________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
न चैवमनेकार्थनामानुशासनस्यापि निक्षेपत्वप्रसङ्गः, तत्त्वत इष्टत्वाद्, व्यवहारतस्तु सिद्धान्त तदुप जीव्यन्यतरतादृशवचनमेव निक्षेप उच्यते, न तु " लोकाद् " [ सिद्धहेम० अ० १, पा० १, सू० ३ ] इति सूत्रेणोपमानमपीत्यदोषः, तत्र शब्दनयैः, भावो - भावनिक्षेप एवेष्टः परैः - ( अर्थनयैः, निखिलाःअशेषा नामादयश्चत्वारोऽपि, इष्टाः, तथा चोकम् - ) " सव्वणिक्खेवे " [
२५०
योऽयं नामनिक्षेपः स निक्षेपलक्षणा कान्तो न स्यात् तस्य नामघटत्वलक्षणैकशक्यतावच्छेदकावच्छिन्न एव घटपदस्यैकशक्तिप्रतिपादकत्वात् एवं घटशब्दस्य स्थापनाघटे शक्तिरित्येवंरूपस्य स्थापनानिक्षेपस्याप्येकधर्माविछिन्न एव शक्तिप्रतिपादकत्वान्निरुक्तलक्षणाक्रान्तत्वाभावानिक्षेपत्वं न स्यात् एवं द्रव्यनिक्षेपभावनिक्षेपयोरपि प्रत्येकं निरुक्तलक्षणाव्याप्तिः, तथा घटशब्दस्य नामघटे स्थापनाघटे द्रव्यघटे भावघटे च शक्तिरित्येवंस्त्ररूपं वचनं न नामनिक्षेपाये कैकरूपमथापि निरुक्तलक्षण|क्रान्तमिति पञ्चमोऽयं भेदो निक्षेपस्यापतेदिति चेत् ? मैवम् घटपदस्य नामघटे शक्तिरिति वचनरूपस्य नामनिक्षेपस्यानेकशक्तिप्रतिपादकत्वस्य सद्भावात् घटरूात्मकस्य यद् घकारोत्तराकारोत्तरट कारोत्तरात्वरूपानुपूर्व्यवच्छिन्नं घटेति नाम तदपि नामघटस्तत्र नामघटत्वं निरुका नुपूर्वी रूपं यस्य कस्यचित् पुंसो घट इति नाम क्रियते सोऽपि नामघटस्तत्र नामघटत्वं तत्पुरुषात्मावच्छेदकबालावस्थाद्या कलितानेकशरीरवृत्तित्सामान्यमेव एवं यस्य कस्यापि वस्तुनो घटेति नाम कृतं स्यात् तद्वस्तुनो नामघटत्वं तत्तदवस्थाभेदभिन्नात्तद्वस्तुगत सामान्यमेवेति तद्रूपशक यतावच्छेदकभेदेनैकस्य घटशब्दस्यानेकशक्तिप्रतिपादकत्वं घटपदस्य नामघटे शक्तिरिति वचनस्य समस्तीति निक्षेपसामान्यलक्षणं तत्र समन्वयमर्हस्यैव एवं घटपदस्य स्थापनाघटे शक्तिरिति वचनको स्थापनानिक्षेपेऽपि निरुक्तनिक्षेप सामान्यलक्षग समन्वयश्चेत्थं स्थापना द्विविधा - सद्भूतस्थापनाऽप्रद्भूतस्थापना च तत्र मार्तिकसौवर्णाद्यात्मकस्य घटस्य यः पृथुवुनाद्याकारः स्वगतो यश्चान्यागतोऽपि तत्सुसदृश आकारः स सद्भूतस्थापना, यश्चान्यादृशोऽपि ' अयं घट:' इत्येवं स्थाप्यते सोऽसद्भूतस्थापना, तदुभयत्र नैकं सामान्यं किन्तु भिन्नमेव स्थापनाघरत्वम् तदवच्छिन्ने स्थापना घटे घटपदस्य शक्तिप्रतिपादकं स्थापनाघटो घटपदशक्य इति वचनमपि स्थापनानिक्षेपो निक्षेप सामान्यलक्षणाकलित एव द्रव्यघटोऽपि यन्मृदादिकमनुभूतघटपर्यायमनुभविष्यद्घटपर्यायं