेविताः । नीलादिभेदाः नीलपीतादिविशेषाः । तत्तदाश्रयरूपेति-नीलाश्रय पीताश्रयरूपेत्यर्थः । चित्रप्रतीते: