________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः।
सबदवेसु” [विशेषावश्यकनियुक्तिगाथा-२१८३ ] त्ति, नियुक्तिप्रतीकपर्यालोचनायां तु विनिश्चितार्थप्रापकत्वमस्य लक्षणं लभ्यते, विनिश्चितार्थप्राप्तिश्चास्य सामान्यानभ्युपगमे सति विशेषाभ्युपगमात् , अत एव विशेषेणाव हीयते निराक्रियते सामान्यमनेनेति निरुत्युपपत्तिः, जलाहरणाद्युपयोगिनो घटादिविशेषानेवायमङ्गीकरोति, न तु सामान्यं तस्यार्थक्रियाऽहेतुत्वात् , नहि 'गां बधान' इत्युक्ते कश्विद् गोत्वं बद्धुमध्यवस्यति, अनुगतव्यवहारश्चान्यापोहादिनाऽप्युपपत्स्यते, अखण्डाभावनिवेशाच्च नान्योन्याश्रयः, अस्तु वा सर्वत्र शब्दानुगमादेवानुगतत्वव्यवहारः, कारणत्व-व्याप्यादावित्थमेवाभ्युपमगादित्यादिकं प्रपश्चितमन्यत्र ॥ २५ ॥ तम् , विशेषेण विशेषरूपेण निश्चितस्यार्थस्य प्रापकत्वं विनिश्चितार्थप्रापकत्वं तदस्य व्यवहारस्य लक्षणं निरुक्तनियुक्तिप्रतीकपर्यालोचनायां कृतायां लभ्यत इत्यर्थः। विनिश्चितार्थप्रापकत्वं कथं व्यवहारस्येत्यपेक्षायामाह-विनिश्चितार्थप्राप्तिश्चेति । अस्य व्यवहारस्य । अत एव सामान्यानभ्युपगमे सति विशेषाभ्युपगमतो व्यवहारस्य विनिश्चितार्थप्रापकत्वादेव । विशेषेण स्वाभ्युपगमविशेषेण, अनेन विशेषाभ्युपगमो व्यवहारस्यायाति । अनेन व्यवहाराख्यनयेन । निरुत्युपपत्तिः व्यवहारपदनिर्वचनमुपपद्यते, यदि व्यवहारः सामान्यमभ्युपेयाद् विशेष वा नाभ्युपगच्छेत् तदा निरुक्तव्यवहारपदनिरुक्तिनॊपपन्ना स्यादित्यर्थः । अस्य सहेतुकं विशेषाभ्युपगमनं सामान्यानभ्युपगमनं च दर्शयति-जलेति- व्यवहारो हि लोकयात्रानिर्वाहक इति लोकव्यवहारो यादृर्शनार्थेन सम्पद्यते तमर्थमुररीकरोति यश्चार्थो न व्यवहारसम्पादकस्तं च तिरस्करोति घटादिव्यक्तिलक्षणविशेषेभ्य एव जलाहरणादिलक्षणलोकव्यवहार उपजायत इति जलाहरणाद्युपयोगिनो घटादिविशेषानेवायं व्यवहारनयोऽङ्गीकरोति । एवकारलभ्यमेवार्थमाह- न तु सामान्यमिति- सामान्यं पुनर्व्यवहारो नाङ्गीकरोति, यत एव सामान्यं न लोकव्यवहारोपयोगि तत एव न तत्स्वीकरोतीत्यावेदनायाह-तस्येति- सामान्यस्येत्यर्थः। अर्थक्रियाकारित्वाभावात् जलाहरणादिलक्षणार्थक्रियाकारित्वाभावात् । अर्थक्रियाकारित्वाभावमेव सामान्यस्य व्यवस्थापयतिनहीति- अस्य 'अध्यवस्यति' इत्यनेनान्वयः। ननु यदि सामान्यमर्थक्रियाकारि न भवेदनुगतव्यवहारस्तदेकनिबन्धनो न