________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
करण्यम्, गुणगुणिभावाद्यसम्भवात्, निर्गुणाऽस्थूलादिवचनविरोधाच्च । नापि यः सर्पः सा रज्जुरितिव बाधीयम् उभयोश्चिद्रूपतया बाधायोगाद् मुक्त्यभावप्रसङ्गाच, नहि स्वबाधार्थ जीवप्रवृत्तिरुपपद्यते । तस्मात् पदार्थयोः परस्परव्यावर्तकतया विशेषणविशेष्यभावप्रतीत्यनन्तरं लक्षणया सोऽयं देवदत्त इति. द्विशुद्धप्रत्यगभिन्नाखण्डपरमात्मप्रतीतिः, सा च लक्षणा पदद्वयेऽपि अन्यथाऽखण्डार्थप्रतीत्यनुपपत्तेक्षणाबीज विरोधासमाधानाच्च । इयं लक्षणा विशेषणांशत्यागाद् विशेष्यांशात्यागाच्च जहदजहती ( भागलक्षणा च गीयते ) । नन्वेवं चैतन्याद्वैत सिद्धावपि कथं प्रपञ्चस्य पारमार्थिकत्वाभाव इति चेत् १ उच्यते-यदि त्वंपदार्थे भोक्तृत्वादिपारमार्थिकं कथं तत्पदार्थैक्यसिद्धिः, एवं तत्पदार्थेऽपि परोक्षत्वादि
३३९
धिकरण्यस्य, कल्पनं तयोः प्रसङ्गादित्यर्थः । भवतु मुख्यमेव सामानाधिकरण्यमित्यत आह- मुख्यत्वेऽपीति - समानाधिकरण्यस्य मुख्यत्वेऽपीत्यर्थः । नीलोत्पलमित्यत्र नीलरूपविशिष्टपरस्य नीलपदस्योत्पलात्मक द्रव्य वाचकपदेन सामानाधिकरण्यं संभवति नीलात्मक गुणवत्स्वस्योत्पलात्मके गुणिनि सद्भावात् प्रकृते तत्पदवाच्ये निर्गुणे ब्रह्मणि त्वम्पदवाच्य सगुण चैतन्याभेदासंभवादिति निषेधहेतुमाह-गुणगुणिभावाद्य संभवादिति । यदि निरुकसामानाधिकरण्यानुरोधेन गुणित्वादिकमपि ब्रह्मण्युपेयते तदा निर्गुणत्वादिप्रतिपादकवचनविरोधः स्यादित्याह-निर्गुगेति । ननु रजौ सर्पोऽयमिति भ्रमानन्तरं रज्जुरियं न सर्प इति बाधप्रतिसन्धाने सति यः सर्पः सा रज्जुरिति यद्वाधीयं सामानाधिकरण्यं तद्वत् प्रकृतेऽपि बाधीयं सामानाधिकरण्यं तत्-त्वम्पदयोरित्याशङ्कां प्रतिक्षिपति नापीति । निषेधे हेतुमाह- उभयोरिति तत्पदार्थ - स्वम्पदार्थयोरित्यर्थः । ननु तत्पदार्थस्य बाधाभावेऽपि त्वम्पदार्थस्य बाधादेव बाधीयं सामानाधिकरण्यं भविष्यतीत्यत आह- मुक्त्यभावप्रसङ्गाच्चेति । कथं मुक्त्यभावप्रसङ्ग इत्यपेक्षायामाह नहीति- अस्य ' उपपद्यते ' इत्यनेनान्वयः । स्वेति- स्वपदार्थस्य मुक्तत्यर्थिनो जीवस्य बाधार्थं मम बाघो भवत्वित्येतदर्थं जीवस्य प्रवृत्तिर्नह्युपयत इत्यर्थः । यदि न गौणं सामानाधिकरण्यं नापि मुख्यं नापि बाधीयं तर्हि तत्त्वमसीति वाक्यतः कथं कस्य प्रतीतिर्भवितुमर्हतीत्याकाङ्क्षायामुपसंहरति- तस्मादिति - उक्तदिशा सामानाधिकरण्यप्रकारस्य कस्याप्यसम्भवादित्यर्थः । पदार्थयोरिति तत्पदार्थ-त्वम्पदार्थयोर्मध्ये तत्पदार्थस्त्वं पदार्थ मन्यतो व्यावर्तयति, त्वंपदार्थस्तत्पदार्थमन्यतो व्यावर्तयतीत्येवं परस्परव्यावर्तकतया यद्वयावर्तकं यद्विशेषणं तद्वयावर्त्य तद्विशेष्यमिति नियमादुभयोर्विशेषणविशेष्यभावेन प्रतीत्यनन्तरं लक्षणया तत् संपदयोर्विशुद्ध प्रत्यगभिन्नाखण्डपरमात्मस्वरूपे शुद्धचैतन्ये जहदजहल्लक्षणया विशुद्ध प्रत्यगभिन्नाखण्डपरमात्मप्रतीतिर्भवति, यथा- सोऽयं देवदत्त इति वाक्याच्छुद्ध देवदत्तव्यक्तौ निरुकलक्षणया शुद्धदेवदत्तव्यक्तिप्रतीतिरित्यर्थः । सा च लक्षणा विशुद्धप्रत्यगभिन्नाखण्डपरमात्मनि लक्षणा पुनः । पदद्वयेऽपि तत्पद-त्वंपदद्वयेऽपि । अन्यथा एकपद एवं लक्षणाभ्युपगमे । अखण्डेति - एकपदस्य शुद्धचैतन्ये लक्षणायामपि लक्ष्ये शुद्धचैतन्ये द्वितीय पदराक्यार्थस्य विशिष्टचैतन्यस्य तत्राभेदेनान्वये सखण्डस्यैव ततो बोधः स्यादित्यखण्डस्य परमात्मरूपार्थस्य प्रतीतेरनुपपत्तेरित्यर्थः । लक्षणेति तत्-त्वंपदशक्यार्थयोरभेदेनान्वयासम्भवलक्षणविरोध एव लक्षणाबीजं तस्यासमाधानात् परिहाराभावाच्च, एकपदलक्षणायामपि तल्लक्ष्ये द्वितीय पदशक्यार्थस्याभेदेनान्वयासम्भवलक्षणविरोधोऽपरिहृत एवेत्यतो विरोधपरिहारार्थं पदद्वये लक्षणाऽऽवश्य कीत्यर्थः । अस्या लक्षणाया जहदजहल्लक्षणात्वं भागलक्षणात्वपर्यवसितं दर्शयति- इयं लक्षणेतितत्पदस्य शक्ये परोक्षत्वविशिष्टचैतन्ये विशेषणांशस्य परोक्षत्ववैशिष्टयस्य त्यागाद् विशेष्यांशस्य चैतन्यस्यात्यागात् एवं स्वपदस्य शक्ये अपरोक्षत्व विशिष्ट चैतन्ये विशेषणांशस्यापरोक्षत्ववैशिष्टयस्य त्यागाद् विशेष्यांशस्य चैतन्यस्यात्यागाच्च जहदमहती शक्यं विशेषणांशं जहती, विशेष्यं च शक्यमजतीति जहदजहती, अत एव शक्यस्य भागे विशेष्यरूपैकदेशे लक्षणेति भागलक्षणेयं गीयते इत्यर्थः । शङ्कते नन्वेवमिति - एवमुक्तप्रकारेण अद्वितीयं चैतन्यमप्यस्तु प्रपञ्चस्य पारमार्थि कत्वमप्यस्तु न हि प्रपञ्चस्य पारमार्थिकत्वाभावमन्तरेण चैतन्यस्याद्वैतमनुपपन्नं येन चैतन्यद्वैितान्यथानुपपत्त्या सिध्येतापि प्रपश्वस्य पारमार्थिकत्वाभावः, न चैवमित्याशङ्कितुरभिप्रायः । समाधत्ते - उच्यत इति । खंपदार्थे यदि भोक्तृत्वादिकं पारमार्थिकं त्वं पारमार्थिकं तदा भोक्तृत्वादिविशिष्टचैतन्यमेकं द्वितीयं च तत्पदार्थचैतन्यमिति न चैतन्याद्वैतं निर्वहति तथा तत्पदार्थेऽपि परोक्षत्वादि पारमार्थिकं तदा परोक्षत्वादिविशिष्ट चैतन्यमेकपरं च त्वंपदार्थचैतन्यमित्येवमपि चैतन्याद्वैतं न सिष्यतीत्याह- यदीति - " परोक्ष्यत्वादि " इत्यस्य स्थाने " परोक्षत्वादि " इति पाठः समीचीनः । नन्वेवं भोक्तुस्व