________________
१५४
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
नैगम-व्यवहारयोरपेक्षया यथाऽस्य शुद्धत्वं तथाह
उपचारा विशेषाश्च, नैगम-व्यवहारयोः ।
इष्टा ह्यनेन नेष्यन्ते, शुद्धार्थपक्षपातिना ॥ २४ ॥ नयामृत०-उपचारा इति । उपचारा- गौणव्यवहाराः, विशेषाश्व- तत्तद्व्यावृत्तिरूपाः, नैगमव्यवहारयोः, इष्टाः, शुद्धार्थपक्षपातिना- एतदुभयापेक्षया स्वविषयोत्कर्षाभिमानिना, हि- निश्चितम् , अनेन- सङ्ग्रहनयेन, नेष्यन्ते, तथा च नैगम-व्यवहारसम्मतोपचार-विशेषानवलम्बित्वादस्य शुद्धत्वं स्वसमवायोचितोपचारविशेषयोः कचिदवलम्बनेनापि नापोद्यत इति भावः ॥ २४ ॥ व्यवहारं लक्षयति
उपचारेण बहुलो विस्तृतार्थश्च लौकिकः ।
यो बोधो व्यवहाराख्यो नयोऽयं लक्षितो बुधैः॥ २५ ॥ नयामृत०-उपचारेणेति । उपचारेण-गोण्या वृत्त्या, बहुलो- बाहुल्येन व्यवहारकारी, विस्तृतार्थः- नानाव्यक्तिकशब्दसङ्केत ग्रहणप्रवणः, लौकिकः - शब्द-तदुपजीविप्रमाणातिरिक्तप्रमाणपक्षपाती, यो बोधः सोऽयं व्यवहाराख्यो नयः, बुधैर्लक्षितः, उपचारबहुलाद्यध्यवसायवृतिनयत्वव्याप्यजातिमत्त्वं लक्षणं तेन नाननुगम इत्यर्थः । " लौकिकसम उपचारप्रायो विस्तृताऽर्थो व्यवहारः ” [ तत्त्वार्थसूत्र० अ० १, सूत्र-३५ ] इति तत्त्वार्थभाष्यमनुरुध्य इत्थं लक्षितम् , " वच्चइ विणिच्छिअत्थं व्यवहारो
त्रयोविंशतितमं पद्यमवतारयति-सङ्ग्राह्यार्थेति-संग्रहगृहीतार्थत्यर्थः । विवृणोति- एकेतीति । मूलोक्तान् जीव. गोचरानेकादिभेदान् स्पष्टयति- चेतनत्येनेति । जीवगोचराः के ? इत्यपेक्षायामाह-सङ्ग्रहप्रकारा इति । कुत्रोदीरिता इत्याकाङ्क्षानिवृत्तये त्वाह-सिद्धान्त इति । अन्यत् स्पष्टम् ॥ २३ ॥
चतुर्विंशतितमं पद्यमवतारयति-नैगमेति। अस्य सङ्ग्रहनयस्य । विवृणोति-उपचारा इतीति । एतदुभयापेक्षया नैगम व्यवहारोभयापेक्षया । भावार्थमुपदर्शयति-तथा चेति-नैगन-व्यवहारोभयापेक्षया स्वविषयोत्कर्षाभिमानिनः सङ्ग्रहस्य नैगमव्यवहाराभीष्टोपचारविशेषानभ्युपगन्तृत्वे च सति। अस्य सङ्ग्रहनयस्य । “शुद्धत्वम्' इत्यस्य 'नापोद्यते' इत्यनेनान्वयः, 'स्वसमवायोचित०' इति स्थाने 'स्वसमयोचित०' इति पाठः, स्वस्य- सङ्ग्रहनयस्य, यः समयः-तद्विषयावबोधको राधान्तः, तदुचितौ- तदनुगुगौ यावुपचारविशेषौ तयोः । क्वचित् स्वविषये कस्मिंश्चित् । अवलम्बनेनापि स्वीकरणेनापि । नापोद्यते न निषिद्धयते, यदि सामान्यत उपचार-विशेषयोरनभ्युपगन्तृत्वमेव सड्ग्रहस्य शुद्धत्वमभिमतं स्यात् तदा स्वसमयोचितोपचारविशेषाभ्युपगमेनापि उक्तलक्षणं शुद्धत्वमस्यापोदितमेव स्यात् , न चैवम्, किन्तु नैगम व्यवहाराभ्युपगतोपचारविशेवानभ्युपगन्तृत्वमेवास्य शुद्धत्वम् , तच्च स्वसमयोचितोपचारविशेषाभ्युपगन्तृत्वेऽपि निराकुलमवतिष्ठत एवेत्यर्थः ॥ २४ ॥ _व्यवहारलक्षकं पञ्चविंशतितमं पद्यमवतारयति- व्यवहारमिति । विवृणोति-उपचारेणेतीति । नानेति- नानाव्यक्तिषु यः शब्दस्य सङ्केतस्तस्य ग्रहणे समर्थ इत्यर्थः । शब्देति-शब्दात्मकं यत् प्रमाणं शब्दोपजीवि च यदनुमानादिकं प्रमाणं ताभ्यामतिरिक्तं यत् प्रत्यक्षादि प्रमाणं तत्पक्षे पतितुं शीलं यस्य तादृशः, प्रत्यक्षाद्यापामरसाधारणमान्यप्रमाणगृहीतार्थाभ्युपगमप्रवण इति यावत् । एवं च सति व्यवहारस्य किं लक्षणं सिद्धं भवतीत्यपेक्षायामाह-उपचारेति- उपचारबहुलाद्यध्यवसायवृत्तित्वस्य जातिविशेषणतयोपन्यासान्नैगमत्यादिजातिव्युदासः, नयत्वव्याप्यत्वविशेषणोपादानान्नयत्व-ज्ञानत्वादिजातिव्युदासः । तेन जातिघटितलक्षणकरणेन । एतच लक्षणं तत्त्वार्थभाष्यानुसारीत्यावेदयति-लौकिकसमेति । नियुक्तिग्रन्थानुसारिव्यवहारलक्षणमावेदयितुमाह-बच्चइ० इति- “व्रजति विनिश्चिताप व्यवहारः सर्वद्रव्येषु" इति. संस्कृत