स्यादित्यत आह- अनुगतव्यवहारश्चेति । ननु अन्यापोहो गोभिन्न भिन्नत्वम्, तत्र यत्किञ्चिद्गोभिन्नं गोव्यक्त्यन्तरं तद्भिन्नत्वं न तस्यां गवीत्यतोऽस्य नानुगतत्वम्, यदि च तत्र गोत्वावच्छिन्न प्रतियोगिताको भेदो निविशते तदा गोत्वावच्छिन्नप्रतियोगिताकभेदवती या यत्किञ्चिदश्वव्यक्तिस्तद्भिन्नत्वं गवादिभिने तदश्वव्यक्तिभिन्ने पदार्थान्तरेऽपीति तत्रापि गौॉरित्यनुगतव्यवहारः स्यात् तद्वारणाय गोत्वावच्छिन्नप्रतियोगिताकभेदावच्छिन्नप्रतियोगिताकभेदो यद्यगोऽपोहः, तत्र प्रविष्ट गोत्वं पुनरप्यगोव्यावृत्तिरूपम्, तत्राप्युक्तदिशा प्रविष्टं गोत्वमगोव्यावृत्तिरूपमित्येवं दिशाऽनवस्थाप्रसङ्गः, स एवागोऽपोहो यदि स्वशरीरसन्निविष्टगोत्वमपि तदा स्वस्यैव स्वापेक्षणादात्माश्रयः, यदि च तत्र प्रविष्टा गोव्यक्तयो गौगोरित्यनु. गतव्यवहारविषया एवेति गोत्वमपोहशरीरसन्निविष्ट गौगौरित्यनुगतव्यवहारविषयत्वं तदोक्तापोहस्य निरुक्तानुगतव्यवहारापेक्षणान्निरुक्तानुगतव्यवहारस्य च निरुक्तान्यापोहापेक्षणादन्योऽन्याश्रय इत्यत आह- अखण्डाभावनिवेशाच्चेति- यावत्यो नगति गोव्यक्तयस्तद्भेदकूटावच्छिन्नप्रतियोगिताकभेद एवागोपोहः, स च तादृशभेदकूटावच्छिन्नप्रतियोगिताकभेदत्वेन रूपेण नान्यापोहस्वरूपतयाऽभ्युपगम्यते येन निरुक्तभेदकूटस्यासर्वज्ञदुर्जेयत्वेन तदवच्छिन्न प्रतियोगिताकभेदस्याप्यसर्वज्ञदुयित्वं स्यात् , किन्त्वेकस्य तस्य तद्य तेः स्वरूपतो भानस्याभ्युपगमेन तद्व्यक्तिरूपतयैवानुगतव्यवहारे भानम्, प्रतियोगिविशेषितरूपेणैव सन्निविष्टस्याभावस्य स्वरूपतो भानं निषिद्धं न तु तव्यक्त्यात्मनाऽखण्डस्य, तथा चाखण्डस्य निरुकभेदरूपाभावस्यान्यापोहस्वरूप निवेशात् पुनरन्योन्याश्रयो न भवतीत्यर्थः। अथवा सर्वासु गोव्यक्तिषु प्रत्येक गोपदस्य सङ्केतलक्षणशक्तिरूपसम्बन्ध इति तेन सम्बन्धेन गोशब्द एव सर्वत्रानुगत इति सङ्केतलक्षणसम्बन्धबलाच्छब्दानुगमादेवानुगतत्वव्यवहार इत्याह- अस्तु वेति । जातिमन्तराऽप्यनुगतत्वव्यवहारः सामान्यवादिनामप्यभिमत एव, कथमन्यथा 'दण्डः कारणम् , वह्निः कारणम् ,' इति कारणत्वस्य जातिस्वरूपस्याभावेऽप्यनुगतकारणत्वव्यवहारः, व्याप्यत्वस्य जातिरूपस्याभावेऽपि 'धूमो व्याप्यः, आलोको व्याप्यः' इत्येवमनुगतव्याप्यत्वव्यवहार इत्याह- कारणत्वेति । इत्थमेवाभ्युपगमात् शब्दानुगमादेवानुगतत्वव्यवहारोपगमादित्यर्थः ॥ २५ ॥