SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । एते चात्मादिनास्तित्वप्रतिपत्तिलक्षणाऽमुनोपायेन चतुरशीतिर्द्रष्टव्याः, तथाहि - एतेषां पुण्या-sपुण्यविवर्जितपदार्थ सप्तकं न्यसनीयम्, पुण्या-sपुण्यनिरासस्य नास्तिकनाम्नैव सुप्रसिद्धत्वेन पुनरविवक्षितत्वात्, तत्र च जीवस्याधः स्व-पर विकल्पभेदद्वयोपन्यासः, असत्त्वादात्मनो नित्याऽनित्यभेदौ नाङ्गीक्रियेते, नित्याऽनित्ये परञ्जकत्वेन तदुपन्यासविशेषणे, ते चोपरञ्जनीयाभावात् कमुपरञ्जयेताम्, निषेध - प्रतियोगिता समानाधिकरण- व्यधिकरणधर्मविधयाऽवच्छेदकत्वेन तदुपन्यासश्च स्वतस्त्व - परतस्त्व भेदद्वयं नातिक्रामतीति पृथक् तदुपन्यासो निर्बीज इति युक्तमीक्षामहे । कालादीनां च पञ्चानां षष्ठी यदृच्छोपन्यसनीया, यदृच्छा नामाऽकस्माद्भावः तथा च आकस्मिकोत्पादेनापि सम्भाव्यमानस्य जीवादेः ३८७ समुच्चिनोति, उच्यते क्षणिकवादिभिः कथ्यते । एते च अक्रियावादिनोऽनन्तरमभिहितस्वरूपाः पुनः । “ लक्षणाऽमुनो" इत्यस्य स्थाने “ लक्षणा अमुनो " इति पाठो युक्तः । अमुनोपायेन तथाहीत्यादिनाऽनन्तरमेव वक्ष्यमाणोपायेन । एतेषाम् अक्रियावादिनाम् । पुण्या-ऽपुण्यविवर्जितेति जीवा ऽजीवा ऽऽश्रव-बन्ध-संवर- निर्जरा- पुण्यापुण्य- मोक्षेषु नवसु पदार्थेषु पुण्याऽपुण्ये विहाय जीवाऽजीवादिपदार्थसप्तकं न्यसनीयं - स्थापनीयम् । स्थापनायां पुण्यापुण्यविवर्जनं कथमित्यपेक्षायामाह - पुण्यापुण्यनिरासस्येति - जीवाऽजीवादिपदार्थानां नास्तित्वप्रतिपत्त्यर्थमेव न्यासः क्रियते, अक्रियावादिनां यन्नास्तिक इति नाम तेनैव पुण्याsपुण्यनिरासस्य पुण्यापुण्यापाकरणस्य सुप्रसिद्धत्वेनेति- नास्तिकास्त एवोच्यन्ते ये पुण्यापुण्ये न स्वीकुवन्तीत्येवं लोके सुप्रतीतत्वेनेत्यर्थः । अविवक्षितत्वादिति - यो हि परस्याज्ञातः, संदिग्धो विपर्ययविषयो वा भवति तदवबोधनायैव वक्तुर्विवक्षा भवति, यश्च निश्चितस्तत्राज्ञान- संशय-विपर्ययनिराकरणलक्षणप्रयोजनाभावाद् विवक्षा न भवत्येवमविवक्षितत्वादिति पुण्यापुण्ययोर्न न्यसनमित्यर्थः । तत्र च जीवाऽजीवादिसप्तपदार्थन्यासे च । जीव जीवपदार्थम्यासस्य । अधः अधस्तात् । स्वपरविकल्पभेदद्वयोपन्यास इति - स चेत्थं निभालनीयः - जीवः स्वतः । परतश्च कालत ईश्वरत आत्मतो नियतितः स्वभावतो यदृच्छातश्च, एवमजीवादिपदार्थन्यासस्याधस्तादपि न्यासो बोध्यः, ' सर्वत्र नास्तीति न्यासो निषेधप्रतिपादकः कर्तव्यः, कालादीनां चेत्याद्यग्रिमप्रन्थं प्रतिसन्धाय मूलानुपदर्शितोऽत्र स्व- परयोरधस्तात् कालादिन्यास उल्लिखितः । तत्र नित्योऽनित्यश्चेत्येवं न्यासः कथं नेत्याकाङ्क्षानिवृत्तये त्वाह- असत्त्वादात्मन इति - अक्रियावादिनां मते आत्मनोऽसत्त्वादभावादित्यर्थः । आत्मनोऽभावेऽपि यथा कालादीनां न्यासस्तथा कथं न तयोर्न्यास इत्यपेक्षायामाह - नित्याऽनित्ये इति । तदुपन्यासेति- जीवोपन्यासेत्यर्थः । ते च नित्याऽनित्ये पुनः । उपरञ्जनीयाभावात्- उपरञ्जनीयस्यात्मनोऽभावात् । कमिति काक्वा न कमपीत्यर्थः । ननु नित्यत्वेनात्मा नास्ति, अनित्यत्वेनास्तीत्येवमात्मनिष्ठप्रतियोगितायां निषेधनिरूपितायामवच्छेदकविधया नित्यत्वाऽनित्यत्वयोरन्वयसम्भवात् तत्प्रयोजनक एव तयोरुपन्यासोऽस्त्वित्यत आह- निषेधेति - यथा घटत्वेन घटो नास्तीत्यत्र निषेधस्य घटात्यन्ताभावस्य प्रतियोगिता घटे वर्तते घटत्वमपि तत्र वर्तत इति भवति, समानाधिकरणो धर्मो घटत्वमिति समानाधिकरणधर्मविधया घटत्वस्य घटनिष्ठप्रतियोगिताया अवच्छेदकत्वम्, पटत्वेन घटो नास्तीत्यत्र निषेधस्य घटात्यन्ताभावस्य प्रतियोगिता घटे वर्तते न च तत्र पटत्वं वर्तत इति भवति पटत्वं व्यधिकरणधर्म इति व्यधिकरणधर्मविधया पटत्वस्य घटनिष्ठप्रतियोगिताया अवच्छेदकत्वं तथा प्रकृते-आत्मनोऽसत्त्वान्निषेध्ये तस्मिन् नित्यत्वाऽनित्यत्वयोरभावान्न तयोः समानाधिकरणधर्मत्वमिति यद्यपि समानाधिकरणधर्मविधया न तयोर्निषेधप्रतियोगिताया अवच्छेदकत्वं तथापि व्यधिकरणधर्मविधयाऽवच्छेदकत्वं सम्भवतीति तेन नित्यत्वाऽनित्यत्वोपन्यासश्च स्वतस्त्व - परतस्त्वान्यतरस्मिन्नेव तयोरन्तर्भावात् स्वतस्त्व-परतस्त्वोपन्यासान्तर्गत एव तयोरुपन्यास इति पृथक्कया तयोरुपन्यासो निर्बीज इत्येतस्मात् कारणान्न तयोरुपन्यास इति युक्तं पश्याम इत्यर्थः । " निषेधप्रतियोगिता " इत्यस्य स्थाने “ निषेधप्रतियोगितायाः " इति पाठो युक्तः, तस्य चावच्छेदकत्वेनेत्यनेनान्वयः । कालादयः पञ्च यदृच्छा च स्वतः परतश्चेत्यस्याधस्तादुपन्यसनीया इत्याह- कालादीनां चेति षष्ठया यदृच्छाया अधिकाया उपन्यसनीयत्वप्राप्तौ कालादीनां पञ्चानामुपन्यसनीयत्वं प्राप्तमेवेति यदृच्छा किंस्वरूपेत्यपेक्षायामाह - यद्दच्छेति । नामेति कोमलामन्त्रणे । तथा च अकस्माद्भावलक्षणाया यदृच्छाया उपन्यासे च ।
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy