________________
२९४ नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । अत एवोक्ता निक्षेप-नययोजनां सम्प्रदायशुद्धिमनुरुध्य निगमयन्नाह
तस्माद् यथोक्तनिक्षेपविभागो भाष्यसम्मतः ।
इतीयं मुहुरालोच्या, निक्षेप-नययोजना ॥ ॥ १०९ ॥ नयामृत-तस्मादिति । स्पष्टम् ॥ १०९॥ उक्ता निक्षेप-नययोजना । अथ दर्शन-नययोजनामभिघित्सुराह जातमित्यादिना
जातं द्रव्यार्थिकाच्छद्धाद, दर्शनं ब्रह्मवादिनाम् ।
तत्रैके शब्दसन्मानं, चित्सन्मानं परे जगुः ॥ ११० ॥ नयामृत-शुद्धाद् द्रव्यास्तिकाद् ब्रह्मवादिनां दर्शनं जातम् , तदाह वादी-" दवट्ठियणयपयडी सुद्धा संगहपरूवणाविसउ" [ सम्मतिकाण्डगाथा- त्ति, तत्रै ब्रह्मवादिनः शब्दसन्मात्रमिच्छन्ति, अन्ये च चित्सन्मात्रम् । तत्राद्यमतावलम्बी शब्दस्वभावं ब्रह्म सर्वेषां शब्दानां सर्वेषां चार्थानां प्रकृतिरित्यभ्युपैति, तदाह तदभियुक्तो भर्तृहरिः" अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् । विवर्ततेऽर्थभावेन प्रक्रिया जगतो.यतः ॥ १॥"
] इति । अस्यार्थः-' आदिः-उत्पादः, निधनं-विनाशः, तदभावादनादिनिधनं ब्रह्म, शब्दतत्त्वं-शब्दात्मनवोत्तरशततमपद्यमवतारयति- अत एवेति- साम्प्रदायिकानां सम्प्रदायविरोधाद् भयभीतत्वादेवेत्यर्थः । उक्ताम् अनन्तरमेव व्यावर्णिताम् । स्पष्टत्वाद् व्याख्यानस्याकरणीयत्वेऽपि पूर्वापरपद्यव्याख्यानसन्दर्भेकीकरणार्थ प्रतीकं गृह्णाति-तस्मा दितीति । पदार्थस्य सुगमावबोधान्न व्याख्यानापेक्षेत्याशयेनाह- स्पष्टमिति ॥१०९॥
दशोत्तरशततमपद्यमवतारयति-- उक्तति- येन नयेन यस्य निक्षेपस्याभ्युपगमस्तेन नयेन तस्य निक्षेपस्याभ्युपगमोपदर्शनलक्षणा निक्षेपनययोजनाऽभिहितेत्यर्थः । अथ निक्षेपनययोजनाभिधानानन्तरम् । दर्शन-नययोजनाम् अनेन नयेनास्य दर्शनस्य प्रवृत्तिरित्येवंस्वरूपां दर्शन-नययोजनाम् । अभिधित्सुः वक्तुमिच्छुर्मूलकारः । आह कथयति । विवृणोतिशुद्धादिति । द्रव्यार्थिकादित्यस्य विवरणं-द्रव्यास्तिकादिति । शुद्धद्रव्यास्तिकसङ्ग्रहनयप्रसूतं ब्रह्मवादिदर्शनमित्यत्र सम्मतिकृतो वचनं प्रमाणयति- तदाहेति । वादी श्रीसिद्धसेनदिवाकरः। दवट्रियं इति- “द्रव्यार्थिकनयप्रकृतिः शुद्धा सहप्ररूपणाविषयः" इति संस्कृतम् । तत्र सङ्ग्रहनयावलम्बनप्ररूपणप्रवृत्तानां ब्रह्मवादिनां मध्ये । अन्ये च शब्द. सन्मात्राभ्युपगन्तृब्रह्मवादिभिन्ना ब्रह्मवादिनः पुनः । तत्र शब्दसन्मात्राभ्युपगन्तृ-चित्सन्मात्राभ्युपगन्तृब्रह्मवादिनोर्मध्ये । आद्यमतावलम्बी शब्दसन्मात्राभ्युपगन्तृब्रह्मवादिमतावलम्बी, अस्य ' अभ्युपैति' इत्यनेनान्वयः । शब्दस्वभावमितिसर्वेषां शब्दानां सर्वेषां चार्थानां प्रकृतिः-मूलकारणं शब्दस्वभाव- शब्दात्मकं ब्रह्मेत्येवमभ्युपैति-स्वीकरोति, शब्दसन्मात्राभ्युपगन्तृब्रह्मवादिमतावलम्बीत्यर्थः। उक्तार्थे भर्तृहरिवचनं प्रमाणयति- तदाहेति । तदभियुक्तः शब्दसन्मात्राभ्युपगन्तृब्रह्मवादिमतावलम्बिनामाप्तः। अस्यार्थः अनन्तरमभिहितस्य " अनादिनिधनम्" इत्यादिपद्यस्यार्थः, उपदर्यत इति शेषः। आदिश्च निधनं चादिनिधने, न विद्यते आदिनिधने यस्य तदनादि निधनमिति समासः, तदर्थ प्रत्येकसमासघटकपदार्थकथनद्वारा स्पष्टयति- आदिरिति । तदभावात् उत्पादविनाशयोरभावात् । शब्दतत्त्वमित्यस्य विवरणंशब्दात्मकमिति । वैखरो-मध्यमा-पश्यन्तीभेदेन शब्दस्य त्रैविध्यम्, तत्र वैखरी स्पष्टा, यतो व्यवहारप्रवृत्तिः, मध्यमाsन्तर्गता, याऽन्तर्मुखजल्पाकारा नोच्चारणपथमुपगच्छति, अथापि किञ्चिद् विचारयति पुरुषस्तत्र सर्वत्र ज्ञानस्वरूपसन्निविष्टा, पश्यन्ती त्वत्यन्तसूक्ष्मा निर्विकल्पकज्ञानस्वरूपसन्निविष्टा, इत्थं त्रिविधेन शब्देन प्रत्येकं सर्वार्थव्यापनाद् व्यापकस्य ब्रह्मणस्तत्स्वरूपत्वमुपपद्यतेतरामित्याशयेनाह- वैखर्यात्मकशब्देनैवेति- सर्वेऽप्यर्थाः शब्देनोल्लिख्यामानाः सन्त एव व्यव