वा तत् सर्वमपि द्रव्यघट इति व्यपदिश्यते, न च तत्सर्वानुगतमेकं द्रव्यघटत्वं किन्तु विभिन्नमेवेति द्रव्यघटो घटपदवाच्य इति वचनखरूरो द्रव्यनिक्षेपोऽपि नानाद्रव्यघटत्ववर्मावच्छिन्ने एकस्य घट शब्दस्यानेकशक्तिप्रतिपादकस्वाद् भवति निक्षेपसामान्यलक्षगालिङ्गितः, भावघडोऽप्यागमतो घटोपयोगलक्षगः, नोआगमतश्च पृथुवुनोदराद्याकारवान् घट इति तदुभयसाधारणमपि भावघटत्वं नैकं किन्तु विभिन्ननिति नानाभावघटत्वधर्मावच्छिन्ने घटपदस्यानेकशक्तिप्रतिपादकं भावघटो घटपदशक्य इति वचनमतस्तदात्मकस्य भावनिक्षेपस्यापि निरुक्तनिक्षे सामान्य लक्षणाक्रान्तत्वम्, यदपि घटपदस्य नामघटे स्थापनाघटे द्रव्यघटे भावघटे च शक्तिरिति ववनं तदपि नैकम्, किन्तु घटपदस्य नामघटे शक्तिरित्याद्यनेकवचनसमुदायरूपमिति न नामनिक्षेपादितो मियते इति न पञ्चमनिक्षेपप्रसङ्ग इति बोध्यम् । अनेकार्थ नामानुशासनेएकपदस्यानेकशक्तिप्रतिपादके निरुक्तनिक्षेप सामान्यलक्षणस्य तिव्याप्ति मारायेष्टापत्त्या परिहरति-न चेति । तस्वतः परमार्थतः । इष्टत्वात् अनेकार्थनामानुशासनस्यापि निक्षेपत्वस्यैष्टत्वात् तदापादनं न दोषायेत्यर्थः । जैन सिद्धान्तातिरिक्तसिद्धान्ते निक्षेपव्यवहारो नास्त्येव किन्तु जैनसिद्धान्ते तदभिज्ञगुम्फितग्रन्थे च निक्षेपव्यवहारः समुपलभ्यते, स च नाम-स्थापना- द्रव्य-भावेष्वेव वचनार्थतया पुरस्कृतेष्विति न नानार्थनामानुशासनस्य लक्ष्यतेत्याशयेनाह - व्यवहारतस्त्विति । सिद्धान्तेति - जैन सिद्धान्त - जैन सिद्धान्तोपजीव्यन्यतरात्मकं यच्छक्यतावच्छेदकभेदेनैकस्य शब्दस्यानेकशक्तिप्रदर्शकं वचनं तदेव निक्षेपः सिद्धान्ताभिज्ञैः कथ्यत इत्यर्थः । न त्विति - " लोकात् " इति सिद्धहेमचन्द्रशब्दानुशासन सूत्रेणोपनीयमानं प्राप्यमाणमनेकार्थानुशासनमपि नैव निक्षेत्रः, तस्य सिद्धान्ततदुपजीव्यन्यतर नात्मकत्वादित्युक्तलक्षणाभावान्न तस्य निक्षेपत्वप्रसङ्ग इत्यर्थः । ' उपनीमान " इत्यस्य स्थाने " उपनीयमान " इति पठो युक्तः । तत्र निक्षेपे । शब्दनयैः साम्प्रत - समभिरूढैवम्भूताख्यैस्त्रिभिः शब्दनयैः । निखिलनिक्षेपाभ्युपगम केऽर्थनयेऽपि भावनिक्षेपोऽभ्युपगत इति शब्दनयैर्भाव इष्ट इति न विशेषप्रतिपत्तिकरमत उक्तम्- भावनिक्षेप एवेति । उक्तार्थे संवादमाह - तथा चोकमिति । " सवनिक्खेवे " अस्य स्थाने "भावं चित्र सद्दनया सेसा इच्छंति सम्वनिक्खेत्रे " इति पाठो युक्तः, " भावमेवं शब्दनयाः शेषा इच्छन्ति सर्वनिक्षेपान् ” इति संस्कृतम् । द्रव्यार्थिकानां नैगम-सङ्ग्रह व्यवहारर्जु
"