________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
स्यात्, प्रतिष्ठितप्रतिमावन्दन-पूजन-नत्यादिना फलविशेषहेतुत्वस्येत्थमेव वक्तुं शक्यत्वात् न च यजमानगतादृष्टं तदाहितं तथा, चाण्डालादिस्पर्शेन व्यधिकरणेन तन्नाशायोगात्, यजमानस्य तददृष्टक्षये पूज्यत्वानापत्तेः । एतेन सम्बन्धविशेषेण यजमानगतादृष्टस्य प्रतिमागतत्वसमर्थनमपि प्रत्याख्यातम् । यत्तु 'प्रतिष्ठाविधेर्देवतासविधानस्य स्वाभेद - स्वीयत्वादिज्ञान तदाहित संस्काररूपस्योत्पादात् फलोत्पत्तिः, चाण्डालादिस्पर्शे च तदभावात् फलाभावः' इति कस्यचिन्मतम्, तत् तु मुक्तिप्रतिष्ठितदेवताया अभिमानाभावात् प्रतिष्ठया तदुपकारस्याशक्य क्रियात्वाच्चाचार्यैरेव दूषितम्, तदुक्तम्
२८७
66
[
मुक्त्यादौ तत्त्वेन प्रतिष्ठिताया न देवतायास्तु । स्थाप्ये न च मुख्येयं तदधिष्ठानाद्यभावेन ॥१॥ इज्यादेर्न च तस्या उपकारः कश्चिदत्र मुख्य इति । तदतत्वकल्पनैषा बालक्रीडा समा भवति " ॥२॥ ] इति । यदपि 'प्रतिष्ठितं पूजयेदिति विधिः प्रतिष्ठाकालीनयावदस्पृश्यस्पर्शी भावविशिष्ट प्रतिष्ठाध्वंसस्तद्विशिष्टप्रतिमापूजनं वा फलप्रदम्, क्तप्रत्ययादती तत्व लाभाद्' इति गङ्गेशोपाध्यायैरुक्तं तदपि तुच्छम्, प्रतिष्ठया जनितं तत् स्वफलं यजमाने जनयित्वा नश्यत्येवेति तन्नाशानन्तरमपि चिरं कालं प्रतिष्ठितप्रतिमा पूजनीयैव भवति लोकानाम्, ततः फलविशेषोत्पत्तिरपि भवति, यदि च यजमानगतादृष्टमेव प्रतिष्ठितप्रतिमापूजनादिकर्तॄणां फलविशेषजनकं तदा तददृष्टनाशे तददृष्टरूपफलविशेषजनकस्याभावात् तदानीं फलविशेषो न स्यादेवेति निष्फलं पूजादिकं न प्रेक्षावद्भिराचरणीयमिति पूज्यत्वमेव प्रतिमाया न भवेदित्याह - यजमानस्येति । तददृष्टक्षये प्रतिष्ठाजनितादृष्टस्य नाशे सति । पूज्यत्वानापत्तेः प्रतिष्ठितप्रतिमायाः पूजनीयत्वं न स्यादित्यर्थः । एतेनेत्यस्य प्रत्याख्यातमित्यनेनान्वयः, एतेन प्रतिष्ठाहितयजमानगता दृष्टनाशे प्रतिमायाः पूज्यत्वानापत्तिदोषेण । सम्बन्धविशेषेण स्वाश्रयकर्तृकप्रतिष्ठाकर्मत्वलक्षणपरम्परासम्बन्धेन । कस्यचिन्मतान्तरमुद्भाव्य दूषयति यत्विति - अस्य ' इति कस्यचिन्मतम् ' इत्यनेनान्वयः । प्रतिष्ठाविधेः इत्यस्य 'उत्पादाद्' इत्यनेनान्वयः । " देवतास विधानस्य "
इत्यस्य स्थाने " देवतासन्निधानस्य ” इति पाठो युक्तः । देवतायाः स्वर्गादिस्थानगताया अत्रागमनासम्भवात् तत्संयोगलक्षणं सन्निधानं न. सम्भवतीत्यत आह- स्वाभेदेति देवतायाः प्रतिमायां यत् स्वाभेदज्ञानं मदभिन्नेयमित्याकारकम्, स्वीयत्वादिज्ञानं मदीयेयं प्रतिमेत्याकारकं ज्ञानं स्वीयत्वज्ञानम्, आदिपदादेतस्याः प्रतिमायाः स्वाम्यहमित्यादिज्ञानस्योपग्रहः, स्वाभेदज्ञानस्वायत्वादिज्ञानरूपत्वे देवतासन्निधानस्य कालान्तरेऽभावात् तज्जन्यफलं कालान्तरे न स्यादत आह- तदाहितेतिस्वाभेदज्ञान स्वीयत्वादिज्ञानजन्येत्यर्थः, तदभावात् स्वाभेद- स्वीयत्वादिज्ञान तदाहितसंस्काररूपस्य देवतासन्निधानस्याभावात् । तत्तु तन्मतं पुनः अस्य दूषित मित्यनेनान्वयः । कस्माद्धेतोः कैर्दूषितमित्यपेक्षायामाह - मुक्तीति मुक्तौ प्रतिष्ठितायाःस्थितायाः, देवतायाः - सिद्धात्मस्वरूपायाः, ममेयं प्रतिमा, अस्याः प्रतिमाया अहं स्वामीत्याकारकाभिमानाभावात् कृतकृत्यस्य भगवतः सिद्धस्य प्रतिष्ठया कस्यचिदुपकारस्याशक्यक्रियात्वात् कर्तुमशक्यत्वाच आचार्यैरेव जैनाचार्यैरेव, दूषितं स्खण्डितमित्यर्थः । आचार्यो कमतखण्डन हेतुमुपदर्शयति- तदुक्तमिति मुक्त्यादौ प्रतिष्ठिताया देवतायास्तु तत्त्वेन प्रतिमास्वामित्वादिना, अभिमानो न, स्थाप्ये- मुक्तिप्रतिष्ठितदेवे, इयं प्रतिमा मुख्या न च मुक्तिप्रतिष्ठितदवेस्य प्रतिमाद्यधिष्ठानाद्यभावेनेत्यन्वयः, अर्थस्तु व्यक्त एव ॥ १ ॥ इज्यादे :- प्रतिष्ठादिकर्मणः, तस्याः - मुक्तिप्रतिष्ठितदेवतायाः, कश्चिदुपकारो न च मुख्यः, इति एतस्मात् कारणात् एषा देवता सान्निध्यादिरूपा तदतत्त्वकल्पना बालक्रीडासमा भवतीत्यन्वयः, अर्थस्तु सुगमः ॥ २ ॥ चिन्तामणिकृन्मतमुपदर्शनपूर्वकं प्रतिक्षिपति - यदपीति- अस्य गङ्गेशोपाध्यायैरुक्तमित्यनेनान्वयः । “ विधिः" अस्य स्थाने " विधेः " इति पाठः सम्यकू, प्रतिष्ठितं पूजयेदिति विधिवाक्यादित्यर्थः । प्रतिष्ठेतिप्रतिष्ठाकालीनो यो यावदस्पृश्यस्पर्शाभावस्तद्विशिष्टः प्रतिष्ठाध्वंसः फलप्रदः, वा अथवा, निरुक्तप्रतिष्ठाध्वंस विशिष्टप्रतिमापूजनं फलप्रदम् । क्तप्रत्ययात् प्रतिष्ठितमित्यत्र कप्रत्ययात्, अतीतत्वलाभात् प्रतिष्ठाया अतीतत्वलाभादित्यर्थः ।