________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
बस्स व संपत्ती जायइ चरमम्मि चेव परिअट्टे । अञ्च्चन्त सुन्दरा जं एसा वि तओ ण सेसेसु ॥ २ ॥ ५-८ णय अम्मि अणन्तो जुज्जइ णेयस्स णाम कालु त्ति । ओसप्पिणी अणन्ता हुन्ति जओ एगपरिअट्टे ॥३॥ [ बीजादिविशिकायाम्-८, ६, ७ ]
२६६
तस्माद् योग्यता प्रतिकार्यं यथासम्प्रदायं द्रव्यव्यवहारहेतुर्विशिष्याश्रयणीया, न तु द्रव्यमेव, ( एवमत्रापि ) द्रव्यकार्यादिव्यपदेशहेतुरायुः सम्बन्धघटितैव तत्तत्पदसमभिव्याहारेण द्रव्यपदस्य नानाताद्योतनात्, अन्यथा द्रव्यस्तवादावगतेः तदिदमुक्तं - " इयरो पुण जोगात्ते चित्ते णयभेयओ अ” [ ] इतरो द्वितीय द्रव्यपदार्थः, नयभेदश्च प्रस्थका दिन्याय सिद्धः ' इत्यादिविपश्चितमस्माभिर्धर्मपरीक्षायामिति विस्तरार्थिनैतत्तत्त्वं तत एवावगन्तव्यम् ।
रक्तादिको रक्तादिपर्यायपरिणामः, भावो - भावघटः, तल्लक्षणं चेदम्
" भावो विवक्षित क्रियानुभूतियुक्तो हि वै समाख्यातः । सर्वज्ञैरिन्द्रादिवदिहेन्दनादिक्रियानुभवात् " ॥ १ ॥ [
]
भवनं भावः, स हि वक्तुरिष्टक्रियानुभवलक्षणः सर्वज्ञैः समाख्यातः, इन्दनादिक्रियानुभव नयु केन्द्रादिवदिति, अनागमतो भावघटो घटपरिज्ञानोपयुक्तः, नोआगमतो भावघटश्च रक्ततादिपरिणामसमूह इति विवेक: । अथ घटोपयोगमात्रात् कथं भावघट इति चेत् ? न-घट-ज्ञानयोरतिरिक्तसम्बन्धाभव्यत्वक्षिप्ता एकान्तस्वभावबाधया ॥ १ ॥ बीजस्यापि सम्पत्तिर्जायते चरम एव परावर्ते । अत्यन्तसुन्दरा यदेषाऽपि ततो न शेषेषु ॥ २ ॥ न चैतस्मिन्ननन्तो युज्यते ज्ञेयस्य नाम काल इति । उत्सर्पिण्योऽनन्ता भवन्ति यत एकपरिवर्ते ॥ ३ ॥” इति संस्कृतम् । उपसंहरति- तस्मादिति- योग्यता विशिष्याऽऽश्रयणीयेति सम्बन्धः, एकस्य कारणस्यैकस्मिन् कार्ये द्रव्यव्यवहारहेतुर्या योग्यता सेव नान्यस्य कारणस्य नान्यस्मिन् कार्ये तथा, नवा तस्यैवान्यकार्ये तथा; किन्तु प्रतिकार्य विभिन्नैव सा तथा साऽपि यथा सम्प्रदायं सम्प्रदायमनतिक्रम्यैवाश्रयणीयेत्यर्थः । न तु द्रव्यमेवेतिद्रव्यमेवाविशेषितस्वरूपं द्रव्यव्यवहारहेतुर्नाश्रयणीयमित्यर्थः । आयुः सम्बन्धघटितैवेत्यनन्तरं योग्यताऽऽश्रयणीयेत्यनुकर्षः । एवं सति नानार्थता द्रव्यपदस्येष्ठैव, किन्तु तद्द्योतनं तत्तत्पदसमभिव्यावहारेण भवतीत्याह तत्तत्पदेति । अन्यथा द्रव्यव्यवहारहेतुतया प्रतिकार्यं विशिष्य योग्यताया अनाश्रयणे । तत्र संवादं दर्शयति - तदिदमुक्तमिति । इयरो० इति - " इतर : पुनर्योगात्ते चित्ते नयभेदतो ज्ञातव्यः " इति संस्कृतम् । तदिदमुक्तमर्थं दृढीकर्तुमस्मन्निर्मित धर्मपरीक्षाग्रन्थोऽवलोकनीयो विस्तरार्थिनेत्युपदिशति - इत्यादि विपश्चितमिति ॥
1
भावो रक्ततादिक इति भावनिक्षेप प्रतिपादकं वचनं विवृणोति- रक्तादिक इति- अस्य स्थाने मूलपद्यपाठानुसारात् 'रक्ततादिक' इति पाठो युक्तः, अस्यार्थकथनम् - रक्तादिपर्याय परिणाम इति । भाव इत्यस्य विवरणं- भावघट इति । तल्लक्षणं च भावनिक्षेपलक्षणं तु । इदम् अनन्तरमेवाभिधीयमानम् । " भावो विवक्षित० " इति पद्यार्थं संक्षेपेण दर्शयति- भवनमिति । स भावः । हि यतः । अत्रेत्यस्य ' इति विवेक:' इत्यनेन सम्बन्धः । अत्र भावनिक्षेपविचारे घटपरिज्ञानोपयुक्तः पुरुषश्चेतनः घटश्वाचेतन इति कथं चेतनस्याचेतनभावरूपत्वमित्याशङ्कते - अथेति । समाधत्ते-नेति । घट- ज्ञानयोर्विषयविषयिभावलक्षणसम्बन्धो यद्यतिरिक्त उपेयते तदा तस्यापि प्रतियोग्यनुयोगिभ्यां घट-ज्ञानाभ्यामसम्बद्धस्य सम्बन्धत्वं न सम्भवतीति तस्याप्यतिरिक्तः सम्बन्धोऽभ्युपेयः, एवं तस्याप्यतिरिक्त इत्यनवस्थानान्न तयोरतिरिक्तः सम्बन्धः, एवं सति घटज्ञानं पटज्ञानमिति व्यवहारो निर्निमितो मा प्रसासीदित्येकाकारतैव विषय-विषयिणोस्तन्नियामिका इति वाच्यम्, तथा चाचेतनस्य घटस्य घटोपयोगस्य च चेतनस्य घटाकारत्वलक्षणभाव घटत्वमविशिष्टमिति घटाकारत्वलक्षणभाव घटत्वाश्रयणेन घटपरिज्ञानोपयुक्ते भावघटत्वाभिधाने बाधकाभावादित्याह - घट-वानयोरिति । तज्ज्ञाने घटज्ञाने ।