________________
२६८
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः।
अस्मिंश्च पक्षे " व्यक्क्या-ऽऽकृति-जातयः पदार्थः " [न्यायदर्शन० अ-१, सू.] इति गौतमीयसूत्रं यथा त्रिषु पदार्थपर्याप्त्यभिप्रायेण व्याख्यायते तथा " नाम-स्थापना-द्रव्य भावतस्तन्यासः " [ तत्त्वार्थ० अ० १, सू० ५] इत्यस्मदीयं तत्त्वार्थसूत्रमपि चतुर्पु पर्याप्त्यभिप्रायेण व्याख्येयम् , अधिकविषयपक्षपाती च व्यवहारः, नह्याकृतिरिव नामापि स्वरसतः पदान्न प्रतीयते, नवाऽऽकृतिवत्ताया इव नामवत्ताया अपि संशयः शाब्दबोधानन्तरमवतिष्ठत इत्यादिरन्यत्र विस्तरः ॥ ८७ ॥
तदेवं भिन्नद्रव्ये एकद्रव्ये वा चत्वारोऽपि निक्षेपा द्रव्यार्थिक सिद्धाः, एतेषां च सर्वव्यापकत्वं श्रूयते, तद्व्यभिचारशङ्कामुन्नीय प्रायिकव्याप्त्यभिप्रायेण व्यवस्थापयति
अप्रज्ञाप्याभिधा द्रव्यजीव-द्रव्याद्ययोगतः।
न चाव्यापित्वमेतेषां, तत्तद्भेदनिवेशतः ॥ ८८ ॥ इति संस्कृतम् । अस्मिंश्च अनन्तरोपदिष्टे च । त्रिषु- व्यक्त्याकृतिजातिषु। पदार्थपर्याप्त्यभिप्रायेण पदार्थत्वं व्यक्त्याकृतिजातिषु पर्याप्तमित्यभिप्रायेण । अस्मदीयं स्याद्वादराद्धान्तकान्तोपासकास्मदाचार्यश्रीमदुमास्वातिभगवद्गुम्फितम् । चतुषु नाम-स्थापना-द्रव्य-भावेषु । पर्याप्त्यभिप्रायेण नाम-स्थापना-द्रव्य-भावेषु पदार्थत्वं पर्याप्तमित्यभिप्रायेण । ननु स्थापना आकृतिः, द्रव्यमनुगतत्वाजातिः, भावो व्यक्तिः, एतत्रितयस्य पदार्थत्वाभ्युपगमो जैन-नैयायिकयोः समानः, नाम्नस्तु पदार्थत्वं न नैयायिकनाभ्युपगतं जैनेन तु तस्याप्यधिकस्य पदार्थत्वमभ्युपगम्यते, तत्र ।
" शक्तिमहं व्याकरणोपमान-कोशाऽऽप्तवाक्याद् व्यवहारतश्च ।
वाक्यस्य शेषाद् विवृतेर्वदन्ति, सान्निध्यतः सिद्धपदस्य वृद्धाः॥१॥" [ इति वचनप्रसिद्धशक्तिग्राहकव्याकरणादिषु मध्ये कस्य बलान्नाम्नि शक्तिप्रहः, येनाधिकस्य तस्य पदार्थत्वं परीक्षकै. रनुमोदनीयं स्यादित्यत आह-अधिकविषयपक्षगती च व्यवहार इति-लौकिकव्यवहारे यत्पदाद् यमर्थमवगत्य व्यवहरति पुरुषस्तत्पदस्य तत्र शक्तिरवगम्यते, यथा घटमानयेत्यत्र घटपदाद् घटरूपार्थमवगत्य तदानयनादिव्यवहारमाचरति, एवं घटमुच्चारयेत्यत्र घटपदाद् घकारोत्तराकारोत्तरटकारोत्तरात्वरूपानुपूर्व्यवच्छिन्नं घटेति नामावगत्य तदुच्चारणव्यवहारमाचरतीत्येवं नैयायिकानुमतपदार्थत्रयादधिको नामात्मको यो विषयः, तस्य पदार्थत्वाभ्युपगमके जनपक्षे पतितुंतद्दाय विधातुं शीलं यस्य सोऽधिकविषयपक्षपाती, च पुनः, व्यवहारः, तथा च शक्तिप्राहकतया प्रसिद्धस्य व्यवहारस्य नाम्न्यपि पदस्य शक्तिप्राहकत्वमित्यर्थः । यथा चाकृतिः स्वरसतः पदात् प्रतीयते तथा नामापि स्वरसत एव पदात् प्रतीयत इत्यतो यथाऽऽकृतौ पदार्थत्वं तथा नाम्न्यपि पदार्थत्वं स्वीकरणीयमित्याह-नहीति-'द्वौ नौ प्रकृतमर्थ गमयतः' इति वचनाद् 'नहि न प्रतीयते' इति निषेधद्वयात् प्रतीयत एवेत्यवगतिः। नवेति-शाब्दबोधानन्तरमाकृतिवत्तायाः संशय इव नामवत्तायाः संशयोऽपि नवाऽवतिष्ठत इत्यन्वयः, घटपदाच्छाब्दबोधे सति घट आकृतिमान् न वेति संशयो यन्न भवति तत्रेदमेव कारणं-यदुत घटपदादाकृतिमत्तयैव घटस्य निर्णयात्मकः शाब्दबोधः, निर्णयश्च संशयविरोधी, अर्थादाकृतिमत्त्वप्रकारकघटविशेष्यकनिर्णय आकृतिमत्त्वप्रकारकघटविशेष्यकसंशयस्य प्रतिबन्धक इति तदभावरूपकारणस्याभावात् तथासंशयो न भवतीति, एवं घटपदाच्छाब्दबोधे जाते घटो नामवान् नवेति संशयोऽपि न भवति, तत्राप्येतदेव कारणं वाच्यं-यद्धटपदात् घटनामवान् घट इति घटनामवत्त्वप्रकारकघटविशेष्यकनिर्णयात्मकः शाब्दबोधो घटविशेष्यकघटनामवत्त्वप्रकारकसंशयप्रतिबन्धक इति तदभावरूपकारणाभावाद् घटो घटनामवान् नवेति संशयो न भवतीत्यतो घट पदजन्यशाब्दबोधविषयत्वान्नाम्नोऽपि पदार्थत्वमित्यर्थः ॥ ८७ ॥
अष्टाशीतितमपद्यैकोननवतितमपद्ये अवतारयति-तदेवमिति । एतेषां नाम-स्थापना-द्रव्य भावनिक्षेपाणाम् , सर्व व्यापकत्वं सर्वस्मिन् वस्तुनि नामादयश्चत्वारो निक्षेपाः प्रवर्तन्त इति यत्र यत्र वस्तुत्वं तत्र नामादिनिक्षेपचतुष्टयतत्त्वमित्येवं सर्वव्यापकत्वम् , श्रयते यत्रापि यं जानीयाद्, यत्रापि यं न जानीयात् तत्रापि निक्षिपेदित्याद्यागमवचनेन प्रतिपाद्यते।