________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
३९५
स्यापि सद्भावशोधितस्य स्वकीयत्वेन, स्वकीयस्यापि चासद्महादिना परकीयत्वेन विश्रामात् , अत एवाकरणनियमादिवचनानां परसमयस्थाना( म )नादरे तन्मूलदृष्टिवादस्याशातना दुष्कर कारिणाम् , अपि च गुरुकुलवासत्यागिनां तपोव्रतादिगुणानुमोदने दीर्घसंसारिणा( ता ) तत्र तत्र प्रतिपादिता, इत्यधिकं धर्मपरीक्षायां ॥ १२८ ॥
क्रियानयः क्रियां ब्रूते, ज्ञानं ज्ञाननयः पुनः। मोक्षस्य कारणं तच्च, भूयस्यो युक्तयो द्वयोः ॥ १२९ ॥ क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्षभोगज्ञो, न ज्ञानात् सुखितो भवेत् ॥ १३० ॥ ज्ञानमेव शिवस्याध्वा, मिथ्यासंस्कारनाशनात् । क्रियामात्रं त्वभव्यानामपि नो दुर्लभं भवेत् ॥ १३१ ॥ तण्डुलस्य यथा चर्म, यथा ताम्रस्य कालिका । नश्यति क्रियया पुत्र !, पुरुषस्य तथा मलः ॥ १३२ ॥ बठरश्च तपस्वी च, शूरश्चाप्यकृतवणः।। मद्यपास्त्री सती चेति, राजन्!न श्रद्दधाम्यहम् ॥ १३३ ॥ - ज्ञानवान् शीलहीनश्च, त्यागवान् धनसङ्ग्रही । गुणवान् भाग्यहीनश्च, राजन्!न श्रद्दधाम्यहम् ॥ १३४ ॥ इति युक्तिवशात् प्राहुरुभयोस्तुल्यकक्षताम् । मन्त्रेऽप्याह्वानं देवादेः, क्रियायुग्ज्ञानमिष्टकृत् ॥ १३५ ॥ ज्ञानं तुर्ये गुणस्थाने, क्षायोपशमिकं भवेत् । अपेक्षते फले षष्ठगुणस्थानजसंयमम् ॥ १३६ ॥
कार्येत्यन्वयः। अनग्राहिकादिनेति- शृङ्ग हस्तेन गृहीत्वेयं गौममेत्येवं यत् परं प्रति विशिष्योपदर्शनं तत्र शृङ्गग्राहिकान्यायः प्रवर्तते । स्वपरेति-"नापेक्षयव" इत्यस्य स्थाने "चापेक्षयैव " इति पाठो युक्तः । स्वकीयंत्वनेत्यस्य विश्रामादित्यनेनान्वयः । अत एव अपेक्षाश्रयणस्यावश्यकत्वादेव । अनादरे अनाश्रयणे । तम्मलेति- परसमयस्थाकरणनियमादिवचनमूलेत्यर्थः । दुष्करकारिणां तन्मूलदृष्टिवादस्याशातना तत्र तत्र प्रतिपादितत्यन्वयः। “दीर्घसंसारिणा" इत्यस्य स्थाने " दीर्घसंसारिता" इति पाठो युक्तः । तत्र तत्रेत्यानेडनेन बहुषु ग्रन्थेषु तथा प्रतिपादनं नोपेक्षणीयमिति व्यजितम् । अत्र विशेषावगमेच्छुभिरस्मत्कृतधर्मपरीक्षाऽवलोकनीयेत्युपदेशाभिप्रायेणाह- इत्यधिक धर्मपरीक्षायामिति ॥ १२८ ॥