SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १५२ - नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। सामान्यमात्राभ्युपगमप्रवणैकदेशबोधत्वं सङ्ग्रहनयत्वमिति लक्षणं बोध्यम् , “ संगहिय-पिण्डिअत्यं संगहवयणं समासओ बिति" [विशेषावश्यकनियुक्तिगाथा-२१८३] त्ति सूत्रस्वारस्याचेत्थमुक्तिः । यद्वा (नैगमायुपगतार्थसङ्ग्रहप्रवणोऽध्यवसायविशेषः सङ्ग्रहः, सामान्यनैगमवारणाय ) नैगमायुपगतार्थपदं, सङ्घहश्च विशेषविनिर्मोकोऽशुद्धविषयविनिर्मोकश्चेत्यादिर्यथासम्भवमुपादेयस्तेन न प्रस्थकस्थले सामान्यविधेरसवाहात् तत्स्थलप्रदर्शितसङ्घहनयेऽव्याप्तिरित्यादिकं बोध्यम् । " अर्थानां सर्वैकदेशसङ्ग्रहणं सङ्ग्रहः” [ तत्त्वार्थसूत्र० अ० १, सूत्र ३५] इति तत्वार्थभाष्यम्, अत्र सर्व- सामान्यम्, एकदेशश्च- विशेषस्तयोः सङ्ग्रहणम् , सामान्यैकदेशस्वीकार इत्यर्थः, अयं हि घटादीनां भवनानन्तरत्वाद् चाननुगतमिति- केवलमहासामान्यग्राहित्वं यदि सङ्ग्रहत्वं तदा तस्यापरसामान्य प्राहिण्यपरसङ्ग्रहेऽवृत्तित्वादव्याप्तिलक्षणदोषः, एवं केवलापरसामान्यग्राहित्वं यदि सङ्ग्रहत्वं तदा तस्य महासामान्यग्राहिणि परसङ्गहेऽवृत्तित्वादव्याप्तिरित्यर्थः। परत्वमपरत्वं च सामान्यविशेषणतया लक्षणकोटौ न निवेश्यते, किन्तु सामान्यमानाभ्युपगमप्रवणे कदेशबोधत्वं सङ्ग्रहनयत्वम् , तथा च नासम्भवो लक्ष्यमात्रे तस्य सत्त्वादत एव नाव्याप्तिरपीत्याह- तथापीति- 'सामान्याभ्युपगम' इत्यायुक्ती सामान्य-विशेषोभयाभ्युपगमप्रवणे नैगमे सामान्याभ्युपगमप्रवणत्वस्य भावेनातिव्याप्तिः स्यादतः 'सामान्यमात्राभ्यपगम' इत्य युक्तम् , सामान्याभ्युपगमप्रवणत्वस्य प्रमाणेऽपि सत्त्वात् तत्रातिव्याप्तिवारणाय एकदेशबोधत्वम्' इति यद्यपि मात्रपदनिवेशे सति न सम्भवति प्रमाणस्य सामान्यमात्राभ्युपगमप्रवणत्वस्यैवाभावेनातिव्याप्तेवाभावात् , तथापि खरूपमात्रोपदर्शकमुपरजकमेवेदम् , यदि च दुर्नय विषयकान्तमहासामान्यं कल्पितमेव न वस्त्वंशः, तदाहिनयो नैतल्लक्षणलक्ष्यम् , तदाऽत्रातिव्याप्तिवारणाय 'एकदेशबोधत्वम्' इत्युक्तम् , तस्य दुर्नयस्य सामान्यमात्राभ्युपगमप्रवणत्वेऽपि तद्विषयस्यैकान्तमहासामान्यस्य कल्पितैकरूपस्य वस्त्वेकदेशत्वाभावेन तद्विषय कबोधरूपस्य नयस्यैकदेशबोधत्वाभावादिति बोध्यम् । ननु यदि सामान्यमात्राभ्युपगमप्रवणैकदेशबोधत्वमेव सङ्ग्रहस्य लक्षणं तदा पद्येन तथैव लक्ष्यलक्षणाभिधानमुचितम् , यथाश्रतं