________________
__ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
पटयो रूपम्' इत्यादौ च घट-पटोभयवृत्तित्वस्यापि रूपत्वादिसामानाधिकरण्येनान्वयबोध एव साकासत्वाद् 'न तयोर्घटरूपम्' इत्यपि स्यादिति कैश्चित् कल्प्यते, तदसत्- प्रतिवस्तुन्याकाङ्क्षावैचित्र्यस्यापेक्षाबोधात्मकफलवैचित्र्यार्थमेवाश्रयणात् , उभयरूपसामान्यस्य प्रत्येकरूपविशेषात् कथश्चिद्भेदानभ्युपगमे त्वदुक्तान्यव्युत्पत्तिमहात् 'घट-पटयोर्घटरूपम्' इति जायमानस्य बोधस्य प्रामाण्यापत्तेश्व, अस्माकं तु स्यादर्थानुप्रवेशस्यैवातिप्रसङ्गभञ्जकत्वान्न दोषः । सामान्यात्मनकमिति तत्र घट-पटोभयनिरूपिनवृत्तित्वं सम्भवत्यैवेति कृत्वा रूपत्वसामानाधिकरण्येनान्वयबोध उक्तवाक्यात् सम्भवति, रूपत्वावच्छेदेनान्वयबोधस्तु तावताऽपि न सम्भवति, यतो घटावृत्ति-पटावृत्तिरूपव्यक्त्योरपि रूपसामान्यान्तर्गततया तत्र घटवृत्तित्व पटवृत्तित्वयोरभ वे घट-पटोभयवृत्तित्वस्याप्यभावेन बाधितत्वाद् रूपत्वावच्छेदेन घट-पटोभयवृत्तित्वान्वये उक्तवाक्यस्य निराकासत्वात् , किन्तु रूपत्वसामानाधिकरण्येनान्वय एवोक्तवाक्यं साक समिति विभाव्यते, तदा घटरूपस्य घटवृत्तित्वेऽपि न पटवृत्तित्वमिति कृत्वा घट-पटवृत्तित्वाभावस्य तत्र सत्त्वेन घटरूपेऽबाधितस्य घट-पटोभयनिरूपितवृत्तित्वाभावस्यान्वये 'घट-पटयोन घटरूपम्' इति वाक्यं साकाङ्गं स्यादेवेत्याह-घट-पटयोरिति- इत्थं च 'घट-पटयोन रूपम्' इति वाक्याद् 'घट-पटयो रूपम्' इति वाक्याद् ‘घट-पटयोन घटरूपम्' इति वाक्याच्चापेक्षामन्तरेणैवान्वयबोधस्योपपत्ते पेक्षात्मकान्वयबोधस्वरूपनयसिद्धिरित्यभिप्रायः । प्रतिक्षिपति- तदसदिति । प्रतिवस्तुनीति- 'घट-पटयोन रूपम्' इति वाक्यं रूपत्वावच्छेदेन घट-पटोभयनिरूपितवृतित्वाभावान्वयबोधने साकासम्, घट-पटयो रूपत्वाव. च्छिन्नप्रतियोगिताकाभावान्वये न साकाझम् , 'घट-पटयो रूपम्' इति वाक्यं च रूपत्वसामानाधिकरण्येन घट-पटोभयनिरूपितवृत्ति. त्वान्वयबोधने साकासम् , न तु रूपत्वावच्छेदेन घट-पटोभयनिरूपितवृत्तित्वान्वयबोधने इत्येवं यद् आकाङ्क्षावैचित्र्यमम्युपे त्यान्वयबोधवलक्षण्यमभ्युपेयते तदेतद् अपेक्षाबोधात्मकफलवैलक्षण्यमेव शब्दान्तरेणाभ्युपगतं परैः, अन्यथैकान्तवादिनो यदन्वयबोधसमर्थ यद् वाक्यं तत् तदन्वयबोधं जनयिष्यत्येव, यच्च यत्रासमर्थ तत् तन्न जनयिष्यतीत्येवाभ्युपगमनीयं स्याद् , न त्वाकाङ्क्षावैचित्र्यं फलवैचित्र्यार्थमाश्रितं भवेदित्यर्थः । रूपत्वसामानाधिकरण्येन घट-पटोभयनिरूपिवृत्तित्वान्वयस्य बोधे साका
क्षाद् 'घट पटयो रूम्' इति वाक्यात् तथाविधान्वयबोधस्तदा भवेद् यदि घट-पटरूपविशेषयोः रूपसामान्येन सहाऽभेदो भेदश्चाभ्युपगतो भवेत् , तथा सति सङ्ग्रहनयाभ्युपगतरूपसामान्याभेदापेक्षामाश्रित्य रूपसामान्याभिन्नत्वेनैकीभूतयो रूपविशेषयोर्घट-पटोभयवृत्तित्वस्य सम्भवेन तादृशान्वयबोधस्योपपत्तिः, तयो रूपसामान्याद् भेदस्य व्यवहारनयाभ्युपगतस्यापेक्षा माश्रित्य तु 'घट-पटयोर्न रूपम्' इति वाक्याद् ‘घट-पटोभयनिरूपितवृत्तित्वाभाववद् रूपम्' इति बोधस्य सम्भवः, भवद्भिर्यदि रूपसामान्यस्य प्रत्येकरू विशेषात् सर्वथाऽभेद एवोपेयते, न तु कथञ्चिद्भेदस्तदा ध्यात्मके वस्तुनि 'एकस्यापेक्षाऽन्यस्य नापेक्षा' इत्युक्तिः सम्भवति, न त्वेकात्मके वस्तुनीत्यपेक्षाश्रयणस्यानावश्यकत्वेऽपि घटरूपस्यापि रूपसामान्यात्यन्ताभिन्नस्य घट-पटोभयवृत्तत्वेन 'घट-पटयोर्घटरूपम्' इति वाक्यतो जायमानस्य 'घट पटोभयनिरूपितवृत्तित्ववद् घटरूपम्' इति बोधस्य प्रामाण्यं स्यात् , सामान्य विशेषयोर्भेदाभेदपक्षे तु रूपसामान्यस्य रूपत्वेनैव रूपविशेषादभेदो घटरूपत्वादिना तु भेद एवेति घटरूपत्वेनोपस्थितस्य रूपविशेषस्य रूपसामान्याद् भेदो न त्वभेद इति घटरूपत्वेन तस्य न घट पटोभयवृत्तित्वमिति 'न घट-पटयोर्घटरूपम्' इत वाक्यतो जायमानस्य प्रामाण्यातिप्रसङ्गोऽपेक्षाश्रयणे इत्याह- उभयरूपसामान्यस्येति । कथञ्चिद्भेदानभ्युपगम इति- कथञ्चिद्भेदानभ्युपगमः सर्वथा भेदाभ्युपगमे सर्वथाऽभेदाभ्युपगमे वा स्यात् , तत्र सर्वथा मेदाभ्युपगमः 'घट-पटयो रूपम्' इति वाक्यजन्यबोधस्य न समर्थक इति सर्वथाऽभेदाभ्युपगम इति तदर्थः । त्वदुक्तान्यव्युत्पत्तिग्रहात् 'घट-पटयो रूपम्' इति वाक्यं रूपत्वसमानाधिकरण्येन घट-पटोभयवृत्तित्वस्यान्वयबोधे साकाङ्क्षमिति त्वदुक्तद्वितीयव्युत्पत्तिग्रहात्, अस्य 'जायमानस्य' इत्यनेन सम्बन्धः। 'घट-पटयोघंटरूपमिति' इत्यत्र इतिशब्दो वाक्यस्वरूपवचनः पञ्चम्यन्तश्च । बोधस्य 'घट पटोभयनिरूपितवृत्तित्ववद् घटरूपम्' इत्याकारकबोधस्य । अस्माकं तु रूपसामान्य-रूपविशेषयोर्भेदाभेदाभ्युपगन्तृणां स्याद्वादिनां पुनः । स्यादर्थानुप्रवेशस्यैव 'सामान्य-विशेषयोः कश्चिद् भेदः कथञ्चिदभेदः' इत्येवं स्याच्छब्दार्थस्य कथञ्चिल्लक्षणस्य भेदाभेदस्वरूपसन्निवेशस्यैव । अतिप्रसङ्गमञ्जकत्वात् 'घट-पटयोर्घटरूपम्' इतिवाक्यजन्यबोधप्रामाण्यप्रसङ्गवारकत्वात् ।