________________
१०८
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
यत्र धूमत्वस्य व्याप्तिधर्मितावच्छेदकत्वमन्यत्र तु धूमप्रकारकत्वेनैवेति नातिप्रसङ्गः, तथा च प्रागुक्तरीत्या व्याप्यत्वावच्छिन्ननिवेशनमफल मिति वाच्यम् , व्याप्त्यंशे संशयाकारज्ञानादनुमितिवारणाय तत्तदंशे निश्चयनिवेशापेक्षया लाघवादुक्तरीत्या व्याप्यत्वावच्छिन्ननिवेशस्यैवोचितत्वात , न चायमेकान्तोऽपि युक्तः, परस्परानिरूपितावान्तरावयवस्थानीय विषयताया अप्यनुभवात् , न च विशिष्टपर्याप्त प्रकारतैकान्तपक्षोऽपि युक्तः, विशिष्ट पर्याप्तप्रकारतान्तरस्यापि सिद्ध्यापत्तेः, तत्सिद्धाविष्टापत्तिः, दण्डविशिष्टपुरुषविशिष्टभूतलपर्याप्तप्रकारताकबुद्धौ च दण्डांशे निश्चयात्मकदण्डविशिष्टपुरुषवद्भूतलमिति निश्चयो हेतुः, धर्मितावच्छेदकत्वं तस्मिन् ज्ञाने पुनः । 'धूमप्रकारत्वेनैव' इति स्थाने 'धूमप्रकारतात्वेनैव' इति पाठो युक्तः, तस्य धूमप्रकारतात्वेनैव धूमप्रकारतायां धूमत्वावच्छिन्नत्वं न तु व्याप्तिप्रकारतानिरूपितविशेष्यतात्वेनेत्यर्थः । नातिप्रसङ्ग इति- ‘एकत्र द्वयम्' इति रीत्या धूमे व्याप्ति धूमत्वोभयावगाहिपरामर्शस्य व्याप्तिनिष्टप्रकारतानिरूपितविशेष्यत्वाभिन्नधूमत्वावच्छिन्नप्रकारताकनिश्चयत्वलक्षणानुमितिकारणतावच्छेदकधर्मानाक्रान्तत्वान्न ततोऽनुमित्यापत्तिरित्यर्थः । तथा च अनुमित्यापत्तिवारणाय व्याप्तिनिष्ठप्रकारतानिरूपितविशेष्यतात्वेन धूमत्वावच्छिन्नप्रकारतानिवेशस्यावश्यकत्वे च । प्रागुक्तरीत्या हेतुतावच्छेदकावच्छिन्नहेतुनिष्ठावच्छेदकतानिरूपितेत्यादिप्रकारेण। व्याप्यत्वावच्छिन्ननिवेशनं व्याप्तिनिष्ठावच्छेदकतानिरूपितेति निवेशनम् । निषेधे हेतुमाह-व्याप्यंशे संशयाकार ज्ञानादिति- व्याप्त्यंशे संशयाकारस्यापि परामर्शस्य व्याप्तिनिष्ठप्रकारतानिरूपितहेतुनिष्ठविशेष्यताकत्वस्य भावेन निरुक्तकारणतावच्छेदकधर्माकान्तत्वेन ततोऽनुमित्यापत्तिः स्यादेवेति व्याप्तिनिष्टप्रकारतानिरूपिता या व्यायभावनिष्टप्रकारत्वानिरूपिता विशेष्यता तदभिन्नहेतुतावच्छेदकावच्छिन्नप्रकारताकज्ञानं व्यायंशे निश्चयस्वरूपं कारणं वाच्यमिति गौरवं स्यात् , प्रागुक्तरीत्या व्याप्तिनिष्ठावच्छेदकतानिरूपितहेतुतावच्छेदकावच्छिन्नप्रकारताक ज्ञानत्वेन परामर्शस्यानुमितिकारणत्वे तु तथाभूत परामर्शस्य व्याप्तिविशिष्टवैशिष्ट्यावगाहिबुद्धिरूपस्य विशेषणतावच्छेदकीभूतव्याप्तिप्रकारकनिश्चयजन्यत्वेन तत्पूर्व व्याप्तिनिश्चयस्यावश्यं सद्भावेन तस्य व्याप्तिसंशयविरोधितया ततो जायमानज्ञाने व्यायंशे संशयरूपत्वाभावेन व्यायंशे निश्चयरूपत्वस्यानिवेशनीयत्वेन लाघवमित्यतो व्याप्यत्वावच्छिन्ननिवेशस्यैवोचितत्वादित्यर्थः । विशिष्टवैशिष्ट्यावगाहिज्ञानलक्षणपरामर्श तत्तदवच्छेदकतानिरूपितप्रकारत्वाख्यविशिष्टवैशिष्टयविषयतैव समस्तीत्येकान्तोऽपि न साधीयान् , तत्र परामर्श परस्परानिरूपितव्याप्तिस्वरूपसन्निविष्टतत्तत्पदार्थनिष्टविषयताऽपि समस्त्येव यामुपादाय केवल. तत्तत्पदार्थविषयक ज्ञानविषयविषयक त्वमपि परामर्शेऽनुभवपथमायातील्याह-न चेति- 'युक्तः ' इत्यनेनान्वयः । अयं प्रागुक्तरीत्योपवर्णितस्वरूप: परामर्शः । एकान्तः तत्तदवच्छेदकतानिरूपितहेतुनिष्टप्रकारताशाल्येव । अयुक्तत्वे हेतुमाह-परस्परानिरूपितेति-निरूप्यनिरूपकभावलक्षणशृङ्खलानालिङ्गितेत्यर्थः । अवान्तरेति-हेत्वधिकरणाद्यखिलघटितव्याप्तिस्वरूपघटकेत्यर्थः । अवयवस्थानीयेति- निरूप्यनिरूपकभावलक्षणशृङ्खलाबद्धविषयतासमष्टिस्वरूपनिष्पन्ना विशिष्टवैशिष्टयविषयताऽवयविस्थानीया, तदन्तर्गतकै कविषयताऽवयवस्थानीयेत्यर्थः । न साऽपलपितुं शक्याऽनुभूयमानत्वादित्याह- अनुभवादितियथा तत्र विशिष्टवैशिष्टयविषयतानुभूयते तथा प्रत्येकविषयताऽपीत्यावेदनाय 'अपि' इति । विशिष्टवैशिष्टयबोधे 'रक्तदण्डवान्' इत्यत्र रक्तत्वविशिष्टदण्डपर्याप्तव प्रकारता समस्तीत्येकान्तोऽपि न युक्तः, तत्र रक्तत्वे दण्डत्वे दण्डे च प्रत्येकमविशिष्टेऽपि प्रकारत्वानामनुभवात् , तत एव च तज्ज्ञानस्य रक्तत्वादिप्रकारकज्ञानैः समं समानप्रकारकत्वमप्यनुभववीथीमवतरतीत्याह-न चेति-अस्य ‘युक्तः' इत्यनेनान्वयः। अयुक्तत्वे हेतुमाह-विशि ऐति- 'विशिष्टपर्याप्तप्रकारतान्तरस्यापि' इति स्थाने 'विशिष्टापर्याप्तप्रकारतान्तरस्यापि' इति पाठो युक्तः । तादृशविषयत्वानामनुभूयमानत्वेन तदापादनमुक्तदिशा भवदिष्टापत्तिरूपतयैव परेणापि स्वीकारेणानुभवमुखमवलोकयतेत्याहतत्सिद्धाविष्टापत्तिरिति-विशिष्टवैशिष्टयबोधे परस्परा निरूपिताविषयताविशिष्टापर्याप्तप्रकारतान्तरसिद्धाविष्टापत्तिरित्यर्थः । एवंदिशा यद्यपि बढ्यो विषयताः सन्त्येव विशिष्टवैशिष्टयबोधे, परं ताः सर्वा क्षयोपशमविशेषजन्यतावच्छेदकतयैवोपगमार्हाः, अत्र परेषां कार्यकारणभावान्तवलम्बनं गौरवप्रतिहतं न युक्तमित्यावेदयितुमाह- दण्डविशिष्टेति- दण्डिपुरुषवद्भूतलवानिति दण्डविशिष्टपुरुषविशिष्टभूतलपर्याप्तप्रकारताकबुद्धौ ‘दण्डिपुरुषवद्भूतलम्' इति निश्चयो दण्डविशिष्टपुरुषवैशिष्टयावगाही दण्डांशे निश्चयात्मको हेतुः, तेन दण्डांशे संशयात्मकात् पुरुषांशे निश्चयात्मकाद् दण्डविशिष्टपुरुषवैशिष्ट्यावगाहि 'दण्डदण्डाभाववत्पुरुषवान्' इति ज्ञानान्न दण्डविशिष्टपुरुषविशिष्टभूतलवानिति दण्डविशिष्टपुरुषविशिष्टभूतलवैशिष्टयावगाहिज्ञानं ततो भव॑श्च दण्डांशे 'विशेष्ये विशेषणम्' इति रीत्या दण्डवत्पुरुषवद्भतलवानिति ज्ञानमिष्टमेवेति तदापादनं नानिष्टावहमित्याह