तु पद्याभिहितमुक्तदिशाऽसम्भवा-ऽव्यायन्यतरदोषकवलितमतः कथं तथोक्तिरित्यत आह- संगहिया इति- “सङ्गहीत-पिण्डार्थ सङ्ग्रवचनं समासतो अवन्ति"। इति संस्कृतम् । इति एवंस्वरूपं यत् सूत्रं तत्स्वारस्याच तदभिप्रायात् पुनः। इत्थमुक्तिः- “सङ्ग्रहः सहीतस्य पिण्डितस्य च निश्चयः' इत्येवं लक्षणवचनम् , दर्शितपर्यालोचनया तात्पर्य तूक्तसूत्रस्यापि 'सामान्यमात्राभ्युपगमप्रवण.' इत्यादिलक्षण एवेति बोध्यम् । 'यद्वा' इत्यादिप्रन्थ. घटक प्रक्षिप्तं वा सर्वथाऽप्युपादेयम्, महासामान्यावगाहिनेगमोऽपि महासामान्यरूपेणाशेषविशेषसङ्ग्रहप्रवण इति तत्राति. च्याप्तिवारणाय नैगमायुपगतार्थ०' इति सङ्ग्रहस्य विशेषणम् , तथा च नैगमायुपगता ये अर्था महासामान्याऽवान्तरसामान्य-विशेषाद्यास्तेषां सर्वेषां सत्त्वलक्षणमहासामान्यन सङ्ग्रहप्रवणो विशेषविनिर्मोकादिलक्षण ऽङ्ग्रहप्रवणो न नैगमः किन्तु सङ्ग्रह एवेति न नैगमेऽतिव्याप्तिरित्याह-सामान्येति, नैगमायुपगतार्थसङ्ग्रहप्रवण. ' इत्यत्र विशेष विनिर्मोकलक्षणः सङ्ग्रहो यद्यभिमतस्तदा प्रस्थकस्थले आसादितप्रस्थ कपर्यायमाकुट्टितनामानं मेयारूढमभ्युपगच्छतः सङ्ग्रहविशेषस्य सङ्ग्रहो न भवेत् , तस्य महासामान्याभ्युपगन्तृत्वाभावेन सामान्यमविदधतो विशेषविनिर्मोकलक्षणसङ्ग्रहप्रवणत्वाभावेन तत्रोकलक्षणाव्याप्तेः। यदि चाशुद्धविषयविनिकिलक्षणः सङ्ग्रहोऽभिमतस्तदा यः सङ्ग्रहः सामान्यविधायकत्वेन विशेषविनिर्मोकप्रवण एव न तु अशुद्धविषयविनिर्मोकश्वगस्तत्राव्याप्तिः स्यादित्यत आह-सहश्चेति- अस्य 'उपादेयः' इत्यनेनान्वयः । 'तेन न' इत्यस्य 'अव्याप्तिः' इत्यनेनान्वयः। सामान्यविधरसङ्गहात् सामान्यविधानतो विशेषविनिर्मोकलक्षणसङ्ग्रहाभावात् । तत्स्थलेति- प्रस्थकस्थलेत्यर्थः । तत्त्वार्थभाष्योक्तं सग्रहलक्षणमुपदर्शयति- अर्थानामिति । सामान्य-विशेषोभयात्मकानां सामान्य-विशेषयोः खरूपसन्निविष्टयोर्यः सामान्यात्मक एकदेशोऽशस्तस्य स्वीकार सङ्ग्रह इत्यर्थ निरुक्तभाष्याचनपर्यवसितार्थमुपदर्शयति- अत्रेति । तयोः सामान्य विशेषयोः। सङ्ग्रहणं नामकरूपेण ग्रहणम् , तत् प्रकृते सामान्यरूपेण सामान्यस्य विशेषस्य च ग्रहणम् , ग्रहणमप्यत्र खीकारस्वरूपमित्यभिसन्धानेनाह- सामान्यैकदेशस्वीकार इति- सामान्यरूपो य एकदेशस्तदात्मना सामान्य-विशेषयोः स्वीकारो न तु विशेषस्य विशेषात्मनाऽपि खोकार इत्यर्थः ।
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy