________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
रहिता एष्या अतीताश्चान्तगुणास्तस्य सिद्धाः, ततस्तदपेक्षयापि द्रव्यकल्पना स्यात् , इष्टापत्तिश्च कर्तृमशक्येमेत्याह-एकस्य एककाले-पुरुषादिकाले भवा न युज्यन्ते अनेके, ततो भावेन सह साक्षात्सम्बन्धाभावात् तेषु सर्वेषु द्रव्यत्वस्वीकारोऽनिष्ट इत्यर्थः ॥ १ ॥ इत्थं चोदकेनोक्ते गुरुराह"दुहओऽणन्तरभवियं जह चिट्ठइ आउअं तु जं बद्धं । हुजियरेसु वि जइ तं दव्वभवा हुज ता ते वि ॥२॥"
[आवश्यके गा० १५३५] व्याख्या-दुहओ त्ति-वर्तमानभवे वर्तमानस्योभयत एध्येऽतीते च, अनन्तरभविकं-पुरस्कृतषश्चात्कृतभवसम्धधीत्युक्तं भवति, यथा तिष्ठति आयुष्कमेव-तुशब्दस्यावधारणार्थत्वान्न शेषं कर्म, यहीतरेष्वपिप्रभूतेष्वनागतेषु च भवेषु, तदायुष्कर्म बन्धोदयद्वारकप्रत्यासत्तिकारि भवेत् , तदा तेऽपि-तस्मिन् भवे वर्तमानस्य द्रव्यभवा भवेयुः, तदायुष्कर्मसम्बन्धात्, न चैतदस्ति तस्मादसच्चोदकमतमिति गाथार्थः ॥२॥ अस्यैवार्थस्य प्रसाधकं लोकप्रतीतं निदर्शनमाह" संज्झासु दोसु सूरो अदिस्समाणो वि पप्पसमईअं। जह ओभासइ खित्तं तहेव एवं पि णायव्वं॥३॥"
[आवश्यके गा० १५३८]
पत्तिश्च अनन्तातीतानागतभवापेक्षया द्रव्यत्वकल्पनाप्रसङ्ग इष्टापत्तिरेव । भावार्थमाह-तत इति । "ततो" इत्यस्य स्थाने "तद्गतेन" इति पाठो युज्यते, व्यवहितातीतानागतभवगतेन भावेन सह द्रव्यत्वेनाभिमतैतद्भवीयस्य साक्षात्सम्बन्धस्याभावाद् व्यवधायकस्य भवस्य साक्षात्सम्बन्धविघटकस्य सद्भावादित्यर्थः । इत्यर्थः एवं “दुहओ" इत्यादिगाथार्थ इत्यर्थः । दुहओत्ति-उभयत आनन्तरभविकं यथा तिष्ठति आयुष्कं तु यद् बद्धम् । भवेदितरेष्वपि यदि तद् भव्यभवा भवेयुस्तदा तेऽपि ॥” इति संस्कृतम् । विवृणोति- दुहओ त्तीति । उभयत इत्यस्य विवरणम्- एष्येऽतीते चेति । आनन्तरभविकमित्यस्य फलितार्थकथनम्-पुरस्कृतपश्चात्कृतभवसम्बन्धीत्युकं भवतीति। " आउअंतु" इत्यस्य "आयुष्कं तु" इति स्यातू आयुष्कमेवेति कथमित्यत आह-तुशब्दस्येति । अवधारणार्थ केन तुशब्देन कस्य व्यवच्छेद इत्यपेक्षायामाह-न शेषं कर्मेति-निरुक्तायुष्कर्मभिन्नं कर्म न तिष्ठतीत्यर्थः । यदीत्यस्य भवेदित्यनेन सम्बन्धः । इतरेष्वपीत्यस्य विवरण-भूतेष्वनागतेषु च भवेष्विति । "प्रभूतेष्व" इत्यस्य स्थाने “भूतेष्व" इति पाठो युक्तः, अथवा "प्रभूतेष्वतीतेष्व" इति पाठः शोभनः । तत् अनेकभवकालसम्बन्धि । आयुष्कर्म बन्धेतिअतीतभवे तस्य कर्मणो बन्धो वर्तमानभवे तस्योदयः, तद्द्वारिका या अतीतभवेन सह वर्तमानभवस्य प्रत्यासत्तिःसम्बन्धस्तत्कारि आयुष्कर्म यदि भवेदित्यर्थः, तदा तेऽपि व्यवहितभवा अपि। तस्मिन् भवे वर्तमानस्य वर्तमानभवे वर्तमानस्य पदार्थस्य भावरूपस्य । वर्तमानभवगतेन भावेन सह व्यवहितभवगतानामपि बन्धोदयद्वाराऽऽयुष्कर्मलक्षणप्रत्यासत्तिकारिबलात् सम्बन्धस्य सद्भावादित्याह-तदायुष्कर्मसम्बन्धादिति । न चैतदस्ति आयुष्कर्म व्यवहितातीतभवे बध्यते वर्तमानभवे उदयमासादयतीत्येव नास्ति, किन्त्वव्यवहितातीतभवे आयुष्कर्म बध्यते तदन्तरमेव वर्तमानभवे उदयमाप्नोतीत्यतो वर्तमानभवगतभावस्य व्यवहितभवगतपदार्थेन सह सम्बन्धस्य बन्धोदयद्वारकायुष्कर्मसम्बन्धकृतस्याभावान्न व्यवहितानन्तभवगताः पदार्थाः वर्तमानभवगतभावापेक्षया द्रव्यतापत्तिभाजनानीत्युपसंहरति- तस्मादिति। अस्यैव द्वितीय गाथाप्रतिपादितस्यैव । संज्झासु० त्ति- “ सन्ध्ययोर्द्वयोः सूर्योऽदृश्यमानोऽपि प्राप्यसमतीतम् । यथाऽवभासयति क्षेत्रं तथैवैतदपि ज्ञातव्यम् ॥” इति संस्कृतम्। विवृणोति- सन्ध्या चेति। "प्रत्यूष-प्रदोषा प्रतिबद्धयोः" इत्यस्य स्थाने "प्रत्यूष प्रदोषप्रतिबद्धयोः" इति पाठो युक्तः, तथा च द्वयोः सन्ध्ययोरित्यनेन प्रत्यूष-प्रदोषसन्ध्ययोरित्युक्तं भवति । प्राप्यं म्वक्रियाजन्यसंयोगशालि, अस्य क्षेत्रमित्यनेनान्वयः, समतीतं स्वक्रियाजन्यविभागशालि, येन क्षेत्रेण संयुक्तो भवति, यस्मात् क्षेत्रादनन्तरमेवापक्रान्तो भवति, तदुभयक्षेत्रमित्यर्थः। “यथाऽपभाषयति" इत्यस्य स्थाने “ यथाऽवभासयति" इति पाठो युक्तः । उक्तमेवार्थ स्पष्टयति- यथेति । प्रत्यूषसन्ध्यायां प्रातः