SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । १०९ अत एव दण्डांशे पुरुषांशे च संशय-निश्चयात्मकतादृशज्ञानाद् दण्डांशे 'विशेष्ये विशेषणम्' इति रीत्या पुरुषांशे विशिष्टनिरूपितवैशिष्ट्यविषयताशालिज्ञानापत्तिरित्यभ्युपगमे च सविशेषणविशिष्टवैशिष्ट्यबुद्धिस्थले नवत्यंशे निश्चयात्मकमेकं ज्ञानहेतुभूतं कल्पनीयम् , ततः पूर्व चैकैकहासेनाष्टानवतिज्ञानानि पश्चानुपूा हि तु भूतानि कल्पनीयानीति सर्वमिदमनुभव विरुद्धम् । तत्र विशृङ्खलोपस्थिततावद्विशेषणानां 'विशेष्ये विशेषणम्' इति रीत्या बोधस्वीकारे च तत्तदंशेऽनुभूयमानस्य निश्चयाकारस्य नियामक स्तत्र संशयसामग्यभाव एव वाच्यः, तथा च विशिष्टवैशिष्ट्यविषयता 'वहिव्याप्तितदभार इत्यादित इव 'पर्वतो वहिव्याप्यधूमवान् नवा' इत्यादितोऽपि व्यावृत्तस्तत्तदवच्छिन्ननियामकश्च तत्तत्. अत एवेति-दण्डविशिष्टपुरुषविशिष्टभूतलपर्याप्त प्रकाराताकबुद्धौ दण्डांशे निश्चयात्मक दण्डविशिष्टपुरुषवद् भूतलम्' इति निश्चयस्य हेतुत्वादेवत्यर्थः । इत्यभ्युपगमे च उक्तदिशा परेरित्थमभ्युपगमे च | सविशेषणविशिष्टवैशिष्ट्यबुद्धिस्थले नवत्यंशे' इत्यस्य स्थाने 'शतविशेषणवैशिष्टयबुद्धिस्थले नवनवत्यंशे' इति पाठः, 'ज्ञानहेतुभूतं' इत्यस्य स्थाने 'ज्ञानं हेतुभूतं' इति पाठः, 'हि तु भूतानि' इत्यस्य स्थाने 'हेतुभूतानि' इति पाठश्च युक्तः। अयमर्थः-विशेष्यविशेषणभावापत्नयावद्विशेषणविशिष्टस्य वैशिष्टयबुद्धौ यावत्सु विशेषणेषु निश्चयात्मकं विशेषणतावच्छेदकप्रकारकज्ञानं यदि हेतुरभ्युपगम्यते तदा विशेष्यविशेषभावशङ्खलावबद्धशतत्वसङ्खयावच्छिन्नविशेषणवैशिष्टयबुद्धौ नवनवतिसंख्यावच्छिन्ना ये विशेषणविशेषणत्वाद् विशेषणतावरे.. कधर्मास्तत्प्रकारकं ज्ञानं नवनवत्यंशे निश्चयात्मकमेकं कारण कल्पनीयम् , तदपि ज्ञानमष्टानवतिसङ्खथावच्छिन्नधर्मविशिष्टस्य वैशिष्ट्यावगाहीति तत्राष्टानवतिसङ्ख्यावत्सु विशेषणतावच्छेदकधर्मेषु निश्चयात्मकमष्टानवतिसंख्यावच्छिन्नविशेषणतावच्छेदकप्रकारकमेकं ज्ञानं कारणं कल्पनीयम् , तदपि ज्ञानं सप्तनवतिसङ्ख्यावच्छिन्नधर्मविशिष्टस्य वैशिष्टयावगाहीति तत्र सप्तनवतिसङ्ख्यावत्सु विशेषणतावच्छेदकधर्मेषु निश्चयात्मकं सप्तनवतिसख्यावच्छिन्नविशेषणतावच्छेदकप्रकारकं ज्ञानं कारणं कल्पनीयमित्येवं पश्चानुपूर्व्या हेतुभूतान्यष्टानवति ज्ञानानि विशिष्टवैशिष्टयबोधहेतुभूतानि कल्पनीयानीति परमते सर्वमिदमनुभवविरुद्धमिति । उक्तदिशा विशिष्टवैशिष्टयबुद्धौ विशेषणतावच्छेदकप्रकारकनिश्चयस्य कारणत्वे यथा परेषामनुभवविरुद्धानेककारणपरिकल्पनदोषस्तथा तत्रैव विशेषणतावच्छेदकीभूततत्तद्धर्मप्रकारकनिश्चयाभावदशायां 'विशेष्ये