________________
१७०
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समलतो नयोपदेशः ।
भावनान्वयिन्येवाख्यातार्थसङ्ख्यान्वयात् , अथाख्यातार्थसल्यान्वये भावनाविशेष्यत्वं न तन्त्रम् , किन्तु प्रथमान्तपदोपस्थाप्यत्वमेवेति न दोष इति चेत् ? न-धात्वर्थप्रकारकबोधसामान्य एवाख्यातादिजन्यो. पस्थितेहेतुत्वात्, शक्त्येति प्रवेशे गौरवात् , ' प्रजयति' इत्यादावनन्वयप्रसङ्गाच्च, 'पाकोऽयम्' इत्यादौ घ 'स्तोकं पचति, स्तोकः ( पाकः)' इति प्रयोगयोर्विशेषाय घनादीनां धात्वर्थतावच्छेदकविशिष्टे शक्तिस्वीकारान्न दोष इति दिक् ।
तदेवं नैयायिकोक्तव्युत्पत्तौ तन्नीत्यैवातिप्रसङ्गस्य दर्शितत्वात् , ज्ञानोत्पत्तिकाले नाशोत्पत्तिकालेऽपि
पूर्वीलक्षणाकालाज्ञानस्य स्वरूपसम्बन्धेन ज्ञानाश्रयत्वप्रकारकचैत्रादिनामार्थविशेष्यकशाब्दबोधे 'जानाति चैत्रः' इत्यादिसमभिव्याहारलक्षणाकाङ्क्षाज्ञानस्य च हेतुताकल्पने गौरवादित्यर्थः । स्यादेतदित्यादिनोद्भावितामाशङ्का प्रतिक्षिपति-मैवमित्यादिना । तथा सति जानातीत्यादौ ज्ञाधातोनिवति लक्षणया लक्ष्यार्थस्य ज्ञानवतो नामार्थेऽन्वयमभ्युपेत्याख्यातार्थभावनायास्तत्रान्वयबोधानभ्युपगमे सति । आख्यातार्थसड्याऽनन्वयप्रसङ्गात् जानातीत्याख्यातैकवचनार्थकत्वसङ्ख्य या नामार्थचत्रादौ योऽन्वयबोधो भवति स न स्यात् । तत्र हेतुमाह-भावनेति-आख्यातार्थभावनाया यत्रान्वयस्तत्रैवा. ख्यातसङ्खयाया अन्वय इति नियमेन आख्यातार्थभावनायाः प्रकृतेऽन्वयानभ्युपगमे आख्यातार्थसङ्ख्याया अपि तत्रान्वयो न स्यादिर्थः । ननु विशेष्यतासम्बन्धेन यत्राख्यातार्थभावनाप्रकारकबोधस्तत्र तार्थविशेष्यतार्थसम्बन्धेनाख्यातसङ्ख्याप्रकारकबोध इत्येव नेष्यते येन भावनाविशेष्यत्वमाख्यातार्थ सङ्खयान्वये प्रयोजकं स्यात् , किन्तु प्रथमान्तपदोपस्थितार्थ एवाख्यातार्थसङ्खयान्वय इति आख्यातार्थसङ्खयान्वये प्रथमान्तपदोपस्थाप्यत्वमेव प्रयोजकमिति चैत्रादौ प्रथमान्तपदोपस्थाप्ये आख्यातार्थसङ्घयान्वय उपपद्यतेतरामिति शङ्कते- अथेति । तन्त्रम प्रयोजकम्, विशेष्यतासम्बन्धेन धात्वर्थप्रकारकबोधत्वावच्छिन्नं प्रत्येव विशेष्यतासम्बन्धेनाख्यातादिप्रत्ययजन्योपस्थितेः कारणत्वम् , न तु विशेष्यतासम्बन्धेन शक्त्या धात्वर्थप्रकारकबोधं प्रति विशेष्यतासम्बन्धेनाख्यातादिप्रत्ययजन्यो स्थितेः कारणत्वम्, कार्यतावच्छेदककोटौ शक्त्येति प्रवेशे गौरवात् ; 'प्रजयति' इत्यादौ प्रपूर्वकजिधातोर्लक्षणयैवोपस्थितस्याख्यातार्थेन सममन्वयस्वीकारेण तादृशान्वयबोधस्य शक्त्या धात्वर्थप्रकारकान्वयबोधत्वलक्षणकार्यतावच्छेदकानाक्रान्तत्वेन 'प्रजयति' इति समभिव्याहारादनुत्पादप्रसङ्गात् , एवं च 'जानाति' इत्यादौ न धातोर्ज्ञानाश्रये लक्षणा किन्तु आख्यातस्यैवाश्रयत्वे लक्षणा आख्यातलक्ष्यार्थ एवाश्रयत्वे धात्वर्थस्य ज्ञानस्य निरूपितत्वसम्बन्धेनान्वयः, इत्थं च 'नष्टो घटः' इत्यादौ नश्धातो शप्रतियोगिनि लक्षणायामपि लक्ष्यार्थस्य नाशप्रतियोगिनोऽभेदसम्बन्धेन न नामार्थे घटेऽन्वयः सम्भवति, तादृशबोधस्यापि निरुक्तकार्यतावच्छेदकाकान्तत्वेन विशेष्यतासम्बन्धेन तं प्रति कारणस्य विशेष्यतासम्बन्धन प्रत्ययजन्योरस्थिते मार्थे घटेऽभावादित्यर्थः । ननु 'पाकोऽयम्' इत्यादौ पच्धातोरेव पाके शक्तिर्न तु घन इति पचधातूपस्थाप्यस्य पाकस्याभेदेन नामार्थे इदमर्थेऽन्वय इति तद्बोधस्य पच्धात्वर्थपाकप्रकारकस्य विशेष्यतासम्बन्धेन नामार्थे उत्पत्तस्तत्र प्रत्ययजन्योपस्थितेर्विशेष्यतासम्बन्धेनाभावाद् व्यभिचार इति नोककार्यकारणभावसम्भव इत्यत आह-'पाकोऽयम' इत्यादी चेति-स्तोकं पचति' इत्यत्र 'क्रियाविशेषणानां कर्मत्वम्' इत्यनुशासनात् पच्धात्वर्थपाकेऽभेदेन विशेषणस्य स्तोकार्थस्य वाचकात् स्तोकपदाद् द्वितीया, 'स्तोकः पाकः' इत्यत्र स्तोकपदार्थस्य न पधात्वर्थेऽभेदेन विशेषणत्वं तथा सत्युक्तानुशासनबलादत्रापि द्वितीयाप्रसको 'स्तोकं पाकः' इति स्यान्न तु ' स्तोकः पाकः' इति, भवति च 'स्तोकं पाकः' इतिवत् 'स्तोकः पाकः' इत्यपि, तदनुरोधेन पचधातूत्तरघोऽपि धात्वर्थतावच्छेदकपाकत्वविशिष्टे शक्तिरूपेयते, तथा च घनन्तपाकपदार्थे नामार्थे एवाभेदेन स्तोकरूपनामार्थस्यान्वय इति तत्र विशेष्य-विशेषणवाचकपदयोः समानविभक्तिवचनत्वनियमबलात् 'स्तोकः पाकः' इति प्रयोग इति, एवं च 'पाकोऽयम्' इत्यत्र घबन्तपाकनामार्थस्यैवाभेदेनेदमो नाम्नोऽर्थेऽन्वयो न तु पधात्वर्थस्येति व्यभिचाराभावादुक्ककार्यकारणभावः सम्यगेवेति भावः ।
क्रियाकाल निष्ठाकालयोरक्यमाश्रित्य 'क्रियमाणं कृतम्' इति यजुसूत्रनयाभिप्रेतं तदुपसंहरति-तदेवमिति । नया. यिकोक्तव्युत्पत्ताविति-धातूत्तरप्रत्ययजन्यकालप्रकारक.बोधे सामानविशेष्यत्वप्रत्यासत्त्या धातुजन्योपस्थितेहेतुत्वमित्यादि