विशेषणम्' इति रीत्या जायमाने तत्तद्धर्माशे निश्चयात्मके ज्ञाने तत्तद्धाशनिश्चयत्वप्रयोजकतया तत्तधर्माशसंशयप्रयोजकतत्तत्सामग्र्यभावकल्पनदोषोऽपीत्याह- तत्रेति- शतविशेषणविशिष्टवैशिष्टयबुद्धिस्थल इत्यर्थः । विहलोपस्थिततावद्विशेषणानामिति- उत्तरज्ञाने स्वस्वविशेष्यत्वेन भासमानतत्तद्विशेषणविशेषणतया पूर्वज्ञानागोचरीकृतनवनवत्यादिसङ्ख्यावच्छिन्नविशेषणानां विशेष्यविशेषणभावानापन्नत्वलक्षणस्वातन्त्र्येण पूर्वज्ञानविषयीभूतशतसङ्ख्यावच्छिन्नविशेषणानामित्यर्थः। तत्र तत्तदंशे । यथा च धूमांशे वहिव्याप्तिरूपविशेषणस्य संशयात्मकात् परामर्शान भवति वयनुमितिस्तथा पर्वताशे वहिव्याप्तिविशिष्टधूमरूपविशेषणस्य संशयात्मकपरामर्शादपि न भवति पर्वते वह्नयनुमितिः, एवं महानसादिलक्षणविशेष्ये वहिव्याप्यधूमस्य संशयात्मकपरामर्शादपि महानसादौ न भवति वयनुमितिरिति धूमलिङ्गकवयनुमितित्वावच्छिन्न कार्यतानिरूपितवयव्याप्यधूमविषयकपरामर्शनिष्टकारणतावच्छेदिका विशिष्टवैशिष्टयविषयता यथा वहिव्याप्तिमद्वह्निव्यायभाववद्धमवान्' इति ज्ञानाद् वयनुमित्यजनकाद् व्यावृत्ता तथा 'पर्वतो वहिव्याप्यधूमवान् नवा' इति ज्ञानादपि व्यावृत्ता, एवमालोकादिलिङ्गकपरामर्शादपि वह्नयनुमितिर्भवति, तत्रालोकलिङ्गकवह्नयनुमितित्वावच्छिन्नकार्यतानिरूपितवह्निव्याप्यालोकादिविषयकपरामर्शनिष्ठकारणतावच्छेदिकाऽपि विशिष्टवैशिष्ट्यविषयता यथा 'वहिव्याप्तिमद्वहिव्याप्त्यभाववदालोकवान्' इत्यादिज्ञानाद् वह्नयनुमित्यजनकाद् व्यावृत्ता तथा ' पर्वतो वहिव्याप्यालोकवान् नवा' इत्यादिज्ञानादपि पर्वतादिविशेष्यकवन्यनुमित्यजनकाद् व्यावृत्ता स्वीकरणीयेति तादृशतादृशविषयताविशेषावच्छिन्ननियामकस्तत्तत्संशयसामग्यभावोऽभ्युपेय इति कल्पनागौरवं परेषां दुष्परिहरणीयमित्याह-तथा चेतितत्तदंशेऽनुभूयमाननिश्चयाकारप्रयोजकतया तत्तदंशे संशयसामग्र्यभावस्याभ्युपगमे चेत्यर्थः। विशिष्टवैशिष्ट्यविषयत्वानां बहुत्वाद् विशिष्टवैशिष्टयविषयता इति बहुवचनान्तं बोध्यम् , तदभावेति- वह्निव्यायभावेत्यर्थः । 'इत्यादितः' इत्यादिपदाद् 'वहिव्याप्तितदभाववदालोकवान्' इत्यादर्ग्रहणम् । 'पर्वतो वह्निव्यायधूमवान् नवा' इत्यादितोऽपि इत्यत्रादिपदात् 'पर्वतो वह्निव्याप्यालोकवान् नवा' इत्यादेर्ग्रहणम् । 'व्यावृत्तस्तत्तदवच्छिन्न' इति स्थाने 'व्यावृत्ताः, तत्तदवच्छिन्न' इति पठो युक्तः, 'व्यावृत्ताः' इति च 'विशिष्टवैशिष्टयविषयताः' इति पूर्वेणान्वितम् । तत्तदच्छिन्नेतिविशिष्टवैशिष्टयविषयता यावन्तस्तत्प्रत्येकावच्छिन्नेत्यर्थः। तत्तत्संशयसामग्रयभाव इति- 'विशेष्यं विशेषणमितिरीत्या
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy