Book Title: Sarasvat Vyakaranam
Author(s): Vasudev Sharma
Publisher: Pandurang Javaji
Catalog link: https://jainqq.org/explore/023379/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्रीः। अनुभूतिस्वरूपाचार्यप्रणीतं सारखतव्याकरणम। (वृत्तित्रयात्मकम पणशीकरोपाहविद्वद्वरलक्ष्मणशर्मतनुजनुषा वासुदेवशर्मणा संस्कृतम् । (चतुर्थावृत्तिः।) इदं च मुम्बय्यां पाण्डुरङ्ग जावजी श्रेष्ठिना खीये निर्णयसागराख्यमुद्रणयन्त्रालये मुद्रयित्वा प्रकाशितम् । शाकः १८४४, सन १९२२. Page #2 -------------------------------------------------------------------------- ________________ Fablished by Pandurang Javji, and Printed by Ramchandra Y®su Shedge, at the Nirpay-sagar Press, 23, Kolbhat Lane, Bembay. Page #3 -------------------------------------------------------------------------- ________________ विज्ञापनम् । स्वरूपान्तोऽनुभूत्यादिः शब्दोऽभूद्यत्र सार्थकः । स मस्करी शुभां चक्रे प्रक्रियां चतुरोचिताम् ॥ संप्रति बहुत्र व्याकरणशास्त्रज्ञानायातीव सुगमप्रक्रियाकं बालोपकारकमिति सारस्वतव्याकरणं विद्वांसो बालानध्यापयन्ति । एतग्रन्थकारस्य प्रतिज्ञैवेत्थं ग्रन्थारम्भे वरीवरीति - " बालधीवृद्धिसिद्धये । सारखतीमृजुं कुर्वे प्रक्रियां नातिविस्तराम्" इति ॥ अपिच ग्रन्थारम्भ हेतुरित्थं श्रूयते - 'पुरा किल कस्मिंश्चित्समये विद्वपुरोगमा अनुभूतिस्वरूपाचार्याः पण्डितवृन्दालंकृतपरिषदि 'पुंभु' इत्यवदन् । तच्छ्रुत्वानवहितक्षण एव तच्छिद्रांन्वेषिभिः सदस्यैः पण्डितैरशुद्धोऽयं प्रयोगो भवद्भिः कृत इति मानभङ्गायोपहासः कृतः । पृष्टं च यदि भवदुक्तः पुंक्ष्विति प्रयोगः शुद्धश्चेत्तर्हि कथं तत्सिद्धिरिति ? । आचार्यैस्तदा सादरं श्वो दर्शयिष्य इत्युक्तम् । अनन्तरं दूयमानखान्तैस्तैः स्वभवनमागत्य समाराधिता श्रीमद्भगवती सरखती देवी । सा चैतस्य शुद्धभावनया सुप्रसन्नीभूयार्घरात्रेऽनुभूतिखरूपाचार्याभिमुखी बभूव जगाद चेप्सितं वरं वृणीष्वेति । तदा देवीदर्शनात्कृतार्थंमन्यैरेभिरपूर्वमिदं व्याकरणकरणमेव वृतम् । प्रसन्नया तया दत्तं स्वीयहारात्सूत्रसङ्घ व्याकरणनिर्माणसामर्थ्योर्जितं वरं च समाकलय्य तन्नाम्नैवेमं ग्रन्थमाचार्या अरीरचन् । सोऽयं प्रसादलब्ध ग्रन्थः शिष्यप्रशिष्यशाखापरंपरया विचकास | आक्षेपकाणां समाधानं चानेन यथावदभूदिति जनश्रुतिः' । Page #4 -------------------------------------------------------------------------- ________________ (8) वृत्तित्रयात्मकेऽस्मिन्व्याकरणेऽनुभूतिस्वरूपाचार्यैस्तत्रतत्र बालानां सुखबोधाय सूत्रवृत्तिस्तत्तदुदाहरणानि च यथावद्व्याख्यातानि सन्ति । तथा पाणिनीय व्याकरणवदाक्षेपसमाधानाद्यपि विशेषतोऽनवबोधभिया नोपकॢप्तम् । किंतु यथानायासेनाल्पमतीनामपि व्युत्पित्सु बालानां सुबन्त-तिङन्त-कृदन्त-समास - तद्धिताद्युदाहरणानां सुखबोधः स्यात्त थास्य रचना कृतास्ति । तदेतत्सर्वोपकारकमेतत्पुस्तकमेतावन्तं बहुभिरङ्कितमपि सुव्यवस्थयाऽस्माभिरस्य मूलतो यावदन्तं प्रतिसूत्रं सूत्रारम्भ एव क्रमाङ्को विन्यस्तः । सूत्रान्ते प्रकरणसूत्राकोऽपि पूर्वाङ्कितक्रमपरिपाट्यैव तत्रतत्र स्थापितोऽस्ति । सर्वेषां वृत्तित्रयस्थसूत्राणां प्रसङ्गसमकालं शीघ्रोपस्थितये च य आरम्भादाग्रन्थावधि स्थूलः क्रमाको निवेशितस्तदनुगुणमेवान्तेऽखिलसूत्राणामकरादिमातृकावर्णक्रमकोशः संयोजितः । तथा पूर्वमेकवारमागतान्यपि कानिचित्सूत्राणि ग्रन्थकृता प्रसङ्गवशात्कचन पुनरुपात्तान्यपि तत्तत्स्थलोपस्थित्यै तानि तानि भिन्नक्रमाङ्क योजनेन निर्दिष्टक्रमाङ्क एव गुम्फितानि सन्ति ग्रन्थारम्भे च सर्वेषां सौलभ्याय प्रत्याहार-वर्ण- प्रयत्नादिग्रन्थबहिर्भूता अपि विषयाः पृथक्कोष्ठकैर्निर्दिष्टाः सन्ति । सर्वं मूलं च जयपुरतः पण्डितवर - शिवदत्तशास्त्रिभिः प्रहितप्राचीन हस्तलिखित पुस्तक मेलनेन यथामति शोधितमासीत् । कृतेप्येतादृशि प्रयत्ने 'गच्छतः स्खलन—' मिति न्यायेन मनुजाल्पधिषणानिसर्गसुलभं स्खलितं क्षमध्वमिति सदयार्द्रहृदो ग्रन्थशोधनायासविदः कोविदानसकृदभ्यर्थना || 1 Page #5 -------------------------------------------------------------------------- ________________ विषयानुक्रमणिका। : : : : : : प्रथमा वृत्तिः १ प्र० प्रक्रियानाम १ संज्ञाप्रकरणम् ... २ स्वरसन्धिः ३ प्रकृतिभावसन्धिः ४ व्यञ्जनसन्धिः ... ५ विसर्गसन्धिः .... ६ स्वरान्ताः पुंलिङ्गाः ... ७ स्वरान्ताः स्त्रीलिङ्गाः ।। ८ स्वरान्ता नपुंसकलिङ्गाः ... ९ हसान्ताः पुंलिङ्गाः ... - १० हसान्ताः स्त्रीलिङ्गाः ... ११ हसान्ता नपुंसकलिङ्गाः ... ' १२ युष्मदस्मत्स्वरूपप्रक्रिया १३ युष्मदस्मदोरादेशविशेषाः ... १४ स्त्रीप्रत्ययप्रकरणम् १५ कारकप्रकरणम् .१६ समासप्रकरणम् ... २७ तद्वितप्रकरणम् ... : : : : : : : : Page #6 -------------------------------------------------------------------------- ________________ गणः पृष्ठम्. on an or is ११९ १४७ १५३ १५७ १६६ १६८ १७० (६) द्वितीया वृत्तिः २ प्र० प्रक्रियानाम १ भ्वादिषु परस्मैपदिनः.... २ भ्वादिष्वात्मनेपदिनः .... ३ भ्वादिषूभयपदिनः ... ४ अदादिषु परस्मैपदिनः ५ अदादिष्वात्मनेपदिनः... ६ अदादिषूभयपदिनः ... ७ जुहोत्यादिषु परस्मैपदिनः ८ जुहोत्यादिष्वात्मनेपदिनः ९ जुहोत्यादिषूभयपदिनः ... ... १० दिवादिषु परस्मैपदिनः ११ दिवादिष्वात्मनेपदिनः १२ दिवादिषूभयपदिनः .... १३ खादिषूभयपदिनः ... १४ स्वादिषु परस्मैपदिनः ... १५ स्वादिष्वात्मनेपदिनः ... १६ रुधादिषूभयपदिनः ... १७ रुधादिषु परस्मैपदिनः ... ... १८ रुधादिष्वात्मनेपदिनः १९ तनादिषूभयपदिनः .... २० तुदादिषूभयपदिनः .... २१ तुदादिषु परस्मैपदिनः ... ... nos mir me x १७२ १७३ १७४ ::::::::::::::::::::: so ao r s १७७ १७८ १७८ १८० १८१ १८१ १८२ t w w w १८३ a १८३ १८४ v १८६ Page #7 -------------------------------------------------------------------------- ________________ १८८ प्र० प्रक्रियानाम २२ तुदादिष्वात्मनेपदिनः... ... ... २३ फ्यादिषूभयपदिनः ... ... ... २४ फ्यादिषु परस्मैपदिनः... ... २५ त्र्यादिष्वात्मनेपदिनः ... २६ चुरादयः ... २७ ण्यन्तप्रक्रिया... .२८ सप्रक्रिया ... २९ यप्रक्रिया ... ३० यलुक्प्रक्रिया ... ३१ नामधातुप्रक्रिया ... ३२ आत्मनेपदव्यवस्था ... ३३ भावकर्मप्रक्रिया ३४ लकारार्थप्रक्रिया ... ... १९० १९० १९२ १९५ १९८ २०१ २०३ २०५ २०७ ... २११ Page #8 -------------------------------------------------------------------------- ________________ तृतीया वृत्तिः। प्र० प्रक्रियानाम । १ कर्थप्रक्रिया ... ... ... ... २१२ २ निष्ठाधिकारप्रक्रिया ३ कसादिप्रक्रिया ४ शीलार्थप्रक्रिया ... .५ उणादिप्रक्रिया : ... . २४५ ६ भावाधिकारप्रक्रिया ... २४९ ..७ कृत्यप्रक्रिया ... ... २५३ ८ त्यधिकारप्रक्रिया ... २५७ ९ क्त्वाप्रक्रिया ... ... - - Page #9 -------------------------------------------------------------------------- ________________ ॥ श्रीः॥ सारखतव्याकरणम् । प्रथमा रत्तिः। Dohor संज्ञाप्रकरणम् १ प्रणम्य परमात्मानं बॉलधीवृद्धिसिद्धये। सारखतीमृनुं कुर्वे प्रेक्रियां नातिविस्तराम् ॥१॥ इन्द्रादयोऽपि यस्यान्तं न ययुः शब्दवारिधेः । प्रेक्रियां तस्य कुत्लस्य क्षमो वक्तुं नरः कथम् ॥२॥ तत्र तावत्संज्ञा संव्यवहाराय संगृह्यते ॥ १ अइउऋल समानाः १॥ अनेन प्रत्याहारग्रहणाय वर्णाः परिगण्यन्ते । तेषां समानसंज्ञा च विधीयते । नैतेषु सूत्रेषु संधिरनुसंधेयोऽविवक्षितत्वात् । विवक्षितस्तु संधिर्भवतीति नियमात् लौकिकप्रयोगनिष्पत्तये समयमात्रत्वाच्च । २ इखदीर्घप्लतभेदाः सवर्णाः २॥ एतेषां ह्रखदीर्घप्लुतभेदाः परस्परं सवर्णा भण्यन्ते । लोकाच्छेषस्य सिद्धिरिति वक्ष्यति । ततो १ अहं अनुभूतिस्वरूपाचार्यः इति कर्ताध्याहार्यः । २ अवैयाकरणानां बालानां बुद्धिवर्धनाय । ३ सरखतीप्रणीतसूत्रसंबन्धिनीम् । ४ सरलाम् । ५ सारखतव्याकरणाख्याम् । ६ शब्दबाहुल्यरहिताम् । ७ अष्टौ व्याकरणप्रणेतारोऽपि । ८ शब्दसमुद्ररूपव्याकरणस्य । ९ शब्दव्युत्पत्तिम् । १० सर्वस्य । ११ समर्थः। १२ सम्यग्व्याकरणशास्त्रव्यवहाराय । १३ उक्तव. क्ष्यमाणसूत्राणां समुच्चयेन। १४ प्रत्याहारलक्षणं त्रयोदशे सूत्रे प्रतिपादितम् । १५ परिपाट्या प्रकाश्यन्ते । १६ व्यावहारिकप्रयोगसिद्ध्यर्थम् । Page #10 -------------------------------------------------------------------------- ________________ सारस्वतव्याकरणम् । [वृत्तिः १ लोकत एव इखादिसंज्ञा ज्ञातव्याः। एकमात्रो हूखः। द्विमात्रो दीर्घः । त्रिमात्रः प्लुतः । व्यञ्जनं चार्धमात्रकम् ॥ एकमात्रो भवेद्भस्खो द्विमात्रो दीर्घ उच्यते । त्रिमावस्तु प्लुतो ज्ञेयो व्यञ्जनं चार्धमात्रकम् ॥३॥ चाषस्तु वदते मात्रां द्विमानं त्वेव वायसः । शिखी रौति त्रिमात्रं तु नकुलस्त्वर्धमात्रकम् ॥४॥ एषामन्येऽप्युदात्तादिभेदाः सन्ति । उच्चैरुपलभ्यमान उदात्तः । नीचैरनुदात्तः । समवृत्त्या खरितः । सानुनासिको निरनुनासिकश्च ॥ ३ एऐओऔ संध्यक्षराणि ३ ॥ एषां ह्रखा न सन्ति ॥४ उभये स्वराः ४ ॥ अकारादयः पञ्च एकारादयश्चत्वारश्चोभये खरा उच्यन्ते । अइउऋलएऐओऔ ॥ ५ अवज्या नामिनः ५ ॥ अवर्णवाः खरा नामिन उच्यन्ते ॥ अनुक्रान्तास्तावत्खराः ।। पाणिनीयमतेन स्वराणामष्टादशभेदकोष्टकम् । अ इ उ ऋ ल अ इ उ ऋ ए ओ ऐ औ अइ उ ऋ ल ए ओ ऐ औ एकमात्रा हस्खभेदाः। द्विमात्रा दीर्घभेदाः। त्रिमात्राः प्लतभेदाः । १ उदात्तानुनासिकः । ७ उदात्तानुनासिकः १३ उदात्तानुनासिकः २ उदात्ताननुनासिकः | ८ उदात्ताननुनासिकः १४ उदात्ताननुनासिकः ३ अनुदात्तानुनासिकः | ९ अनुदात्तानुनासिकः १५ अनुदात्तानुनासिकः ४ अनुदात्ताननुनासिकः १० अनुदात्ताननुनासिकः १६ अनुदात्ताननुनासिकः ५ खरितानुनासिकः ११ खरितानुनासिकः १७ खरितानुनासिकः |६ स्वरिताननुनासिकः १२ खरिताननुनासिकः १८ खरिताननुनासिकः प्रत्याहारजिग्राहयिषया व्यञ्जनान्यनुक्रामति । तद्यथा ॥ ६ हय १ प्रतिकार्यमाह्रियन्ते इति प्रत्याहाराः । Page #11 -------------------------------------------------------------------------- ________________ सू० ६-३२] संज्ञाप्रकरणम् १ वरल ६॥ ७ अणनङम ७ ॥ ८ झढधषभ ८॥ ९ जडदगब ९॥१० छठथखफ १० ॥११ चटतकप ११ ॥ १२ शषस १२॥ १३ आद्यन्ताभ्याम् १३ ॥ प्रत्याहारं जिघृक्षताघन्ताभ्यामेते वर्णा ग्राह्याः । आदिमवर्णोऽन्त्येन गृह्यमाणस्तन्नामा प्रत्याहारः । तथाहि । अकारो बकारेण गृह्यमाणोऽबप्रत्याहारः । स च अइउऋलएऐओऔहयवरलञणनङमझढधघभजडदगब इति अबप्रत्याहारः। झढधघभ इति झभप्रत्याहारः । एवं यत्र यत्र येन येन प्रत्याहारेण कृत्यं भवति स स तत्र तत्र ग्राह्यः । [प्रत्याहाराणां संख्यानियमस्तु नास्ति ] ॥ १४ हसा व्यञ्जनानि १४ ॥ हकारादयः सकारान्ता वर्णा हसा व्यञ्जनानि भवन्ति । खरहीनं व्यञ्जनम् । खरेभ्योऽन्यत्खरहीनम् । अन्यथा खरेषु खरो नास्तीति तेषां खराणामपि व्यञ्जनता स्यात् । यद्वा भावप्रधानो निर्देशः । खरत्वहीनमित्यर्थः । तेष्वकारः सुखोचारणार्थत्वादित्संज्ञकः ॥ १५ कार्यायेत् १५ ॥ प्रत्ययातिरिक्तः कस्मैचित्कार्यायोचार्यमाणो वर्ण इत्संज्ञो भवति ।। १ प्रत्याहाराणां संख्यानियमो नास्त्रीत्युक्तं तथापि बालबोधाय चन्द्रकी.. द्युक्तसारखतीयप्रत्याहारसंग्रहोऽयं क्रियते । १ हस | २ झब | ३ जब ४ यप | ५ अब | ६ इल ७ वप ८ बम | ९ झभ १० खस ११ झस १२ छत | १३ यम १४ हब | १५ खप १६ डब | १७ ढभ १८ रस २४ भब १९ वस २० शस २१ झप २२ अव २३ ओ २ खरहीनं अकारादिखरै रहितं खरेभ्योऽन्यच्च । Page #12 -------------------------------------------------------------------------- ________________ सारस्वतव्याकरणम् । [वृत्तिः १ १६ यस्येत्संज्ञा तस लोपः १६ ॥ १७ वर्णादर्शनं लोपः १७ ॥ १८ वर्णविरोधी लोपश १८॥ एकं वर्णं नाशयति अन्यस्योत्पत्तिं प्रतिबध्नाति स वर्णविरोधः ॥ १९ मित्रवदागमः १९ ।। २० शत्रुवदादेशः २०॥ २१ वरानन्तरिता हसा संयोगः २१॥ २२ कुचुटुंतुपुवगोंः २२ ॥ उकारः पञ्चवर्णपरिग्रहणार्थः ॥ २३ अरेदो नामिनो गुणः २३ ॥ नॉमिनः स्थानका अर् ओ एते गुणसंज्ञका भवन्ति ॥ २४ औरैऔ वृद्धिः २४ ॥ आ आर ऐ औ एते वृद्धिसंज्ञा भवन्ति ॥२५अन्त्यस्वरादिष्टिः २५॥ अन्त्यो यः खरस्तदादिवर्णष्टिसंज्ञो भवति ॥ २६ अन्त्यात्पूर्व उपधा २६ ॥ अन्त्याद्वर्णमात्रात्पूर्वो यः स उपधासंज्ञो भवति ॥ २७ असंयोगादिपरो हृखो लघुः २७ ॥ २८ विसर्गानुस्वारसंयोगपरो दीर्घश्च गुरुः २८ ॥ २९ मुखनासिकाभ्यामुच्चार्यमाणो वर्णोऽनुनासिकः २९ ॥ ३० मुंखेनोचार्यमाणो निरनुनासिकः ३० ॥३१ अः इति विसर्जनीयः ३१ ॥ ३२ वर्णशिरोबिन्दुरबुखारः ३२ ॥ अं अः इति अचः परावनुखारविसर्गौ । [ कस्य पुनः किं स्थानमित्यपेक्षायां ] अकुहविसर्जनीयानां कण्ठः । इचुयशानां तालु । ऋटुरषाणां मूर्धा । लतुलसानां दन्ताः । उपूपध्मानीयानामोष्ठौ । ञमङणनानां नासिका च । एदेतोः कण्ठतालु । १ वर्णान्ते स्थानाद्रंशः । २ संधिकार्यवर्जनम् । ३ मध्ये खरै रहिता हसाः केवलव्यञ्जनानि । ४ क ख ग घ ङ इति प्रत्येकमेते स्वीयपञ्चकग्राहकाः । ५ अकारखरसहितवर्णानां मध्ये । ६ आदिशब्देन संयोगविसर्गानुखाराः। Page #13 -------------------------------------------------------------------------- ________________ सू० ३३] संज्ञाप्रकरणम् १ ओदौतोः कण्ठोष्ठम् । वकारस्य दन्तोष्ठम् । जिह्वामूलीयस्य जिह्वामूलम् । नासिकाऽनुखारस्य । ४क xख इति कखाभ्यां प्रागविसर्गसदृशो जिह्वामूलीयः । ४ प ४ फ इति पफाभ्यां प्रागविसर्गसदृश उपध्मानीयः । शषसहा ऊष्माणः । कादयो मावसानाः स्पर्शाः । यरलवा अन्तस्थाः॥ बालबोधार्थ वर्णोद्भवस्थानकोष्टकम् । न 외 외 외써 Ans or an orn 외 색 - 여시 의 A 84844 외여의 . संध्यक्षराणि __संध्यक्षराणि मूर्धा दंताः ओष्ठौ नासिका कं. ता.कं. ओ.दं. ओ. जि.मू. नासिका हकारं पञ्चमैर्युक्तमन्तःस्थाभिश्च संयुतम् । औरस्यं तं विजानीयात्कण्ठ्यमाहुरसंयुतम् ॥५॥ अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च ॥६॥ गजकुम्भाकृतिर्वर्ण ऋवर्णः स प्रकीर्तितः। एवं वर्णा द्विपञ्चाशन्मातृकायामुदाहृताः ॥ ७॥ १ पञ्चमैः अन्तःस्थामिरित्यत्र वैदिकप्रयोगात् पञ्चभिः अन्तःस्थैश्चेति ज्ञेयम् । Page #14 -------------------------------------------------------------------------- ________________ आभ्यन्तर - प्रयत्नाः संज्ञाः बाह्यप्रयत्नाः व्यजनानि खराव क ख प फ च छ ट ठ त थ सारस्वतव्याकरणम् । आभ्यन्तरबाह्यप्रयत्तज्ञानार्थकं कोष्टकम् | स्पृष्टाः स्पर्शाः ग ङ बञ ज म ड ण द न ध घ भ झ द अ.प्रा.म. प्रा. अल्प. प्रा म.प्र. विवार संवार संवार अन्तःस्थाः ईषत्स्पृष्टाः य ल अल्प. संवार श्वास नाद नाद नाद अघोष घोष घोष घोष श ऊष्माणः ईषद्विवृंताः सह म. ЯT. विवार सं. श्वास ना. घोष घो. [ वृत्ति: १ विवृताः संवृतः स्वरा उदात्तानुदात्तस्वरिताः अ इ ए उ ओ ऋ औ अल्पप्राण संवार हखप्रयोगे 4 अल्प. संवार नाद नाद घोष घोष वर्णग्रहणे सवर्णग्रहणम् । कारग्रहणे केवलग्रहणम् । तपरकारणं तावन्मात्रार्थम् ॥ ॥ इति संज्ञाप्रकरणम् ॥ १ ॥ खरसंधिः २ अथाधुना खरसंधिरभिधीयते ॥ दधि आनय इति स्थिते । ( वर्णग्रहणे सवर्णग्रहणं कारग्रहणे केवलग्रहणं तपरग्रहणे तावन्मात्र - ग्रहणमिति शिष्टसंकेतः । 'तेस्मिन्निति निर्दिष्टे पूर्वस्य' । सप्तमी निर्देशेन विधीयमानं कार्यं वर्णान्तरेणाव्यवहितस्य पूर्वस्य बोध्यम् । अतो वृत्तौ परे इति व्याचष्टे । एवमन्यत्रापि ज्ञेयम् ) ॥ ३३ इ यं स्वरे १ ॥ इवर्णो यत्वमापद्यते खरे परे । दध् य् आनय इति तावद्भवति १ धनुराकारान्तस्थो विषयः परिभाषायामपेक्षितोऽप्यत्र प्राकरणिकत्वानिवे शितः । २ सवृत्तिकं पाणिनीयं सूत्रमिदम् । Page #15 -------------------------------------------------------------------------- ________________ सू० ३४ - ४६ ] स्वरसंधिः २ ॥ ३४ हसेऽहसः २ ॥ खरात्परो रेफहकारवर्जितो हसो हसे परे द्विर्भवति । [ खरे परे इति वक्तव्यम् ] (तेन धकारस्य न पुनर्द्वित्वम्) इति धकारस्य द्वित्वम् || ३५ झभे जबाः ३ ॥ इसानां झभे परे जबा भवन्ति । इति पूर्वधकारस्य दकारः सवर्णत्वात् 'वर्यो वर्येण सवर्ण:' इति वचनात् । [ यथासंख्यं वा वक्तव्यम् ] । दद् ध् य् आनय इति सिद्धम् । पश्चात् || ३६ स्वरहीनं परेण संयोज्यम् ४ ॥ श्लिष्टोच्चारणं कर्तव्यम् । दध्यानय ॥ तकं न रोचतेऽस्माकं दुग्धं च मधुरायते । अन्नप्ररोचनार्थाय दध्यानय वरानने ॥ ८ ॥ दधि न श्रूयते कर्णे घृतं स्वप्ने न दृश्यते । मुग्धे दुग्धस्य का वार्ता तक्रं शक्रस्य दुर्लभम् ॥ ९ ॥ कृतस्य करणं नास्ति मृतस्य मरणं न हि । पिष्टस्य पेषणं नास्ति द्वितये त्रितयं न हि ॥ १० ॥ गौरी अत्र इति स्थिते । इ यं खरे ( सू० ३३ ) गौर य् अत्र तावद्भवति । यत्वे कृते अर्ह इति विशेषणान्न रेफस्य द्वित्वं किंतु ॥ ३७ राद्यपो द्वि: ५ ॥ खरपूर्वाद्रेकात्परो यपो द्विर्भवति । इति यपस्य द्वित्वम् । गौर् य् य् अत्र खरहीनं परेण संयोज्यम् (सू० ३६ ) ॥ तुम्बिका तृणकाष्ठं च तैलं जलसमागमे । ऊर्ध्वस्थानं समायान्ति रेफाणामीदृशी गतिः ॥ ११ ॥ जैलतुम्बिकान्यायेन रेफस्योर्ध्वगमनम् ॥ - १ 'दुग्धं वा मधुरं प्रिये । अन्नस्य रोचनार्थाय' इ० पाठः । २ यथा जले पतिता तुम्बी नित्यं जलोपरि तिष्ठति तद्वत् । Page #16 -------------------------------------------------------------------------- ________________ सारस्वतव्याकरणम् । [वृत्तिः १ रेफः स्वरपरं वर्ण दृष्ट्वारोहति तच्छिरः। ' पुरः स्थितं यदा पश्येदधः संक्रमते स्वरम् ॥ १२ ॥ गौर्य्यत्र । खर इत्यनुवर्तते । एवमन्यत्रापि यत्र न सूत्राक्षरैः कार्यसिद्धिस्तत्र सर्वत्र सूत्रान्तरात्पदान्तरानुवृत्तिर्ज्ञातव्या ग्रन्थभूयस्त्वभयान्नामाभिलिख्यते ॥ ३८ उ वम् ६ ॥ उवर्णों वत्वमापद्यते खरे परे । हसेऽई हसः (सू० ३४) । झमे जबाः (सू० ३५) मधु अत्र मध्वत्र । मधु अरिः मध्वरिः। वधू आसनं वध्वासनम् ॥ ३९ ऋ रम् ७॥ ऋवर्णो रत्वमापद्यते खरे परे। पितृ अर्थः पित्रर्थः । मातृ अर्थः मात्रर्थः ॥ ४०ल लम् ८॥ लवर्णो लत्वमापद्यते खरे परे । ल अनुबन्धः लनुबन्धः । ल आकृतिः लाकृतिः ॥ ४१ ए अय् ९॥ एकारो अयू भवति खरे परे । ने अनं नयनम् ॥ ४२ ओअव् १०॥ ओकारो अव् भवति खरे परे । भो अति भवति ।[गवादेरवर्णागमोऽक्षादौ वक्तव्यः] । गो अक्षः गवाक्षः । गो इन्द्रः गवेन्द्रः ॥४३ अ इ ए ११॥ अवर्ण इवणे परे सह ए भवति । गो अग्रं गवायम् । गो अजिनं गवाजिनम् । अ इ ए (सू० ४३) ॥ ४४ ए ऐ ऐ १२ ॥ अवर्ण एकारे ऐकारे च परे सह ऐकारो भवति । ख ईरिणी खैरिणी। प्रकृतिप्रत्यययोर्मध्ये प्रत्ययाश्रितं कार्यमादौ स्यात् । नित्यानित्ययोर्मध्ये नित्यविधिर्बलवान् ॥ ४५ उ ओ १३ ॥ अवर्ण उवर्णे परे सह ओ भवति ॥ ४६ ओ औ औ १४ ॥ अवर्ण ओकारे औकारे च परे सह औकारो भवति । अक्ष ऊहिनी अक्षौहिणी । प्र ऊढः प्रौढः ॥ इति गवादयः ॥ अविहितलक्षणप्रयोगो गवादौ द्रष्टव्यः॥ १ सा सेनाक्षौहिणीनाम खागाष्टकद्विकै २१८७० गैजैः । रथैश्चैभि २१८७० हेयैत्रिनैः ६५६१० पञ्चनैश्च १०९३५० पदातिमिः । इत्यक्षौहिणीपरिमाणम् । Page #17 -------------------------------------------------------------------------- ________________ १ सू० ४७-६०] स्वरसंधिः २ - गवाजश्च गवेन्द्रश्च गवाग्रं च गवाजिनम् । स्वैरमक्षौहिणी प्रौढ एते प्रोक्ता गवादयः ॥ १३ ॥ [कचित्स्वरवद्यकारः ] । यथाऽध्वपरिमाणे गो यूतिः गव्यूतिः क्रोशयुगलम् । अन्यथाध्वनः परिमाणाभावे गवां मिश्रीभावो गोयूतिः ॥४७ ऐ आय १५॥ ऐकार आय् भवति खरे परे । नै अकः नायकः ॥ ४८ औ आव १६॥ औकार आव् भवति खरें परे । तौ इह ताविह ॥४९ यवोर्लोपशू वा पदान्ते १७॥ पदान्ते स्थितानामयादीनां यकारवकारयोर्लोपश् वा भवति । ते आगताः त आगताः तयागताः । तस्मै एतत् तस्मा एतत् तस्मायेतत् । पटो इह पट इह पटविह । तौ इमौ ताइमौ ताविमौ । तस्मै आसनं तस्मा आसनम् तस्मायासनम् । असौ इन्दुः असा इन्दुः असाविन्दुः ॥ ५० लोपशि पुनर्न संधिः १८ ॥ छन्दसि तु भवति । हे सखे इति हे सखेति हे सखयिति ॥ ५१ एदोतोऽतः १९॥ पदान्तेस्थितादेकारादोकाराच्च परस्याकारस्य लोपो भवति । ते अत्र तेऽत्र । पटो अत्र पटोऽत्र ॥ ५२ सवर्णे दीर्घः सह २० ॥ सवर्णस्य सवर्णे परे सह दी? भवति । श्रद्धा अत्र श्रद्धात्र ॥ सामान्यशास्त्रतो नूनं विशेषो बलवान्भवेत् । परेण पूर्वबाधो वा प्रायशो दृश्यतामिह ॥ १४ ॥ अदी? दीर्घतां याति नास्ति दीर्घस्य दीर्घता। पूर्वदीर्घस्वरं दृष्ट्वा परलोपो विधीयते ॥ १५॥ दधि इह दधीह । मधु उदकं मधूदकम् ॥ भानु उदयः भानूदयः । पितृ ऋणं पितृणम् । १ बहुव्यापकं सामान्यम् । २ अल्पव्यापको विशेषः । ३ प्रायशो बाहुल्येन । Page #18 -------------------------------------------------------------------------- ________________ सारस्वतव्याकरणम् । [वृत्तिः १ अ इ ए (सू० ४३ ) । तव इदं तवेदम् । मम इदं ममेदम् । सर्वविधिभ्यो लोपविधिर्बलवान् ॥ ५३ हलादेरीपादौ टेर्लोपो वक्तव्यः २१ ॥ [ क्वचित्तदादिवर्णाभावे केवलखरस्यापि टिसंज्ञा वक्तव्या] । हल ईषा हलीषा । लाङ्गल ईषा लागलीषा । मनस ईषा मनीषा । शक अन्धुः शकन्धुः। कर्क अन्धुः कर्कन्धुः। कुल अटा कुलटा । सीमन् अन्तः सीमन्तः केशवेशे । अन्यत्र सीमान्तः । पतत् अञ्जलिः पतञ्जलिः । सार अङ्गः सारङ्गः पशुपक्षिणोः । अन्यत्र साराङ्गः॥ हलीषा लागलीषा च मनीषाधों तथैव च । शकन्धुरथ कन्धुः सीमन्तः कुलटा तथा ॥१६॥ पतञ्जलिश्च सारङ्ग एते प्रोक्ता हलादयः ॥ १७॥ ५४ ओमाङावपि २२ ॥ अवर्णात्परौ ओमाडौ टिलोपनिमित्तौ स्तः । अद्य ओम् अद्योम् । शिव आ इहि शिवेहि ॥ ५५ ओमि नित्यम् २३ ॥ ओमि परे नित्यमवर्णस्य लोपो भवति । खर ओम् खरोम् । उओ ( सू० ४५) गङ्गा उदकं गङ्गोदकम् ॥ ५६ ऋ अर २४ ॥ अवर्ण ऋवणे परे सह अर् भवति । तव ऋद्धिः । तवर्द्धिः । राद्यपो द्विः (सू० ३७ ) ॥५७ कचिदार २५॥ अवर्ण ऋवणे परे सह कचिदार् भवति । ऋण ऋणं ऋणार्णम् । शीत ऋतः शीतातः ॥ ५८ ऋते च तृतीयासमासे एवाऽऽर् २६ ॥ अन्यत्र परमतः ॥ ५९ उपसर्गादवर्णान्ताहकारादौ धातौ आर् भवति २७॥उपार्च्छति प्रार्छति ॥ ६० ऋकारादौ नामधातौ वा २८ ॥ १ ओंकारे। २ प्रवत्सतरकम्बलवसनार्णदशानामृणे । ऋणशब्दे परे एभ्यः कचिदार भवति । प्रऋणं प्रार्णमित्यादि ॥ . . Page #19 -------------------------------------------------------------------------- ________________ सू० ६१-७१] प्रकृतिभावः ३ उपार्षभीयति । उपर्षभीयति । प्रार्षभीयति ॥ ६१ ऋकारादौ आर नेति वाच्यम् २९ ॥ उपऋकारीयति । उपर्कारीयति ॥ ६२ ल अल ३० ॥ अवर्ण लवणे परे सह अल भवति । तव लकारः तवल्कारः ॥ ६३ ऋलवर्णयोः सावर्ण्य वक्तव्यम् ३१ ॥ ऋलवर्णस्थानिकत्वाद्रलयोरपि सावण्य वाच्यम् । होतृ लकारः होतृकारः । होलकारः । परि अङ्कः । इ यं खरे (सू० ३३ ) । राद्यपो द्विः (सू० ३७ ) पर्यङ्कः । पल्यङ्कः ॥ रलयोर्डलयोश्चैव शसयोर्बवयोस्तथा । वदन्त्येषां च सावर्ण्यमलङ्कारविदो जनाः ॥१८॥ ए ऐ ऐ (सू० ४४ ) अवर्ण एकारे ऐकारे च परे सह ऐकारो भवति । तव एषा तवैषा । तव ऐश्वर्य तवैश्वर्यम् । ओ औ औ ( सू० ४६ ) अवर्ण ओकारे औकारे च परे सह औकारो भवति । तव ओदनः तवौदनः । तव औन्नत्यं तवन्नित्यम् ॥ ६४ ओष्ठोत्वोवौँ ३२ ॥ अवर्णस्य ओष्ठोत्वोः परयोः समासे सति सह वा ओ भवति । बिम्ब ओष्ठः बिम्बोष्ठः बिम्बौष्ठः । स्थूल ओतुः स्थूलोतुः स्थूलौतुः । समासे किम् । तव ओष्ठः तवौष्ठः ॥ ॥ इति खरसंधिप्रक्रिया ॥ २॥ प्रकृतिभावः ३ . . अथ प्रकृतिभाव उच्यते । प्रकृतेर्यथास्थितस्य रूपस्य भवनं प्रकृतिभावः ॥६५ नामी १॥अदसोऽमी संधिं न प्राप्नोति । अमी आदित्याः॥ ६६ वे द्वित्वे २ ॥ ई च ऊ च य्वे । ईकारान्त ऊकारान्त एकारान्तश्च शब्दो द्वित्वे वर्तमानः संधिं न प्राप्नोति मणीवादिवय॑म् । अनी अत्र । पटू अत्र । माले आनय । मणी इव मणीव ॥ Page #20 -------------------------------------------------------------------------- ________________ १२ सारस्वतव्याकरणम् । मणीवोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम । हियमाणौ तु तौ दम्यौ मकिस्तत्रेदमब्रवीत् ॥ [ वृत्ति: १ १९ ॥ 1 रोदसी इव रोदसीव । दंपती इव दंपतीव । जंपती इव जंपतीव । जायापती इव जायापतीव ।। ६७ औ निपातः ३ ॥ आच ओ च अ च इ च उ च ऋ चलच ए च ऐ च ओ च औ । आ ओ इति पृथक् पदं वा निपातः । आकारनिपातः ओकारनिपात एकस्वरश्च संधिं न प्राप्नोति । आ एवं मन्यसे । नो अत्र स्थातव्यम् । उ उत्तिष्ठ । इ इन्द्रं पश्य । अ अपेहि । आग्रहणादाङो न निषेधः । तथा चोक्तम् ॥ ईषदर्थे क्रियायोगे मर्यादाऽभिविधौ च यः । एतमातं ङितं विद्याद्वाक्यस्मरणयोरङित् ॥ २० ॥ ओत्तमैरेक्षसे न त्वामृतादेन्द्रतोखिलैः । आ एवं सर्ववेदार्थ आ एवं सद्वचो हरेः ॥ २१ ॥ अहो आहो उताहो च नो हो हहो अथो इमे । मिथोयुक्ताच ओदन्ता निपाता अष्टधा मताः ॥ २२ ॥ ६८ प्लुतः ४ ॥ लुतः संधिं न प्राप्नोति । देवदत्त ३ एहि । देवदत्त ३ अत्र गौश्वरति ॥ ६९ दूरादाद्दाने च टेः प्लुतः ५ ॥ दूरादाहाने गाने रोदने विचारे गम्यमाने च टेः लुतो भवति । दूरादित्यत्र चकारग्रहणाद्धा तातेतीत्यादौ संधिः स्यात् ॥ ७० हैहयोः स्वरे संधिर्न वक्तव्यः ६ ॥ हे अनड्डून् ॥ ७१ ऋतौ समानो वा ७ ॥ ऋतौ परे समानः संधिं न प्राप्नोति वा । हिम ऋतुः हिमर्तुः हिमऋतुः ॥ इति प्रकृतिभावप्रक्रिया ॥ ३ ॥ Page #21 -------------------------------------------------------------------------- ________________ व्यञ्जनसंधिः : ४ व्यञ्जनसंधिः ४ अथ व्यञ्जनकार्यमुच्यते ॥ ७२ चपा अबे जबाः १ ॥ पदान्ते वर्तमानाश्चपा जबा भवन्ति अबे परे । षट् अत्र षडत्र । वाक् यथा वाग्यथा । ककुप्ऐन्द्री ककुबैन्द्री ॥ ७३ ञमे अमावा २ ॥ पदान्ते वर्तमानाश्चपा जमे परे त्रमा वा भवन्ति । वाक् मात्रं वाङ्मात्रम् वाग्मात्रम् । षट् मम षण्मम षडूमम ॥ ७४ मयटि नित्यं वाच्यम् ३ ॥ चित् मयं चिन्मयम् । प्रत्यये - अमो नित्यमिति केचित् । तेन वाङ्मात्रमित्येकमेव रूपं स्यात् ॥ ७५ चपाच्छे शः ४ ॥ चपादुत्तरस्य शकारस्य छो वा भवति अबे परे । वाक्शूरः वाकूछूरः वाक्शूरः ॥ ७६ हो झभाः ५ ॥ चपादुत्तरस्य हकारस्य झभा वा भवन्ति । नन्वेकस्य हकारस्य झभाः प्राप्ताः केन क्रमेण भवन्ति । अत्रोच्यते । यद्वर्गगेश्चपस्तद्वर्गगश्चतुर्थो भवति । तत् हविः तद्धविः तहविः । वाक् हरिः वाघ्हरिः वाग्रहरिः । ककुप्हासः ककुब्भासः ककुबूहासः ॥ ७७ स्तोः श्रुभिः श्रुः ६ ॥ स्तोः सकारस्य तवर्गस्य च शकारेण चवर्गेण च योगे शकारचवर्गौ यथासंख्येन भवतः । स् च तुश्च स्तुस्तस्य स्तोः । समाहारे द्वन्द्वे एकत्वम् । 'छन्दोवत्सूत्राणी' तिवचनान्नपुंसकस्य पुंस्त्वम् । श् च चवश्च श्ववस्तैः श्रुभिः । चुशब्दे चवर्गस्थवर्णापेक्षया बहुवचनम् ॥ सू० ७२-९० ] १३ अकृत्वा सप्तमीमेतां तृतीयामकरोदिला । . ततः श्रुभिः श्रुः पूर्वेण संनिपातः परेण वा ।। २३ ॥ कस् चरति कश्चरति । कस् शूरः कश्शूरः । तत् चित्रं तच्चित्रम् | तत् शास्त्रं तच्छास्त्रम् ॥ ७८ न शात् ७ ॥ शकारादुत्तरस्य तवर्गस्य १ छ इत्यविभक्तिको निर्देशः । २ यद्वर्गगः घझढधभानामन्यतमः । Page #22 -------------------------------------------------------------------------- ________________ सारस्वतव्याकरणम् । [वृत्तिः १ चुत्वं न भवति । विश्नः । प्रश्नः ॥ ७९ ष्टुभिः ष्टुः ८ ॥ स्तोः सकारस्य सवर्गस्य च षकारेण टवर्गेण च योगे पकारटवर्गों यथासंख्येन भवतः । ष्टुभिरिति बहुवचनात्वचित्षकारटवर्गयोगं विनापि टुत्वम् । अग्निष्टोमः। कस् षष्ठः कष्षष्ठः । कस् टीकते कष्टीकते । तत् टीकते तट्टीकते । तत् टीका तट्टीका ॥ ८० तोलि लः ९॥ तवर्गस्य समिकारे परे लकारो भवति । तत् लुनाति तल्लुनाति । भवान् लिखति भवॉल्लिखति ॥ ८१ अन्तस्था द्विप्रभेदाः १०॥ रेफवर्जिता यवलाः सानुनासिका निरनुनासिकाश्च । तत्र सानुनासिक एव नकारस्य लकारो भवति ॥ ८२ न पि ११ ॥ षकारे परे तवर्गस्य ष्टुत्वं न भवति । भवान् षष्ठः भवान्षष्ठः ॥ ८३ टोरन्त्यात् १२ ॥ पदान्ते वर्तमानाट्टवर्गात्परस्य स्तोः ष्टुत्वं न भवति । षट् नरः षण्नरः । षट्र सीदन्ति षट्रसीदन्ति ॥ ८४ न सक् छते १३ ॥ नान्तस्य पदस्य छते परे सगागमो भवति । ८५ टिकितावाद्यन्तयोर्वक्तव्यौ १४ ॥ टित्त्वादौ कित्त्वादन्ते । राजन् चित्रं राजंश्चित्रम् । भवान् तनोति भवांस्तनोति ॥ ८६ शे चग्वा १५ ॥ नान्तस्य पदस्य शे परे वा चगागमो भवति । भवान् शूरः भवाञ्छूरः भवाञ्छूरः भवाञ्च्शूरः भवाञ्शूरः ।। ८७ जनो इस्वाद्द्विःवरे १६॥ कारणकारनकारा हूखादुत्तरा द्विर्भवन्ति खरे परे पदान्ते । प्रत्यङ्ग् इदं प्रत्यङ्दिम् । सुगण् इह सुगण्णिह । राजन् इह राजन्निह । राजन् इदंराजन्निदम्॥८८छ:१७|| एखादुत्तरश्छकारो द्विर्भवति ॥ ८९ खसे चपा झसानाम् १८ ॥ झसानां खसे परे चपा भवन्ति । तव छत्रं तवच्छत्रम् ॥ ९० दीर्वादपि च वक्तव्यः १ द्विविधा इत्यर्थः । २ छत्प्रत्याहारे । Page #23 -------------------------------------------------------------------------- ________________ सू० ९१-१०८] व्यञ्जनसंधिः ४ १९ ॥ दीर्धादुत्तरश्छकारो द्विर्भवति । म्लेछः म्लेच्छः । हीछः ह्रीच्छः ॥ ९१ अपिशब्दाद्दी_त्पदान्ताद्वेति वक्तव्यम् २०॥ लक्ष्मीछाया लक्ष्मीच्छाया ॥ ९२ आङ्माङ्भ्यां च वक्तव्यम् २१ ॥ आच्छादयति । माच्छिदत् ॥ ९३ मोऽनुस्वारः २२ ॥ पदान्ते वर्तमानस्य मकारस्यानुस्खारो भवति हसे परे पदान्ते च । तम् हसति । पटुम् वृथा पटुं वृथा । कौमारास्त्ववसानेऽप्यनुखारमिच्छन्ति ॥९४ अवसाने वा २३ ॥ अवसाने मकारस्यानुखारो वा भवति । देवं देवम् ॥९५ नश्वापदान्ते झसे २४ ॥ नकारस्य मकारस्य चापदान्ते वर्तमानस्यानुखारो भवति झसे परे । यशासि यशांसि । पयासि पयांसि । कम्सः कंसः । पुम्भ्यां पुंभ्याम् । आक्रम् स्यते आक्रस्यते ॥ ९६ मा यपेऽस्य वा २५ ॥ अनुखारस्य ञमा वा भवन्ति यपे परे । नन्वेकस्यानुखारस्य पञ्च ञमाः प्राप्ताः केन क्रमेण भवन्ति । अस्य यपस्य सवर्णाः। शांतः शान्तः।। ९७ वा पदान्ते २६ ॥ पदान्ते वर्तमानस्यानुखारस्य अमा वा भवन्ति यपे परे । तं करोति तङ्करोति । तं तनोति तन्ततोति । तं जानाति तञ्जानाति॥ ९८ वर्गे वर्गान्तः २७ ॥ वर्गे परे वर्गान्तो भवति । वर्गाभावे पररूपं स्यात् । सं यंता सँय्यन्ता । यकारस्यान्यसवर्णाभावेऽपि यकारस्य यकार एव सवर्णः । सं वत्सरः सव्वत्सरः । यं लोकं यल्लोकम् ॥ ९९ मनयवलपरे हकारेऽनुस्वारस्य ते यथाक्रमं भवन्ति २८ ॥ किं म्हलयति किम्मलयति । किं हुते किन हृते । किं ह्यः कि,ह्यः । किं हलयति । किवह्वलयति । किंहादयति किलहादयति ॥ १०० जोः कुकुटुग्वा शरि २९॥ डकारणकारयोः शषसे परे कुक्टुकावागमौ वा स्तः। प्राङ् षष्ठः Page #24 -------------------------------------------------------------------------- ________________ सारस्वतव्याक [वृत्तिः १ प्राङ्गुष्ठः प्राक्षष्ठः । सुगणू षष्ठः सुगणूषष्ठः सुगषष्ठः ॥ १०१ मः खरे ३० ॥ अनुस्वारस्य मकारो भवति खरे परे । किं अस्ति किमस्ति ॥ १०२१छन्दसि ३१ ॥ अनुखारश्छन्दसिरकारमापद्यते शषसहरेफेषु परतः । चतुस्त्रिशद्वाजिनः। सामयजू ५. पि ॥ वयः सोमः । सि५ ह्यसि । देवाना राजा ॥ १०३ तकारो लचटवर्गेषु पररूपमापद्यते ३२॥ विठलः विट्ठलः ॥ इति व्यञ्जनसंधिप्रक्रिया ॥ ४ ॥ विसर्गसंधिः ५ अथ विसर्गसंधिनिंगद्यते ॥१०४ विसर्जनीयस्य सः ॥ विसजनीयस्य सकारो भवति खसे परे । कः तनोति कस्तनोति ।। १०५ शपसे वा २ ॥ विसर्जनीयस्य वा सकारो भवति शषसे परे । कः शेते कश्शेते । कः षण्ढः कष्षण्ढः । कः साधुः कस्साधुः ।। १०६कुप्वोः कx पौवा ३॥ विसर्जनीयस्य कवर्गपवर्गसंबन्धिनि खसे परे ४ क x पौ वा भवतः। कपावुच्चारणार्थौ । कः करोति क करोति । कः खनति क खनति । कः पचति क ४ पचति । कः पठति क ४ पठति । कः फलति क x फलति ॥ १०७ वाचस्पत्यादयः संज्ञाशब्दा निपातात्साधवः ४ ॥ वाचस्पतिः बृहस्पतिः कारस्करः पारस्करः भास्करःतस्करः हरिश्चन्द्रः। तद्बहतोः करपत्योश्चोरदेवतयोः सुटू तलोपश्च । इत्यादि ॥१०८ अह्रो रोऽरात्रिषु ५॥ अहो विसर्जनीयस्य पदान्ते रो भवति रात्र्यादिवर्जितेषु परतः । अहः पतिः अहर्पतिः । अहः गणः अहर्गणः । अहः अत्र अहरत्र । अरात्रिष्विति विशेषणादहोरात्रम् । अहः रूपं अहोरूपम् । अहः रथन्तरं अहोरथन्तरम् । रूपरात्रिरथन्तरेषु Page #25 -------------------------------------------------------------------------- ________________ सू० १०९-१२०] विसर्गसंधिः ५ न रेफ इत्यादि । १०९ अतोऽत्युः ६ ॥ अकारात्परस्य उकारी भवत्यति परतः । एदोतोऽतः (सू० ५१) कः अर्थः कोऽर्थः ॥ ११० हबे ७ ॥ अकारत्परस्य विसर्जनीयस्य उकारो भवति हबे परे । कः गतः को गतः । देवः याति देवो याति । मनः रथः मनोरथः ॥ १११ आदबे लोपशू ८॥ अवर्णात्परस्य विसर्जनीयस लोपशू भवत्यबे परे। देवाः अत्र देवा अत्र ॥ वाताः वाताः वातावाताः॥११२ खरे यत्वं बा ९ ॥ अवर्णात्परस्य विसर्जनीयस्य यत्वं वा भवति खरे परे। देवाः अत्र देवायत्र देवा अत्र ॥११३.भोसः १० ॥ भोस् भगोस् अघोस् इत्येतस्मात्परस्य विसर्जनीयस्य लोपश् भवत्यबे परे । भोः एहि । भो एहि । भगोः नमस्ते । भगो नमखे। अघोः याति । अघो याति ॥ ११४ नामिनो रः ११॥ नामिनः परस्य विसर्जनीयस्य रेफो भवत्यबे परे । अग्निः अत्र अमिरत्र पटुः यजते पटुर्यजते ।। ११५ रेफप्रकृतिकस्य खपे वा १२ ॥ नामिनः परस्य रेफप्रकृतिकस्य विसर्जनीयस्य खपे परे वा रेफो भवति । गीः-पतिः गीर्पतिः गी:पतिः । धूः पतिः धूर्पतिः धूपतिः ॥ ११६ र १३ ॥ रेफसंबन्धिनो विसर्जनीयस्य रेफो भवति अबे परे । प्रातः अत्र प्रातरत्र । अन्तः गतः अन्तर्गतः ॥ ११७ रिलोपो दीर्घश्च १४ ॥ रेफस्य रेफे परे लोपो भवति पूर्वस्य च दीर्घः । पुनः रमते पुना रमते । शुक्तिः रूप्यात्मना भाति शुक्ती रूप्यात्मना भाति ॥ ११८ सैषाद्धसे १५ ॥ सशब्दादेषशब्दाच १ अवर्णेत्रमेन अकार आकारश्च गृह्यते तत्र पूर्वसूत्रेण आकारस्य व्यवस्थितस्वादाकार एवात्रं शिष्यते तेन आकारात्परस्य विसर्जनीयस्य लोपरी भवत्स पर इस्येव लिम ... .. . . . Page #26 -------------------------------------------------------------------------- ________________ सारस्वतव्याकरणम् । [वृत्तिः १ परस्य विसर्जनीयस्य लोपश् भवति हसे परे । सः चरति स चरति । एषः हसति एष हसति । सैषादिसंहिता समासे कृते घटमाना सा सैष दाशरथी रामः सैष राजा युधिष्ठिरः। सैष कर्णो महात्यागी सैष भीमो महाबलः ॥ २४ ॥ सैष दाशरथी राम इत्यादौ पादपूरणे संध्यर्था ज्ञेया ॥ ११९ कचिनामिनोऽबे लोपश् १६ ॥ नामिनः परस्य विसर्जनीयस्य लोपश् भवति कचिदबे परे । भूमिः आददे भूम्याददे ॥ यदुक्तं लौकिकायेह तद्वेदे बहुलं भवेत् । सेमा भूम्याददे सोषामित्यादीनामदुष्टता ॥२५॥ कचित्प्रवृत्तिः कचिदप्रवृत्तिः कचिद्विभाषा कचिदन्यदेव । विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति ॥ २६ ॥ वर्णागमो वर्णविपर्ययश्च द्वौ चापरौ वर्णविकारनाशौ । धातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम् ॥ २७ ॥ वर्णागमो गवेन्द्रादौ सिंहे वर्गविपर्ययः । षोडशादौ विकारः स्याद्वर्णनाशः पृषोदरे ॥ २८ ॥ वर्णविकारनाशाभ्यां धातोरतिशयेन यः । योगः स उच्यते प्राज्ञैर्मयूरभ्रमरादिषु ॥ २९ ॥ वित्कम्भनेन विस्कम्भनेन । शुनः शेपं चित् शुनश्चिच्छेपम् । पृषत् उदरं पृषोदरम् ॥ १२० आत्खसयोरुः १७ ॥ आकारे खसे च १ स एष इत्यत्र सैषेत्यष्टाक्षरपदार्था संहिता । २ अनिश्चितविभजनतया । ३ विकल्पः । ४ वैदिकप्रयोगम् । ५ अन्यस्मिन्वर्णेऽन्यस्योच्चारणम् । यथा हि. सिधातोर्हिसशब्दे प्राप्ते सिंह इति । ६ पृषोदरादीनि यथोपदिष्टम् । पृषोदरादीनि सन्दखरूपाणि शिष्टैर्यथोच्चारितानि तथैव साधूनि । यथा वारिवाहको बलाहकः। Page #27 -------------------------------------------------------------------------- ________________ सू० १२१-१३५] स्वरान्ताः पुंलिङ्गाः ६ परे विसर्जनीयस्य सः उः कचिद्भवति । गूढः आत्मा ॥ इति विससंधिप्रक्रिया ॥५॥ खरान्ताः पुंलिङ्गाः ६ अथ विभक्तिविभाव्यते । सा द्विधा । स्यादिस्त्यादिश्च ॥ १२१ विभक्त्यन्तं पदम् १॥ तत्र स्यादिविभक्तिर्नाम्नो योज्यते ॥ १२२ अविभक्ति नाम २ ॥ विभक्तिरहितं धातुवर्जितं चार्थवच्छब्दरूपं नामोच्यते । कृत्तद्धितसमासाश्च प्रातिपदिकसंज्ञा इति केचित् ॥ १२३ तसात् ३ ॥ तस्मान्नाम्नः पराः स्यादयः सप्त विभक्तयो भवन्ति । तत्राप्यर्थमात्रैकत्वविवक्षायां प्रथमैकवचनं सि ॥ एकवचनम् द्विवचनम् बहुवचनम् . १ सि औ जस् २ अम् .. औ ३ टा भ्याम् भ्यस् ५ ङसि भ्याम् ६ उम् ओस् आम् ७ डि सुप अकारान्तः पुंलिङ्गो देवशब्दः । देव सि इति स्थिते । इकारः सेरिति विशेषणार्थः । १२४ स्रोर्विसर्गः ४॥ सकाररेफयोर्विसर्जनीयादेशो भवत्यधातो रसे पदान्ते च । चकारात्पदान्ते उभयोर्धा. तुनानोः । देवः । द्वित्वविवक्षायां औ । ओ औ औ (सू०४६). देवौ। बहुत्वविवक्षायां देव जस् इति स्थिते । जकारो जसीति वि शस् س भ्याम् भिस् یه भ्यस् ओस् Page #28 -------------------------------------------------------------------------- ________________ २० सारस्वतव्याकरणम् । [वृत्तिः १ शेषणार्थः । चकारस्येत्संज्ञायां तस्य लोपः । देव अस् इति स्थिते । दीर्घविसर्गौ । देवाः ॥ १२५ अकाराजसोऽसुक् कचिद्वक्तव्यश्छन्दसि ५॥ कित्त्वादन्ते । देवासः । ब्राह्मणासः । द्वितीयैकवचने देव अम् इति स्थिते ॥ १२६ अम्शसोरस्य ६॥ समानादुत्तरयोरमशस्रोरकारस्य लोपो भवत्यधातोः । देवम् । पूर्ववत् देवौ । बहुवचने देव शस् इति स्थिते । ककरानुबन्धः शसि (सू० १२८) इति विशेषणार्थः ॥ १२७ सो नः पुंसः ७॥ पुंलिङ्गात्समानादुत्तरस्य शसः सकारस्य नकारादेशो भवति ॥ १२८ शसि ८ ॥ शसि परे पूर्वस्य दीर्घो भवति ॥ १२९ यदादेशस्तद्वद्भवति ९ ॥ देवान् । तृतीयैकवचने देव टा इति स्थिते । टकारानुबन्धः टेन ( सू० १३० ) इति विशेषणार्थः ॥ १३० टेन १० ॥ अकारात्परष्टा इन भवति । अ इ ए (सू० ४३ ) देवेन ॥ १३१ अद्भि ११ ॥ अकार आ भवति भकारे परे । देवाभ्याम् । देव भिस् इति स्थिते ॥ १३२ भ्यः १२ ॥ अकारात्परस्य भिसो भकारस्याकारो भवति । अ इ ए (सू० ४३) वृद्धिविसर्जनीयौ । देवैः ॥ १३३ अकारस्य भिसि छन्दस्येकारो वक्तव्यः १३ ॥ देवेभिः । कमिः । चतुर्थ्येकवचने देव डे इति स्थिते । डकारो डिकायोथैः सर्वत्र ॥ १३४ डे अक् १४ ॥ अकारात्परस्य डे इत्येतस्यागागमो भवति । कित्वादन्ते । ए अय् (सू० ४१) सवर्णे दीर्घः । देवाय । देवाभ्याम् ॥ १३५ एस्भि बहुत्वे १५ ॥ अकारस्य एवं भवति सकारे भकारे च परे बहुत्वे सति । देवेभ्यः । पञ्चम्येकवचने देव सि इति स्थिते । इकारः प्रत्ययभेदज्ञापनार्थः । १ उचरितप्रध्वंसो अनुबन्धः। Page #29 -------------------------------------------------------------------------- ________________ सू० १३६-१५१] स्वरान्ताः पुंलिङ्गाः ६ १३६ ङसिरत १६॥ अकारात्परो ङसिरत् भवति । देवात् । देवाभ्याम् । देवेभ्यः । षष्ठयेकवचने देव ङस् इति स्थिते ।। १३७ उसस्य १७ ॥ अकारात्परो ङस् स्यो भवति । देवस्य ॥ १३८ ओसि १८ ॥ अकारस्य ओसि परे एत्वं भवति । ए अय् (सू० ४१) देवयोः ॥ १३९ नुडामः १९ ॥ समानात्परस्यामो नुडागमो भवति । टित्वादादौ । उकार उच्चारणार्थः॥१४० नामि २० ॥ नामि परे पूर्वस्य दीर्घो भवति । देवानाम् । सप्तम्येकवचने देव ङि इति स्थिते । अ इ ए (सू० ४३ ) देवे । देवयोः । बहुत्वविवक्षायां देव सुप् इति स्थिते पकारः पित्कार्यार्थः। ( पकारस्येत्संज्ञायां लोपः ) इत्येत्वे कृते । एस्भि बहुत्वे (सू० १३५ ) ॥१४१ किलापः सः कृतस्य २१ ॥ कवर्गादिलाच प्रत्याहारादुत्तरस्य केनचित्सूत्रेण कृतस्य सकारस्य षकारादेशो भवति । अन्ते स्थितस्य तु न भवति । देवेषु ॥ १४२ आमन्त्रणे सिर्धिः २२॥ आमन्त्रणमभिमुखीकरणं तस्मिन्नर्थे विहितः सिर्घिसंज्ञो भवति ।। १४३ समानाद्धेर्लोपोऽधातोः २३ ॥ समानादुत्तरस्य धेर्लोपो भवत्यधातोः । इखात्समानादुत्तरस्येति ज्ञेयम् ॥ १४४ आभिमुख्याभिव्यक्तये हेशब्दस्य प्राक् प्रयोगः २४ ॥ हे देव हे देवौ हे देवाः ॥ एवं घटपटस्तम्भकुम्भादयोऽप्यकारान्ताः पुंलिङ्गाः । अकारान्तानामपि सर्वादीनां तु विशेषः । सर्व विश्व उभ उभय अन्य अन्यतर इतर इतर डतम कतर कतम सम सिम मेम एक पूर्व पर अवर दक्षिण उत्तर अपर अधर ख अन्तर त्वद् तद् यद् एतद् इदम् अदसू द्वि किम् युष्मत् असत् भवत् । एते सर्वदयस्त्रिलिङ्गाः । तत्र पुंलिङ्गे रूपनयः । अकारान्तः सर्वशब्दः । सर्वः सर्वो ॥ १४५ जसी २५॥ सर्वादेरकारान्तात्परो Page #30 -------------------------------------------------------------------------- ________________ सारस्वतव्याकरणम् । - [वृत्तिः १ जसू ई भवति (गुरुः शिच सर्वस्य वक्तव्यः)। अइए (सू० ४३) सर्वे । सर्वम् सौं सर्वान् । पूर्ववत्प्रक्रिया ॥ १४६ रुनॊणोऽनन्ते २६ ॥ षकाररेफऋवर्णेभ्यः परस्य नकारस्य णकारादेशो भवति । अन्ते स्थितस्य न भवति । तेन सर्वानित्यादि । १४७ अवकुपवन्तरेऽपि २७ ।। अवप्रत्याहारेण कवर्गेण पवर्गेण च मध्ये व्यवधानेऽपि भवति नान्येन । सर्वेण सर्वाभ्याम् सर्वैः। चतुर्थंकवचने सर्व डे इति स्थिते ॥ १४८ सर्वादेः सन २८ ॥ सर्वादेरकारान्तात्परस्य चतुर्थ्येकवचनस्य मडागमो भवति । टकारः स्थाननियमार्थः । ए ऐ ऐ ( सू० ४४ ) सर्वस्मै सर्वाभ्याम् सर्वेभ्यः । पञ्चम्येकवचने । सर्व अत् इति स्थिते ॥१४९ अतः २९ ॥ सर्वादेरकारान्तात्परस्यातः स्मडागमो भवति दीर्घः । सर्वस्मात् सर्वाभ्याम् सर्वेभ्यः । सर्वस्य सर्वयोः ॥१५० सुडामः ३० ॥ सर्वादेरवर्णान्तात्परस्यामः सुडागमो भवति । सर्वेषाम् । सप्तम्येकवचने सर्व ङि इति स्थिते ।। १५१ डिमिन् ३१ ॥ सर्वादेरकारान्तात्परो ङि स्मन् भवति । सर्वस्मिन् सर्वयोः सर्वेषु । हे सर्व हे सर्वी हे सर्वे । इत्यादि ॥ एवं विश्वादीनामेकशब्दपर्यन्तानां सर्वशब्दवद्रूपं ज्ञेयम् ॥ डतरडतमौ विहाय तौ प्रत्ययौ ततस्तदन्ताः शब्दा ग्राह्याः । तथैव विश्वशब्दः । विश्वः विश्वौ विश्वे। इत्यादि ॥ उभशब्दो नित्यं द्विवचनान्तः । उभौर उभाभ्याम् ३ उभयोः २ हे उभौ ॥ उभयशब्दस्य द्विवचनाभावादेकवचनबहुवचने भवतः । उभयः उभये । उभयम् उभयान् । उभयेन १ मडादिप्रत्ययेषु टकारः सर्वत्र स्थाननियमार्थः। २ 'एस्भि बहुस्वे सू० १३५' इत्यकारस्येवम् 'किलात्षः सः कृतस्य' सू० ३४१ इति षलम् । ३ आभिमुख्याभिव्यक्तये संबुद्धौ सर्वत्र हेशब्दस्य प्राक्प्रयोगः 'सू० १४४ ।' Page #31 -------------------------------------------------------------------------- ________________ सू० १५२ - १५७] स्वरान्ताः पुंलिङ्गाः ६ २३ उभयैः । उभयस्मै उभयेभ्यः । उभयस्मात् उभयेभ्यः । उभयस्य उभयेषाम् । उभयस्मिन् उभयेषु । हे उभय हे उभये ॥ अन्यः अन्यौ अन्ये । इत्यादि ॥ इतरः इतरौ इतरे । इत्यादि । कतरः कतरौ कतरे । इत्यादि । एवमेकशब्द पर्यन्तानां रूपं ज्ञेयम् ॥ पूर्वादीनां तु विशेषः । पूर्वः पूर्वौ ॥ १५२ पूर्वादीनां तु नवानां जस ईकारो वा वक्तव्यः ३२ ॥ पूर्वे-पूर्वाः । पूर्वम् पूर्वी पूर्वान् । पूर्वेण पूर्वाभ्याम् पूर्वैः । पूर्वस्मै पूर्वाभ्याम् पूर्वेभ्यः ॥ १५३ पूर्वादिभ्यो नवभ्यो ङसिङयोः स्मात्स्मिनौ वा वक्तव्यौ ३३ ॥ पूर्वस्मात् - पूर्वात् । पूर्वाभ्याम् पूर्वेभ्यः । पूर्वस्य पूर्वयोः पूर्वेषाम् । पूर्वस्मिन् - पूर्वे पूर्वयोः पूर्वेषु । हे पूर्व हे पूर्वी हे पूर्वे - हे पूर्वाः ॥ एवं परशब्दः । पर परौ परे - पराः । इत्यादि ॥ एवमन्तरशब्दपर्यन्तानां रूपं ज्ञेयम् ॥ सर्वादिः सर्वनामाख्यो न चेद्रौणोऽथवाभिधा ॥ ३० ॥ पूर्वादिश्व व्यवस्थायां समोऽतुल्येऽन्तरोपुर । परिधाने बहिर्योगे खोऽर्थज्ञात्यन्यवाच्यपि ॥ ३१ ॥ १५४ प्रथमचरमतयायडल्पार्धकतिपयनेमानां जसी वा ३४ ॥ प्रथम : प्रथम प्रथमे प्रथमाः । चरमः चरमौ चरमे चरमाः ॥ शेषं देववत् । नेमे-नेमाः ॥ शेषं सर्ववत् । तयायडौ प्रत्ययौ ततस्तदन्ताः शब्दा ग्राह्याः । तयप्रत्ययान्तो द्वितयशब्दः । द्वितयः द्वितयौ द्वितये द्वितयाः । एवं त्रितयशब्दः ॥ अयप्रत्ययान्तो द्वयः त्रयश्च ॥ एवं नेमपर्यन्तानां रूपं ज्ञेयम् ॥ [ तीयस्य सर्ववद्रूपं ङित्सु वा वक्तव्यम् ] | द्वितीयः द्वितीयौ द्वितीयाः । द्वितीयं द्वितीयौ द्वितीयान् । १ खाभिधेयापेक्षावधिनियमो व्यवस्था | व्यवस्थायां किम् । दक्षिणा गाथकाः ॥ कुशला इत्यर्थः । Page #32 -------------------------------------------------------------------------- ________________ सारस्वतव्याकरणम् । [वृत्तिः १ द्वितीयेन द्वितीयाभ्याम् द्वितीयैः। द्वितीयस्मै-द्वितीयाय द्वितीयाभ्याम् द्वितीयेभ्यः । द्वितीयस्मात्-द्वितीयात् द्वितीयाभ्याम् द्वितीयेभ्यः । द्वितीयस्य द्वितीययोः द्वितीयानाम् । द्वितीयस्मिन् द्वितीये द्वितीययोः द्वितीयेषु । हे द्वितीय हे द्वितीयौ हे द्वितीयाः । एवं तृतीयः ॥ आकारान्तः पुंलिङ्गो मासशब्दः॥१५५मासस्सालोपो वा ३५॥ मासशब्दस्याकारस्य लोपो वा भवति सर्वासु विभक्तिषु परतः इत्येके ॥ १५६ हसेपः सेर्लोपः ३६ ॥ हसान्तादीबन्ताच्च परस्य सेलोपो भवति । माः-मासः मासौ-मासौ मासः मासाः । मास-मासम् मासौ-मासौ मासः-मासान् । मासा-मासेन । सोर्विसर्गः (सू० १२४) आदबे लोपश् ( सू० १११ ) माभ्यां-मासाभ्याम् माभिः मासैः । मासे-मासाय माभ्यां-मासाभ्याम् माभ्यः-मासेभ्यः । मासः मासात् माभ्यां-मासाभ्याम् माभ्यः-मासेभ्यः । मासः-मासस्य मासोः-मासयोः मासां-मासानाम् । मासि-मासे मासोः-मासयोः मास्सु-मासेषु । हेमाः हेमासः हेमासौ-हेमासौ हेमासः-हेमासाः ॥ आकारान्तः पुंलिङ्गः सोमपाशब्दः । सोमपाः सोमपौ सोमपाः । सोमपाम् सोमपौ ॥ १५७ आतो धातोर्लोपः ३७ ॥ धातुसंबन्धिन आकारस्य लोपो भवति शसादौ खरे परे । सोमपः । किबन्ता धातवो यद्यपि शब्दत्वं प्राप्तास्तथापि धातुत्वं न जहूति । सोमपा सोमपाभ्याम् सोमपाभिः । सोमपे सोमपाभ्याम् सोमपाभ्यः। सोमपः सोमपाभ्याम् सोमपाभ्यः । सोमपः सोमपोः सोमपाम् । सोमपि सोमपोः सोमपासु । अधातोरिति विशेषणाद्धेर्लोपो नास्ति । हेसोमपाः हेसोमपौ हेसोमपाः ॥ एवं कीलालपा, शङ्खध्मा, मधुपा, विश्वपा, धनंदा, वक़दाप्रभृतयः ॥ Page #33 -------------------------------------------------------------------------- ________________ सू० १५८-१७३] स्वरान्ताः पुंलिङ्गाः ६ २५ क्षीरे पुष्परसे तोये मद्ये मण्डे घृते सजि । सप्तवर्थेषु कीलालं कथयन्ति मनीषिणः ॥ ३२ ॥ आकारान्तो हाहाशब्दः । हाहाः हाहौ हाहाः । हाहाम् हाहौ हाहान् । आदन्ताच्छसो नत्वाभाव इत्येके । तेन हाहाः । सवर्णे दीर्घः सह (सू० ५२ ) हाहा हाहाभ्याम् हाहाभिः । ए ऐ ऐ ( सू० ४४ ) हाहै हाहाभ्याम् हाहाभ्यः । हाहाः हाहाभ्याम् हाहाभ्यः । हाहाः हाहौः । 'आकारान्तेषु आबन्तानामेव नुडागमो नान्येषाम्' इति नियमात् । सवर्णे दीर्घः सह (सू० ५२) हाहाम् । हाहे हाहौः हाहासु । हेहाहाः हेहाही हेहाहाः ॥ तथैव इहूशब्दः ॥ इकारान्तः पुंलिङ्गो हरिशब्दः । तत्र प्रथमैकवचने हरि सि इति स्थिते । स्रोर्विसर्गः (सू० १२४ ) हरिः॥ १५८ औ यू ३८ ॥ इकारान्तादुकारान्ताच्च परस्य औकारो यू आपद्यते ई ऊ भवतः । हरी । हरि जस् इति स्थिते ॥ १५९ एओ जसि ३९॥ इकारान्तस्य उकारान्तस्य च जसि परे एकार ओकारश्च भवति । ए अय् (सू० ४१) हरयः ॥ १६० धौ ४० ॥ इकारान्तस्य उकारान्तस्य च धिविषये एकार ओकारश्च भवति । हेहरे हेहरी हेहरयः। हरिम् हरि हरीन् ॥१६१ टा नास्त्रियाम् ४१ ॥ इकारान्तादुकारान्ताच्च परष्टा ना भवति अस्त्रियाम् । हरिणा हरिभ्याम् हरिभिः ॥ १६२ डिति ४२ ॥ इकारान्तस्य उकारान्तस्य ब मिति परे एकार ओकारश्च भवति । ए अय् (सू ४१) हरये हरिभ्याम् हरिभ्यः ॥ १६३ ङस्य ४३ ॥ एदुभ्यां परस्य सिङसोरकारस्य लोपो भवति । हरेः हरिभ्याम् हरिभ्यः । हरेः होः हरीणाम् ॥ १६४ डेरौ डित ४४ ॥ इदुभ्यामुत्तरस्य डेरौ भवति स च डित् । डिवाडिलोपः ॥ १६५ डिति टे: ४५॥ Page #34 -------------------------------------------------------------------------- ________________ २६ सारस्वतव्याकरणम् । [ वृत्ति: १ 1 डिति परे टेर्लोपो भवति । हरौ हर्योः हरिषु ॥ एवं अग्निगिरिरविकविप्रभृतयः पुंलिङ्गाः ॥ उकारान्ताश्च विष्णुवायुभानुप्रभृतयोऽप्येतैरेव सूत्रैः सिद्ध्यन्ति । भानुः भानू भानवः । भानुम् भानु भानून् । भानुना भानुभ्याम् भानुभिः । भानवे भानुभ्याम् भानुभ्यः । भानोः भानुभ्याम् भानुभ्यः । भानोः भान्वोः भानूनाम् । भानौ भान्वोः भानुषु । हेभानो हेभानू हेभानवः । इत्यादि ॥ एवं विष्णुवायुप्रभृतयः । इकारान्तस्यापि सखिशब्दस्य भेदः । सखि सि इति स्थिते ॥ १६६ सेर्डाऽधे: ४६ ॥ सखिशब्दस्य सेरधे भवति । ङित्त्वा - ट्टिलोपः । सखा ॥ १६७ ऐ सख्युः ४७ ॥ सखिशब्दस्यैकारादेशो भवति धिवर्जितेषु पञ्चसु परेषु ॥ १६८ षष्ठीनिर्दिष्टस्यादेशस्तदन्तस्य ज्ञेयः ४८ || आयादेशः । सखायौ ॥ १६९ द्विवचनस्यावा छन्दसि ४९ ॥ द्विवचनस्यौकारश्छन्दस्याकारमापद्यते । सखायासखायः । सखायम् सखायौ - सखाया सखीन् ॥ १७० सखिपत्योरिक् ५० ॥ सखिपतिशब्दयोरिगागमो भवति टाडैङिषु परतः दीर्घत्वान्ना न भवति । सख्या । ऋषिप्रयोगसिद्ध्यर्थमाह ॥ १७१ आगमजमनित्यम् ५१ ॥ आगमजं कार्यमनित्यं स्यात् वा छन्दसि । सखिना सखिभ्याम् सखिभिः । सख्ये सखिभ्याम् सखिभ्यः ॥ १७२ ऋङ्कडे ५२ ॥ सखिपतिशब्दयोगागमो भवति ङसिङसोर्डकारे परे । सख्यृ अस् इति स्थिते ॥ १७३ ऋतो ङ उः ५३ ॥ ऋकारान्तात्परस्य ङसिङसोरकारस्य उकारो भवति स च डित् । डित्त्वाट्टिलोपः । सख्युः सखिभ्याम् सखिभ्यः । सख्युः सख्योः सखीनाम् । सप्तम्येकवचने डेरौ डिदित्यौकारे कृते सखिपत्योरिगागमः । सख्यौ - सख्योः सखिषु । अधेरिति विशेषणादेकारो · Page #35 -------------------------------------------------------------------------- ________________ सू० १७४-१८३ ] स्वरान्ताः पुंलिङ्गाः ६ २७ ऽधिविषये । हेसखे हेसखायौ हेसखायः । पतिशब्दस्य भेदः । स इत्थं । पतिशब्दस्य प्रथमाद्वितीययोर्हरिशब्दवत्प्रक्रिया । पतिः पती पतयः। पतिम् पती पतीन् । तृतीयादौ तु सखिशब्दवत्प्रक्रिया। पत्या-पतिना पतिभ्याम् पतिभिः । पत्ये पतिभ्याम् पतिभ्यः । पत्युः पतिभ्याम् पतिभ्यः । पत्युः पत्योः पतीनाम् । पत्यो पत्योः पतिषु । हे पते हेपती हेपतयः ॥ १७४ पतिरसमास एव सखिशब्दवद्वक्तव्यः५४॥ टादौ खरे परे षष्ठीयुक्तश्छन्दसि वा । सीतायाः पतये नम इत्यादिप्रयोगदर्शनात् । ततः समासान्तस्य नादयो भवन्ति । प्रजापतिना प्रजापतये । श्रीपतिना श्रीपतये इत्यादि ॥ द्विशब्दो नित्यं द्विवचनान्तः। द्वि औ इति स्थिते॥१७५ त्यादेष्टेरः स्यादौ ५५ ॥ त्यदादेष्टेरकारो भवति स्यादौ परे । द्वौ द्वौ द्वाभ्याम् द्वाभ्याम् द्वाभ्याम् द्वयोः द्वयोः ॥ त्रिशब्दो नित्यं बहुवचनान्तः । त्रि अस् इति स्थिते। ए ओ जसि ( सू० १५९) त्रयः त्रीन् त्रिभिः त्रिभ्यः त्रिभ्यः ॥ १७६ त्रेरयङ् ५६ ॥ त्रिशब्दस्यायङादेशो भवति नामि परे ॥ ङकारोऽन्त्यादेशार्थः ॥ १७७ दिन्त्यस्य वक्तव्यः ५७ ॥ त्रयाणाम् । त्रिषु ॥ कतिशब्दो नित्यं बहुवचनान्तस्त्रिषु लिङ्गेषु सरूपः । कति जसू इति स्थिते ॥ १७८ डतेश्व ५८ ॥ डत्यन्तात्परयोजश्शसोर्लक् भवति ॥ १७९ लुकि न तनिमित्तम् ५९ ॥ लुकि जाते सति तन्निमित्तं कार्य न स्यात् । कति कति कतिभिः कतिभ्यः कतिभ्यः कतीनाम् कतिषु । हेकति॥ ईकारान्तः पुंलिङ्गः सुश्रीशब्दः । सुश्रीः ॥ १८० य्वोर्धातोरियुवौ खरे ६० ॥ धातोरिकारोकारयोरियुवौ भवतः खरे परे । सुश्रियौ - १'सो नः पुंसः सू० १२७ । Page #36 -------------------------------------------------------------------------- ________________ २८ सारस्वतव्याकरणम् । [ वृत्तिः १ सुश्रियः । सुश्रियम् सुश्रियौ सुश्रियः । सुश्रिया सुश्रीभ्याम् सुश्रीभिः । सुश्रिये सुश्रीभ्याम् सुश्रीभ्यः । सुश्रियः सुश्रीभ्याम् सुश्रीभ्यः । सुश्रियः सुश्रियोः सुश्रियाम् । सुश्रियि सुश्रियोः सुश्रीषु । हेसुश्रीः हेसुश्रियौ हे सुश्रियः ॥ तथैव सुधीशब्दः । सुष्ठु ध्यायतीति सुधीः सुधियौ सुधियः । सुधियम् । इत्यादि ॥ एवमुकारान्तः खयम्भूशब्दः । खयं भवतीति स्वयम्भूः स्वयम्भुवौ स्वयम्भुवः । स्वयम्भुवम् स्वयम्भुवौ स्वयम्भुवः । खयम्भुवा खयम्भूभ्याम् खयम्भूभिः । खयम्भुवे खयम्भूभ्यां स्वयम्भूभ्यः । स्वयम्भुवः स्वयम्भूभ्याम् स्वयम्भूभ्यः । स्वयम्भुवः स्वयम्भुवोः स्वयम्भुवाम् । स्वयम्भुवि खयम्भुवोः स्वयम्भूषु । हेखयम्भूः स्वयम्भुवौ हेस्वयम्भुवः । इत्यादि || सेनाँनीशब्दस्याविशेषो हसादौ । स्वरादौ तु विशेषः । अधिपतिः ॥ १८१ खौ वा ६१ ॥ धातोरवयवसंयोगः पूर्वो यस्मादीकारादूकाराच्च नास्ति तदन्तस्यानेकस्वरस्य कारकाव्ययपूर्वस्यैकस्वरस्य च धातोरीकारस्य ऊकारस्य च यकारवकारौ भवतः खरे परे वर्षाभू पुनर्भूव्यतिरिक्त भूशब्दसुधीशब्दौ वर्जयित्वा । वाग्रहणादियं विवक्षा । सेनानीः सेनान्यौ सेनान्यः । सेनान्यम् सेनान्यौ सेनान्यः । सेनान्या सेनानीभ्याम् सेनानीभिः । सेनान्ये सेनानीभ्याम् सेनानीभ्यः । सेनान्यः सेनानीभ्याम् सेनानीभ्यः । सेनान्यः सेनाI न्योः ॥ १८२ सेनान्यादीनां वामो नुङ्गक्तव्यः ६२ ॥ सेनानीनाम्सेनान्याम् । सेनानी ङि इति स्थिते ॥ १८३ आम् ङेर्नियश्च ६३ ॥ आबन्तादीबन्तान्नीशब्दाच्चोत्तरस्य डेरामादेशो भवति । सेनान्याम् सेनान्योः सेनानीषु । हेसेनानीः हेसेनान्यौ हेसेनान्यः ॥ एवं १ सुष्ठु ध्यायति तत्त्वमिति सुधीः । २ स्वयमेव भवतीति स्वयंभूः । ३ सेनां नयतीति सेनानीः । Page #37 -------------------------------------------------------------------------- ________________ सू० १८४-१९० ] स्वरान्ताः पुंलिङ्गाः ६ २९ ग्रामणीप्रभृतयः । एवमूकारान्तो यवलूशब्दः । यवलूः यवल्वौ यवत्वः। यवत्वम् यवल्वौ यवत्वः । यवत्वा यवलूभ्याम् यवलूभिः । यवल्वे यवलूभ्याम् यवलूभ्यः । यवल्वः यवलूभ्याम् यवलूभ्यः । यवस्वः यवल्वोः यवलूनाम् । यवल्वाम् यवल्वि यवत्वोः यवलूषु । हेयवलूः हेयवल्वौ हेयवत्वः ॥ एवं वर्षाभू पुनर्भूप्रभृतयः ॥ संयोगपूर्वस्य तु सुश्रियो कटघुवौ ॥ एकखरे तु नियौ लुवौ ॥ कारकाव्ययपूर्वत्वाभावे तु परमनियौ । धात्ववयवसंयोगपूर्वकारोकारयोरेव न य्वौ । तेन उन्यौ ॥ नाम्नश्च कृता समास इति कृत्समास एव। तद्व्यतिरिक्ते समासे तु न य्वौ । तेन कुधियौ इति । बहुव्रीहौ तु इयुवौ स्तः ।। ईकारान्तो वातप्रमीशब्दः । वातप्रमीः वातप्रम्यौ वातप्रम्यः । वातप्रमीम् वातप्रम्यौ वातप्रमीन् । वातप्रम्या वातप्रमीभ्याम् वातप्रमीभिः। वातप्रम्ये वातप्रमीभ्याम् वातप्रमीभ्यः । वातप्रम्यः वातप्रमीभ्याम् वातप्रमीभ्यः। वातप्रम्यः वातप्रम्योः वातप्रम्याम् । वातप्रमी वातप्रम्योः वातप्रमीषु । हेवातप्रमीः हेवातप्रम्यौ हेवातप्रम्यः ।। अमि वातप्रमीमाहुः शसि वातप्रमीनिति । - ङौ तु वातप्रमी शेषं ग्रामणीसदृशं भवेत् ॥ ३३ ॥ · तथैवोकारान्तो हूहूशब्दः। हूहूः इह्वौ हूह्वः । इहूम् इह्वौ हूहून् । हूहा हूहूभ्याम् इहूभिः । इत्यादि ।। ऋकारान्तः पितृशब्दः । पितृ सि इति स्थिते ॥ १८४ सेरा ६४ ॥ ऋकारान्तात्परस्य सेरा भवति स च डित् । डित्त्वाहिलोपः । पिता ॥ १८५ अर् पञ्चसु ६५ ॥ ऋकारस्यार भवति पञ्चसु स्यादिषु परेषु । पितरौ पितरः । मिवरम् पितरौ पितॄन् । ऋ रम् (सू० ३९) पित्रा पितृभ्याम् पितृभिः । पित्रे पितृभ्याम् पितृभ्यः । ऋतो छ उः (सू० १७३) Page #38 -------------------------------------------------------------------------- ________________ ३० सारस्वतव्याकरणम्। [वृत्तिः १ पितुः पितृभ्याम् पितृभ्यः । पितुः पित्रोः पितृणाम् ॥ १८६ डौ ६६ ॥ ऋकारस्यार् भवति डौ परे । पितरि पित्रोः पितृषु । पितृ धि इति स्थिते ॥ १८७ धेरर् ६७ ॥ ऋकारान्तात्परस्य धेरर भवति स च डित् । डित्त्वाहिलोपः । हेपितः हेपितरौ हेपितरः । एवं जामातृभ्रात्रादयः ॥ एवं नृशब्दः । सेरा (सू० १८४ ) ना नरौ नरः । नरम् नरौ नृन् । ब्रा नृभ्याम् नृभिः । ने नृभ्याम् नृभ्यः । ऋतो ङ उः ( सू. १७३ ) नुः नृभ्याम् नृभ्यः । नुः नोः ॥ १८८ नुर्वा नामि दीर्घः ६८ ॥ नृशब्दस्य नामि परे पूर्वस्य दी| वा भवति । नृणां नृणाम् । डो (सू० १८६) नरि ब्रोः नृषु । हेनः हेनरौ हेनरः ॥ कर्तृशब्दस्य पञ्चसु विशेषः ॥ १८९ स्तुरार् ६९ ॥ सकारतृप्रत्ययसंबन्धिन ऋकारस्याऽऽर् भवति पञ्चलु परेषु । कर्तासि इति स्थिते । यदादेशस्तद्वद्भवति । सेरा ( सू० १८४ ) डित्त्वाहिलोपः । कर्ता कर्तारौ कर्तारः । कर्तारम् कर्तारौ कर्तृन् । का कर्तृभ्याम् कर्तृभिः । कर्ने कर्तृभ्याम् कर्तृभ्यः । ऋतो ङ उः ( सू० १७३) कर्तुः कर्तृभ्याम् कर्तृभ्यः। कर्तुः कोंः कर्तृणाम् । कर्तरि कोंः कर्तृषु । धेरर् (सू० १८७) हेकर्तः हेकर्तारौ हेकर्तारः । इत्यादि पूर्ववत्प्रक्रिया ॥ एवं नप्तहोतृक्षत्तृधातृगोप्तृप्रशास्तृपोतृउद्गातृप्रभृतयः॥ खसा नप्ता च नेष्टा च त्वष्टा कर्ता तथैव च । . होता पोता प्रशास्ता च ह्यष्टौ स्वस्रादयः स्मृताः॥ ३४ ॥ १९० उकारान्तस्यापि क्रोष्टशब्दस्य पञ्चवधिषु तृप्रत्ययान्तता वा वक्तव्या ७० ॥ क्रोष्ट सि इति स्थिते । स्तुरार् (सू० १८९) । सेरो (सू० १८४ ) क्रोष्टा क्रोष्टारौ कोष्टारः । कोष्टा Page #39 -------------------------------------------------------------------------- ________________ सू० १९१-१९५] स्वरान्ताः पुंलिङ्गाः ६ रम् क्रोष्टारौ । शसि तृप्रत्ययवद्भावाभावात् क्रोष्ट्रन् । अमि शसि तृप्रत्ययवद्भावो वेति केचित् । क्रोष्टुम् क्रोष्टन् ॥ १९१ तृतीयादौ खरादौ तृप्रत्ययान्तता वा वक्तव्या ७१ ॥ क्रोष्ट्रा-क्रोष्टुना क्रोष्टुभ्याम् क्रोष्टुभिः । क्रोष्ट्र-कोष्टवे क्रोष्टुभ्याम् क्रोष्टुभ्यः । कोष्टु:क्रोष्टोः क्रोष्टुभ्याम् कोष्टुभ्यः । क्रोष्टुः क्रोष्टोः क्रोष्ट्रोः क्रोष्ट्वोः । कृताकृतप्रसङ्गी यो विधिः स नित्यः । नित्यानित्ययोर्मध्ये नित्यविधिलवान् । इति प्रथमं नुडागमे कृते स्वरादित्वाभावात् तृप्रत्ययवद्भावो न भवति । क्रोष्ट्रनाम् । क्रोष्टरि-कोष्टौ क्रोष्ट्रोः-क्रोष्ट्वोः क्रोष्टुषु । अ. धिष्विति विशेषणाद्धकोष्टो हे कोष्टारौ हेक्रोष्टारः । ऋकारान्ता लकारान्ता एकाराताश्चाप्रसिद्धाः। कौमारास्तृप्रत्ययान्तस्य कुशेर्धातोः पृथग्रूपमाहुः । अप्रसिद्धा इति वृद्धव्यवहारे न त्वभिधानादौ । तेन 'एविष्णुरविमारुते' इत्येकाक्षरमालायां तथा अनेकार्थमञ्जर्याम् । - ऋर्दैत्यमातरि स्यादृर्देव्यामस्तु लतान्तरे। वायवादित्ये महीधे च विष्णावेऐ प्रकीर्तितौ ॥ ३५ ॥ अत्र ऋकारस्य खरादौ । ऋरम् ( सू० ३९) ऋ रौ रः । ऋम् रौ ऋन् । रा ऋभ्याम् ऋभिः । हेऋः हेरौ हेरः । इत्यादि ॥ लवर्णस्य सावर्ष्यात्पितृशब्दवत्प्रक्रिया । आ अलौ अलः । अलम् अ. लौ लन् । ला लभ्याम् लभिः । ले लभ्याम् लभ्यः । उः लभ्याम् लभ्यः । उः लोः ऋणाम् । लि लोः लषु । हेअः हेअलौ हेअलः ॥ इति लशब्दरूपाणिं ॥ ॥ एकारान्तस्य तु उद्यश्चासौ एः रविश्चेति विग्रहे विभक्तिलोपे च कृते उद्यदेः इति समस्तं नाम । उद्यदेः उद्यदयौ उद्यदयः। हेउद्यदेः हेउद्यदयौ हेउद्यदयः । समानत्वाभावान्न १ तृप्रत्ययेन तुल्यं तृप्रत्ययवत् । तस्य भावस्तस्याभावः । २ तृतीया आदियेस्य। ३ यः कृतेपि भवति अकृतेपि भवति ।। Page #40 -------------------------------------------------------------------------- ________________ सारखतव्याकरणम् । [वृत्तिः १ धिलोपः । उद्यदयम् उद्यदयौ उद्यदयः । उद्यदया उद्यदेभ्याम् उद्यदेभिः । उद्यदये उद्यदेभ्याम् उद्यदेभ्यः । उद्यदेः उद्यदेभ्याम् उद्यदेभ्यः । उद्यदेः । ङस्य (सू० १६३ ) इत्यकारलोपः । उद्यदयोः उद्यदयाम् । उद्यदयि उद्यदयोः उद्यदेषु ॥ ऐकारान्तः पुंलिङ्गः सुरैशब्दः ॥ १९२ रैस्भि ७२ ॥ रैशब्दस्याकारादेशो भवति सकारभकारादौ विभक्तौ परतः । सुराः सुरायो । खरादौ सर्वत्रायादेशः । सुरायः । सुरायम् सुरायौ सुरायः । सुराया सुराभ्याम् सुराभिः। सुराये सुराभ्याम् सुराभ्यः । सुरायः सुराभ्याम् सुराभ्यः । सुरायः सुरायोः सुरायाम् । सुरायि सुरायोः सुरासु । हेसुराः हेसुरायो हेसुरायः ॥ एवं रैशब्दः॥ ओकारान्तः पुंलिङ्गो गोशब्दः । गो सि इति स्थिते ॥ १९३ ओरौ ७३ ॥ ओकारस्यौकारादेशो भवति पञ्चसु आदिषु परेषु । गौः। औ आव् (सू० ४८) गावौ गावः ॥ १९४ आम् शसि ७४ ॥ ओकारस्यात्वं भवति अमि शसि च परे । गाम् । औ आव् (सू०४८ ) गावौ गाः। गवा गोभ्याम् गोभिः । गवे गोभ्याम् गोभ्यः । ङस्य ( सू० १६३ ) इत्यकारलोपः । गोः गोभ्याम् गोभ्यः । गोः गवोः गवाम् ॥ १९५ अन्ते गोराम् छन्दसि ७५ ॥ ऋगन्ते वर्तमानस्य गोशब्दस्यामो नुडागमो भवति। गोनाम् । गवि गवोः गोषु । हेगौः हेगावौ हेगावः । औकारान्तः पुंलिङ्गो ग्लौशब्दः । तस्य हसादावविशेषः । स्वरादौ आवादेशः। ग्लौः ग्लावौ ग्लावः । हेग्लौ हेलावी हेग्लावः । ग्लावम् ग्लावौ ग्लावः । ग्लावा ग्लौभ्याम् ग्लौभिः । ग्लावे ग्लौभ्याम् ग्लौभ्यः । ग्लावः ग्लोभ्याम् ग्लौभ्यः । ग्लावः ग्लावोः ग्लावाम् । ग्लावि ग्लावोः ग्लौषु । इत्यादि ॥ इति खरान्ताः पुंलिङ्गाः ॥ ६ ॥ १. ग्लौश्चन्द्रः । ग्लौर्मगावः कलानिधिः । Page #41 -------------------------------------------------------------------------- ________________ सू० १९६-२०६] स्वरान्ताः स्त्रीलिङ्गाः ७ स्वरान्ताः स्त्रीलिङ्गाः ७ अथ खरान्ताः स्त्रीलिङ्गाः कथ्यन्ते । तत्र आवन्तस्त्रीलिङ्गो गङ्गाशब्दः । गङ्गा सि इति स्थिते ॥ १९६ आपः १॥ आबन्तात्परस्य सेर्लोपो भवति । गङ्गा ॥ १९७ औरी २ ॥ आबन्तात्पर औरीकारमापद्यते । अ इ ए (सू० ४३ ) गले गङ्गाः ॥ १९८ धिरिः ३ ॥ आबन्तात्परो धिरिर्भवति हेगङ्गे हेगङ्गे हेगङ्गाः । गङ्गाम् गङ्गे गङ्गाः ॥ १९९ टौसोरे ४ ॥ आबन्तस्य टौसोः परयोरेत्वं भवति ॥ ए अय् (सू० ४१ ) गङ्गया गङ्गाभ्याम् गङ्गाभिः ॥ २०० ङितां यत् ५ ॥ आबन्तात्परेषां डेङसिङस्डि इत्येतेषां ङितां वचनानां यडागमो भवति। टकारः स्थाननियमार्थः ॥ गङ्गायै गङ्गाभ्याम् गङ्गाभ्यः । गङ्गायाः गङ्गाभ्याम् गङ्गाभ्यः । गङ्गायाः गङ्गयोः गङ्गानाम् । आम्डेर्नियश्च (सू० १८३) गङ्गायाम् गङ्गयोः गङ्गासु ॥ एवं अम्बाअक्काअल्लाप्रभृतयः । अम्बा अम्बे अम्बाः। शेषं गङ्गावत्॥२०१अम्बादीनां धौ हवः ६॥ अम्बादीनां धौ परे हखो भवति ॥ हेअम्ब हेअम्बे हेअम्बाः ॥ यथाम्बाशब्दो द्विखरो मात्रर्थः । एवं ये द्विस्वरा मात्रास्तेषां धौ परे हस्खता स्यात् । हेअक्क हेअक्के हेअक्काः ॥ हेअल्ल हेअल्ले हेअल्लाः ॥ अम्बादीनामिति कोऽर्थः । अम्बावाचकानां जननीवाचकानां द्विस्वराणां शब्दानां घौ परे हखो भवति ॥ २०२ डलकवतीनां न ७ ॥ डलकवतीनां अम्बादीनां धौ परे हखो न भवति । असंयोगा डलका ग्राह्याः । असंयोगा इति किम् । हेअम्बाडे हेअम्बाले हेअम्बिके ॥ एवं श्रद्धामेधाविद्याशालामालाहेलादोलाप्रभृतयः ॥ सर्वादीनां तु उित्सु विशेषः ॥ २०३ आवतः स्त्रियाम् ८ ॥ अकारान्तानाम्नः स्त्रियां वर्तमानादाप् प्रत्ययो भवति । सर्वा सर्वे सर्वाः । सर्वाम् सर्वे सर्वाः । Page #42 -------------------------------------------------------------------------- ________________ ३४ सारस्वतव्याकरणम् । [वृत्तिः१ सर्वया सर्वाभ्याम् सर्वाभिः । सर्वा डे इति स्थिते ॥ २०४ यटोच्च ९॥ आबन्तात्सर्वादेः परस्य यटः सुडागमो भवति पूर्वस्य चापोकारो भवति । सर्वस्यै सर्वाभ्याम् सर्वाभ्यः । सर्वस्याः सर्वाभ्याम् सर्वाभ्यः । सर्वस्याः सर्वयोः । (आमः। आबन्तात्सर्वादेः परस्यामः सुडागमो भवति ) आम्डेनियश्च (सू० १८३ ) सर्वस्याम् सर्वयोः सर्वासु । हेसर्वे हेसर्वे हेसर्वाः ॥ एवं विश्वादीनां सर्वाशब्दवद्रूपं ज्ञेयम् ॥ उभयशब्दस्य द्विवचनटाबविषयत्वादन्यत्र प्रयोगः कर्तव्यः । नदीशब्दवद्रूपं ज्ञेयम् । द्वितीयातृतीयाशब्दयोस्तु उित्सु वा सर्वाशब्दवद्रूपं ज्ञेयम् ॥प्रथमादयो गङ्गाशब्दवत् । द्वयीत्रयीद्वितयीत्रितयीकतिपयीशब्दास्तु नदीवत् ॥ सोमपाः पूर्ववत् । जराशब्दस्य भेदः ॥ आकारान्तो जराशब्दः ॥ २०५ जरायाः स्वरादी जरस्खा वक्तव्यः १०॥ जर आप् इति स्थिते । दीर्घः । आपः (सू०१९६) इति सेलोपः । जरा जरसौ जरे-जरसः जराः। जरसं-जराम् जरसौ-जरे जरसः जराः । जरसा-जरया जराभ्याम् जराभिः । जरसे-जरायै जराभ्याम् जराभ्यः । जरसः-जरायाः जराभ्याम् जराभ्यः । जरसःजरायाः जरसोः जरयोः जरसां-जराणाम् । जरसि जरायाम् जरसोःजरयोः जरासु । हेजरे हेजरसौ हेजरे हेजरसः-हेजराः। तदन्तविधिरत्रेव्यते । एकदेशविकृतमनन्यवद्भवतीति न्यायात् । केचिट्टादाविनं अत आञ्चेतीच्छन्ति । जरसः खरादौ निर्जरस्यापि भवति । निर्जरः निर्जरसौ निर्जरौ निर्जरसः-निर्जराः।निर्जसरम्-निर्जरम् निर्जरसौ-निर्जरौ निर्जरसः-निर्जरान् । निर्जरसिना-निर्जरसा- निर्जरेण निर्जराभ्याम् ।। २०६ मिस ऐस वक्तव्यः ११॥ निर्जरसैः-निर्जरैः । निर्जरसेनिर्जराय निर्जराभ्याम् निर्जरेभ्यः । निर्जरसः-निर्जरसात् निजरात् निर्जराभ्याम् निर्जरेभ्यः । निर्जरसः-निर्जरस्य निर्जरसोः निर्जरयोः Page #43 -------------------------------------------------------------------------- ________________ सू०२०७-२१४] स्वरान्ताः स्त्रीलिङ्गाः ७ ३५ निर्जरसाम्-निर्जराणाम् । निर्जरसि-निर्जरे निर्जरसोः-निर्जरयोः निर्जरेषु । हेनिर्जर हेनिर्जरसौ-हेनिर्जरौ हेनिर्जरसः हेनिर्जराः ॥ इकारान्तः स्त्रीलिङ्गो बुद्धिशब्दः । तस्य प्रथमाद्वितीययोः हरिशब्दवत्प्रक्रिया । बुद्धिः। औ यू (सू० १५८) बुद्धी बुद्धयः। हेबुद्धे हेबुद्धी हेबुद्धयः । बुद्धिम् बुद्धी बुद्धीः । स्त्रीलिङ्गत्वान्नत्वाभावो विशेषः । पुंस इति विशेषणास्त्रियां शसः सकारस्य नकारादेशो न भवति । बुद्ध्या बुद्धिभ्याम् बुद्धिभिः ॥ २०७ इदुद्भ्याम् १२ ॥ स्त्रियां वर्तमानाभ्यामिकारोकाराभ्यां परेषां ङितां वचनानां वा अडागमो भवति ॥ इ यं खरे (सू० ३३) ए ऐ ऐ (सू० ४४) बुद्ध्यै । ङिति (सू०१६२) ए अय् (सू० ४१)। बुद्धये बुद्धिभ्याम् बुद्धिभ्यः । बुद्ध्याः । ङस्य (सू० १६३ ) बुद्धेः बुद्धिभ्यां बुद्धिभ्यः । बुद्ध्याः-बुद्धेः बुद्ध्योः बुद्धीनाम् ॥ २०८ स्त्रियां वोः १३ ॥ स्त्रियां इश्च उश्च यू तयोः । इवर्णान्तादुवर्णान्ताच्च स्त्रियां वर्तमानात्परस्य डेरामादेशो भवति ॥ बुद्ध्याम् । अडागमाभावे आमोऽप्यभावः । डेरौ डित् (सू० १६४) बुद्धौ बुद्ध्योः बुद्धिषु ॥ एवं मतिभूतिधृतिकान्तिगतिरुचिप्रभृतयः ॥ एवं धेनुरज्जुतनुप्रभृतयोप्युकारान्ताः स्त्रीलिङ्गा एतैरेव सूत्रैः सिध्यन्ति॥धेनुः धेनू धेनवः।धेनुम् धेनू धेनूः। स्त्रीलिङ्गत्वान्नत्वाभावः। धेन्वा धेनुभ्याम् धेनुभिः । धेन्वै-धेनवे धेनुभ्याम् धेनुभ्यः । धेन्वाः-धेनोः धेनुभ्याम् धेनुभ्यः धेन्वाः-धेनोः धेन्वोः धेनूनाम्।धेन्वाम् धेनौ धेन्वोः धेनुषु । हेधेनो हेधेनू हेधेनवः ॥ ईबन्तः स्त्रीलिङ्गो नदीशब्दः ॥ हसेपः सेोपः ( सू० १५६ ) नदी नद्यौ नद्यः । नदीम् नद्यौ नदीः । नद्या नदीभ्याम् नदीभिः ॥ २०९ ङितामद १४ ॥ स्त्रियां वर्तमानादीकारान्तादूकारान्ताच्च परेषां ङितां वचनानामडागमो भवति ॥ नद्यै नदीभ्याम् नदीभ्यः । नद्याः नदीभ्याम् Page #44 -------------------------------------------------------------------------- ________________ ३६ सारस्वतव्याकरणम् । [वृत्तिः १ नदीभ्यः । नद्याः नद्योः नदीनाम् । नद्याम् नद्योः नदीषु । २१० धौ हवः १५॥ इयुस्थानवर्जितयोरधात्वोरीदूतोः स्त्रीशब्दस्य च स्त्रियां धौ परे हखो भवति ॥ हेनदि हेनद्यौ हेनद्यः ॥ हखविधिसामर्थ्यान्न गुणः ॥ एवं गौरीगौतमीमहीसरखतीब्रह्माणीकुमारीमधुमतीप्रभृतयः ॥ गौरी गौर्यो गौर्यः । हेगौरि हेगौयौँ हेगौर्यः। गौरीम् गौ? गौरीः । इत्यादि । गौतमी गौतम्यौ गौतम्यः । हेगौतमि ॥ सरस्वती सरस्वत्यौ सरखत्यः । हेसरखति ॥ ब्रह्माणी ब्रह्माण्यौ ब्रह्माण्यः । हे ब्रह्माणि ॥ कुमारी कुमार्यो कुमार्यः । हेकुमारि । मधुमती मधुमत्यौ मधुमत्यः । हेमधुमति ॥ इत्यादि ॥ २११ कोष्टः स्त्रियां तृवद्भावः स्यात् १६ ॥ तेन क्रोष्ट्री क्रोष्ट्यौ क्रोष्ट्रयः । क्रोष्ट्रीम् । शेषं नदीवत् । हेक्रोष्ट्रि हेक्रोष्ट्रयौ हेक्रोष्ट्रयः । इत्यादि ।। ईकारान्तो लक्ष्मीशब्दः । लक्ष्मीशब्दस्येबन्तत्वाभावात्सेलोपो नास्ति। लक्ष्मीः लक्ष्म्यो लक्ष्म्यः । लक्ष्मीम् लक्ष्म्यौ लक्ष्मीः । शेषं नदीवत् । हेलक्ष्मि हेलक्ष्म्यौ हेलक्ष्म्यः ॥ स्त्रीशब्दस्येबन्तत्वात्सेलोपोऽस्ति । स्त्री ॥ २१२ स्त्रीभ्रुवोः १७ ॥ स्त्रीशब्दस्य भ्रूशब्दस्य च इयुवा भवतः खरे परे । स्त्रियौ स्त्रियः । हेस्त्रि हेस्त्रियौ हेस्त्रियः ॥ २१३ वामशसि १८ ॥ स्त्रीशब्दस्य अमि शसि च परे वा इयू भवति ॥ स्त्रियं स्त्रीम् स्त्रियौ स्त्रियः स्त्रीः । स्त्रिया स्त्रीभ्याम् स्त्रीभिः । स्त्रियै स्त्रीभ्याम् स्त्रीभ्यः । स्त्रियाः स्त्रीभ्याम् स्त्रीभ्यः । स्त्रियाः स्त्रियोः स्त्रीणाम् । स्त्रियाम् स्त्रियोः स्त्रीषु । इत्यादि ॥ श्रीशब्दस्य भेदः । ईकारान्तः श्रीशब्दः ॥ श्रयन्ते जना यां इति श्रीः। बोर्धातोरियुवौ स्वरे ( सू० १८० ) श्रियौ श्रियः । श्रियम् श्रियौ श्रियः । श्रिया श्रीभ्याम् श्रीभिः ॥ २१४ वेयुवः १९॥ इयुवन्तास्त्रियां वर्तमानात्परेषां ङितां वचनानां वा अडागमो भवति न तु स्त्रीश Page #45 -------------------------------------------------------------------------- ________________ सू० २१५-२२१] स्वरान्ताः स्त्रीलिङ्गाः ७ ब्दस्य विकल्पेन । श्रियै श्रिये श्रीभ्याम् श्रीभ्यः । श्रियाः-श्रियः श्रीभ्याम् श्रीभ्यः । श्रियाः-श्रियः श्रियोः श्रियाम् ।[श्यादीनां वामो नुह वक्तव्यः ] । श्रीणाम् । श्रियाम् । अडागमाभावे आमोप्यभावः । श्रियि श्रियोः श्रीषु । हेश्रीः हेश्रियः ॥ एवं धीहीप्रभृतयोऽप्यनीबन्ताः ॥ धीः धियौ धियः । हेधीः हेधियौ हेधियः । हीः हियो-हियः । हेहीः ॥ अवीलक्ष्मीतरीतनीधीहीश्रीणामुदाहृतः। सप्तानामेव शब्दानां सेर्लोपो न कदाचन ॥ ३६ ॥ ___ एवं भूशब्दो भ्रूशब्दश्च । भूः भुवौ भुवः । भुवम् भुवौ भुवः । भुवा भूभ्याम् भूभिः । भुवै-भुवे भूभ्याम् भूभ्यः । भुवाः-भुवः भूभ्याम् भूभ्यः । भुवाः-भुवः भुवोः भुवां भूनाम् । भुवां भुवि भुवोः भूषु । हेभूः हेभुवौ हेभुवः । एवं भ्रूशब्दः । भ्रूः ध्रुवौ भ्रवः । ध्रुवम् ध्रुवौ भ्रवः । ध्रुवा भ्रूभ्याम् भ्रूभिः । ध्रुवै भ्रुवे भ्रूभ्याम् भ्रूभ्यः । भ्रुवाः-भ्रवः भ्रूभ्याम् भ्रूभ्यः । ध्रुवाः-ध्रुवः ध्रुवोः ध्रुवां भ्रूणाम् । ध्रुवां-भ्रुवि भ्रुवोः भ्रूषु । हेभ्रूः हेभ्रुवौ हेभ्रवः ॥ एवं सुभ्रूशब्दः । सुभ्रूः सुभ्रुवौ सुभ्रवः । सुभ्रूशब्दस्य धौ हख इति केचित् । हेसुभ्रूः हेसुश्रु हेसुध्रुवौ हेसुभ्रवः ॥ वधूजम्ब्वादीनां तु नदीवद्रूपं ज्ञेयम् । वधूः वध्वौ वध्वः । हेवधु हेवध्वौ हेवध्वः । शेषं नदीवत् ॥ एवं जम्बूः जम्ब्बौ जम्ब्वः । हेजम्बु इत्यादि । ऋकारान्तो मातृशब्दस्तस्य पितृवत्प्रक्रिया । सेरा (सू० १८४) माता मातरौ मातरः । मातरम् मातरौ । स्त्रीलिङ्गत्वाच्छसि मातृः । नत्वाभावो विशेषः । शसीति दीर्घत्वम् । हेमातः हेमातरौ हेमातरः इत्यादि ॥ खसृशब्दस्य कर्तृशब्दवप्रक्रिया । खसा खसारौ खसारः । खसारम् खसारौ । शसि (सू० १२८ ) स्वसः । हेखसः हेखसारौ हेख. Page #46 -------------------------------------------------------------------------- ________________ ३८ सारस्वतव्याकरणम् । [ वृत्ति: १ सारः ॥ रैशब्दस्य सुरेशब्दवत्प्रक्रिया | राः रायौ रायः । हेराः ॥ गोशब्दस्तु पूर्ववत् ॥ नौशब्दस्य ग्लैौशब्दवत्प्रक्रिया | नौः नावौ नाव: । हेनौ : हेनावौ हेनावाः || || इति खरान्त स्त्रीलिङ्गप्रक्रिया ॥ ७ ॥ खरान्त नपुंसकलिङ्गाः ८ 1 अथ खरान्ता नपुंसकलिङ्गाः प्रदर्श्यन्ते । तत्राकारान्तः कुलशब्दः । तस्य प्रथमाद्वितीयैकवचने ।। २१५ अतोऽम् १ ॥ अतः अम् । अकारान्तान्नपुंसकलिङ्गात्परयोः स्यमोरम् भवत्यधैौ । अमो ग्रहणं लुग्व्यावृत्त्यर्थम् । अम्शसोरस्य ( सू० १२६ ) कुलम् ॥ २१६ ईमौ २ ॥ नपुंसकलिङ्गात्पर औ ईकारमापद्यते । अइ ए ( सू० ४३ ) कुले ॥ २१७ जश्शसोः शिः ३ ॥ नपुंसकलिङ्गात्परयोर्जशशसोः शिर्भवति । शकारः सर्वादेशार्थः ॥ २१८ गुरुः शिच्च सर्वस्य वक्तव्यः ४ ॥ षष्ठीनिर्दिष्टस्येत्यस्यापवादः ॥ २१९ नुमयमः ५ ॥ नुम् अयमः । नपुंसकस्य नुमागमो भवति शौ परे । यमप्रत्याहारान्तस्य न भवति ।। २२० मिदन्त्यात्स्वरात्परो वक्तव्यः ६ ॥ उकार उच्चारणार्थः । मकारः स्थाननियमार्थः ॥ २२१ नोपधायाः ७ ॥ नः उपधायाः । नान्तस्योपधाया दीर्घो भवति शौ परे धिवर्जितेषु पञ्चसु परेषु नामि च ॥ नोपधाया इत्यत्र छन्दसि तु भवतीति नियमात्संधिः ॥ छन्दोवत्सूत्राणि भवन्तीति वचनात् । कुलानि । पुनरपि कुलम् कुले कुलानि । शेषं देववत् । कुलेन कुलाभ्याम् कुलैः । कुलाय कुलाभ्याम् कुलेभ्यः । कुलात् कुलाभ्याम् कुलेभ्यः । कुलस्य कुलयोः कुलानाम् । कुले कुलयोः कुलेषु । हेकुल हेकुले हेकुलानि ॥ एवं मूलफलपत्रपुष्पकुण्ड कुटु• म्बादयः ॥ सर्वादीनाम कत्रान्तानामन्या दिपञ्चशब्दव्यतिरिक्तानां 7 Page #47 -------------------------------------------------------------------------- ________________ सू० २२२ - २३१] स्वरान्ता नपुंसकलिङ्गाः ८ ३९ 1 प्रथमाद्वितीययोः कुलशब्दवत्प्रक्रिया । सर्वे सर्वे सर्वाणि । पुनरप्येवम् । शेषं पूर्ववत् । सर्वेण सर्वाभ्याम् सर्वैः । सर्वस्मै सर्वाभ्याम् सर्वेभ्यः । सर्वस्मात् सर्वाभ्याम् सर्वेभ्यः । सर्वस्य सर्वयोः सर्वेषाम् । सर्वस्मिन् सर्वयोः सर्वेषु । हे सर्व सर्वे हे सर्वाणि ॥ अन्यादीनां पञ्चानां विशेषोऽस्ति । अन्य सि इति स्थिते ।। २२२ इत्वन्यादेः ८ ॥ श्तु अन्यादेः । अन्यादेर्गणात्परयोः स्यमोः इतुर्भवति । शकारः सर्वादेशार्थः । उकार उच्चारणार्थः । वावसाने ( सू० २४० ) इति पक्षे दत्वमपि भवति । अन्यत् - अन्यद् अन्ये अन्यानि । पुनरप्येवम् । शेषं सर्ववत् ॥ अन्यतरत् - अन्यतरद् अन्यतरे अन्यतराणि ।। इतरत् - इतरद् इतरे इतराणि ॥ कतरत्- कतरद् कतरे कतराणि ॥ कतमत्-कतमद् कतमे कतमानि । शेषं सर्ववद्रूपम् ॥ प्रथमादयः कुलवत् । प्रथमं प्रथमे प्रथमानि ॥ आकारान्तो नपुंसक - लिङ्गः सोमपाशब्दः । सोमपा सि इति स्थिते ॥ २२३ नपुंसकस्य २ ॥ नपुंसकस्य खो भवति सर्वासु विभक्तिषु परतः । अतोऽम् (सू०२१५) सोमपं सोमपे सोमपानि । हेसोमप । शेषं कुलवत् ॥ इकारान्तोऽस्थिशब्दः ।। २२४ नपुंसकात्स्य मोर्लुक् १० ॥ नपुंसकलिङ्गात्परयोः स्वमोर्लुग्भवति । अस्थि ।। २२५ नामिनः खरे ११ ॥ नाम्यन्तस्य नपुंसकस्य नुमागमो भवति विभक्तिखरे परे । ईमौ ( सू० २१६ ) अस्थिनी अस्थीनि । पुनरप्येवम् || २२६ अच्चास्त्रां शसादौ १२ ॥ अत् चेत्यव्ययम् । अस्मां अस्थ्यादीनां शसादौ नुमागमो भवति पूर्वस्य इकारस्य चाकारादेशो भवति शसादौ खरे परे ॥ शस् आदिर्यस्य सः शसादिः । टादिः । शसादावित्यतद्गुणसं विज्ञानो बहुव्रीहिः । यथा चित्रगुर्बहुधनः । २२७ अल्लोपः स्वरेऽम्वयु क्ताच्छसादौ १३ ॥ नान्तस्योपधाया अकारस्य लोपो भवति Page #48 -------------------------------------------------------------------------- ________________ ४० सारखतव्याकरणम्। [वृत्तिः१ शसादौ खरे परे तद्धिते ईपि ईकारे च । मकारवकारान्तसंयोगादुत्तरस्य न भवति । अम्वयुक्ताच्छसादावित्यत्र तद्गुणसंविज्ञानो बहुव्रीहिः । लम्बकर्ण इतिवत् । अतः शसोऽपि हरणम् ॥ अस्था अस्थिभ्याम् अस्थिभिः । अस्ने अस्थिभ्याम् अस्थिभ्यः । अस्नः अस्थिभ्याम् अस्थिभ्यः । अस्नोः अस्नोः अस्नाम् ॥ २२८ बेड्योः १४ ॥ वेत्यव्ययम् । नान्तस्योपधाया इङ्योः परयो अकारस्य लोपो भवति ॥ अस्नि-अस्थनि अस्नोः अस्थिषु ॥ २२९ स्वृणां नपुंसके धौ वा गुणो वक्तव्यः १५॥ इश्च उश्च ऋश्च तेषां वृणाम् । उक्तं हि । संबोधने तूशनसस्त्रिरूपं सान्तं तथा नान्तमथाप्यदन्तम् । माध्यन्दिनिर्वष्टि गुणं त्विगन्ते नपुंसके व्याघ्रपदां वरिष्ठः ॥३७॥ 'इउण् ऋलक्' इति पाणिनीयानामिप्रत्याहारः । हेअस्थे हेअस्थि हेआस्थिनी हेअस्थीनि॥ एवं दधिसक्थ्यक्षिप्रभृतयः शब्दाः।। इकारान्तो नपुंसकलिङ्गो वारिशब्दः । वारि वारिणी वारीणि । पुनरप्येवम् । वारिणा वारिभ्याम् वारिभिः। वारिणे वारिभ्याम् वारिभ्यः ।वारिणः वारिभ्याम् वारिभ्यः । वारिणः वारिणोः वारीणाम्। वारिणि वारिणोः वारिषु । हेवारे-हेवारि हेवारिणी हेवारीणि ॥ २३० नपुंसकस्य १६ ॥ नपुंसकस्य हलो भवति खरादौ ॥ नामिनः खरे ( सू० २२५) इति नुमागमः । ग्रामणि ग्रामणिनी ग्रामणीनि । पुनरप्येवम् ।। २३१ टादावुक्तपुंस्कं पुंवद्वा १७ ॥ उक्तपुंस्कं नाम्यन्तं नपुंसकलिङ्गं टादौ खरे परे पुंवद्वा भवति ॥ १ 'प्रामणी पिते पुंसि श्रेष्ठे प्रामाधिपे त्रिषु' पुंलिङ्गतायामप्यत्र प्रामणिशब्दे नपुंसकत्वाच्छ्रेष्ठकुलं गृह्यते। Page #49 -------------------------------------------------------------------------- ________________ सू०२३२-२३९] स्वरान्ता नपुंसकलिङ्गाः ८ यनिमित्तमुपादाय पुंसि शब्दः प्रवर्तते । नपुंसके तदेव स्यादुक्तपुंस्कं तदुच्यते ॥ ३८॥ एक एव हि यः शब्दस्त्रिषु लिङ्गेषु वर्तते । एकमेवार्थमाख्याति उक्तपुंस्कं तदुच्यते ॥ ३९ ॥ पीलुर्वृक्षः फलं पीलु पीलुने न तु पीलवे । वृक्षे निमित्तं पीलुत्वं तज्जत्वं तत्फले पुनः ॥४०॥ ग्रामण्या-ग्रामणिना ग्रामणिभ्याम् ग्रामणिभिः । ग्रामण्ये-ग्रामणिने ग्रामणिभ्याम् ग्रामणिभ्यः । ग्रामण्यः ग्रामणिनः ग्रामणिभ्याम् ग्रामणिभ्यः । ग्रामण्यः-ग्रामणिनः ग्रामण्या :-ग्रामणिनोः ग्रामण्याम् । नुमन्तस्यामि दीर्घः । ग्रामणीनाम् । ग्रामण्याम्-ग्रामणिनि ग्रामण्योः-ग्रामणिनोः ग्रामणिषु । हेग्रामणे हेग्रामणि हेग्रामणिनी हेग्रामणीनि ॥ सोमपं कुलं । सोमपे सोमपानि । पुनरप्येवम् । सोमपेन सोमपाभ्याम् सोमपैः इत्यादि । हे सोमप ॥ २३२ हवादेशे संध्यक्षराणामिकारोकारौ च वक्तव्यौ १८॥ सुष्ठुरायो यस्य तत् । सुरि । सुरिणी सुरीणि पुनरप्येवम् । सुरिणा-सुराया। हेसुरेहेसुरि हेसुरिणी हेसुरीणि । एकारान्तो नपुंसकलिङ्गो अतिरैशब्दः । रायमतिक्रान्तमतिरि कुलमिति विग्रहे हवादेशे संध्यक्षराणामिदुतौ इति इखत्वम् । वारिवत्प्रक्रिया । अतिरि अतिरिणी अतिरीणि । पुनरप्येवम् । अतिरया-अतिारणा अतिराभ्याम् अतिराभिः इत्यादि। उकारान्तो नपुंसकलिङ्ग उपगोशब्दः । उपगता गावो यस्येति । उपगु उपगुनी उपगूनि। पुनस्तद्वत् । तृतीयादौ खरे विकल्पः । उपगवा उपगुना इत्यादि अतिरिवत् । औकारान्तो अतिनौशब्दः । अतिनु अतिनुनी अतिनूनि इत्यादि ॥ उकारान्तो मधुशब्दः । तस्यापि खरादौ । नामिनः खरे ( सू० २५५) इत्यादि नुमागमः ॥ Page #50 -------------------------------------------------------------------------- ________________ ६२ सारस्वतव्याकरणम् । [वृत्तिः१ मधु मधुनी मधूनि । पुनरप्येवम् । हेमधो हेमधु इत्यादि । ऋकारान्तः कर्तृशब्दः । कर्तृ कर्तृणी कर्तृणि । पुनरप्येवम् । हेकर्तः-हेकर्तृ हेकर्तृणी हेकवृणि । कर्ता-कर्तृणा इत्यादि ॥ शोभना द्यौर्यस्य तत् सुधु सुधुनी सुधूनि । हेसुद्यो-हेसुद्यु हेसुधुनी । हेसुधूनि । सुधुना-सुद्यवा । इत्यादि सर्वमुन्नेयम् ॥ इति खरान्तनपुंसकलिङ्गप्रक्रिया ॥ ८॥ हसान्ताः पुंलिङ्गाः ९ अथ हसान्ताः पुंलिङ्गाः प्रदश्यन्ते । तत्र हकारान्तः अनडुहूशब्दः । अनडुहू सि इति स्थिते ॥ २३३ पश्चस्वनडुहः १ ॥ पञ्चसु वचनेष्वनडह आमागमो भवति शौ च ॥ २३४ सावनइहः २ ॥ अनडहूशब्दस्य सौ परे नुमागमो भवति ॥ २३५ संयोगान्तस्य लोपः ३ ॥ संयोगान्तस्य लोपो भवति रसे पदान्ते च । हसेपः सेर्लोपः ( सू० १५६. ) नुम्विधिसामर्थ्याद्दत्वाभावः । अनड्वान् अनड्वाही अनड्डाहः । अनड्डाहम् अनडाहौ अनहहः । अनडुहा ॥ २३६ वसां रसे ४ ॥ वस् संस् ध्वंस् भंस् अनडुहू इत्येतेषां रसे पदान्ते च दत्वं भवति । अनडुभ्याम् अनडुद्भिः । अनडुहे अनडुभ्याम् अनडुभ्यः । अनडुहः अनडभ्याम् अनडुब्धः । अनडुहः अनडुहोः अनड्डहाम् । अनडुहि अनड्डहोः । खसे चपा झसानाम् (सू० ८९ ) अनडुत्सु ॥ २३७ धावम् ५॥ अनडहूशब्दस्य धौ परे अमागमो भवति । हेअनन् हेअनड्डाहौ हेअनड्डाहः ॥ गोदुहूशब्दस्य भेदः ॥ २३८ दादेषः ६॥ दादेर्धातोर्हकारस्य घत्वं भवति धातोझसे परे नाम्नश्च रसे पदान्ते च ॥ गोदुध् सि इति स्थिते ॥ २३९ आदिजवानां Page #51 -------------------------------------------------------------------------- ________________ ४३ सू०२४०-२४६] हसान्ताः पुंलिङ्गाः ९ झभान्तस्य झभाः स्ध्वोः ७॥ धातोझभान्तस्यादौ वर्तमानानां जबानां झभा भवन्ति सकारे ध्वशब्दे च परे नाम्नश्च रसे पदान्ते च ॥ २४० वावसाने ८ ॥ अवसाने वर्तमानानां झसानां जबा. श्चपा वा भवन्ति ॥ २४१ विरामोऽवसानम् ९ ॥ वर्णानामभावोऽवसानसंज्ञः स्यात् । गोधुक्-गोधुर गोदुहौ गोदुहः । गोदुहम् । गोदुहौ गोदुहः ॥ गोदुहा । भकारादौ । दादेर्घः ( सू० २३८) इति घत्वे कृते । आदिजबानाम् (सू० २३९ ) इत्यनेन दुकारस्य घकारे कृते । झबे जबाः ( सू० ३५) गोधुग्भ्याम् गोधुग्भिः । गोधुहे गोधुग्भ्याम् गोधुग्भ्यः । गोदुहः गोधुरभ्याम् गोधुग्भ्यः । गोदुहः गोदुहोः गोदुहाम् । गोदुहि गोदुहोः । गोधुघ् सुप् इति स्थिते । खसे चपा झसानाम् ( सू० ८९) इति ककारः । पश्चात् । किलात्षः सः कृतस्य (सू० १४१) इति षत्वम् ॥ २४२ कषसंयोगे क्षः १० ॥ ककारषकारसंयोगे क्ष इत्यक्षरं भवति ॥ गोधुक्षु । हेगोधुक्-हेगोधुग् हेगोदुही हेगोदुहः ॥ मधुलिहूशब्दस्य भेदः ॥ २४३ हो ढः ११ ॥ हकारस्य ढत्वं भवति धातोझसे परे नाम्नश्च रसे पदान्ते च । वावसाने ( सू० २४०) मधुलिट् मधुलिड् मधुलिहौ मधुलिहः । मधुलिहम् मधुलिहौ मधुलिहः । मधुलिहा मधुलिड्भ्याम् मधुलिभिः । हो ढः ( सू० २४३ ) । खसे चपा झसानाम् ( सू० ८९) मधुलिटूसु । हेमधुलिट् हेमधुलिङ् हेमधुलिहौ हेमधुलिहः । इत्यादि ॥ मित्रद्रुशब्दस्य भेदः ॥ २४४ द्रुहादीनां धत्वढत्वे वा १२ ॥दुहू मुहू मुहू स्निहू इत्येतेषां हकारस्य धत्वदत्वे वा भवतः धातोझसे परे नाम्नश्च रसे पदान्ते च । वावसाने ( सू० २४० ) मित्रध्रुगू मित्रध्रुक् मित्रधुड्-मित्रध्रुट् मित्रद्रुहौ १ इदं पाणिनीयं सूत्रमत्र केनचित्प्रसङ्गात्संगृहीतं भाति । Page #52 -------------------------------------------------------------------------- ________________ ४४ सारखतव्याकरणम् । [वृत्तिः१ मित्रद्रुहः । मित्रद्रुहम् मित्रद्रुहौ मित्रद्रुहः । हेमित्रध्रुग्-हेमित्रधुक्हेमित्रध्रुइ-हेमित्रध्रुट् । मित्रQहा मित्रध्रुग्भ्याम्-मित्र ध्रुड्भ्यम् मित्रध्रुग्भि -मित्रध्रुभिः । मित्रध्रुड्सु मित्रध्रुक्षु इत्यादि ॥ एवं तत्त्वमुहशब्दः । तत्त्वे मुह्यतीति तत्त्वमुक्-तत्त्वमुग्-तत्त्वमुट्-तत्त्वमुड् तत्त्वमुहौ तत्त्वमुहः । तत्त्वमुहम् तत्त्वमुहौ तत्त्वमुहः । हेतत्त्वमुक्. हेतत्त्वमुग्-हेतत्त्वमुड् हेतत्त्वमुट् । इत्यादि ॥ भारवाहूशब्दस्य भेदः । हो ढः ( सू० २४३ ) वावसाने ( सू० २४० ) भारवाट्-भारवाड् भारवाही भारवाहः । भारवाहम् भारवाही ॥ २४५ वाहो वौ शसादौ खरे १३ ॥ वाहः वः औ शसादौ खरे । वकारस्यौकारादेशो भवति शसादौ खरे परे । भारौहः । भारौहा भारवाड्भ्याम् भारवाड्भिः ॥ २४६ श्वेतवाह उक्थशास्-पुरोडाश-अवयाजां डस् रसे पदान्ते चेति वक्तव्यम् १४ ॥ डित्त्वाहिलोपः । अत्वसोः सौ ( सू० २९४ ) श्वेतवाः श्वेतवाही श्वेतवाहः । श्वेतवाहम् श्वेतवाहो श्वेतवाहः । अत्र वाहो वौ शसादौ । खरे वेति केचित् । श्वेतौहः । श्वेतौहा-श्वेतवाहा श्वेतवोभ्याम् श्वेतवोभिः । श्वेतौहे-श्वेतवाहे श्वेतवोभ्याम् श्वेतवोभ्यः। श्वेतौहः-श्वेतवाहः श्वेतवोभ्याम् श्वेतवोभ्यः । श्वेतौहः श्वेतवाहः श्वेतौहोः-श्वेतवाहोः श्वेतौहां-श्वेतवाहाम् । श्वेतौहि-श्वेतवाहि श्वेतौहोः-श्वेतवाहोः श्वेतवःसु-श्वेतवस्सु ।। अवयाः श्वेतवाः पुरोडाश्चैते कृतदीर्घाः संबुद्धौ निपात्यन्ते । चकारादुक्थशा इति केचित् । हेश्वेतवाः वेति केचित्। हेश्वेतवः हेश्वेतवाही हेश्वेतवाहः । श्वेतमासनं वहतीति श्वेतवाः इति व्युत्पत्तिः ॥ उक्थशाः उक्थशासौ उक्थशासः । उक्थशासम् उक्थशासौ उक्थशासः । उक्थशासा उक्थशोभ्याम् उक्थशोभिः । उक्थशासे उक्थशोभ्याम् उक्थशोभ्यः । उक्थशःसु-उक्थशस्सु । Page #53 -------------------------------------------------------------------------- ________________ ४५ सू०२४७-२५४] हसान्ताः पुंलिङ्गाः ९ हेउक्थशाः हेउक्थशः हेउक्थशासौ हेउक्थशासः । इत्यादि । पुरोडाः पुरोडाशौ पुरोडाशः । पुरोडाशम् पुरोडाशौ पुरोडाशः । पुरोडाशा पुरोडोभ्याम् पुरोडोभिः । पुरोडाशे पुरोडोभ्याम् पुरोडोभ्यः। पुरोडःसु-पुरोडस्सु । हेपुरोडाः-हेपुरोडः हेपुरोडाशौ हेपुरोडाशः ॥ अवयाः अवयाजी अवयाजः । अवयाजम् अवयाजौ अवयाजः । अवयाजा अवयोभ्याम् । अवयोभिः । अवयाजे अवयोभ्याम् अवयोभ्यः । अवयःसु-अवयस्सु । हेअवयाः हेअवयः हेअवयाजौ हेअवयाजः ।। तुरासाहशब्दस्य भेदः । हो ढः (सू०२४३)॥ २४७ सहे। षः साढि १५ ॥ सहेः सकारस्य षकारादेशो भवति साढि सति । वावसाने (सू० २४०) तुरापाट् तुराषाड् तुरासाही तुरासाहः । तुरासाहम् तुरासाही तुरासाहः । तुरासाहातुराषाड्भ्याम् तुरषाभिः। तुरासाहे तुरापाड्भ्यः । इत्यादि ॥ हेतुरापाट्-हेतुरापाड् हेतुरासाहौ हेतुरासाहः ॥ रेफान्तश्चतुर्शब्दो नित्यं बहुवचनान्तः।। २४८ चतुराम् शौ च १६ ॥ चतुर्शब्दस्यामागमो भवति धिवर्जितेषु पञ्चसु परेषु शौ च परे । चत्वारः चतुरः चतुर्भिः चतुर्थ्यः ॥ २४९ र: संख्यायाः १७ ॥ रेफान्तसंख्यायाः परस्यामो नुडागमो भवति । णत्वद्वित्वे । चतुर्णाम् ॥ २५० रः सुपि १८ ॥ सप्तमीबहुवचने रोरेव विसर्जनीयो नान्यरेफस्य ॥ चतुषु । अत्र ज्ञापकं यक्चतुर्विदं सूत्रम् । तदन्तविधिरत्रेष्यते । प्रियाश्चत्वारो यस्य सः प्रियचत्वाः प्रियचत्वारौ प्रियचत्वारः । प्रियचत्वारम् प्रियचत्वारौ प्रियचतुरः । प्रियचतुरा प्रियचतुाम् प्रियचतुर्भिः । गौणत्वे नुट नेष्यते । प्रियचतुराम् । प्राधान्ये तु स्यादेव । परमचतुर्णाम् ॥ २५१ धावम् १९ ॥ चतुशब्दस्य धौ परे अमागमो भवति ॥ हेप्रिय, चत्वः हेप्रियचत्वारौ हेप्रियचत्वारः ॥ नकारान्तो राजनशब्दः । Page #54 -------------------------------------------------------------------------- ________________ ४६ सारस्वतव्याकरणम् । [वृत्तिः १ राजन् सि इति स्थिते । नोपधायाः ( सू० २२१ ) इति दीर्घः । हसेपः ( सू० १५६ ) ॥ २५२ नानो नो लोपशधौ २० ॥ नाम्नः नः लोपश् अधौ । नाम्नो नकारस्यानागमजस्य लोपश् भवति रसे पदान्ते चाधौ । चकारात्कचिन्नाम्नो नकारस्य लोपशू न भवति । सुष्ठु हिनस्ति पापमिति सुहिन् ॥ राजा राजानौ राजानः । राजानम् राजानौ । अल्लोपः खरेऽम्ब्वयुक्ताच्छसादौ (सू० २२७ ) इत्युपधाया लोपः । स्तोः श्चुभिः श्चुः (सू० ७७) इति नकारस्य अकारः ॥ २५३ जजोः २१ ॥ जकारञकारसंयोगे ज्ञ इत्यक्षरं भवति ॥ राज्ञः । राज्ञा राजभ्याम् । योगानामुभयतः संबन्धः । लोपशि पुनर्न संधिः ( सू० ५०) इति नियमात् । अद्भि (सू० १३१) इत्यात्वं न । राजभिः । राज्ञे राजभ्याम् राजभ्यः । राज्ञः राजभ्याम् राजभ्यः । राज्ञः राज्ञोः राज्ञाम् । राज्ञि । वेड्योः ( सू० २२८ ) राजनि राज्ञोः राजलु । अधाविति विशेषणाद्धेराजन् हेराजानौ हेराजानः ॥ एवं यज्वन्नात्मन्सुधर्मन्प्रभृतयः ॥ यज्वा यज्वानौ यज्वानः । यज्वानम् यज्वानौ । अम्वयुतादिति विशेषणादलोपो नास्ति । यज्वनः । यज्वना यज्वभ्याम् यज्वभिः । यज्वने यज्वभ्याम् यज्वभ्यः । यज्वनः । इत्यादि । हेयज्वन् हेयज्वानौ हेयज्वानः ॥ आत्मा आत्मानौ आत्मानः । आत्मानम् आत्मानौ आत्मनः । आत्मना आत्मभ्याम् आत्मभिः । इत्यादि ॥ हेआत्मन् हेआत्मानौ हेआत्मानः ॥ सुधर्मा सुधर्माणौ सुधर्माणः । सुधर्माणम् सुधर्माणौ सुधर्मणः । सुधर्मणा सुधर्मभ्याम् सुधर्मभिः इत्यादि ॥ हेसुधर्मन् हेसुधर्माणौ हेसुधर्माणः ॥ श्वन्युवन्मघवन्शब्दानां पञ्चसु राजनशब्दवत्प्रक्रिया । श्वा श्वानौ श्वानः । श्वानम् श्वानौ ॥ २५४ श्वादेः २२ ॥ श्वादेर्वकार उत्वं प्राप्नोति Page #55 -------------------------------------------------------------------------- ________________ सू०२५५-२६३] हसान्ताः पुंलिङ्गाः ९ . ४७ शसादौ खरे परे तद्धिते ईपि ईकारे च । खरे तु न भवति ॥ अत्र नियामकं पाणिनीयसूत्रम् । श्वयुवमघोनामतद्धिते । तेन माघवनं भवति । शुनः । शुना श्वभ्याम् श्वभिः । शुने श्वभ्याम् श्वभ्यः। शुनः श्वभ्याम् इत्यादि ॥ हेश्वन् हेश्वानौ हेश्वानः ॥ युवा युवानौ युवानः । युवानम् युवानौ । युवनशब्दस्य तु वकारस्योत्वे कृते । सवर्णे दीर्घः सह ( सू० ५२ ) यूनः । यूना युवभ्याम् युवभिः । यूने युवभ्याम् युवभ्यः । इत्यादि । हेयुवन् हेयुवानौ हेयुवानः ।। मघवा मघवानौ मघवानः । मघवानम् मघवानौ । मघवन्शब्दस्य वकारस्योत्वे कृते । उ ओ ( सू० ४५) मघोनः । मघोना मघवभ्याम् मघवभिः । मघोने मघवभ्याम् मघवभ्यः । इत्यादि ॥ हेमघवन् हेमघवानौ हेमघवानः ॥ २५५ मघवा बहुलम् २३ ॥ मघवन्शब्दस्य वा तृ इत्यन्तादेशः स्यात् ॥ ऋकारो बित्कार्यार्थः । बहुलग्रहणात्सर्वे विधयो व्यभिचरन्ति । बितो नुम् (सू० २९२ ) मघवान् । नश्चापदान्ते झसे ( सू० ९५) मघवन्तौ मघवन्तः । मघवन्तम् मघवन्तो मघवतः । मघवता मघवभ्याम् मघवद्भिः । मघवते मघवन्याम् मघवभ्यः इत्यादि ॥ हेमघवन् हेमघवन्तौ हेमघवन्तः ॥ ‘स किल संयुगमूर्ध्नि सहायतां मघवतः प्रतिपद्य महारथः ॥' इति प्रयोगदर्शनात् ॥ २५६ अर्वणस्त्रसावनञः २४ ॥ नम्वर्जस्यार्वणस्तृ इत्यन्तादेशः स्यादसौ विभक्तो परतः । अर्वा अर्वन्तौ अर्वन्तः । अर्वन्तम् अर्वन्तौ अर्वतः । अर्वता अर्वभ्याम् अर्वद्भिः। अर्वते अर्वभ्याम् अर्वञ्यः । इत्यादि॥ हेअर्वन् हेअर्वन्तौ हेअर्वन्तः॥ नवर्जस्येति किम् । नोपधायाः (सू०२२१) अनर्वा अनर्वाणौ अनर्वाणः । अनर्वाणम् अनर्वाणौ अनर्वणः । अनर्वणा अनर्वभ्याम् १ इदमपि पाणिनीयमत्र प्रसङ्गात्केनचित्संगृहीतम् । Page #56 -------------------------------------------------------------------------- ________________ ४८ सारस्वतव्याकरणम् । [वृत्तिः १ अनर्वभिः अनर्वसु । इत्यादि ॥ नकारान्तस्यापि पथिन्शब्दस्य भेदः ॥ २५७ इतोऽत्पञ्चसु २५ ॥ इतः अत् पञ्चसु । पञ्चसु स्यादिषु पथ्यादीनामिकारस्याकारो भवति ॥ २५८ थो नुन २६ ॥ पथ्यादीनां थकारस्य नुडागमो भवति पञ्चसु स्यादिषु परेषु । पन् थन् सि इति स्थिते ॥२५९ आ सौ २७॥ आ सौ । पथ्यादीनां टेरात्वं भवति सौ परे । पन्थाः । नोपधायाः ( सू ० २२१) पन्थानौ पन्थानः । पन्थानम् पन्थानौ ॥ २६० पन्थां टेः २८ ॥ पथ्यादीनां टेलोपो भवति शसादौ खरे परे तद्धिते ईपि ईकारे च । पथः । पथा पथिभ्याम् पथिभिः । पथे पथिभ्याम् पथिभ्यः । पथः पथिभ्याम् पथिभ्यः । पथः पथोः पथाम् । पथि पथोः । नलोपः । किलात्षः सः ( सू० १४१) पथिषु । हेपन्थाः हेपन्थानौ हेपन्थानः ॥ एवं मथिन्ऋभुक्षिन्प्रभृतयः। मन्थाः मन्थानौ मन्थानः॥ ऋभुक्षाः ऋभुक्षाणौ ऋभुक्षाणः । इत्यादि। दण्डिन्शब्दस्य भेदः॥ २६१ इनां शौ सौ २९ ॥ इन् हन् पूषन् अर्थमन् इत्येतेषां शौ सौ चाधौ परे उपधाया दी| भवति । सिलोपनलोपौ । दण्डी दण्डिनौ दण्डिनः । दण्डिनम् दण्डिनौ दण्डिनः । दण्डिना दण्डिभ्याम् दण्डिभिः । दण्डिने दण्डिभ्याम् दण्डिभ्यः । दण्डिषु । इत्यादि ॥ हेदण्डिन् हेदण्डिनौ हेदण्डिनः ॥ ब्रह्महा ब्रह्महणौ ब्रह्महणः । ब्रह्महणम् ब्रह्महणौ । अल्लोपः खरे (सू० २२७) ।। २६२ हनो ने ३० ॥ हनः घ् ने । हन्तेर्धातोर्हकारस्य घत्वं भवति अव्यवधाने नकारे परे व्यवधाने निति णिति च परे । घसंयोगो णत्वनिषेधार्थः ॥ २६३ हन्तेरत्पूर्वस्य ३१॥ हन्तेरकारपूर्वस्यैव नस्य णत्वं स्यान्नान्यस्य ॥ ब्रह्मघ्नः । ब्रह्मना ब्रह्महभ्याम् ब्रह्महभिः । ब्रह्मन्ने ब्रह्महभ्याम् ब्रह्महभ्यः । ब्रह्मनः ब्रह्मभ्याम् Page #57 -------------------------------------------------------------------------- ________________ सू०२६४-२७३] हसान्ताः पुंलिङ्गाः ९ १९ ब्रह्महभ्यः । ब्रह्मनः ब्रह्मघ्नोः ब्रह्मनाम् । ब्रह्मनि-ब्रह्महणि ब्रह्मनोः ब्रह्महसु । हेब्रह्महन् हेब्रह्महणौ हेब्रह्महणः ॥ पूषा पूषणौ पूषणः । पूषणम् पूषणौ पूष्णः । पूष्णा पूषभ्याम् पूषभिः । पूष्णे पूषभ्याम् पूषभ्यः । पूष्णः पूषभ्याम् पूषभ्यः । पूष्णः पूष्णोः पूष्णाम् । पूष्णि-पूषणि । डौ टिलोपो वेति केचित् । पूषि पूष्णोः पूषसु । हेपूषन् हेपूषणौ हेपूषणः ॥ अर्यमा अर्यमणौ अर्यमणः । अर्यमणम् अर्यमणौ अर्यम्णः । अर्यम्णा अर्यमभ्याम् अर्यमभिः । इत्यादि । हेअर्यमन् हेअर्यमणौ हेअर्यमणः ॥ संख्याशब्दाः पञ्चनप्रभृतयो बहुवचनान्तास्त्रिषु सरूपाः । पञ्चन् जस् इति स्थिते ॥ २६४ जश्शसोलुंक ३२ ॥ षकारनकारान्तसंख्यायाः परयो सशसोलुंग्भवति ।। २६५ लुकि न तनिमित्तम् ३३ ॥ लुकि सति तन्निमित्तं कार्य न स्यात् ॥ तेन । नोपधायाः ( सू० २२१ ) इति दीर्घत्वं न । पञ्च पञ्च पञ्चभिः पञ्चभ्यः पञ्चभ्यः ॥ २६६ ष्णः ३४ ॥षकारनकारान्तसंख्यायाः परस्यामो नुडागमो भवति ॥ नोपधायाः (सू० २२१) नानो नो लोपशधौ (सू. २३४ ) पञ्चानाम् पञ्चसु । एवं सप्तन्नवन्दशन्प्रभृतयः ॥ अष्टन्शब्दस्य भेदः ॥ २६७ अष्टनो डौ वा ३५ ॥ अष्टन्शब्दात्परयो सूशसोर्वा डौ भवति । डिवाडिलोपः । अष्टौ अष्टौ अष्ट अष्ट ॥ २६८ वासु ३६ ॥ वा आ आसु । अष्टन्शब्दस्य आसु विभक्तिषु परासु वा टेरात्वं भवति । अष्टभिः-अष्टाभिः । अष्टभ्यः अष्टाभ्यः । अष्टभ्यः अष्टाभ्यः । अष्टानाम् । अष्टसु-अष्टासु । गौणत्वेऽपि आत्वं जश्शसोडौँत्वं वेत्येके । प्रियाष्टा-प्रियाष्टाः प्रियाष्टानौ-प्रियाष्टौ प्रियाष्टानः प्रियाष्टौ-प्रियाष्टाः। प्रियाष्टानं-प्रियाष्टाम् प्रियाष्टानौ-प्रियाष्टौ प्रियाष्ट्रः प्रियाष्टौ-प्रियाष्टान् प्रियाष्ट्रा-प्रियाष्टा प्रियाष्टाभ्यां-प्रियाष्टभ्याम् प्रियाष्टाभिः-प्रियाष्टभिः । Page #58 -------------------------------------------------------------------------- ________________ सारस्वतव्याकरणम् । [वृत्तिः १ प्रिया-प्रियाष्टै प्रियाष्टाभ्यां प्रियाष्टभ्याम् प्रियाष्टाभ्यः - प्रियाष्टभ्यः । प्रियाष्ट्रः - प्रियाष्टाः प्रियाष्टाभ्यां - प्रियाष्टभ्याम् प्रियाष्टाभ्यः - प्रियाष्टभ्यः । प्रियाष्टुः-प्रियाष्टाः प्रियाष्ट्रोः प्रियाष्टौः प्रियाष्टां-प्रियाष्ट्राम् । प्रियाष्टि-प्रियाष्टनि प्रियाष्टे प्रियाष्ट्रोः - प्रियाष्टौ ः प्रियाष्टासुप्रियाष्टसु । हेप्रियाष्टन्- हे प्रियाष्टा हेप्रियाष्टानौ - हेप्रियाष्टौ हेप्रियाटान:- हेप्रियाष्टाः || ५० जसि त्रीण्येव रूपाणि शसि त्रीण्येव वै पुनः । ङावपि त्रीणि रूपाणि शेषे द्वे द्वे प्रियाष्टनः ॥ ४१ ॥ मकारान्त इदम् शब्दः || २६९ इदमोऽयं पुंसि ३७ ॥ इदमः अयम् पुंसि । इदमशब्दस्य पुंसि विषये अयमादेशो भवति सिस - हितस्य ॥ अयम् । द्विवचनादौ त्यादेष्टेः ( सू० १७५ ) इति सर्वत्राकारः । इद औ इति स्थिते ॥ २७० दस्य मः ३८ ॥ त्यदादीनां दकारस्य मत्वं भवति स्यादौ परे ॥ ओ औ औ ( सू० ४६ ) इमौ । सर्वादित्वात् जसी ( १४५ ) इमे । त्यादीनां घेरभावः । इमम् इमौ इमान् ॥ २७१ अन टौसोः ३९ ॥ अन टौसोः । इदमोऽनादेशो भवति टौसोः परयोः कृत्स्नस्य ॥ टेन ( सू० १३० ) अनेन ॥ २७२ स्भ्यः ४० ॥ स्भि अः । इदमः सकारे भकारे च परे अकारादेशो भवति कृत्स्नस्य ॥ त्यदादित्वादत्वसिद्धौ पुनरत्वविधानं सर्वादेशार्थम् । तदाह कृत्स्नस्येति । अद्भि ( सू १३१ ) इत्यात्वम् । आभ्याम् || २७३ भिमस् ४१ ॥ इदमदसोर्भिस् भिसेव भवति ॥ तेन भकारस्य अत्वं न । एस्ि बहुत्वे (सू० १३५) एभिः । इदम् इति स्थिते त्यादेष्टेरः स्यादौ डे (सू० २७५) सर्वादेः स्मट् (सू० १४८) स्भ्यः (सू० १७२) अस्मै आभ्याम् एभ्यः । ङसिरत् ( सू० १३६ ) अतः ( सू० १४९ ) Page #59 -------------------------------------------------------------------------- ________________ सू०२७४-२८२] हसान्ताः पुंलिङ्गाः ९ अस्मात् आभ्याम् एभ्यः । उसूस्य ( सू० १३७ ) अस्य । अन टौसोः (सू० २७१) ओसि (सू० १३८) ए अय् (सू० ४१) अनयोः । सुडामः (सू० १५०) स्भ्यः (सू०२७२) एस्भि बहुत्वे (सू०१३५) किलात् (सू० १४१) एषाम् । ङि स्मिन् ( सू० १५१) अस्मिन् अनयोः एषु ॥ त्यदादीनां संबोधनाभावः ॥ २७४ इदमोऽप्यन्वादेशे द्वितीयाटौस्स्वेनादेशो वक्तव्यः ४२ ॥ उक्तस्य पुनर्भाषणमन्वादेशः ॥ एनं एनौ एनान् । एनेन एतयोः एनयोः ॥ प्रशाम्शब्दस्य भेदः ॥२७५ मोनो धातोः ४३ ॥ धातोर्मकारस्य नकारादेशो भवति रसे पदान्ते च । प्रशान् प्रशामौ प्रशामः । हेप्रशान् हेप्रशामौ हेप्रशामः । प्रशामम् प्रशामौ प्रशामः । प्रशामा प्रशान्भ्याम् प्रशान्भिः । इत्यादि । किंशब्दस्य भेदः । किंशब्दस्य त्यादेष्टेरः स्यादौ (सू०२७५) इति सर्वत्राकारे कृते सर्वशब्दवद्रूपं ज्ञेयम् ॥ कः कौ के । कम् को कान् । केन काभ्याम् कैः । कस्मै काभ्याम् केभ्यः । इत्यादि ॥ धकारान्तस्तत्त्वबुध् शब्दः । तस्य रसे पदान्ते च । आदिजबानां झभान्तस्य झभाः स्ध्वोः ( सू० २३९) हसे पः सेर्लोपः ( सू०१५६ ) वावसाने (सू० २४०) तत्त्वमुत्र तत्त्वभु तत्वबुधौ तत्त्वबुधः । तत्त्वबुधम् तत्त्वबुधौ तत्त्वबुधः । तत्त्वबुधा तत्त्वभुभ्याम् तत्त्वभुद्भिः । इत्यादि । हेतत्त्वभुत् हेतत्त्वभुद् हेतत्त्वबुधौ हेतत्त्वबुधः ॥ जकारान्तः सम्राजशब्दः ॥ २७६ छशपराजादेः षः ४४ ॥ छकारान्तस्य शकारान्तस्य षकारान्तस्य च राज्यस्रज्मृजभ्राजादेश्च षकारो भवति धातोझसे परे नाम्नश्च रसे पदान्ते च ॥ षस्य षत्वं डत्वनिषेधार्थम् । तेन आख्यातादौ तु डत्वं नास्ति द्वेष्टीत्यादि ॥ २७७ षो डः ४५ ॥ षः डः । षकारस्य डत्वं भवति धातोझसे परे नाम्नश्च रसे पदान्ते च । वावसाने Page #60 -------------------------------------------------------------------------- ________________ सारस्वतव्याकरणम् । [वृत्तिः१ (सू० २४० ) ॥ २७८ मो राजि समः कौ ४६ ॥ विबन्ते राजतौ परे समो मस्य म एव स्यात् ॥ तेनानुखाराभावः । सम्राड् सम्राट् सम्राजौ सम्राजः । सम्राजम् सम्राजौ सम्राजः । सम्राजा सग्राड्भ्याम् सम्राभिः । इत्यादि ॥ सम्राट्सु । हेसम्राट्-हेसम्राड् हेसम्राजौ हेसम्राजः ॥ २७९ युजेरसमासे ४७ ॥ युजेः सुटि नुम् स्वादसमासे ॥ २८० किन्प्रत्ययस्य कु. ४८॥ क्विन्नन्तस्य धान्तोः कवर्गान्तादेशः स्यादसमासे झलि पदान्ते च । प्रत्ययशब्देन प्रत्ययान्तस्य ग्रहणम् । युङ् । अनुखारपरसवौँ । युञ्जौ युञ्जः । युञ्जम् युञ्जौ युजः । युजा युग्भ्याम् युग्भिः । युजे युग्भ्याम् युग्भ्यः । चोः कुः (सू० २८५ ) खसे चपा० ( सू० ८९) किलात् (सू०. १४१) कषसंयोगे क्षः ( सू० २४२) युक्षु । हेयुङ् हेयुञ्जौ हेयुञ्जः । इत्यादि । असमासे किम् । अश्वयुक् अश्वयुग् अश्वयुजौ अश्वयुजः । अश्वयुजम् अश्वयुजौ अश्वयुजः । अश्वयुजा अश्वयुग्भ्याम् अश्वयुग्भिः । इत्यादि ॥ समाध्यर्थस्य युजेन नुम् । युक् समाधिमानित्यर्थः ॥ दकारान्तो द्विपादशब्दः। द्विपात्-द्विपाद् द्विपादौ द्विपादः। द्विपादम् द्विपादौ ॥ २८१ पादः पत् ४९ ॥ पादूशब्दस्य पदादेशः स्याच्छदासौ खरे परे तद्धिते ईपि इकारे च ॥ द्विपदः। द्विपदा द्विपाभ्याम् द्विपाद्भिः ॥ द्विपदे द्विपाभ्याम् द्विपाभ्यः । इत्यादि॥ हेद्विपात् हेद्विपादू हेद्विपादौ हेद्विपादः ।। दकारान्तास्त्यदूतदयद्एतदूशब्दाः॥ त्यदू सि इति स्थिते ॥२८२ स्तः ५०॥ सू तः । त्यदादेस्तकारस्य सत्वं भवति सौ परे ॥ स्यः त्यौ त्ये । त्यम् त्यौ त्यान् । त्येन त्याभ्याम् त्यैः । त्यस्मै त्याभ्याम् त्येभ्यः । १ पाणिनीयानीतश्चत्वारि सूत्राणि प्रक्षिप्तान्यत्रेत्यनुमितिः प्राचीनतमपुस्तकेध्वदृष्टत्वात् । Page #61 -------------------------------------------------------------------------- ________________ सू० २८३-२९१] हसान्ताः पुंलिङ्गाः ९ त्यस्मात् त्याभ्याम् त्येभ्यः । त्यस्य त्ययोः त्येषाम् । त्यस्मिन् त्ययोः त्येषु ॥ सः तौ ते । तम् तौ तान् । तेन ताभ्याम् तैः। तस्मै इत्यादि॥ यः यौ ये । यम् यौ यान् । येन याभ्याम् यैः । यस्मै । इत्यादि। एषः एतौ एते ॥ २८३ एतदोऽन्वादेशे द्वितीयाटौःखेनो वा वक्तव्यः॥उक्तस्य पुनर्भाषणमन्वादेशः। एतं-एनम् एतौ-एनौ एतान् एनान् । एतेन-एनेन एताभ्याम् एतैः । एतस्मै एताभ्याम् एतेभ्यः। । एतस्मात् एताभ्याम् एतेभ्यः । एतस्य एतयोः एनयोः एतेषाम् । एतस्मिन् एतयोः-एनयोः एतेषु ॥ एतेन व्याकरणमधीतमेनं छन्दोऽध्यापय ॥छकारान्तस्तत्त्वप्राशब्दः छशषराजादेः षः (सू० २७६) वावसाने (सू० २४०) तत्त्वप्राट्-तत्त्वप्राडू तत्त्वप्राछौ तत्त्वप्राछः । तत्त्वप्राछम् तत्त्वप्राछौ तत्त्वप्राछः । तत्त्वप्राछा । छशषराजादेः षः (सू० २७६ ) षोडः (सू० २४७) तत्त्वप्राइभ्याम् तत्त्वप्राइभिः । तत्त्वप्राछे तत्त्वप्राड्भ्याम् तत्त्वप्राड्भ्यः । तत्त्वप्राछः तत्त्वप्राड्भ्याम् तत्त्वप्राड्भ्यः । तत्त्वप्राछः तत्त्वप्राछोः तत्त्वप्राछाम् । तत्त्वप्राछि तत्त्वप्राछोः तत्त्वप्राट्सु ॥ थकारान्तोऽग्निमथ्शब्दः । वावसाने (सू० २४०) अग्निमत्-अग्निमद् अग्निमथौ अग्निमथः । अग्निमथम् अमिमथौ अग्निमथः । अग्निमथा अग्निमद्भयाम् अग्निमद्भिः । इत्यादि। हेअग्निमत्-हेअग्निमद् हेअग्निमथौ हेअग्निमथः ॥ चकारान्तः प्रत्यच्शब्दः ॥ २८४ अञ्चेः पञ्चसु नुमागमो वक्तव्यः ५२ ।। २८५ चोः कुः ५३ ॥ चवर्गस्य कवर्गादेशो भवति धातोझसे परे नाम्नश्च रसे पदान्ते च यथासंख्येन ॥ स्तोः श्चुभिः श्चः (सू० ७७) संयोगान्तस्य लोपः ( सू० २३५ ) प्रत्यङ् प्रत्यञ्चौ प्रत्यञ्चः । प्रत्यञ्चम् प्रत्यञ्चौ ॥ २८६ अञ्चेर्दीर्घश्च ५४ ॥ अञ्चतेरकारस्य लोपो भवति पूर्वस्य च दीर्घः शसादौ खरे परे तद्धिते प्रत्यये ईपि इकारे Page #62 -------------------------------------------------------------------------- ________________ ५४ सारस्वतव्याकरणम् । [वृत्तिः१ च॥प्रतीचः । निमित्ताभावे नैमित्तिकस्याप्यभावः। प्रतीचा। चोः कुः (सू० २८५) प्रत्यग्भ्याम् प्रत्यग्भिः। प्रतीचे प्रत्यग्भ्याम् प्रत्यग्भ्यः । प्रत्यक्षु । हेप्रत्यङ्हेप्रत्यञ्चौ हेप्रत्यञ्चः ॥२८७ नाञ्चेः पूजायाम ५५ ॥ पूजार्थस्याञ्चतेरुपधाभूतस्य नस्य लोपो न स्यात् । अलुप्तनकारत्वान्न नुम् । किन्प्रत्ययस्य कुः ( सू० २७९) संयोगान्तस्य लोपः । . ( सू० २३५)। प्रत्यङ् प्रत्यञ्चौ प्रत्यञ्चः । प्रत्यञ्चम् प्रत्यञ्चौ । नलोपाभावादकारस्यालोपः। प्रत्यञ्चः प्रत्यञ्चा प्रत्यङ्भ्याम् प्रत्यभिः। इत्यादि ॥ ङोः कुक् टुक् वा शरि ( सू० १०० ) प्रत्यक्षु प्रत्य क्षु ॥ एवं तिर्यचशब्दः । तिर्यङ् तिर्यञ्चौ तिर्यञ्चः । तिर्यञ्चम् तिर्यञ्चौ ॥ २८८ तिरश्चादयः ५६ ॥ तिरश्चादयः शब्दा निपात्यन्ते शसादौ खरे परे तद्धिते ईपि ईकारे च ॥ तिरश्वः । तिरश्चा तिर्यग्भ्याम् तिर्यग्भिः । तिर्यक्षु । हेतिर्यङ् हेतिर्यञ्चौ हेतिर्यञ्चः ॥ २८९ विष्वग्देवयोश्च टेरयश्चतौ वप्रत्यये ५७ ॥ अनयोः सर्वनामश्च टेरद्यादेशः स्यादप्रत्ययान्तेऽञ्चतौ परे ॥ अमुं अञ्चतीति विग्रहे ॥ अदसष्टेरद्यादेशः ॥ २९० अदसोऽसे दुदो मः ५८ ॥ अदसोऽसान्तस्य दात्परस्य उदूतौ स्तो दस्य च मः स्यात् । अदमुयङ् अमुयङ् अमुमुयङ् अदद्यङ् ॥ - परतः केचिदिच्छन्ति केचिदिच्छन्ति पूर्वतः । उभयोः केचिदिच्छन्ति केचिदिच्छन्ति नोभयोः ॥४२॥ विष्वद्या देवद्यङ् ॥ उदङ् उदञ्चौ उदञ्चः । उदञ्चम् उदञ्चौ ॥ २९१ उद ईत ५९ ॥ उच्छब्दात्परस्य लुप्तनकारस्याञ्चतेरकारस्येकारादेशो भवति शसादौ खरे परे तद्धिते ईपि इकारे च । उदीचः। उदीचा उदग्भ्याम् उदग्भिः । उदक्षु । हेउदङ् हेउदञ्चौ हेउदञ्चः॥ - १ पाणिनीयमिदं सूत्रम् । - Page #63 -------------------------------------------------------------------------- ________________ सू० २९२-२९५] हसान्ताः पुंलिङ्गाः ९ एवं सम्यचूशब्दः । सम्यङ् सम्यञ्चौ सम्यञ्चः । सम्यञ्चम् सम्यञ्चौ समीचः । समीचा इत्यादि ॥ ककारान्तो मरुच्छब्दः । हसे पः सेर्लोपः (सू० १५६) वावसाने (सू० २४० ) मरुत्-मरुद् मरुतौ मरुतः । मरुतम् मरुतौ मरुतः । मरुता मरुद्भ्याम् मरुद्भिः । इत्यादि । हेमरुत्-हेमरुद् हेमरुतौ हेमरुतः ॥ एवं अमिचित्प्रभृतयः॥ अग्निचित-अग्निचिद् अग्निचितौ अग्निचितः । हेअमिचित्-हेअमिचिदू हेअग्निचितौ हेअग्निचितः ॥ तकारान्त उकारानुबन्धो महच्छब्दः ॥ २९२ बितो नुम् ६० ॥ उश्च ऋश्व वृ । वृ इत् यस्य सः वित् तस्य वितः नुम् । उकारानुबन्धस्य ऋकारानुबन्धस्य च नुमागमो भवति पुंसि पञ्चसु परेषु ॥ २९३ सम्महतोऽधौ दीर्घः शौ च ६१ ॥ न्च सूच अपच महांश्च एतेषां समाहारः सम्महतः तस्य न्सम्महतः अधौ दीर्घः शौ चेत्यन्वयः । सन्तस्यापशब्दस्य महच्छब्दस्य च दीर्घो भवति पञ्चसु परेषु धिवर्जितेषु शौ च परे ॥ संयोगान्तस्य लोपः (सू० २३५) महान् । नश्वापदान्ते झसे (सू० ९५) महान्तौ महान्तः । महान्तम् महान्तौ महतः । महता महद्भ्याम् महद्भिः । महते महद्भ्याम् महन्यः । इत्यादि हेमहन् हेमहान्तौ हेमहान्तः । न्सन्तस्येत्यागमजनकारयुक्तसान्तस्य ज्ञेयम् । तेन कंसशब्दस्य किबन्तस्य न दीर्घः। संयोगान्तस्य लोपः ( सू० २३५) कन् कंसौ कंसः। कंसम् कंसौ कंसः। कंसा कन्भ्याम् कन्भिः। कन्सु । हेकन् ॥ शोभना आपो यस्मिन्नसौ खाप खाबू खापौ खापः ॥ खाम्पि तडागानि । तकारान्त उकारानुबन्धो भवच्छब्दः । वृतो नुम् (सू० २९२) इति नुमागमः ॥ २९४ अत्वसोः सौ ६२ ॥ अत्वसोः सौ इति धातोनेष्यते । अत्वन्तस्यासन्तस्य च दी| भवति धिवर्जिते सौ परे । संयोगान्तस्य (सू०२३५) हसे पः (सू०) भवान् भवन्तौ भवन्तः । Page #64 -------------------------------------------------------------------------- ________________ ५६ सारस्वतव्याकरणम् । [वृत्तिः १ भवन्तम् भवन्तौ भवतः । भवता भवद्भ्याम् भवद्भिः । भवते भवद्भ्याम् भवद्भ्यः । भवतः भवद्भ्याम् भवभ्यः । भवतः भवतोः भवताम् । भवति भवतोः भवत्सु । हेभवन् हेभवन्तौ हेभवन्तः ।। असन्तस्येत्यसुप्रत्ययान्तस्येति विवक्षितम् । तेन पिण्डं असतीति पिण्डनः पिण्डग्रसौ पिण्डग्रसः । पिण्डग्रसम् पिण्डग्रसौ पिण्डग्रसः इत्यादि ॥ ऋकारानुबन्धस्य भवत्शब्दस्य नुगागम एव । अत्वन्तत्वाभावान्न दीर्घः । वृतो नुम् (सू० २९२) संयोगान्तस्य लोपः (सू० २३५) भवन् भवन्तौ भवन्तः । भवन्तम् भवन्तौ भवतः भवता भवद्भ्याम् भवद्भिः। भवत्सु । इत्यादि । हेभवन् हेभवन्तौ हेभवन्तः ॥ एवं पचनशब्दः । पचन् पचन्तौ पचन्तः । पचन्तम् पचन्तौ पचतः । पचत्सु । इत्यादि ॥ हेपचन् हेपचन्तौ हेपचन्तः ॥ २९५ द्विरुक्तानां जक्षादीनां च शतुर्नुमप्रतिषेधः पुंलिङ्गे नित्यं वक्तव्यो नपुंसके वा शौ च ६३ ॥ दधत्-दधदू दधतौ दधतः । दधतम् दधतौ दधतः । दधता दधद्भ्याम् दधद्भिः । इत्यादि ॥ नपुंसके दधत्-दधद् दधती दधति-दधन्ति । जक्ष जागृ दरिद्रा शास् दीधी वेवी चकास् एते जक्षादयः ॥ शकारान्तो विशशब्दः । छशषराजादेः षः (सू० २७६) इति षत्वम् । षो डः ( सू० २७७ ) इति डत्वम् । वावसाने ( सू० २४० ) चपा जबाश्च । विट्-विड् विशौ विशः । विशम् विशौ विशः। विशा विड्भ्याम् विभिः । विट्सु । इत्यादि । हेविट हेविड हेविशौ हेविशः ॥ षकारान्तः षष्शब्दो नित्यं बहुवचनान्तस्त्रिषु सरूपः । षष् जस् इति स्थिते । जसूशसोर्लक् (सू० २६४ ) षो डः (सू० २७७) वावसाने ( सू० २४०) षट् षड्भिः षड्भ्यः षड्भ्यः । ष्णः (सू० २६६ ) इति नुट् । षो डः (सु० २७७) Page #65 -------------------------------------------------------------------------- ________________ सू० २९६- ३०१] हसान्ताः पुंलिङ्गाः ९ ५७ षड् नाम् इति स्थिते ॥ २९६ ड्णः ६४ ॥ ड् णः । संख्यासंबन्धिनो डकारस्य णत्वं भवति नामि परे ॥ टुभिः टुः (सू० ७९ ) षण्णाम्। क्वचिदष्पदान्तेऽपि पदान्तताश्रयणीया । षष् सु इति स्थिते । षोड: ( सू० २७७ ) खसे चपा (सू० ८९) इतिटकारे कृते । षट्सु इत्यत्र । ष्टुभिः ष्टुः ( सू० ७९ ) इति सकारस्य षत्वे प्राप्ते पदान्तताश्रयणीया । टोरन्त्यात् ( सू० ८३ ) इति ष्टुत्वनिषेधः ॥ २९७ दोषाम् ६५ ॥ दोष्सजुष्आशिष्ह विष्प्रभृतीनां षकारस्य रेफो भवति रसे पदान्ते च ॥ हसे पः ( सू० १५६ ) स्रोर्विसर्गः ( सू० १२४ ) दो: दोषौ दोषः । दोषम् दोषौ । [ शसादावन्नन्तता वा वक्तव्या ] दोष्णः- दोषः । दोष्णा- दोषा दोर्भ्यां दोषभ्याम् दोर्भिः- दोषभिः । दोष्णे-दोषे दोर्भ्यां - दोषभ्याम् दोर्भ्यः दोषभ्यः । दोष्णः - दोषः दोर्भ्यां - दोषभ्याम् दोर्भ्यः - दोषभ्यः । दोष्णः - दोषः दोष्णोः दोषोः दोष्णाम्-दोषां । वेङयोः (सू० २२८ ) दोष्ण-दोषण दोषि दोष्णोः - दोषोः । दोषसु इति स्थिते । दोषाम् ( सू० २९७ ) इति विसर्गः । शषसे वा ( सू० १०५ ) इति सत्वे कृते । क्विलात् (सू० १४१ ) इति षत्वे रम् । नुम् विसर्ज - नीयशस्व्यवधानेऽपि किलादिति सस्य षत्वं वाच्यम् । कृताकृतप्रसङ्गीयो विधिः स नित्यः । दोष्षु - दोः षु-दोषसु । हेदो: हेदोषौ हेदोषः ॥ सप्तमीबहुवचने कृत्रिमत्वाद्विसर्गः ॥ एवं सजुष्ाब्दः ॥ २९८ सजुषाशिषो रसे पदान्ते च दीर्घो वक्तव्यः ६६ ॥ व्योविहसे ( सू० ३१५ ) इति सिद्धे इदं न वक्तव्यम् । अथवा तस्यैवेदं सूचकम् । दोषाम् । ( सू० २९७ ) सजूः सजुषौ सजुषः । सजुषम् सजुषौ सजुषः । सजुषा सजूर्भ्याम् सजूर्भिः । सजूषु-सजूः षु । इत्यादि । हेसजूः हेसजुषौ हेसजुषः ॥ सकारान्तः पुंस्शब्दः । Page #66 -------------------------------------------------------------------------- ________________ ५८ सारस्वतव्याकरणम् । [ वृत्ति: १ पुंम् सि इति स्थिते ॥ २९९ पुंसोऽसुङ् ६७ ॥ पुंस्शब्दस्य असुङादेशो भवति पुंसि पञ्चसु परेषु शौ च ॥ ङकारोऽन्त्यादेशार्थः । उकारो नुम्विधानार्थः ॥ 1 रेफः वरपरं वर्णं दृष्ट्वाssरोहति तच्छिरः । पुरः स्थितं यदा पश्येदधः संक्रमते खरम् ॥ ४३ ॥ अनुस्वारो नमस्यैव यावत्तद्देशयोगतः । मूर्ध्नि सङ्गं लभेत्तावन्नेक्षते पुरतः स्वरम् ॥ ४४ ॥ मः खरे ( सू० १०१ ) पुमस् सि इति स्थिते । त्रितो नुम् ( सू० २९२ ) सम्महतः ( सू० २९३ ) इति दीर्घः । संयोगान्तस्य लोपः ( सू० २३५ ) हसे पः सेर्लोपः ( सू० १५६ ) पुमान् पुमांसौ पुमांसः । पुमांसम् पुमांसौ पुंसः । पुंसा । पुंसि पुंसोः । पुंस सु इति स्थिते ।। ३०० असंभवे पुंसः कक्सौ ६८ ॥ असंभव इति कोऽर्थः । वेदान्तैकवेद्यस्य परमात्मनो बहुत्वासंभवे वाच्ये सति पुंस्शब्दस्य कगागमो भवति सुपि परे | ककारः कित्कार्यार्थः । अकार उच्चारणार्थः ॥ ३०९ स्कोराद्योश्च ६९ ॥ संयोगाद्योः सकारककारयोर्लोपो भवति धातोर्झसे परे नाम्नश्च रसे पदान्ते च ॥ किलात् ( सू० १४१ ) इति सस्य षत्वम् । कषसंयोगे क्षः ( सू० २४२ ) पुंक्षु ॥ ननु पुंक्ष्वित्यत्र मकार एव संयोगादिर्न सकारस्तर्हि कथं लोपः । पुंक्षु अत्र स्कोराद्योश्च ( सू० ३०१ ) इत्यनेन संयोगाद्यस्य लोपे प्राप्ते मकारस्यैव लोपो भवेन्न तु सकारस्य । आदित्वाभावात् । संयोगाद्यस्तु पुंस् इत्यत्र शिरसि मकार एव । तस्मादादित्वं द्विविधम् । मुख्यमापेक्षिकं च । अत्र सस्यादित्वमापेक्षिकम् । पुंस् क इत्यत्र ककारापेक्षया सकार आदिः संकारापेक्षया मकार खादिरिति सकारस्यैव लोपः । हेपुमन हे - Page #67 -------------------------------------------------------------------------- ________________ सू० ३०२ - ३०७] हसान्ताः पुंलिङ्गाः ९ ५९ मांसौ हेपुमांसः ॥ एवं विद्वस् शब्दः । विद्वान् विद्वांसौ विद्वांसः । विद्वांसम् विद्वांसौ ॥ ३०२ वसोर्व उः ७० ॥ वसोः संबन्धी चकार उत्वं प्राप्नोति शसादौ खरे परे तद्धिते ईपि ईकारे च ॥ विदुषः । विदुषा । वसां रसे ( सू० २३६ ) इति दत्वम् । विद्वयाम् विद्वद्भिः । विदुषे विद्वद्भ्याम् विद्वद्भ्यः । विद्वत्सु । हे विद्वन् । इत्यादि ॥ तद्धिते वैदुष्यम् । एवं तस्थिवस्प्रभृतयः । तस्थिवान् तस्थिवांसौ तस्थिवांसः । तस्थिवांसम् तस्थिवांसौ । निमित्ताभावे नैमित्तिकस्याप्यभावः । इटो वकारमुद्दिश्य प्राप्तत्वाद्वस्योत्वे तन्निवृत्तिः । आतोऽनपि (सू० ८०३ ) इत्यालोपः । तस्थुषः । तस्थुषा तस्थिवद्भ्याम् तस्थिवद्भिः । तस्थिवत्सु । इत्यादि । हेतस्थिवन् हेतस्थिवांसौ तस्थिवांसः ॥ सकारान्तः शुश्रुवसूशब्दः । शुश्रुवान् शुश्रुवांसौ शुश्रुवांसः । शुश्रुवांसम् शुश्रुवांसौ । शुश्रुवस् शस्र इति स्थिते । वसोर्व उः (सू० ३०२) वोर्धातोरियुवौ खरे ( सू० १८० ) खरहीनं परेण संयोज्यम् । ( सू० ३६ ) किलात् (सू० १४१ ) इति षत्वम् । शुश्रुवुषः । शुश्रुवुषा । वसां रसे ( सू० २३६ ) खसे चपा ( सू० ८९ ) शुश्रुवत्सु । हेशुश्रुवन् हेशुश्रुवांसौ शुश्रुवांसः ॥ एवं पेचिवान् पेचिवांसौ पेचिवांसः । पेचिवांसम् पेचिवांसौ । शसि वस्योत्वे कृते यदागमत्वादिड्लोपः । पेचुषः । पेचुषा पेचिवद्भ्याम् । इत्यादि || सकारान्तो जग्मिवस्शब्दः । जग्मिवान् जग्मिवांसौ जग्मिवांसः । जग्मिवांसम् जग्मिवांसौ । इटः ककारमुद्दिश्य प्राप्तत्वाद्वस्योत्वे कृते इटोऽपि निवृत्तिः । गमां खरे ( सू० ७८७ ) इत्यनेन उपधालोपः । जग्मुषः । जग्मुषा जग्मिवद्भ्याम् । जग्मिवत्सु । इत्यादि ॥ जगन्वान् जगन्वांसौ जगन्वांसः । जगवांसम् जगन्वांसौ । शसि वस्योत्वे कृते वकारनिमित्तस्य । मोनो धातोः 1 1 1 Page #68 -------------------------------------------------------------------------- ________________ सारस्वतव्याकरणम् । [वृत्तिः१ (सू०५२)इति नकारस्यापि मकारः। गमां खरे (सू०७८७) इति उपधालोपः । जग्मुषः । जग्मुषा जगन्वद्भ्याम् । इत्यादि । एवं जघन्वान् जघन्वांसौ जघन्वांसः । जघन्वांसम् जघन्वांसौ जनुषः । जघ्नुषा जघन्वभ्याम् । इत्यादि ॥ सकारान्तः सुवचस्शब्दः । अत्वसोः सौ ( सू० २९४ ) सुवचाः सुवचसौ सुवचसः । सुवचसम् सुवचसौ । इत्यादि ॥ हेसुवचः हेसुवचसौ हेसुवचसः ॥ एवं चन्द्रमस्प्रभृतयः । अत्वसोः सौ ( सू० २९४ ) हसेपः सेर्लोपः ( सू० १५६ ) चन्द्रमाः चन्द्रमसौ चन्द्रमसः । चन्द्रमसम् चन्द्रमसौ चन्द्रमसः । चन्द्रमसा चन्द्रमोभ्याम् चन्द्रमोभिः । चन्द्रमस्सु-चन्द्रमःसु । हेचन्द्रमः हेचन्द्रमसौ हेचन्द्रमसः । इत्यादि । उशनस्शब्दस्य भेदः ॥ ३०३ उशनसाम् ७१ ॥ उशनस् पुरुदंसस् अनेहस् इत्येतेषां सेरधेर्डा भवति ॥ डित्वाहिलोपः । उशना उशनसौ उशनसः। उशनसम् उशनसौ उशनसः । उशनसा उशनोभ्याम् उशनोभिः । उशनस्सु-उशनःसु । इत्यादि ॥ उशनसो धौ नान्तताऽदन्तता वा वक्तव्या । हेउशनन्-हेउशन हेउशनः हेउशनसौ हेउशनसः ॥ उभयविकल्पे रूपत्रयम् । संबोधने तूशनसस्त्रिरूपमिति वचनात् ॥ पुरुदंसा पुरुदंससौ पुरुदंससः । इत्यादि ॥ अनेहा अनेहसौ अनेहसः । अनेहसम् । हेअनेहः । इत्यादि ॥ अदस्शब्दस्य भेदः । त्यादेष्टेः ( सू० १७५) इति सर्वत्राकारः । अद् सि इति स्थिते ।। ३०४ सौ सः ७२ ॥ अदसो दकारस्य सौ परे सत्वं भवति ॥ ३०५ सेरौ ७३ ॥ अदसः सेरौकारादेशो भवति ॥ असौ । द्विवचने अदस् औ इति स्थिते ॥ ३०६ दस्य मः ७४॥ त्यदादीनां दकारस्य मत्वं भवति स्यादौ परे । ओ औ औ (सू० ४६) अमौ इति स्थिते ॥ ३०७ मा ७५ ॥ उश्च ऊश्च ऊ । अदसो Page #69 -------------------------------------------------------------------------- ________________ सू० ३०८-३१५] हसान्ताः पुंलिङ्गाः ९ मकारात्परस्य हूखस्य हूख उकारादेशो भवति दीर्घस्य च दीर्घ ऊकारादेशो भवति ॥ अमू । बहुवचने सर्वादित्वात् जसी (सू० १४५) दस्य मः ( सू० ३०६) अ इ ए (सू० ४३ ) अमे इति स्थिते ॥ ३०८ एरी बहुत्वे ७६ ॥ एः ई बहुत्वे । बहुत्वे सति मकारात्परस्य अदस एकारस्य ईकारादेशो भवति ॥ अमी । ईकारविधिसामर्थ्यान्न तूकारः । अमुम् अमू अमून् । मत्वोत्वे कृते । टानाऽस्त्रियाम् (सू० १६१) अमुना अमूभ्याम् अमीभिः । अदस् डे इति स्थिते । कारो ङित्कार्यार्थः । त्यादेष्टेरः स्यादौ (सू० १७५) दस्य मः ( सू० ३०६ ) सर्वादेः स्मटू ( सू० १४८) मादू ( सू० ३०७ ) अमुष्मै अमूभ्याम् अमीभ्यः । त्यादेष्टेरः स्यादौ ( सू० १७५) दस्य मः (सू० ३०५) सिरत् (सू० १३६ ) अतः (सू० १४९) सवर्णे दीर्घः ( सू० ५२) मादू (सू० ३०७ ) अमुष्मात् अमूभ्याम् अमीभ्यः । उस्स्य (सू० १३७) मादू (सू०३०७) किलात् ( सू०१४१) अमुष्य अमुयोः अमीषाम् । अमुष्मिन् अमुयोः अमीषु ॥ ३०९ सामान्ये अदसः कः स्यादिवच्च ७७ ॥ सामान्येऽर्थे वाच्ये सति अदसूशब्दात्परः कः प्रत्ययो भवति कः स्यादिवज्ज्ञेयः ॥ एकस्योच्चारणेन बहों लभ्यते सत्सामान्यम् । त्यादेष्टेरः स्यादौ ( सू० २८७ ) दस्य मः ( सू० ३०६) मादू (सू० ३०७ ) अमुकः अमुको अमुके । अमुकम् अमुको अमुकान् । अमुकेन अमुकाभ्याम् अमुकैः । इत्यादि । शेष सर्वशब्दवद्रूपं ज्ञेयम् । चकारात्सात्परस्योत्वम् । तेन त्यादेष्टेः (सू० १७५) सौ सः (सू० ३४) मादू ( सू० ३०७) अमुकः। इत्यादि ॥ इत्यपि भवति ॥ इति हसान्तपुंलिङ्गप्रक्रिया ॥९॥ Page #70 -------------------------------------------------------------------------- ________________ ६२ [ वृत्ति: १ सारस्वतव्याकरणम् । हसान्ताः स्त्रीलिङ्गाः १० अथ हसान्ताः स्त्रीलिङ्गाः प्रदर्श्यन्ते ॥ ॥ तत्र हकारान्त उपा - नहशब्दः ॥ ३१० नहो धः १ ॥ नही हकारस्य धकारादेशो भवति धातोर्झसे परे नान्नश्च रसे पदान्ते च ॥ वावसाने ( सू० २४० ) उपानत् उपानद् उपानहौ उपानहः । खसे चपा इसानाम् ( सू० ८९ ) उपानत्सु । हेउपानत् हेउपानद् हेउपानहौ हेउपानहः ॥ वकारान्तो दिवशब्दः ॥ ३११ दिव औ २ ॥ दिवः औ । दिवो वकारस्य औकारादेशो भवति सौ परे ॥ इयं खरे ( सू० ३३ ) द्यौ दिवौ दिवः । दिवम् ॥ ३१२ वामि ३ ॥ दिवो वकारस्य वा आत्वं भवति अमि परे । द्याम् दिवौ दिवः । दिवा ॥ ३१३ उ रसे ४ ॥ उरसे । दिवो वकारस्य उकारादेशो भवति रसे पदान्ते च ॥ द्युभ्याम् धुभिः । दिवे द्युभ्याम् द्युभ्यः । दिवः षु । द्यौः हे देवौ हेदिवः ॥ रेफान्तश्चतुर्शब्दो बहुवचनान्तः ॥ ३१४ त्रिचतुरोः स्त्रियां तिसृचतसृवत् ५ ॥ त्रिचतुरोः स्त्रियां तिसृचतसृ । ऋवदित्यव्ययम् । स्त्रियां वर्तमानयोस्त्रिचतुरर्शब्दयोस्तिसृ चतसृ इत्येतावादेशौ भवतः । ऋकारश्च ऋवत् ॥ ततः तुरा ( सू० १८९ ) इत्यार् भवति । ऋ रम् (सू० ४० ) तिस्रः तिस्रः तिसृभिः तिसृभ्यः तिसृभ्यः || ३१५ तिसृचतसृशब्दयोर्नामि दीर्घत्वं न वक्तव्यम् ६ ॥ छन्दसि वा दीर्घत्वम् । तिसृणां - तिसृणाम् । तिसृषु ॥ चतस्रः चतस्रः चतसृभिः चतसृभ्यः चतसृभ्यचतसृणाम्-चतसृणाम् चतसृषु । स्त्रियामिति त्रिचतुरोर्विशेषणास्त्रिः यां गौणयोर्नेतावादेशौ स्तः । प्रियास्त्रयस्त्रीणि वा यस्याः सा प्रियत्रिः प्रियत्री प्रियत्रयः । बुद्धिवत् । यदा स्त्रियां मुख्यौ लिङ्गान्तरे गौणौ तदादेशौ स्त एव । प्रिया स्तिस्रो यस्य सः प्रियतिसा । सेरा ( सू० Page #71 -------------------------------------------------------------------------- ________________ सू० ३१६-३१९] हसान्ताः स्त्रीलिङ्गाः १० १८४ ) प्रियतिस्रौ प्रियतिस्रः । प्रियतिस्रम् प्रियतिस्रौ प्रियतिस्रः। प्रियतिस्रा प्रियतिसृभ्याम् प्रियतिसृभिः । प्रियतिसृषु ॥ क्लीबे प्रियास्तिस्रो यस्य तत्प्रियतिसृ प्रियतिसृणी प्रियतिसृणि ॥ एवं प्रियाश्च. तस्रो यस्य सः प्रियचतसा प्रियचतस्रौ प्रियचतस्रः ॥ क्लीबे । प्रिय. चतसृ प्रियचतसृणी प्रियचतसृणि ॥ रेफान्तो गिशब्दः ॥ ३१६ स्वोर्विहसे ७ ॥ धातोरिकारोकारयो? भवति रेफवकारयोर्हसपरयोः ॥ गीः गिरौ गिरः । गिरम् गिरौ गिरः । गिरा गीाम् गीर्भिः । हेगीः हेगिरौ हेगिरः ॥ एवं पुरधुरादयः ॥ धकारान्तः समिशब्दः । वावसाने (सू० २४० ) समित्-समिद् समिधौ समिधः । समिधम् समिधौ समिधः । समिधा समिभ्याम् समिद्भिः। खसे चपा झसानाम् (सू० ८९) समित्सु ॥ भकारान्तः ककुभ्शब्दः । वावसाने (सू० २४० ) ककुप्-ककुब् ककुभौ हेककुभः । ककुभम् ककुभौ ककुभः । ककुभा ककुब्भ्याम् ककुभिः । ककुप्सु । हेककुप्-हेककुब् हेककुभौ हेककुभः । दकारान्तास्त्यदादयः । त्यादेष्टेरः स्यादौ (सू० १७५) इति सर्वत्राकारः । आवतः स्त्रियाम् (सू० २०४ ) इति आप् । पकारः सिलोपार्थः । सवर्णदीर्घत्वे कृते स्त्रीलिङ्गे सर्वाशब्दवद्रूपं ज्ञेयम् ॥ स्तः ( सू० २५० ) सा औरी ( सू० १९७ ) अ इ ए (सू० ४३ ) त्ये त्याः ॥ सा ते ताः॥ या ये याः ॥ एषा एते एताः ॥ एतां-एनाम् एते-एने एताःएनाः । एतया-एनया । एतयोः एनयोः ॥ का के काः ॥ मकारान्त इदम्शब्दः ॥ ३१७ इयं स्त्रियाम् ८॥ इदम्शब्दस्य स्त्रिया• मियं भवति सिसहितस्य । इयं इमे इमाः । इमां-एनाम् इमे-एने इमाः-एनाः । अन टौसोः ( सू० २७१ ) टोसोरे ( सू० १९९) १ आहूतस्याह्वानमन्वादेशः । तत्रैवेदम एनादेशः। Page #72 -------------------------------------------------------------------------- ________________ ६४ सारस्वतव्याकरणम् । [वृत्ति: १ अनया आभ्याम् आभिः । इदम् ङे इति स्थिते । त्यादेष्टेरः स्यादौ ( सू० २८७ ) । दस्य मः ( सू० २४० ) आबतः स्त्रियाम् ( सू० २०३ ) । ङितां यट् ( सू० २०१ ) । यटोच्च ( सू० २०४ ) । स्भ्यः (सू० २७२ ) । सवर्णे दीर्घः सह ( सू० ५२ ) अस्यै अभ्याम् आभ्यः । अस्याः अनयोः एनयो: आसाम् । आडेर्नियश्च ( सू० १८३ ) अस्याम् अनयोः - एनयोः आसु । चकारान्तस्त्वच्शब्दः । चोः कुः ( सू० २८५ ) इति कुत्वम् । वावसाने ( सू० २४०) त्वक्-त्वग् त्वचौ त्वचः । त्वचम् त्वचौ त्वचः । त्वचा त्वग्भ्याम् त्वग्भिः । चोः कुः (सू०२८५) । किलात् (सू० १४१ ) कषसंयोगे क्षः ( सू० २४२ ) । त्वक्षु । हेत्वक् - हेत्वग् हेत्वचौ हेत्वचः । एवं ऋच्वाच्प्रभृतयः । पकारान्तोऽप्शब्दो नित्यं बहुवचनान्तः स्त्रीलिङ्गः । न्सम् महतोऽधौ दीर्घः शौच ( सू० २९३ ) आपः अपः || ३१८ मि दपाम् ९ || भिदू अपाम् | अबादीनां भकारे परे दत्वं भवति || अद्भिः अद्भ्यः अद्भ्यः आपाम् अप्सु । हे आपः || अबादीनामित्यादिग्रहणं गौणत्वेऽपि दत्वार्थम् । अपशब्दस्य पञ्चसु यद्रूपं तत् खप्शब्दस्य रूपम् । अबादीनामित्यत्र अपः पाठे अपशब्दस्यैव वक्तव्ये अपामित्यत्र । बहुवचनात् अप् स्वप् बह्वाप् एते प्रायाः । खापि तडागानि । बह्वाम्पि तडगानि । शोभना आपो यस्मिन् प्रदेशे खाप् खापौ खापः । हेखाप् इत्यादि ॥ शकारान्तो दिशब्दः || ३१९ दिशाम् १० ॥ दिश् विश् स्पृश् इत्यादीनां रसे पदान्ते च कुत्वं भवति ॥ दिश् विश् दृश् स्पृश् मृश् राज् ऋत्विज् ददृक्ष् उष्णिहू अञ्जु युञ्ज् क्रुञ्च एते दिशामिति बहुवचनेन गृह्यन्ते । वावसाने ( सू० २४० ) दिक् दिग्र् दिशौ दिशः । दिशम् दिशौ दिशः । दिशा दिग्भ्याम् दिग्भिः । दिशे । कुत्वम् । Page #73 -------------------------------------------------------------------------- ________________ सू० ३२०-३२२] हसान्ता नपुंसकलिङ्गाः ११ ६५ किलात् (सू० १४१) दिक्षु । हेदिक्-हेदिग् ॥ दृक्-दृग् दृशौ दृशः ॥ स्पृक् स्पृग् स्पृशौ स्पृशः ॥ सक्-स्रग सजौ सजः ॥ ऋविक्-ऋत्विग् ऋत्विजौ ऋत्विजः ॥ ददृक् ददृग् ददृक्षौ ददृक्षः ॥ दधृक्-दधृग् दधृक्षौ दधृक्षः ॥ उष्णिक्-उष्णिग् उष्णिहौ उष्णिहः । षकारान्तस्त्विष्शब्दः । षो डः (सू० २७७ ) वावसाने ( सू० २४० ) त्विट्-त्विड्-त्विषौ त्विषः । विषम् त्विषौ त्विषः । त्विषा त्विड्भ्याम् त्विभिः । त्विट्सु । त्विट्सु । हेत्विट्-हेत्विड् हेत्विषो हेत्विषः ॥ ३२० सजुषाशिषो रसे पदान्ते च दी? वक्तव्यः ११ ॥ सजूः सजुषौ सजुषः । आशीः आशिषौ आशिषः । आशिषम् आशिषौ आशिषः। आशिषा आशीर्त्या आशीभिः । इत्यादि । आशीःषु आशीष्षु । हे आशीः हेआशिषौ हे आशिषः ॥ स्त्रीलिङ्गस्यादसूब्दस्य सौ न विशेषः । असौ । द्विवचनादौ त्यादेष्टेरः स्यादौ ( सू० १७५) अत्वे कृतेऽनन्तरम् । आवतः स्त्रियाम् (सू० २०३ ) इत्याप् । सवर्णे दीर्घः सह (सू० ५२ ) विभक्तिकार्य प्राक् पश्चात् । मादू (सू० ३०७) अमू अमूः । अमूम् अमू अमूः । अमुया अमूभ्याम् अमूभिः । अमुष्यै अमूभ्याम् अमूभ्यः । अमुष्याः अमूभ्याम् अमूभ्यः । अमुण्याः अमुयोः अमूषाम् । अमुष्याम् अमुयोः अमूषु ।। इति हसान्तस्त्रीलिङ्गप्रक्रिया ॥१०॥ हसान्ता नपुंसकलिङ्गाः ११ - अथ हसान्ता नपुंसकलिङ्गाः प्रदर्श्यन्ते ॥ तत्र रेफान्तो वारशब्दः । नपुंसकात्स्यमोलक ( सू० २२४ ) रेफस्य विसर्गः । वाः । ईमौ ( सू० २१६ ) वारी । अयम इति विशेषणान्नुन्न भवति । Page #74 -------------------------------------------------------------------------- ________________ ६६ सारस्वत व्याकरणम् । [ वृत्ति: १ T जश्शसोः शिः (सू० २१७ ) वारि पुनरपि वा : वारी वारि । वारा वार्भ्याम् वार्भिः । वार्षु ॥ वार्षु इत्यत्र न विसर्गः दोषामिति सूत्रेण कृतस्यैव रेफस्य सप्तमीबहुवचने परे विसर्गे नान्यस्येति वक्तव्यात् । हेवाः हेवारी हेवारि ॥ चतुशब्दस्य । चतुराम् शैौ च ( सू० २४८ ) इत्याम् । चत्वारि चत्वारि चतुर्भिः चतुर्भ्यः चतुर्भ्यः । रः संख्यायाः ( सू० २४९ ) चतुर्णाम् चतुर्षु ॥ नकारान्तोऽहनुशब्दः ॥ ३२१ अह्नः सः १ । अहनुशब्दस्य नकारस्य सकारो भवति रसे पदान्ते च ॥ नपुंसकात्स्यमोर्लुक् ( सू० २२४ ) । स्रोर्विसर्गः ( सू १२४ ) अहः । ईमौ ( सू० २१६ ) । वेड्योः ( सू० २२८ ) अह्नीअहनी । नोपधायाः ( सू० २२२ ) अहानि । पुनरपि अहः अह्नी-अहनी अहानि । अल्लोपः खरे ( २२७ ) इत्यकारलोपः । अह्ना । अह्नः सः (सू० ३२१ ) स्रोर्विसर्ग: (सू० १२४ ) । हबे ( सू० १११ ) । उ ओ ( सू० ४५ ) अहोभ्याम् अहोभिः । अहे अहोभ्यां अहो - भ्यः । वेड्योः ( सू० २२८ ) अह्नि अहनि । अह्नः सः (सू० ३२१ ) । स्रोर्विसर्गः ( सू० १२४ ) अहस्सु - अहः सु । हेअहः अही हे अहनी हे अहानि || ब्रह्मनूशब्दस्य रसे पदान्ते च न लोपः ॥ नपुंसकात्स्यमोर्लुक् (सू० २२४) । नाम्नो नो लोपशधौ (सू० २५२) । ब्रह्म । ईमौ ( सू० २१६ ) ब्रह्मणी । जश्शसोः शिः ( सू० २१७ ) । नोपधायाः ( सू० २२१ ) ब्रह्माणि । पुनरपि ब्रह्म ब्रह्मणी ब्रह्माणि । ब्रह्मणा । नाम्नो नो लोपशधौ ( सू० २५२ ) ब्रह्मभ्याम् ब्रह्मभिः । ब्रह्मणे ब्रह्मभ्याम् ब्रह्मभ्यः । ब्रह्मसु । इत्यादि ॥ ३२२ संबोधने नपुंसकानां नलोपो वा वक्तव्यः २ ॥ हेंब्रह्म - ब्रह्मन् हे ब्रह्मणी ब्रह्माणि ॥ एवं चर्मवर्मन्कर्मन्प्रभृतयः ॥ चर्म चर्मणि चर्माणि । पुनरपि ॥ वर्म वर्मणी वर्माणि ॥ एवं व्योमनूशब्दः ॥ व्योम | ईमौ Page #75 -------------------------------------------------------------------------- ________________ सू० ३२३-३२५] हसान्ता नपुंसकलिङ्गाः ११ (सू० २१६)। वेड्योः (सू० २२८) व्योम्नी-व्योमनी व्योमानि । पुनरपि ॥ ३२३ नान्ताददन्ताच्छन्दसि डिश्योर्वा लोपो वक्तव्यः ३ ॥ ३२४ छन्दस्यागमजानागमजयोर्लोपालोपौ च वक्तव्यौ ४ ॥ परमे व्योमन् । सर्वा भूतानि । सर्वा इत्यत्र शिलोपे कृते नलोपः। दीर्घत्वं नातिवर्तते । निमित्ताभावे नैमित्तिकस्याप्यभाव इत्येतस्यानवश्यंभावित्वात् ॥ त्यदादीनां स्यमोलुकि कृते टेरत्वं न भवति । कस्मात् । स्यादाविति विशेषणात् । लुकि न तन्निमित्तं ( सू० १७९)। नपुंसकात्स्यमोलक् । (सू० २२४ । ) वावसाने ( सू० २४०) त्यत्-त्यद् । त्यादेष्टेरः स्यादौ (सू० १७५) इति सर्वत्राकारः। ईमौ ( सू० २१६ ) त्ये । जश्शसोः शिः ( सू० २१७) नोपधायाः ( सू० २२१ ) त्यानि । पुनरपि । शेषं सर्ववत् ॥ तत्-तदू ते तानि । पुनरपि ॥ यत्-यद् ये यानि । पुनरपि ॥ एतत्-एतद् एते एतानि । पुनरपि ॥ ३२५ इदमेतदोर्द्वितीयैकवचने नपुंसके एनद्वा वाच्यः ५ ॥ एतत्-एतदू एनत्-एनद् एते-एने एतानि-एनानि । एतेन-एनेन । इत्यादि ।। किम् के कानि । पुनरपि ॥ इदं इमे इमानि । पुनरपि । इदं-एनत्इमे-एने इमानि एनानि । अनेन-एनेन इत्यादि । नपुंसकात्स्यमोलक (सू० २२४ )। चोः कुः (सू० २८५)। वावसाने (सू० २४० ) प्रत्यक्-प्रत्यग् । ईमौ (सू० २१६) । अञ्चेदर्दीर्घश्व (सू० २८६ ) प्रतीची । जसशसोः शिः (सू० २१७) । नुमयमः ( सू० २२० ) स्तोः श्चुभिः श्चुः ( सू० ७७ ) प्रत्यश्चि । पुनरपि । शेषं पूर्ववत् ॥ तकारान्तो जगच्छब्दः । वावसाने (सू० २४०) जगत्-जगदू । ईमौ (२१६) जगती । नुमयमः (सू० Page #76 -------------------------------------------------------------------------- ________________ ६८ सारस्वतव्याकरणम् । [वृत्तिः १ २१९ ) । नश्चापदान्ते झसे (सू० ९५) जगन्ति । पुनरपि ।। महत्-महद् महती । सम्महतो (सू० २९३ ) । नश्वापदान्ते झसे ( सू० ९५) महान्ति । पुनरपि ॥ सकारान्ताः पयस्वचस्ते. जस्यशस्प्रभृतयः ॥ पयः पयसी। सम्महतो (सू० २९३ ) पयांसि । पुनरपि ॥ वचः वचसी वचांसि । पुनरपि ॥ यशः यशसी यशांसि । पुनरपि ॥ तेजः तेजसी तेजांसि । पुनरपि इत्यादि । अदसूशब्दस्य स्यमोटुंकि कृते स्रोविसर्गः (सू० १२४ ) अदः द्विवचनादौ टेरत्वे कृते मत्वोत्वे च कृते । अमू । त्यादेष्टेरः स्यादौ ( सू० २८७ ) । दस्य मः (सू० ३०६) । जश्शसोः शिः (सू० २१७)। नुमयमः (सू० ११९)। नोपधायाः (सू० २२१)। मादू (सू० ३०७) अमूनि । पुनरपि । अमुना । अद्भि (सू० १३१)। मादू ( सू० ३७ ) अमूभ्याम् । एस्भि बहुत्वे ( सू० १३५) एरी बहुत्वे (सू० ३०८) अमीभिः । सर्वोदेः सट् (सू० १४८)। ए ऐ ऐ ( सू० ४४ )। मादू (सू० ३०७) अमुष्मै अमूभ्याम् अमीभ्यः । ङसिरत् । (सू० १३६) । अतः ( सू० १४९) सवर्णे दीर्घः सह ( सू० ५२ ) मादू (सू० ३०७) अमुष्मात् अमूभ्याम् अमीभ्यः । उस्स्य (सू० १३७)। मादू (सू० ३०७) अमुष्य । ओसि (सू० १३८)। ए अय् (सू० ४१ ) अमुयोः । सुडामः । (सू० १५० ) । एस्भि बहुत्वे (सू० १३५) अमीषाम् । डि स्मिन् (सू० १५१) अमुष्मिन् अमुयोः । एस्भि बहुत्वे (सू० १३५ ) किलात् । (सू० १४१) अमीषु ॥ इति हसान्तनपुंसकलिङ्गप्रक्रिया ॥ ११ ॥ Page #77 -------------------------------------------------------------------------- ________________ सू० ३२६-३३८ ] युष्मदस्मत्प्रक्रिया १२ युष्मदस्मत्प्रक्रिया १२ अथ युष्मदस्मदोः खरूपं निरूप्यते ॥ तयोश्च वाच्यलिङ्गत्वात्रिप्वपि लिङ्गेषु समान रूपम् ॥ अध्ययान्यलिङ्गानि ॥ अलिङ्गे युष्मदस्मदी॥ ३२६ त्वमहं सिना १। सिसहितयोर्युष्मदस्मदोस्त्वमहमित्येतावादेशौ भवतो यथासंख्येन ॥ त्वम् । अहम् ॥ ३२७ युवावौ द्विवचने २ ॥ युष्मदस्मदोर्द्विवचने परे युव आव इत्येतावादेशौ भवतः ॥ ३२८ आमौ ३ ॥ युष्मदस्मदोः पर औ आम् भवति । सवर्णे दीर्घः सह (सू० ५२) युवाम् । आवाम् ।। ३२९ यूयं वयं जसा ४॥ जसा सहितयोर्युष्मदस्मदोयूयं वयमित्येतावादेशौ भवतः ॥ यूयम् वयम् ॥ ३३० त्वन्मदेकत्वे युष्मदम्मदोः ५॥ त्वन्मदित्येतावादेशौ भवत एकत्वे गम्यमाने ॥ ३३१ आम्स्भौ ६ ॥ आ अम्भौ । युष्मदस्मदोप्टेरात्वं भवति अमि सकारे भिसि च परे ॥ अम्शसोरस्य (सू० १२६) त्वाम् माम् । युवाम् आवाम् । त्यादेष्टेरः स्यादौ (सू० १७५) इत्यत्वे कृते शसि दीर्घत्वम् ॥ ३३२ शसो नो वक्तव्यः ७ ॥ युष्मान् । अस्मान् । वन्मदेकत्वे (सू० ३३०) ॥ ३३३ ए टाङयोः ८ ॥ युष्मदस्मदोष्टेरत्वं भवति टा ङि इत्येतयोः परयोः ॥ ए अय् (सू० ४१) त्वया मया । युवावौ द्विवचने (सू० ३२७) अद्धि (सू० १३१) युवाभ्याम् आवाभ्याम् ।आम्स्भौ (सू० ३३१) युष्माभिः अस्माभिः॥ ३३४ तुभ्यं मह्यं उया ९॥ ड्या सहितयोयुष्मदस्मदोस्तुभ्यं मह्यं इत्येतावादेशौ भवतः ॥ तुभ्यम् । मह्यम् । युवाभ्याम् आवाभ्याम् ॥ ३३५ भ्यस् श्भ्यम् १० ॥ युष्मदस्मदोः परो भ्यस् इभ्यं भवति । १ सर्वत्र प्रयोज्यानीत्यर्थः । २ त्रिषु लिङ्गेषु समाने । Page #78 -------------------------------------------------------------------------- ________________ (७० सारस्वतव्याकरणम् । [वृत्तिः १ शकारो भकारादेशव्यावृत्त्यर्थः । तेनात्वैत्वे न भवतः । त्यादेष्टेः (सू० १७५) युष्मभ्यम् अस्मभ्यम् ॥ ३३६ ङसिभ्यसोः तुः ११ ॥ पञ्चम्या उसिभ्यसोः स्तुर्भवति । शकारः सर्वादेशार्थः । उकार उच्चारणार्थः । त्वत् मत् । युवाभ्याम् । आवाभ्याम् । त्यादेष्टेः (सू० १७५) युष्मत् अस्मत् ॥ ३३७ तवमम ङसा १२ ॥ ङसा सहितयोर्युष्मदस्मदोस्तव मम इत्येतावादेशौ भवतः ॥ तव मम । युवावौ द्विवचने (सू० ३२७) ओसि (सू० १३८) । ए अय् (सू० ४१) युवयोः आवयोः ॥ ३३८ सामाकम् १३ ॥ युष्मदस्मदोः परः सामाकं भवति ॥ त्यादेष्टेः (सू० १७५) युष्माकम् अस्माकम् ।त्वन्मदेकत्वे (सू० ३३०)। ए टाड्योः (सू० ३३३) ए अय् (सू० ४१) त्वयि मयि । युवयोः आवयोः । आम्स्भौ (सू० ३३०) युष्मासु अस्मासु ॥ अथानयोर्गौणत्वे रूपविशेषो निरूप्यते ॥ यदा एकत्वे द्वित्वे च युष्मदस्मदी समासार्थस्तु अन्यसंख्यस्तदा त्वन्मदोः युवावौ च भवतः । वैपरीत्ये तु न स्तः । सिजसूडेङस्सु परेषु ये आदेशास्ते सदा भवेयुः । तथा चोक्तं पाणिनीये ॥ समस्यमाने ब्येकत्ववाचिनी युष्मदस्मदी । समासार्थोऽन्यसंख्यश्चेद्युवावौ त्वन्मदावपि ॥ ४५ ॥ सिंजस्डेङस्सु परत आदेशाः स्युः सदैव ते। त्वाही यूयवयौ तुभ्यमयौ तवममावपि ॥ ४६ ॥ एते परत्वाद्धाधन्ते युवावौ विषये स्वके । स्वन्मदावपि बाधन्ते पूर्व विप्रतिषेधतः ॥४७॥ व्येकसंख्यः समासार्थो बह्वर्थे युष्मदस्मदी । तयोरव्येकतार्थत्वान्न युवावौ त्वमौ नच ॥४८॥ १ स्तो युवावौ समावपि इति पाठः। २ कौमुद्यां सुजस्ढे इति पाठः । Page #79 -------------------------------------------------------------------------- ________________ सू० ३३८ - ३३९] युष्मदस्मत्प्रक्रिया १२ ७१ समासश्चान्वये नाम्नाम् ( सू० ४६७ ) इति समाससंज्ञायाम् । अत्यादयः कान्ताद्यर्थे द्वितीयया || क्रान्ताद्यर्थे अत्यादयो द्वितीयया सह समस्यन्ते स द्वितीयातत्पुरुषः समासो भवतीति ॥ त्वां मां वा अतिक्रान्त इति विग्रहे । अतित्वम् अत्यहम् । अतित्वाम् अतिमाम् । अतियूयम् अतिवयम् । अतित्वाम् अतिमाम् । अतित्वाम् अतिमाम् । अतित्वान् अतिमान् । अतित्वया अतिमया । अतित्वाभ्याम् अतिमाभ्याम् । अतित्वाभिः अतिमाभिः । अतितुभ्यम् अतिमह्यम् । अतित्वाभ्याम् अतिमाभ्याम् । अतित्वभ्यम् अतिमभ्यम् । अतित्वत् अतिमत् । अतित्वाभ्याम् अतिमाभ्याम् | अतित्वत् । अतिमत् । अतितव अतिमम । अतित्वयोः । अतिमयोः । अतित्वाकम् अतिमाकम् । आमि टेरेत्वं केचिदिच्छन्ति । अतित्वयाम् अतिमयाम् । अतित्वयि अतिमयि । अतित्वयोः अतिमयोः । अतित्वासु अतिमासु || युवां आवां वा अतिक्रान्त इति विग्रहे । अत्र सिजस्ड़ेङस्सु प्राग्वत् । औअम्औसु तुल्यम् । अतित्वम् अत्यहम् । अतियुवाम् अत्यावाम् । अतियूयम् अतिवयम् । अतियुवाम् अत्यावाम् । अतियुवाम् अत्यावाम् । अतियुवान् अत्यावान् । अतियुवया अत्यावया । अतियुवाभ्याम् अत्यावाभ्याम् । अतियुवाभिः अत्यावाभिः । अतितुभ्यम् अतिमाम् । अतियुवाभ्याम् अत्याचाभ्याम्। अतियुवभ्यम् अत्यावभ्यम् । अतियुवत् अत्यावत् । अतियुवाभ्याम् अत्याव|भ्याम् । अतियुवत् । अत्यावत् । अतितव अतिमम । अतियुवयोः अत्यावयोः । अतियुवाकम् अत्यावाकम् | ( अतियुवयाम् अत्यावयाम् इति केचित् ) । अतियुवयि अत्यावयि । अतियुवयोः । अत्यावयोः । अतियुवासु अत्यावासु ॥ युष्मान् अस्मान् वा अतिक्रान्त इति विग्रहे । अतित्वम् अत्यहम् । अतियुष्माम् Page #80 -------------------------------------------------------------------------- ________________ ७२ सारस्वतव्याकरणम् । [वृत्तिः १ अत्यस्माम् । अतियूयम् अतिवयम् । अतियुष्माम् अत्यस्माम् । अतियुष्मान् अत्यस्मान् । अतियुष्मया अत्यस्मया। अतियुष्माभ्याम् अत्यस्माभ्याम् । अतियुष्माभिः अत्यस्माभिः । अतितुभ्यम् । अतिमह्यम् । अतियुष्माभ्याम् अत्यस्माभ्याम् । अतियुष्मभ्यम् अत्यस्मभ्यम् । अतियुष्मत् अत्यस्मत् । अतियुष्माभ्याम् अत्यस्माभ्याम् । अतियुष्मत् अत्यस्मत् । अतितव अतिमम । अतियुष्मयोः अत्यस्मयोः । अतियुष्माकम् अत्यस्माकम् । ( अतियुष्मयाम् अत्यस्मयाम् इति केचित् ) अतियुष्मयि अत्यस्मयि । अतियुष्मयोः अत्यस्मयोः । अतियुष्मासु अत्यस्मासु ॥ अनेनैव प्रकारेण · सर्वमुन्नेयम् ॥ इति युष्मदस्मत्प्रक्रिया ॥ १२ ॥ आदेशविशेषाः १३ अथानयोरादेशविशेषविधिनिरूप्यते ॥ ॥ ३३९ युष्मदसदोः षष्ठीचतुर्थीद्वितीयाभिस्तेमे वांनौ वस्नसौ १॥ युष्मदस्मदोर्यथासंख्येनामी आदेशाः स्युः ॥ कीदृशयोः । षष्ठीचतुर्थीद्वितीयासहितयोः । सहितग्रहणाधुवयोः पुत्रः युष्मत्पुत्रः । आवयोः पुत्रः अस्मत्पुत्र इत्यादौ विभक्तिलोपे कृते आदेशा नेति ज्ञेयम् । तत्रैकवचनेन सह तेमे भवतः । द्विवचनेन वांनौ । बहुवचनेन वसनसौ च ॥ . स्वामी ते स समायातः स्वामी मे सांप्रतं गतः । नमस्ते भगवन् भूयो देहि मे मोक्षमव्ययम् ॥ ४९ ॥ .. स्वामी वां स जहासोचैदृष्ट्वा नौ दानयाचनाम् । .. .. राजा वां दास्यते दानं ज्ञानं नौ मधुसूदनः ॥ ५० ॥ Page #81 -------------------------------------------------------------------------- ________________ --रामस सू० ३४०-३४९] आदेशविशेषाः १३ देवो वामवताद्विष्णुर्नरकानौ जनार्दनः । , स्वामी वो बलवान् राजा स्वामी नोऽसौ जनार्दन गाना नमो वो ब्रह्मविज्ञेभ्यो ज्ञानं नो दीयतां धनम् । सानन्दान्वः प्रपश्यामः पश्यामो नः सुदुःखिनः ॥५२॥ ३४० त्वामामा २ ॥ अमा सहितयोर्युष्मदस्मदोस्त्वा मा इत्येतावादेशौ भवतः ॥ पश्यामि त्वा मदालीढं पश्य मा मदभेदकम् । पश्यामि त्वा जगत्पूज्यं पश्य मा जगतां पतिम् ॥ ५३॥ ३४१ नादौ ३ ॥ पादादौ वर्तमानयोर्युष्मदस्मदोनॆते आदेशा भवन्ति ॥ मम स्वामी भवेत्कृष्णस्तव स्वामी महेश्वरः। तव मित्राणि यानि स्युर्मम मित्राणि तान्यपि ॥५४ ॥ तव ये शत्रवो राजन्मम तेऽप्यतिशत्रवः । संबोधनपदादग्रे न भवन्ति वसादयः ॥ ५५ ॥ अमे तव । देवास्मान्पाहि ॥ ३४२ पदात्परयोरनयोरेते आदेशा वक्तव्याः ४ ॥ त्वां पातु मां पातु ॥ ३४३ एते आदेशा अन्वादेशे नित्यमनन्वादेशे वा वक्तव्याः ५॥ । यस्त्वं विश्वस्य जनकस्तस्मै ते विष्णवे नमः। . आनन्वादेशे तु त्वं मे मम वा देवोऽसि ॥ ३४४ विद्यमानपूर्वाप्रथमान्तात्परयोरनयोरन्वादेशेऽप्येते आदेशा वा वक्तव्याः ६॥ भक्तस्त्वमप्यहं तेन हरिस्त्वा त्रायते स मा ॥५६॥ ३४५ अचाक्षुषज्ञानार्थधातूनां योगे नैते आदेशा वक्तव्याः ७॥ चेतसा त्वामीक्षते ध्यायति सारतीति वा ॥ चाक्षुषज्ञानार्थधातुयोगे तु भक्तस्त्वा पश्यति चक्षुषा । युक्तयुक्तेऽपि निषेधः । भक्तस्तव रूपं Page #82 -------------------------------------------------------------------------- ________________ ७४ सारस्वतव्याकरणम् । [वृत्तिः १ ध्यायति ध्यायते । रूपेण सह सम्बन्धाध्यानेन युक्तं रूपं तद्रूपेण युक्तस्य तवेत्यस्य युक्तयुक्तत्वात् ॥ संबोधनपदादग्रे न भवन्ति वसादयः । ३४६ विशेष्यपूर्व संबोधनेतरपूर्व संबोधनं हित्वा अन्यसात्संबोधनात्परयो ते आदेशा भवन्ति ८ ॥ इति केचित् ।। देवासान्पाहि नृहरे विष्णोऽस्मान्पाहि सर्वतः ॥ ५७॥ विशेष्यपूर्वात् । हरे कृपालो नः पाहि । संबोधनेतरपूर्वात् । सर्वदा रक्ष देव नः ॥ ३४७ चादिभिश्च ९॥ चादिभिरपि योगे नैते आदेशा भवन्ति ॥ युवयोरावयोश्चेशो हरिर्मामेव रक्षतु । तुभ्यं मह्यं च देवेशो दद्याच्छं तुभ्यमेव च ॥ ५८॥ च वा ह अह एव । आदिशब्देनैते पञ्चैव गृह्यन्ते नान्ये । 'नचवाहाहैवयोगे' इति पाणिनीयवचनात् ॥ साक्षाद्योगेऽयं निषेधः। न पुनर्युक्तयुक्ते शिवो हरिश्च मे खामीत्यादौ ॥ ३४८ चादिनिपातः १० ॥ च वा ह अह एव एवं नूनम् पृथक् विना नाना खस्ति अस्ति दोषा मृषा मिथ्या मिथस् अथो अथ ह्यस् श्वसू उच्चैस् नीचैस् स्वर अन्तर् प्रातर् पुनर् भूयस् आहो खित् सह नम ऋते अन्तरेण अन्तरा नमस् अलम् कृतम् । अमानोनाः प्रतिषेधे । ईषत् किल खलु वै आरात् दूरात् भृशं यत् तत् । खराश्च ॥ इत्येवमादिगणो निपातसंज्ञो भवति ॥ द्रव्यवचनो नेति ज्ञेयम् ॥ ३४९ तत्रादिविभक्त्यर्थे निपात्यते ११ ॥ तस्मिन्निति तत्र । यस्मिन्निति यत्र । कस्मिन्निति कुत्र कुह क । अस्मिन्निति अत्र । तस्मिन्काले तदा । यस्मिन्काले यदा। कस्सिन्काले कदा। अन्यस्मिन्काले अन्यदा । सर्वमिन्काले सर्वदा । तेन प्रकारेण तथा । येन प्रकारेण यथा । Page #83 -------------------------------------------------------------------------- ________________ सू० ३५०-३६२] आदेशविशेषाः १३ ७५ केन प्रकारेण कथम् । अनेन प्रकारेण इत्थम् । सर्वथा उभयथा अन्यथा अन्यतरथा इतरथा । तस्मादिति ततः । यस्मादिति यतः । अस्मादिति अतः । कुतः अमुतः युष्मत्तः अस्मत्तः भवत्तः । सार्वविभक्तिकस्तस् इत्येके । पूर्वतः सर्वतः । पूर्वस्मिन्निति पुरस्तात् । अधरस्मिन्नित्यधस्तात् । परस्मिन्निति परेण-परस्तात् ॥ ३५० आहिच्च दूरे १२ ॥ दूरेऽर्थे वाच्ये सति आहिच् प्रत्ययो भवति । दक्षिणस्यां दिशि दूरे इति दक्षिणाहि वसन्ति चाण्डालाः । चकारादाच् । दक्षिणा ॥ ३५१ किमः सामान्ये चिदादिः १३ ॥ सर्वविभक्त्यन्तारिकशब्दात्सामान्येऽर्थे चित् चन च इत्येते प्रत्यया भवन्ति ।। कश्चित् कश्चन । कचित् वचन ॥ ३५२ तदधीनकालयेयोर्वा सात् १४ ॥ तदधीनार्थे काार्थे वा सात्प्रत्ययो भवति ॥ राज्ञोऽधीनं राजसात् । सर्व भस्म इति भस्मसात् । अग्नेः अधीन. मित्यग्निसात् ।। सात्प्रत्ययस्य षत्वं नेच्छन्ति ॥ ३५३ ऊर्युरर्यङ्गीकरणे १५ ॥ ऊरीकृत्य उररीकृत्य ॥ ३५४ सद्यादिः काले निपात्यते १६ ॥ सद्यः अद्य सपदि अधुना इदानीम् सम्प्रति साम्प्रतम् पूर्वेद्युः परेद्युः आशु शीघ्रम् झटिति तूर्णम् अपरेयुः यहि तर्हि जोषम् मौनम् अन्येद्युः ॥ ३५५ प्रादिरुपसर्गः १७ ॥ प्र परा अप सम् अनु अव निर निस् दुर् दुस् वि आङ् नि अधि अपि अति सु उत् अभि प्रति परि उप श्रत् अन्तर आविर् । अयं गण उपसर्गसंज्ञकः ॥ ३५६ प्राग्धातोः १८॥ उपसर्गाः प्राग्धातोः प्रयोक्तव्याः ॥ ३५७ तदव्ययम् १९॥ तदिदं प्रादिचादिशब्दरूपमव्ययसंज्ञं भवति ॥ ३५८ क्त्वाद्यन्तं च २० ॥ क्त्वाद्यन्तं शब्दरूपमव्ययसंगं भवति ॥ क्त्वा चि क्यप् तुम् णम् डाच् वतु आम् धा कृत्वसू शसू सु इत्यादि । कृत्वा गत्वा भूत्वा इत्यादि । Page #84 -------------------------------------------------------------------------- ________________ सारस्वतव्याकरणम्। [वृत्तिः १ प्रणम्य कर्तुं गातुं दुःखाकरोति घटवत् कुतस्तराम् ॥ ३५९ अव्ययाद्विभक्तेलुंक २१॥ अव्ययात्परस्या विभक्तेढुंग भवति ॥ आपश्चेति वक्तव्यम् ॥ ३६० न शब्दनिर्देशे २२ ॥ अव्ययानां शब्दत्वेन रूपनिर्देशे सति विभक्तेरलुग्भवति । अव्ययानां च न लिङ्गादिनियमः । तदुक्तं च ॥ सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥ ५९॥ उक्तान्यलिङ्गान्यव्ययानि ॥ इति आदेशविशेषप्रक्रिया ॥ १३ ॥ स्त्रीप्रत्ययप्रक्रिया १४ अधुना लिङ्गविशेषविजिज्ञापयिषया स्त्रीप्रत्ययाः प्रस्तूयन्ते ॥ आवतः स्त्रियाम् (सू० २३० ) जाया माया श्रद्धा मेधा धारा इत्यादि ॥ ३६१ अजादेश्वाप वक्तव्यः १॥ अजाश्वाकोकिलाबालावत्सादौ त्रिफलादिके। ईबादेरपवादार्थमजादेग्रहणं पृथक् ॥६० ॥ अजादेश्चेति चकारग्रहणाच्छूद्रा कन्यकेत्यादौ प्रथमवयोवाचकत्वेन जातिवाचकत्वेन च ईप् प्राप्तः सोऽजादित्वान्न भवतीति सूचितम् ॥ अजा एडका कोकिला बाला शूद्रा गणिका इत्यादि । ३६२ काप्यतः २ ॥ कापि इ अतः । स्त्रियां कापि परे पूर्वस्याकारस्य इकारो भवति ॥ कन्यकादौ न भवति ॥करोतीति कारिका। पचतीति पाचिका । पठतीति पाठिका ॥ वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः । . आपं चैव हलन्तानां यथा वाचा निशा दिशा ॥६१॥ __ अवगाह्य वगाह्य । अपिहितम् पिहितम् । अपिधानम् पिधा Page #85 -------------------------------------------------------------------------- ________________ सू० ३६३-३८३ ] स्त्रीप्रत्ययप्रक्रिया १४ नम् ॥ ३६३ इखो वा स्त्रियाम् ३ ॥ आपि परे तरादौ च पूर्वस्य हखो वा भवति ॥ तरतमरूपकल्पास्तरादयः । वेण्येव वेणिका वेणीका । नद्येव नदिका नदीका । अतिशयेन प्रशस्या इति श्रेयसी । अतिशयेन श्रेयसी इति श्रेयसितरा श्रेयसीतरा ॥ ३६४ तरत: पूर्वस्य पुंवत् ४ ॥ श्रेयस्तरा । विदुषितरा विदुषीतरा-विद्वत्तरा । भवतितरा-भवतीतरा भवत्तरा । सतितरा-सतीतरा-सत्तरा । नौकादौ न भवति । नौका ॥ ३६५ आवन्तस्यानावन्तस्यापि कप्रत्यये परे बहुव्रीहौ वा ५ ॥ बहुमालकः बहुमालाकः । सुसोमपाकःसुसोमपकः । वाग्रहणादेवेयं विवक्षा। निश्चीय पतन्त्यनेकेष्वर्थेविति निपाताः । निपातानामनेकार्थत्वात् । उक्तं हि ॥ निपाताश्चोपसर्गाश्च धातवश्चेति ते त्रयः । अनेकार्थाः स्मृताः सर्वे पाठस्तेषां निदर्शनम् ॥६२॥ ३६६ रण ईप ६ ॥ नकारान्ताहकारान्तादण्णन्ताच स्त्रियामीप् प्रत्ययो भवति ॥ दण्डिनी करिणी मालिनी । [ ईपि राज्ञः अलोपो वक्तव्यः ] । राज्ञी । श्वादेः (सू० २५४) शुनी की ही औपगवी ॥ ३६७ यस्य लोपः ७ ॥ इश्व अश्च यः तस्य लोपो भवति खरे यकारे च परे ॥ विभक्तिवरं युप्रत्ययं च वर्जयित्वान्यस्मिन्खरे यकारे च परे इति ज्ञेयम् । तेन देवे वातायुः ऊर्णायुः इत्यत्र न भवति ॥ समासतद्धितस्त्रीप्रत्ययेष्वयं विधिर्वेदितव्यः ॥ ३६८ स्वस्रादीनामनन्तानां संख्यावाचिनां च नेप् वक्तव्यः ८ ॥ स्वसा तिस्रश्चतस्रश्च ननान्दा दुहिता तथा । याता मातेति सप्तैते स्वस्रादय उदाहृताः ॥ ६३ ॥ खसा दुहिता सीमा पञ्चेत्यादि ॥ ३६९ पादन्तात्त्रियामीप् वा वक्तव्यः ९॥ द्विपदी द्विपात् ॥ ३७० ऋचिपादन्तादादेव Page #86 -------------------------------------------------------------------------- ________________ ७८ सारस्वतव्याकरणम् । [वृत्तिः १ वक्तव्यो न ईप १० ॥ पादः पद् (सू ० २८१) द्विपदा ऋक् ।। ३७१ अन्नन्ताद्वहुव्रीहेडाप वा वाच्यः ११॥ बहुसीमा बहुसीमे बहुसीमाः । पक्षे बहुसीमा बहुसीमानौ बहुसीमानः । बहुयज्वा बहुयज्वे बहुयज्वाः । पक्षे बहुयज्वा बहुयज्वानौ बहुयज्वानः ॥ ३७२ उपधालोपिनोऽनन्ताबहुव्रीहेरीप वा १२ ॥ बहुराज्ञी बहुराश्यौ। पक्षे डापू । बहुराजा बहुराजे । डापोऽप्यभावे बहुराजा बहुराजानौ ॥ ३७३ संख्यादेर्दाग्न ईप १३ ॥ द्विदाम्नी ॥ ३७४ श्वितः १४॥ षकारटकारऋकारानुबन्धाच्च स्त्रियामीप् प्रत्ययो भवति ॥ च ट्च उश्च ऋश्व एषां समाहारः ष्ट्व । ष्ट्वृ इत् तस्येति वित् । तस्मात् व्रितः। ष् वराकी। कुरुचरी। उ गोमती। ऋ पचन्ती । पठन्ती॥ ३७५ धातोरुदितो न १५ ॥ पर्णध्वत् उखासत् ॥ ३७६ अप्ययोरानित्यम् १६ ॥ अप्रत्यययप्रत्ययसंबन्धिनोऽकारात्परस्य शतुनित्यं नुमागमो भवति ईकारे ईपि च परे ॥ ऋ । पचन्ती पठन्ती दीव्यन्ती ॥ ३७७ वादीपोः शतुः १७ ॥ अवर्णात्पस्य शतुर्वा नुमागमो भवति ईकारे ईपि च परे ॥ नुदती नुदन्ती ॥ ३७८ नदादेः १८ ॥ नदादेर्गणास्त्रियामीप्प्रत्ययो भवति । नदी गौरी गोतमी । नदादिराकृतिगणः । तेन चतुर्थी पञ्चमी द्वादशी पौर्णमासी इत्यादि ॥ ३७९ ईप्यनडहो वाम् वक्तव्यः १९ ॥ अनड़ाही-अनडुही ॥ ३८० हायनाद्वयसि च २० ॥ द्विहायनी चतुहायणी ॥ ३८१ पुरुषाद्वा परिमाणे २१ ॥ द्विपुरुषी-द्विपुरुषा वा परिखा ॥ ३८२ इन्द्रादेरानीप् च २२ ॥ इन्द्रादेर्गणास्त्रियामानीप्प्रत्ययो भवति॥ इन्द्रादेरित्यादिशब्दादिन्द्र-ब्रह्मन्-रुद्र-भव-शर्वमृडे-वरुणादयः । इन्द्राणी ॥ ३८३ ब्रह्मन्शब्दस्य नलोपो वाच्यः २३ ॥ ब्रह्माणी रुद्राणी मृडानी वरुणानी । चकारान्मातुलाचार्यसू Page #87 -------------------------------------------------------------------------- ________________ ७९ सू० ३८४-४०२] स्त्रीप्रत्ययप्रक्रिया १४ योपाध्यायायक्षत्रियेभ्यो वा ॥ ३८४ अर्यक्षत्रियाभ्यां वा स्वार्थे २४ ॥ अर्याणी अर्या ॥ ३८५ हिमारण्ययोमहत्त्वे २५ ॥ महद्धिमं हिमानी । महदरण्यमरण्यानी ॥ ३८६ यवादोषे २६ ॥ दुष्टो यवो यवानी ॥ ३८७ यवनाल्लिप्याम् २७॥ यवनानां लिपिर्यवनानी ॥ ३८८ ईपुसमाहारे गुणश्च २८ ॥ त्रयाणां समाहारः त्रयी ॥ ३८९ पुंयोगेच २९ ॥ पुंयोगे च स्त्रियामीप्प्रत्ययो भवति ॥ शूद्रस्य भार्या शूद्री । गणकी ॥ ३९० गोपालिकादीनां न ३०॥ गोपालिका पशुपालिका ॥ ३९१ सूर्याद्देवतायां चाप् ३१ ॥ सूर्यस्य स्त्री देवता सूर्या । अन्या सूरी ॥ ३९२ जातेरयोपधात् ३२ ॥ जातिवाचिनोऽयकारोपधादकारान्तास्त्रियामीप्प्रत्ययो भवति अस्त्रीविषयादिति वाच्यम् । तेन मक्षिका बलाका इत्यादौ न ॥ ३९३ गवयहयमुकयमत्स्यमनुष्याणां न निषेधः ३३ ॥ गवयी इत्यादि । शूकरी हंसी कुक्कुटी ब्राह्मणी । अयकारोपधग्रहणात्क्षत्रिया वैश्या ।। ३९४ शूद्राजातौ न ३४ ॥ शूद्रस्य जातिः शूद्रा ॥ ३९५ महत्पूर्वोत्तु ईप ३५ ॥ महाशूद्री आभीरजातिः ॥ पुंयोगे च ॥ महाशूद्रस्य भार्या महाशूद्री ॥ ३९६ प्रथमवयोवाचिनोऽत ईप् वक्तव्यः ३६ ॥ कन्याशब्दान्न । कुमारी किशोरी कलभी ॥ प्रथमवयोग्रहणादृद्धा स्थविरा इत्यत्र न॥ वधूटी चिरण्टी इत्यत्र ईप् भवत्येव ॥ अग्रहणाच्छिशुः॥ ३९७ स्वाङ्गाद्वा ३७॥खाङ्गवाचिनो वा स्त्रियामीपूप्रत्ययो भवति ॥ सुमुखी-सुमुखा ॥ मृगाक्षी-मृगाक्षा ॥ तन्वङ्गीतन्वङ्गा ॥ सुष्ठु आसमन्तादङ्गं खाङ्गम् ॥ खस्य प्राणिनो अङ्गं खाङ्गमित्युक्तेऽङ्गाङ्गिभावेन ज्ञानादेरपि खाङ्गत्वं स्यात् । अतः खाङ्गलक्षणमाह ॥ Page #88 -------------------------------------------------------------------------- ________________ सारस्वतव्याकरणम् । [वृत्तिः १ प्राणिस्थमद्रवं मूर्त स्वाङ्गं स्यादविकारजम् । तत्र दृष्टमतत्स्थं चेस्थितं तद्वच्च तादृशि ॥ ६४ ॥ पूर्वार्धस्य प्रत्युदाहरणानि ॥ सुमुखा शाला अप्राणिस्थत्वात् ।। सुस्वेदा द्रवत्वात् ॥ सुज्ञाना अमूर्तत्वात् ॥ सुशोफा विकारजत्वात् ।। उत्तरार्धस्योदाहरणानि ॥ सुकेशी सुकेशा वा रथ्या। अप्राणिस्थस्यापि प्राणिनि दृष्टत्वात् ॥ सुस्तनी-सुस्तना वा प्रतिमा । प्राणिवत्प्राणिसदृशे स्थितत्वात् ॥ खाङ्गत्वेऽपि वाशब्दस्य व्यवस्थितत्वात् । ओष्ठादिषु विकल्पः । वदनादिषु च वक्तव्यः । बिम्बोष्ठी-बिम्बोष्ठा । चारुकर्णी-चारुकर्णा । समदन्ती-समदन्ता । पद्मवदना । मृगनयना ।। ३९८ नखमुखयोश्व संज्ञायां नेप ३८ ॥ शूर्पनखा । गौरमुखा ॥ ३९९ नासिकाशब्दात्केवलानेप ३९॥ नासिका ॥४०० कृदिकारादक्तेरीप वा वक्तव्यः ४०॥ अङ्गुली-अङ्गुलिः॥धूली-धूलिः ।। आजी-आजिः ॥ अक्तेरिति विशेषणात्कृतिः ॥ भूतिः ॥ ४०१ ऐच. मन्वादेः ४१ ॥ मन्वादेर्गणास्त्रियामीप्प्रत्ययो भवति ऐकारादेशश्च ॥ चकारान्मनोप्टेरौ वा ॥ आदिशब्दान्मन्वनिवृषाकपिपूतक्रतुकुसितकुसिदा ग्राह्याः ॥ मनोर्भार्या मनायी-मनावी । अत्र विक पेन पक्षे मनुः ॥ अग्नेर्भार्या अनायी ॥ पूताः क्रतवो यस्येति पूतक्रतुः । पूतक्रतोर्भार्या पूतक्रतायी । इत्यादि ॥ ४०२ पत्यादयः ४२ ॥ पत्यादयः शब्दा निपात्यन्ते ॥ पाणिग्रहणकर्ता पतिः तस्य स्त्री पत्नी ॥ भर्तृयोगे एव । अन्यत्र गवां पतिः स्त्री ॥ समानः पतिर्यस्याः सा सपत्नी ॥ भर्तृयोगे एव ॥ अन्तर्वनी। अन्यत्र अन्तर्वती ॥ पतिवनी सभर्तृका । अन्या पतिमती । सखी अशिश्वी १ अद्रवं मूर्तिमत्खाङ्गं प्राणिस्थमविकारजम् । अतत्स्थं तत्र दृष्टं च तेन चेत्तत्तथायुतम् ॥' को. पा. Page #89 -------------------------------------------------------------------------- ________________ सू० ४०३-४१०] कारकप्रक्रिया १५ ८१ अर्धजरती युवती ॥ प्रथमं सूर्योऽञ्चति यस्यां सा प्राची ॥ पश्चादञ्चति यस्यां सा प्रतीची ॥ उदीची ॥ नृशब्दस्य णीपप्रत्ययो भवति ॥ ४०३ णीपि परे नुर्बुद्धिर्वाच्या ४३ ॥ नारी । दारशब्दो नित्यं बहुवचनान्तः पुंलिङ्गः । दाराः । दारान् । दारैः । दारेभ्यः । दारेभ्यः । दाराणाम् । दारेषु ॥ ४०४ वोर्गुणात् ४४ ॥ उकारान्ताद्गुणवाचिनो वा स्त्रियामीपूप्रत्ययो भवति ॥ पट्टी - पटुः ॥ मृद्वी- मृदुः ॥ तन्वी-तनुः ॥ ४०५ खरुसंयोगोपधान्न ४५ ॥ खरुः ।। पाण्डुः ।। ४०६ उत ऊः ४६ ॥ उकारान्ताद्वा ऊप्रत्ययो भवति ॥ पङ्गुः पङ्गुः ॥ वामोरु: - वामोरूः ॥ वाशब्दाद्रज्ज्वादौ न भवति । रज्जुः । धेनुः ॥ ४०७ यूनस्तिः ४७ ॥ युवन्शब्दास्त्रियां तिप्रत्ययो भवति । युवतिः ॥ एभ्यो नामत्वात्स्यादयः ॥ आवन्तात् । आपः ( सू० १९६ ) इति । ईबन्तात् हसेपः सेर्लोपः ( सू० १५६ ) इति सिलोपः ॥ इति स्त्रीप्रत्ययप्रक्रिया ॥ १४ ॥ कारकप्रक्रिया १५ अथ विभक्त्यर्थो निरूप्यते ॥ तत्र क्रियासिद्धयुपकारकं कारकम् । तच्च षड्विधम् ॥ कर्ता कर्म च करणं संप्रदानं तथैव च । अपादानाधिकरणमित्याहुः कारकाणि षट् ॥ ६५ ॥ उक्तानुक्ततया द्वेधा कारकाणि भवन्ति षट् । उक्ते तु प्रथमैव स्यादनुक्ते तु यथाक्रमम् || ६६ ॥ तानि विभक्तिरित्यभिधीयन्ते ॥ ४०८ लिङ्गार्थे प्रथमा १ ॥ धातुप्रत्ययातिरिक्तमर्थवच्छब्दरूपं लिङ्गं तस्यैवार्थे सन्मात्रे प्रथमा विभक्तिर्भवति ॥ लिङ्गार्थे प्रथमा । एतस्य सूत्रस्येमान्युदाहरणानि ६ Page #90 -------------------------------------------------------------------------- ________________ ८२ सारस्वतव्याकरणम् । [वृत्तिः १ उच्चैः नीचैरित्यादीनि ॥ सकलकारकभेदशून्यं वस्तु सत्ता ॥ लिङ्गादयोऽपि प्रथमार्था इति केचित् ॥ आदिशब्दाल्लिङ्गवचनपरिमाणमात्रेऽपि प्रथमा ॥ कृष्णः श्रीः ज्ञानम् ॥ वचने । एकः द्वौ बहवः ॥ परिमाणे खारी द्रोणः आढकम् ॥ अष्टमुष्टि भवेत्किचित्किचिदष्टौ च पुष्कलम् । पुष्कलानि च चत्वारि आढकं परिकीर्तितम् ॥ ६७ ॥ चतुर्भिराढकोणः खारी षोडशभिश्च तैः । तत्सब्रह्म । रविरिव राजते राजा रोषात्कुमारी रोख्यते । बोभुज्यते भुवं भूपालः प्रागास्तां रामलक्ष्मणौ ॥ ६८॥ मनसि वचसि काये पुण्यपीयूषपूर्णा स्त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः । परगुणपरमाणन्पर्वतीकृत्य नित्यं निजहृदि विकसन्तः सन्ति सन्तः कियन्तः ६९ कुमाराः शेरते स्वैरं रोरूयन्ते च नारकाः । जेगीयन्ते च गीतज्ञा मेम्रीयन्ते रुजार्दिताः॥ ७० ॥ ४०९ आमत्रणे च २॥ आमन्त्रणे अभिमुखीकरणे प्रथमा विभक्तिर्भवति ॥ मां समुद्धर गोविन्द प्रसीद परमेश्वर । कुमारौ स्वैरमासाथां क्षमध्वं भो तपस्विनः ॥ ७१ ॥ ४१० भोस् भगोस् अघोस् ३ ॥ एते शब्दा निपात्यन्ते घिविषये ॥ भवद्भगवदघवच्छब्दानां भोस् भगोस् अघोसू इत्येतच्छब्दरूपत्रयं क्रमेण निपात्यते ॥ Page #91 -------------------------------------------------------------------------- ________________ सू० ४११-४२१] कारकप्रक्रिया १५ क्षमस्व भो दुराराध्य भगोस्तुभ्यं नमोऽस्तु ते । अधीष्व भो महाप्राज्ञ घातयाघोः स्वघरसरम् ॥ ७२ ॥ ४११ शेषाः कार्ये ४॥ कर्तृसाधनयोर्दानपात्रे विश्लेषावधौ संबन्ध आधारभावयोः शेषा विभक्तयो द्वितीयाद्या एष्वर्थेषु भवन्ति । कार्ये कर्मकारके उत्पाद्ये आप्ये संस्कार्ये विकार्ये च द्वितीया विभक्तिर्भवति ॥ ४१२ कर्तुरीप्सिततमं कर्म ५॥ कर्तुः क्रियया आप्तुमिष्टतमं कारकं कर्मसंज्ञं स्यात् ॥ हरिं भजति ॥ ४१३ तथा युक्तं चानीप्सितम् ६ ॥ ईप्सिततमवक्रियया युक्तमनीप्सितमपि कारक कर्मसंज्ञं स्यात् ॥ तच्चानीप्सितं द्विविधम् । द्वेष्यमितरच्च ॥ विषं भुते । ग्रामं गच्छंस्तृणं स्पृशति ॥ तच्च कर्मकारकं चतुर्विधम् । उत्पाद्यं आप्यं संस्कार्य विकार्य च ॥ उत्पत्त्यर्थमुत्पाद्यं वा यदभूत्वा भावि तदुत्पाद्यम् ॥ यत्सिद्धमेव प्राप्यते तदाप्यम् ॥ संस्कारो नाम प्राक्तनकर्मजो गुणः कश्चिद्गुणातिशयो वा । गुणाधानं मलापकर्षों वा। इति चतुर्विधः संस्कारः । संस्कारमहतीति संस्कार्यम् ॥ विकारो नाम पूर्वावस्थापरित्यागेनावस्थान्तरप्राप्तिः ॥ कटं करोति कारूको रूपं पश्यति चाक्षुषः । राज्यं प्राप्नोति धर्मिष्ठः सोमं सुनोति सोमपाः॥७३॥ . कटादिकमुत्पाद्यादि चतुर्विधं कर्म ॥ गुणातिशयः संस्कार्यम् ।। त्रीहीन्यवान्वा प्रोक्षति । प्रोक्षणेन व्रीहिषु कश्चिद्गुणातिशयो जन्यते ।। गुणाधानमलापकर्षयोरुदाहरणम् ॥ वस्त्रं रञ्जयति देवदत्तः । रजको वस्त्रं क्षालयति ॥ अभिसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु । द्वितीयानेडितान्तेषु ततोऽन्यत्रापि दृश्यते ॥७४ ॥ अभितोग्राम सर्वतोग्रामं नदी वहति ॥ धिग्देवदत्तं देवदत्तस्य Page #92 -------------------------------------------------------------------------- ________________ सारस्वतव्याकरणम् । [वृत्तिः १ धिक् ॥ ४१४ उपर्यध्यधसः सामीप्ये ७ ॥ एषां द्वे स्तो देशतः कालतश्च सामीप्ये ॥ ४१५ तस्य परमानेडितम् ८ ॥ द्विरुक्तस्य परं रूपमामेडितसंज्ञं स्यात् ॥ उपर्युपरि पुरोहितं याचकाः पतन्ति । अधोऽधो नगरं निधानानि सन्ति ॥ ४१६ परितःसमयानिकषाहाप्रतियोगेऽपि ९॥ परितः कृष्णं गोपाः ॥ निकषा समया सामीप्ये । समया ग्रामं उपवनानि वर्तन्ते ॥ निकषा ग्रामं निहतः शत्रुः ॥ हा कृष्णाभक्तम् । तस्य शोच्यत इत्यर्थः ॥ बुभुक्षितं न प्रतिभाति किंचित् ॥ ४१७ लक्षणेत्थंभूताख्यानभागवीप्सासु प्रतिपर्यनवः १० ॥ एष्वर्थेषु विषयभूतेषु प्रत्यादयः कर्मप्रवचनीयसंज्ञाः स्युः ॥ ४१८ कर्मप्रवचनीययुक्ते द्वितीया ११ ॥ एतेन योगे द्वितीया स्यात् ॥ लक्षणे । वृक्षं प्रति परि अनु वा विद्योतते विद्युत् ॥ इत्थंभूताख्याने । भक्तो विष्णुं प्रति परि अनु वा ॥भागे। लक्ष्मीहरि प्रति परि अनु वा । हरेर्भाग इत्यर्थः ॥ वीप्सायाम् । वृक्षं वृक्षं प्रति परि अनु वा संचरति ॥ ४१९ कालाध्वनोनॆरन्तर्ये १२ ॥ अविच्छिन्नसंयोगत्वं नैरन्तर्यम् । कालाध्ववाचकशब्दानां नैरन्तर्येऽर्थे वाच्ये सति द्वितीया विभक्तिर्भवति ॥ मासमधीते देवदत्तः ।। क्रोश पर्वतः ॥ नैरन्तये किम् । मासस्य द्विरधीते ॥ क्रोशस्यैकदेशे पर्वतः॥४२० कर्तरि प्रधाने क्रियाश्रये साधने च १३ ॥ प्रधाने कर्तरि क्रियासिद्धयुपकारके करणेऽर्थे च तृतीया विभक्तिर्भवति ॥ क्रियायाः परिनिष्पत्तिर्ययापारादनन्तरम् । विवक्ष्यते यदा यत्र करणं तत्तदा स्मृतम् ॥ ७५ ॥ भिन्नः शरेण रामेण रावणो लोकरावणः । कराग्रेण विदीर्णोऽपि वानरैर्युध्यते पुनः ॥ ७६ ॥ ४२१ प्रकृत्यादिभ्यः १४ ॥ प्रकृत्यादिभ्यः शब्देभ्यस्तृतीया Page #93 -------------------------------------------------------------------------- ________________ सू० ४२२-४२८] कारकप्रक्रिया १५ ८५ स्यात् ॥ प्रकृत्या चारुः ॥ प्रायेण अलसः ॥ सुखेन याति ॥ गोत्रेण गार्ग्यः । गार्योऽस्य गोत्रमित्यर्थः ॥ ४२२ दानपात्रे संप्रदानकारके चतुर्थी १५॥ सम्यक् श्रेयोबुद्ध्या प्रदीयते यस्मै तत्संप्रदानकारकम् ॥ वेदविदे गां ददाति ॥ अन्यत्र राज्ञो दण्डं ददाति ॥ रजकस्य वस्त्रं ददाति ॥ ददाति दण्डं पुरुषो महीपते ने चातिभक्त्या न च दानकाम्यया । यद्दीयते वासनया सुपात्रे तत्संप्रदानं कथितं कवीन्द्रैः ॥ ७७ ॥ अनभिहिते इत्येव । दानीयो विप्रः।। क्वचित्सम्यक्श्रेयोबुद्ध्यभावेऽपि चतुर्थी ॥ व्याजेन रघवे करमिति महाकविप्रयोगदर्शनात् ॥ तच्च संप्रदानं त्रिविधम् । प्रेरकमनिराकनुमन्तृ चेति ॥ त्यागेन कर्मणा व्याप्तं प्रेरकं चानुमन्त च । अनिराकर्तृ चेत्येतत्संप्रदानं त्रिधा स्मृतम् ॥ ७८॥ , देहीति प्रेरयति तत्प्रेरकम् ॥ यथा । बटवे भिक्षां ददाति ॥ यत्तु इदमहं ददामीत्युक्तेऽनुमन्यते ओमित्याह तदनुमन्तृ ॥ यथा। शिष्यो गुरवे गां ददाति ॥ यत्तु नानुमन्यते न निराकरोति तदनिराकर्तृ॥ यथा । सूर्यायाधैं ददाति ॥ ४२३ क्रियया यमभिप्रैति सोऽपि संप्रदानम् १६ ॥ पत्ये शेते ॥ ४२४ विश्लेषावधौ पञ्चमी १७॥ विश्लेषो विभागस्तत्र योऽवधिः सचलतया अचलतया वा विवक्षितस्तत्रापादाने पञ्चमी ॥ विश्लेषो नाम संयोगपूर्वको विभागः ॥ आधाराधेययोर्मध्ये आधारत्वेन यो ज्ञायमानः सोऽवधिः ॥ आधीयतेऽनेनासौ आधारः॥ आधातुं योग्यः आधेयः॥धावतोऽश्वादपतत् ।। भूभृतोऽवतरति गङ्गा ॥ ४२५ संबन्धे षष्ठी १८ ॥ As Page #94 -------------------------------------------------------------------------- ________________ सारस्वतव्याकरणम् । [ वृत्तिः १ भेद्यभेदकयोः श्लिष्टः संबन्धोन्योऽन्यमुच्यते । द्विष्ठो यद्यपि संबन्धः षष्ठ्युत्पत्तिस्तु भेदकात् ॥ ७९ ॥ भेद्यं विशेष्यमित्याहुर्भेदकं तु विशेषणम् । विशेष्यं तु प्रधानं स्यादप्रधानं विशेषणम् ॥ ८० ॥ प्रधानाप्रधानयोर्मध्येऽप्रधाने षष्ठी ॥ क्रियान्वयि प्रधानम् ॥ क्रियानन्वय्यप्रधानम् ॥ ८६ राज्ञः स पुरुषो ज्ञेयः पित्रोरेतत्प्रपूजनम् । गुरूणां वचनं पथ्यं कवीनां रसवद्वचः ॥ ८१ ॥ सेव्यसेवकभावसंबन्धः पूज्यपूजकभाव संबन्धो बोध्यबोधकभावसंबन्धो वाच्यवाचकभावसंबन्ध इति संबन्धश्चतुर्विधः ॥ ४२६ आधारे सप्तमी १९ ॥ आधारो नामाधिकरणम् ॥ षड्विधमधिकरणम् । औपश्लेषिकं सामीप्यकमभिव्यापकं वैषयिकं नैमित्तिकमौपचारिकं चेति ॥ औपश्लेषिकं त्रिविधम् । एकदेशवृत्त्यभिव्याप्यवृत्ति व्यङ्ग्यवृत्तीति केषांचिन्मतम् ॥ कटे शेते कुमारोऽसौ वटे गावः सुशेरते । तिलेषु विद्यते तैलं हृदि ब्रह्मामृतं परम् ॥ ८२ ॥ युद्धे संनह्यते धीरोऽङ्गुल्यग्रे करिणां शतम् । भूभृत्सु पादपाः सन्ति गङ्गायां वरवालुकाः ॥ ८३ ॥ ४२७ भावे सप्तमी २० ॥ क्रियालक्षणं भावस्तत्रापि सप्तमी ॥ प्रसिद्धक्रियया अप्रसिद्धक्रियाया लक्षणबोधनं भावः ॥ देवे वर्षति चौर आयातः || पतत्यंशुमालिनि पतितोऽरातिः ॥ ४२८ निवासहनमऋते निर्धारणस्वाम्यादिभिश्व २१ ॥ एतैरपि योगे द्वितीयाद्या विभक्तयो भवन्ति ॥ विना पापं सर्वे फलति || अन्तरेणाक्षिणी जीवितेन किम् || अन्तरा त्वां मधुमध्वित्यादिपदानाम् ॥ Page #95 -------------------------------------------------------------------------- ________________ सू० ४२९– ४४९] कारकप्रक्रिया १५ ८७ ४२९ अधिशीङस्थासां कर्म २२ ॥ अधिपूर्वाणामेषामाधारः कर्मसंज्ञः स्यात् ॥ अधिशेते अधितिष्ठति अध्यास्ते वा वैकुण्ठं हरिः ॥ ४३० अभिनिविशश्च २३ ॥ अभिनीत्येतत्संघातपूर्वस्य विशतेर्धातोराधारः कर्मसंज्ञः स्यात् । ग्रामं अभिनिविशते ॥ ४३१ उपान्वध्यासः २४ ॥ उपादिपूर्वस्य वसतेराधारः कर्मसंज्ञः स्यात् ॥ आवसथ्यं आवसति उपवसति अनुवसीत अधिवसति || ४३२ सहादियोगे तृतीयाsप्रधाने २५ ॥ सह सदृशं साकं साधै सममिति सहादयः ॥ सह शिष्येणागतो गुरुः॥ सदृशश्चैत्रो मैत्रेण ॥ साकं नयनाभ्यां श्लक्ष्णा दन्ताः ॥ सार्धं धनिना धृतः साधुः ॥ समं शिष्याभ्यामधीते ॥ समं शिष्येण गुरुणा भुज्यते ॥ ४३३ अशिष्टव्यवहारे दाणः प्रयोगे चतुर्थ्यर्थे तृतीया २६ ॥ दास्या संयच्छते कामुकः । धर्म्ये तु भार्यायै संयच्छति ॥ ४३४ वारणार्थयोगे तृतीया २७ ॥ अलं विवादेन ॥ ४३५ नमः स्वस्तिस्वाहास्वधालंवषड्रयोगे चतुर्थी २८ ॥ नमो नरायणाय । स्वस्ति राज्ञे । सोमाय स्वाहा । पितृभ्यः खधा । अलं मल्लो मल्लाय । वषट् इन्द्राय || ४३६ रुच्यर्थानां प्रीयमाणः २९ ॥ रुच्यर्थानां धातूनां प्रयोगे प्रीयमाणोऽर्थः संप्रदानसंज्ञः स्यात् ॥ हरये रोचते भक्तिः ॥ ४३७ ऋत आदियोगे पञ्चमी ३० ॥ ऋते अन्यः आरात् इतरः अञ्चत्तरपदं दिग्वाचकः शब्दः आहि आच् एते ऋतआदयः ॥ अन्यशब्देनान्यार्थी गृह्यन्ते ॥ ऋते ज्ञानान्न मुक्तिः ॥ अन्यो गृहाद्विहारः ॥ आराद्वनात् ॥ इतरो ग्रामात् ॥ ४३८ ऋतेयोगे द्वितीयापि ३१ ॥ ज्ञानं ऋते ॥ चकाराद्विनादियोगे तृतीयापञ्चम्यौ स्तः ॥ विना ज्ञानात् । ज्ञानेन विना ॥ ४३९ यतश्च निर्धारणम् ३२ ॥ द्रव्यगुणक्रियाजातिभिः समुदायात्पृथक्करणं यतस्तत्र षष्ठीसप्तम्यौ स्तः ॥ भवतां मध्ये यो दण्डी स Page #96 -------------------------------------------------------------------------- ________________ सारस्वतव्याकरणम् । [ वृत्ति: १ आयातु । भवत्सु वा ॥ क्रियापराणां भगवदाराधकः श्रेष्ठः । क्रियापरेषु वा ॥ गवां गोषु वा कृष्णा गौः संपन्नक्षीरा ॥ एतेषां एतेषु वा क्षत्रियः शूरतमः || ४४० स्वाम्यादिभिश्च ३३ ॥ स्वाम्यादिभिरपि योगे षष्ठीसप्तम्यौ स्तः ॥ गोषु खामी गवां खामी ॥ गवामधिपतिः गोष्वधिपतिः ॥ ४४१ कर्तृकार्ययोरक्तादौ कृति षष्ठी ३४ ॥ कर्तरि कार्ये च षष्ठीविभक्तिर्भवति क्तादिवर्जितकृदन्ते शब्दे प्रयुज्यमाने ॥ व्यासस्य कृतिः । व्यासकर्तृका कृतिरित्यत्यर्थः ॥ भारतस्य श्रवणम् ॥ ४४२ उभयप्राप्तौ कर्मणि ३५ ॥ उभयोः प्राप्तिर्यस्मिन्कृति तत्र कर्मण्येव षष्ठी स्यात् ॥ चित्रं गवां दोहोऽगोपेन ॥ ४४३ स्मृतौ च कार्ये ३६ ॥ स्मृत्यर्थे धातौ प्रयुज्यमाने च कार्ये षष्ठी भवति ॥ मातुः स्मरति मातरं स्मरतीत्यस्मिन्नर्थे ॥ चकाराद्वितीयापि । मातरं स्मरति ॥ ४४४ न लोकाव्ययनिष्ठाखलर्थतृनाम् ३७ ॥ एषां प्रयोगे षष्ठी न ॥ लादेशाः । कुर्वन् कुर्वाणः सृष्टिं हरिः ॥ उ । हरिं दिदृक्षुः अलंकरिष्णुर्वा ॥ उक् । दैत्यान्घातुको हरिः ॥ अव्ययम् । जगत्सृष्ट्वा सुखं कर्तुम् ॥ निष्ठा । विष्णुना हता दैत्याः । दैत्यान् हतवान् विष्णुः ॥ खलर्थः । ईषत्करः प्रपञ्चो हरिणा ॥ तृन् । कर्ता लोकान् ॥ ४४५ हेतौ तृतीया पञ्चमी च वक्तव्या ३८ ॥ अनित्यः शब्दः कृतकत्वेन कृतकत्वात्कृत्रिमत्वात् ॥ ४४६ भयहेतौ पञ्चमी च वक्तव्या ३९ ॥ चौराद्विभेति ॥ व्याघ्रात्रस्यति ॥ विद्युत्पाताच्चकितः ॥ ४४७ षष्ठी च हेतुप्रयोगे ४० ॥ हेतुप्रयोगे हेतौ द्योत्ये षष्ठी स्यात् ॥ चकारात्सर्वादियोगे तृतीयापि ॥ अन्नस्य हेतोर्वसति ॥ कस्य हेतोर्नागतः । केन हेतुना वा नागतः ॥ ४४८ इत्थंभावे तृतीया ४१ ॥ कंचित्प्रकारं प्राप्त इत्थंभावः ॥ शिष्यं पुत्रेण पश्यति ॥ संसारमसारेण पश्यति ॥ ४४९ येनाङ्गवि 1 ૮૮ Page #97 -------------------------------------------------------------------------- ________________ सू० ४५०-४६१] कारकप्रक्रिया १५ कारः ४२ ॥ येन विकृतेनाङ्गेनाङ्गिनोऽङ्गविकारो लक्ष्यते तस्मादङ्गात्तृतीया विभक्तिर्भवति ॥ अक्ष्णा काणः ॥ पादेन खञ्जः। श्रवणेन बधिरः ॥ विकारो द्विविधः । न्यूनत्वाश्रित आधिक्याश्रितश्च ॥ मुखेन त्रिलोचनः ॥ वपुषा चतुर्भुजः ॥ ४५० जनिकर्तुः प्रकृतिः ४३ ॥ जायमानस्य कार्यस्योपादानमपादानसंज्ञं भवति । तत्रापादाने पञ्चमी । यस्मात्प्रजाः प्रजायन्ते तद्ब्रह्मेति ॥ ४५१ आडादियोगे च ४४ ॥ आङादियोगे पञ्चमीविभक्तिर्भवति ॥ आङ्मर्यादायामभिविधौ च ।। अपपरी वर्जने ॥ एते आङादयः ॥ आपाटलिपुत्रादृष्टो देवः ॥ आ बालेभ्यो हरिभक्तिः ॥ आदिशब्दात्परि त्रिगर्तेभ्यो वृष्टो देवः ॥ अप त्रिगर्तेभ्यो वृष्टो देवः ॥ ४५२ तादयें चतुर्थी वक्तव्या ४५ ॥ संयमाय श्रुतं धत्ते नरो धर्माय संयमम् । धर्म मोक्षाय मेधावी धनं दानाय मुक्तये ॥ ८४ ॥ आशिषि चतुर्थी । राज्ञे चिरं सौभाग्यं भूयात् ॥ ४५३ क्रुधदुहेासूयार्थानां यं प्रति कोपः ४६ ॥ क्रुधाद्यर्थानां प्रयोगे यं प्रति कोपः स संप्रदानसंज्ञकः स्यात् ॥ हरये क्रुध्यति द्रुह्यति ईर्ण्यति असूयति ॥ Qहादयोऽपि कोपप्रभवा एव गृह्यन्ते ॥ ४५४ सोपसगयोः क्रुधQहोर्योगे द्वितीया वक्तव्या ४७ ॥ क्रूरमभिक्रुध्यति । मित्रमभिद्रुह्यति ॥ अपवादमारोपयति ॥ ४५५ क्यब्लोपे कर्मण्यधिकरणे च पश्चमी वक्तव्या ४८ ॥ हात्प्रेक्षते । हर्यमारुह्य प्रेक्षत इत्यर्थः ॥ आसनात्प्रेक्षते । आसने उपविश्य प्रेक्षत इत्यर्थः॥ निमित्ताकर्मयोगे सप्तमी च वक्तव्या ॥ क्यबर्थो दृश्यते यत्र क्यबन्तं नैव दृश्यते । तदेव हि क्यब्लोपित्वं ज्ञातव्यं च सदा बुधैः ॥८५॥ Page #98 -------------------------------------------------------------------------- ________________ सारस्वतव्याकरणम् । [ वृत्ति: १ चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम् । केशेषु चमरीं हन्ति सीनि पुष्कलको हतः ॥ ८६ ॥ गुदमेान्तराला सीमेति प्रोच्यते बुधैः । पुष्कलो मृगभेदः स्याद्वन्यः सौगन्ध्यहेतुकः ॥ ८७ ॥ ४५६ विषये च ४९ ॥ तर्फे चतुरः ॥ विषयो नामान्यत्र भावः ॥ ४५७ षष्ठीसप्तम्यौ चानादरे ५० ॥ बहूनां क्रोशतां गतश्चौरः ॥ मातापित्रो रुदतोः प्रव्रजति पुत्रः ॥ बहुष्वसाधुषु वदत्खपि स्वयमार्यो याति साधुमार्गेण ॥ बहुषु साधुषु वदत्स्वपि स्वयमनार्यो यात्यसाधुमार्गेण ॥ ४५८ अन्योक्ते प्रथमा ५१ ॥ यदिदं कार्याद्यन्येनाख्यातेन कृता चोक्तं भवति तदा प्रथमा प्रयोक्तव्या ॥ घटः क्रियते । घटः कार्यः ॥ प्राप्तं उदकं यमिति प्राप्तोदको ग्रामः ॥ छन्दसि स्यादिः सर्वत्र ॥ दधि जुहोतीत्यस्मिन्नर्थे दघ्ना जुहोति ॥ पुनातु ब्रह्मणस्पतिः ॥ व्रजतीर्विरेजुः ॥ ९० कर्ता कर्म च करणं संप्रदानं तथैव च । अपादानाधिकरणमित्याहुः कारकाणि षट् ॥ ८८ ॥ द्वितीया कर्मणि ज्ञेया कर्तरि प्रथमा यदा । उक्तकर्तृप्रयोगोऽयं न तदा यक्प्रयुज्यते ॥ ८९ ॥ तृतीया कर्तरि यदा कर्मणि प्रथमा तदा । उक्तकर्मप्रयोगोऽयं न तदा परस्मैपदम् ॥ ९० ॥ ४५९ स्वतन्त्रः कर्ता ५२ ॥ क्रियायां खातच्येण विवक्षितोऽर्थः कर्ता स्यात् ॥ प्रधानीभूतधात्वर्थाश्रयः कर्ता ॥ ४६० साधकतमं करणम् ५३ ॥ क्रियासिद्धौ प्रकृष्टोपकारकं करणसंज्ञं स्यात् ॥ ४६१ कर्तृकरणयोस्तृतीया ५४ ॥ अनभिहिते कर्तरि करणे च १ कर्तेत्यादिश्लोकत्रयं व्याकरणीय सामान्यनियमः । Page #99 -------------------------------------------------------------------------- ________________ सू० ४६२-४६६] कारकप्रक्रिया १५ तृतीया स्यात् ॥ ४६२ अकथितं च ५५ ॥ अपादानादिविशेषैरविवक्षितं कारकं कर्मसंज्ञं स्यात् ॥ दुयाचपच्दण्ड्रधिप्रच्छिचिब्रूशासुजिमयमुषाम् । कर्मयुक्स्यादकथितं तथा स्यान्नीकृष्वहाम् ॥ ९१ ॥ दुहादीनां द्वादशानां तथा नीप्रभृतीनां चतुर्णा कर्मणा यधुज्यते तदेवाकथित कर्मेति परिगणनं कर्तव्यमित्यर्थः ॥ गां दोग्धि पयः ॥ बलिं याचते वसुधाम् ॥ अविनीतं विनयं याचते ॥ तण्डुलानोदनं पचति ॥ गर्गान् शतं दण्डयति ॥ ब्रजमवरुणद्धि गाम् ॥ माणवकं पन्थानं पृच्छति ॥ वृक्षमवचिनोति फलानि॥ माणवकं धर्म ब्रूते शास्ति वा ॥ शतं जयति देवदत्तम् ॥ सुधां क्षीरनिधिं मनाति ॥ देवदत्तं शतं मुष्णाति ॥ ग्राममजां नयति हरति कर्षति वहति वा ॥ अर्थनिबन्धनेयं संज्ञा ॥ बलि भिक्षते वसुधाम् ॥ माणवकं धर्म भाषते अभिधत्ते वक्तीत्यादि ॥ ४६३ अकर्मकधातुभिर्योगे देशः कालो भावो गन्तव्योऽध्वा च कर्मसंज्ञः स्यादिति वाच्यम् ५६॥ कुरून्वपिति ॥ मासमास्ते ॥ गोदोहमास्ते ॥ क्रोशमास्ते ॥ ४६४ गतिबुद्विप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता सणौ ५७॥ गत्याद्यर्थानां शब्दकर्मकाणामकर्मकाणां चाणौ यः कर्ता स णौ कर्म स्यात् ।। शत्रूनगमयत्स्वर्ग वेदार्थ खानबोधयत् । आशयच्चामृतं देवान्वेदमध्यापयद्विधिम् ॥ ९२ ॥ आसयत्सलिले पृथ्वीं यः स मे श्रीहरिर्गतिः । गौणे कर्मणि दुह्यादेः प्रधाने नीहकृष्वहाम् ॥ ९३ ॥ बुद्धिभक्षार्थयोः शब्दकर्मकाणां निजेच्छया। प्रयोज्यकर्मण्यन्येषां ण्यन्तानां लादयो मताः॥९४॥ गौह्यते पयः ॥ अजा ग्रामं नीयते ॥ बोध्यते माणवकं धर्मः, Page #100 -------------------------------------------------------------------------- ________________ सारस्वतव्याकरणम् । [वृत्तिः १ माणवको धर्ममिति वा॥ देवदत्तो ग्रामे गम्यते ॥ अकर्मकाणां कालादिकर्मणां च कर्मणि भावे च नकार इष्यते ॥ मासो मासं वा आस्यते देवदत्तेन ॥ णिजन्तात्तु प्रयोज्ये प्रत्ययः ॥ मासमास्यते माणवकः ॥ ४६५ तत्प्रयोजको हेतुश्च ५८॥ कर्तुः प्रयोजकः कर्तृसंज्ञो हेतुसंज्ञश्च स्यात् ॥ स्वार्थ परित्यज्य अन्यार्थाभिधायित्वमुपसर्जनत्वम् ॥ क्रियाजन्यफलशालित्वं कर्मत्वम् ॥ साक्षात्संबन्धेन क्रियान्वयित्वं मुख्यत्वम् ॥ परंपरासंबन्धेन क्रियान्वयित्वं गौणत्वम् ।। इति कारकप्रक्रिया संपूर्णा ॥ १५ ॥ समासप्रकरणम् १६ अथार्थवद्विभक्तिविशिष्टानां पदानां समासो निरूप्यते ॥ ४६६ समासश्चान्वये नानाम् १ ॥ नाम्नामन्वययोग्यत्वे सत्येव समासो भवति ॥ चकारातद्धितोऽपि । ततो भार्या पुरुषस्येत्यादौ समासो न भवति ॥ स च षड्डिधः । अव्ययीभावस्तत्पुरुषो द्वन्द्वो बहुव्रीहिः कर्मधारयो द्विगुश्चेति ॥ अव्ययस्य अव्ययेन वा भवनं सोऽव्ययीभावः ।१। स एवाग्रिमः पुरुषः प्रधानं यस्यासौ तत्पुरुषः । २ । द्वन्द्वायते उभयपदार्थो येनासौ द्वन्द्वः । ३ । बहु समातिरिक्तं व्रीहिः प्रधानं यस्मिन्नसौ बहुव्रीहिः । ४ । कर्म भेदकं धारयतीति कर्मधा. रयः । ५ । द्वाभ्यां गच्छतीति द्विगुः । ६ । पूर्वपदप्रधानोऽव्ययीभावः ॥ द्विगुतत्पुरुषौ परपदप्रधानौ ॥ द्वन्द्वकर्मधारयौ चोभयपदप्रधानौ ॥ बहुव्रीहिरन्यपदप्रधानः ॥ यत्रानेकसमासप्राप्तिस्तत्र उभयपदप्रधानो बलवान् । तस्य क्रियाभिसंबन्धात् ॥ इदमेकस्सिन्समसिते पदेऽनेकसमासप्राप्तिस्तद्विषयम् ॥ निषादस्थपतिं याजयेदित्यत्र तत्पु१ व्यस्तपदयोय॑स्तपदानां वैकत्र समसनं समासः । तद्भेदा अग्रे व्याख्याताः । Page #101 -------------------------------------------------------------------------- ________________ सू० ४६७-४८२] समासप्रकरणम् १६ रुषबहुव्रीहिकर्मधारयप्राप्तौ सत्यां निर्णयमाह ॥ 'समानाधिकरणव्यधिकरणयोर्मध्ये समानाधिकरणो बलवान्' ॥ 'एकविभक्त्यन्तत्वमेवार्थनिष्ठत्वं सामानाधिकरण्यम्' ॥ नीलं च तदुत्पलं च नीलोत्पलम् ॥ भिन्नविभक्त्यन्तत्वं भिन्नार्थनिष्ठत्वं वैयधिकरण्यम् ॥ ऐकपद्यमैकवर्यमेकविभक्तिकत्वं च समासप्रयोजनम् ॥ अधि स्त्री इति स्थिते । स्त्रीशब्दाद्वितीयैकवचनम् । स्त्रियमधिकृत्य भवतीति विग्रहेऽन्वययोग्यार्थसमर्पकः पदसमुदायो विग्रहो वाक्यमिति यावत् ॥ ४६७ कृते समासे अव्ययानां पूर्वनिपातो वक्तव्यः २ ॥ ४६८ पूर्वेव्ययेऽव्ययीभावः ३ ॥ अव्यये पूर्वपदे सति योऽन्वयः सोऽव्ययीभावसंज्ञकः समासो भवति ॥ इति समाससंज्ञायाम् ॥ ४६९ समासप्रत्यययोः ४ ॥ समासे वर्तमानाया विभक्तेः प्रत्यये परे च विभतेलुंग्भवति ॥ नामसंज्ञायां स्यादिविभक्तिर्भवति ॥ ४७० स नपुंसकम् ५॥ सोऽव्ययीभावः समासो नपुंसकलिङ्गो भवति । नपुंसकत्वाद्रखत्वम् ॥ ४७१ अव्ययी भावात् ६ ॥ अव्ययीभावात्परस्या विभक्तेलुग्भवति ॥ अधिस्त्रि गृहकार्यम् ॥ रायमतिक्रान्तमतिरि कुलम् । नावमतिकान्तमतिनु जलम् ॥ ४७२ अत्यादयः क्रान्ताद्यर्थे द्वितीयया ७ ॥ क्रान्ताद्यर्थे वर्तमाना अत्यादयो द्वितीयया सह समस्यन्ते स तत्पुरुषसंज्ञकः समासो भवति ॥ ४७३ ह्रस्वादेशे संध्यक्षराणामिकारोकारौ च वक्तव्यौ ८॥ ४७४ यथाऽसादृश्ये ९॥ यथाशब्दोऽसादृश्ये वर्तमानः समस्यते सोऽव्ययीभावः समासो भवति ॥ योग्यता वीप्सा पदार्थानवृत्तिः सादृश्यं चेति यथार्थाः । शक्तिमनतिक्रम्य करोतीति यथाशक्ति करोति ॥ असादृश्ये किम् । यथा हरिस्तथा हरः ॥ कुम्भस्य समीप १ समासार्थावबोधकं वाक्यं विग्रहः। २ व्याप्तिः । ३ पदार्थानतिक्रमः । Page #102 -------------------------------------------------------------------------- ________________ सारस्वतव्याकरणम् । [वृत्तिः १ मिति विग्रहे समासादिपूर्ववत् । अव्ययीभावात् (सू० ४७१) इति प्राप्ते ॥ ४७५ अतोऽमनतः १० ॥ अकारान्तादव्ययीभावात्परस्य विभक्तरम् भवति अतं वर्जयित्वा ॥ तथा च पाणिनीये ॥ ' नाव्ययीभावादतोऽम् त्वपञ्चम्याः । अदन्तादव्ययीभावान्न सुपो लुक् तस्य पञ्चमी विनामादेशः स्यात् ॥ उपकुम्भं वर्तते ॥ ४७६ वा टाउयोः ११ ॥ टा ङि इत्येतयोर्वा अम् भवति ॥ अतोऽमनतः (सू० ४७५) वा टाङ्योः । अत्र अत् टा डि एतत्पञ्चम्यास्तृतीयासप्तम्योर्दिवचनबहुवचनयोरप्युपलक्षणम् । तेन द्विवचनबहुवचनयोरपि वा अम् भवति न लुक् । पञ्चम्यास्तु अम्लुकोनिषेधः । उपकुम्भेन कृतं उपकुम्भकृतम् । उपकुम्भं देहि । अनत इति विशेषणादुपकुम्भादानय । उपकुम्भं देशः । उपकुम्भं निधेहि । उपकुम्भे निधेहि ॥ ४७७ अवधारणार्थे यावति च १२ ॥ अवधारणार्थे यावच्छब्दे प्रयुज्यमाने अव्ययपूर्वपदाभावेऽपि योऽन्वयः सोऽव्ययी. भावसंज्ञकः समासो भवति॥४७८ यावदवधारणे १३॥ अवधारणार्थे यावच्छब्दो नित्यं समस्यते ॥ यावन्त्यमत्राणि तावतो ब्राह्मणानामन्त्रयखेति यावदमत्रम् ॥ ४७९ आङ्मर्यादाभिविध्योः १४ ॥ मर्यादायामभिविधौ च आङ् वा समस्यते ॥ पाटलिपुत्रं मर्यादीकृत्येत्यापाटलिपुत्रम् ॥ बालानभिव्याप्येत्याबालम् ॥ तेन विनेति मर्यादा ॥ तेन सहेत्यभिविधिः ॥ ४८० पारेमध्ये षष्ठया वा १५॥ पारमध्यशब्दौ षष्ठया वा समस्येते ॥ एदन्तौ निपातौ सूत्रात् ॥ ४८१ प्रथमानिर्दिष्टं समास उपसर्जनम् १६ ॥ समासशास्त्रे प्रथमानिर्दिष्टमुपसर्जनसंशं स्यात् ॥ ४८२ उपसर्जनं पूर्वम् १७ ॥ समासे उपसर्जनम् प्राक् प्रयोज्यम् ॥ गङ्गायाः पारे इति पारेगङ्ग-गङ्गापारे ॥ गङ्गाया मध्ये इति मध्येगङ्गम् Page #103 -------------------------------------------------------------------------- ________________ सू० ४८३- ४९६] समासप्रकरणम् १६ ९५ गङ्गामध्ये ॥ मक्षिकाणामभावो निर्मक्षिकं वर्तते ॥ ४८३ अमादौ तत्पुरुषः १८ ॥ द्वितीयाद्यन्ते पूर्वपदे सति योऽन्वयः स तत्पुरुषसंज्ञकः समासो भवति ।। ४८४ द्वितीयाश्रितातीतपतितगतात्यस्तप्राप्तापनैः १९ ॥ अन्वये सति समस्यते स तत्पुरुषः । कृष्णं श्रितः कृष्णश्रितः ॥ ग्रामं प्राप्तो ग्रामप्राप्तः ॥ अन्वये इति किम् । पश्य कृष्णं श्रितस्त्वं साधून् ॥ दात्रेण छिन्नं दावच्छिन्नम् || यूपाय दारू यूपदारु || वृकेभ्यो भयं वृकभयम् ॥ राज्ञः पुरुषो राजपुरुषः ॥ अक्षेषु शौण्डः अक्षशौण्डः || ४८५ क्वचिदमाद्यन्तस्य परत्वम् २० ॥ अग्नौ आहित इत्याहिताग्निः ॥ पूर्वं भूत इति भूतपूर्वः ॥ ४८६ पिशाचादेः सभादीनां नपुंसकत्वं वा २१ ॥ पिशाचानां सभा इति पिशाचसभम् पिशाचसभा || गृहस्थूणं-गृहस्थूणा ॥ शशोर्णम्-शशोर्णा ॥ भिन्नपदे णत्वाभावस्तथापि समासे सति क्वचिदैकपद्यं णत्वहेतुः । शराणां वनं शरवणम् ॥ आम्राणां वनमाम्रवणम् ॥ ४८७ संज्ञायां वा २२ ॥ त्रीणि नयनानि यस्यासौ त्रिनयनः - त्रिणयनः ॥ ४८८ पानस्य वा २३ ॥ सुरायाः पानं सुरापानम् - सुरापणम् ॥ ४८९ नञि २४ ॥ नञि पूर्वपदे सति योऽन्वयः स तत्पुरुषसंज्ञकः समासो भवति ॥ ४९० नञ् २५ ॥ नञ् सुबन्तेन समस्यते ॥ नञ उभयार्थत्वं प्रसिद्धम् । तथा चोक्तं वार्तिककारेण ॥ उभौ नौ समाख्यातौ पर्युदासप्रसज्यकौ । पर्युदासः सहग्राही प्रसज्यस्तु निषेधकृत् ।। ९५ ।। प्राधान्यं तु विधेर्यत्र प्रतिषेधेऽप्रधानता । पर्युदासः स विज्ञेयो यत्रोत्तरपदेन नञ् ।। ९६ ॥ १ प्रसज्यप्रतिषेधः । Page #104 -------------------------------------------------------------------------- ________________ सारस्वतव्याकरणम् । [वृत्तिः १ अप्राधान्यं विधेर्यत्र प्रतिषेधे प्रधानता। प्रसज्यप्रतिषेधोऽयं क्रियया सह यत्र न ॥ ९७ ॥ न ब्राह्मणोऽब्राह्मणः ॥ ४९१ ना २६ ॥ समासे सति नमोऽकारादेशो भवति । नाकादिवर्जम् ॥ ( नाक नक नग तनूनपात् नख नपुंसक नक्षत्र नकुल नासत्य नमुचि नर इत्यादि । नाक नमुचि नकुल नागर नामिका नमेरु ननानि नभसि नान्तरीय नक नख नग नद नयाद नवेद नासत्य नापित नहुष नक्षत्र ) इत्येते नाकादयः केनचिद्गणिताः । उभयथापि नाकादौ न भवति ॥४९२ अन् खरे २७ ॥ समासे सति नञोऽनादेशो भवति खरे परे ॥ ४९३ अनादेशोऽपदान्तवद्वाच्यः २८ ॥ तेन झनः (सू० ८७) इति न द्वित्वम् । अश्वादन्योऽनश्वः ॥ धर्मविरुद्धोऽधर्मः ॥ ग्रहणाभावोऽग्रहणम् ॥ तदन्यतद्विरुद्धतदभावेषु नञ् वर्तते ॥ तस्मादन्यस्तदन्यः । तेन विरुद्धस्तद्विरुद्धः । तस्य अभावस्तदभावः । तदन्यश्च तद्विरुद्धश्च तदभावश्च तदन्यतद्विरुद्धतदभावास्तेषु ॥ ४९४ चार्थे द्वन्द्वः २९ ॥ समुच्चयान्वाचयेतरेतरयोगसमाहाराश्चार्थास्तेषु चार्थेषु द्वन्द्वसमासो भवति ॥ तत्रेश्वरं गुरुं च भजखेति प्रत्येकमेकक्रियासंबन्धे समुच्चये समासो नास्ति । बटो भिक्षामट गां चानयेति क्रमेण क्रियाद्वयसंबन्धेऽन्वाचये समासो नास्ति । नाम्नां परस्परमसंबन्धात् ॥ इतरेतरयोगे समाहारे चार्थे द्वन्द्वसमासो भवति ॥ ४९५ द्वन्द्वेऽल्पस्वरप्रधानेऽकारोकारान्तानां पूर्वनिपातो वक्तव्यः ३०॥ पटुश्व गुप्तश्च पटुगुप्तौ ॥ इतरेतरयोगे द्विवचनम् । चकारस्योक्तार्थानामित्यप्रयोगः । अग्निश्च मारुतश्च अमिमारुतौ ॥ भोक्ता च भोग्यश्च भोक्तभोग्यौ ॥ धवश्व खदिरश्च धवखदिरौ ॥ ४९६ देवताद्वन्द्वे १ नाकादिगण एवाग्रे धनुश्चिह्ने निहितः। Page #105 -------------------------------------------------------------------------- ________________ सू० ४९७-५१५] समासप्रकरणम् १६ ९७ पूर्वपदस्य वा दीर्घो वक्तव्यः ३१ ॥ वाग्रहणात्कचिन्न भवत्यमिमारुतावित्यादौ ॥ इन्द्रश्च बृहस्पतिश्च इन्द्राबृहस्पती ॥ ४९७ अश्यादेः सोमादीनां पत्वं वक्तव्यम् ३२ ॥ अभिश्च सोमश्च अग्नीषोमौ ॥ ४९८ एकवद्भावो वा समाहारे वक्तव्यः ३३ ॥ समाहारस्यैकत्वात्समाहारे एकवद्भावः सिद्ध एव । तर्हि वाग्रहणं किमर्थम् ॥ वाग्रहणात्कचिद्वयोरपीतरेतरयोगे एकवचनं कचिद्वह्ननामितरेतरयोगे एकवचनम् । शशाश्च कुशाश्च पलाशाश्च शशकुशपलाशाः शशकुशपलाशम् ॥ ४९९ अन्यादीनां विभक्तिलोपे कर्मव्यतिहारे पूर्वपदस्य सगागमो भवति ३४ ॥ अन्योन्यमेककियाकरणं कर्मव्यतिहारः । अन्यश्च अन्यश्च अन्योन्यं विप्रा नमन्ति । परश्च परश्च परस्परमित्यत्र कस्कादित्वाद्विसर्गोपध्मानीयाभावः ॥ ५०० एकत्वे द्विगुद्वन्द्वौ ३५ ॥ एकत्वे वर्तमानौ द्विगु द्वन्द्वौ नपुंसकलिङ्गौ भवतः ॥ ५०१ संख्यापूर्वी द्विगुः ३६ ॥ संख्यापूर्वः समासो द्विगुनिंगद्यते ॥ ५०२ सामहारे त ईप् द्विगुः ३७ ॥ समाहारेर्थे द्विगुः समासो भवति ततोऽकारान्तादीप् प्रत्ययो भवति ॥ ५०३ पात्राद्यन्तो द्विगुर्नवन्तः ३८ ॥ पञ्चानां पात्राणां समाहारः पञ्चपात्रम् । द्विभुवनम् । त्रिभुवनम् । चतुष्पथम् । दशानां ग्रामाणां समाहारो दशग्रामी । पञ्चाग्नयः समाहृता इति पञ्चामि । पञ्चानां गवां समाहारः पञ्चगु । नपुंसकत्वाद्धखत्वम् । त्रिफला रूढितः || ५०४ बहुव्रीहिरन्यार्थे ३९ ॥ अन्यपदार्थप्रधानो यः समासः स बहुव्रीहिसंज्ञको भवति ॥ बहु धनं यस्य स बहुधनः । अस्ति धनं यस्य सोऽस्तिधनः || अव्ययत्वादस्त्यादीनां पूर्वनिपातः । अन्यपदप्राधान्याद्बहुव्रीहिः || अन्तरङ्गं यस्यासावन्तरङ्गः । बहिरङ्गः । उच्चैर्मुखः ॥ ५०५ तेन सहेति तुल्ययोगे ४० ॥ सहेत्येतत्तृती - ७ Page #106 -------------------------------------------------------------------------- ________________ ९८ सारस्वतव्याकरणम् । . [वृत्तिः१ यान्तेन समस्यते स तुल्ययोगबहुव्रीहिः॥५०६ सहादेः सादिः ४१॥ सहादीनां सादिर्भवति ॥ पुत्रेण सह वर्तमानः सपुत्रः ॥ सो वेति केचित् ॥ सहपुत्रो वागतः । तुल्ययोगवचनं प्रौयिकम् । कर्मणा सह वर्तते स सकर्मकः । सलोमकः ॥ यस्य प्रधानस्यैकदेशो विशेषणतया यत्र ज्ञायते स तद्गुणसंविज्ञानो बहुव्रीहिः । लम्बौ कौँ यस्य स लम्बकर्णः ॥ ५०७ बहुव्रीहौ विशेषणसप्तम्यन्तयोः पूर्वनिपातो वक्तव्यः ४२ ॥ धनं करे यस्य स करधनः । मतिः कृष्णे यस्य स कृष्णमतिः । बुद्धिर्धर्मे यस्य स धर्मबुद्धिः । कण्ठे हारो यस्य स कण्ठहारः । करे कङ्कणं यस्यासौ करकङ्कणः । भुवने कीर्तिस्यासौ भुवनकीर्तिः॥५०८ प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ वक्तव्यौ ४३॥ ५०९ क्तक्तवतू निष्ठा ४४ ॥ तक्तवतू प्रत्ययौ निष्ठासंज्ञौ स्तः ।। चक्रं पाणौ यस्य स चक्रपाणिः हरिः । दण्डः पाणौ यस्य स दण्डपाणिः पुरुषः । उद्यतोऽसिर्येनासावस्युद्यतः। उद्यतासिरित्यपि भवति । ५१० प्रियादीनां वा ४५ ॥ प्रियगुडः-गुडप्रियः॥५११ इन्द्वादिभ्यश्च ४६ ॥ इन्द्रादिभ्यः शब्देभ्यः सप्तम्यन्तस्य पूर्वनिपातो न । इन्दुः शेखरे यस्यासाविन्दुशेखरः । पद्मं नाभौ यस्य स पद्मनाभः । कपिध्वजः ॥ ५१२ प्रजामेधयोरसुक ४७ ॥ नन्दुःसुभ्यः प्रजामेधयोर्नित्यमसुक् स्याबहुव्रीहौ ॥ अप्रजाः । सुप्रजाः। दुष्प्रजाः । अमेधाः । दुर्मेधाः । सुमेधाः ॥ ५१३ धर्मादनिच केवलात् ४८॥ केवलात्पूर्वपदात्परो यो धर्मशब्दस्तदन्ताद्बहुव्रीहेरानिच्प्रत्ययः स्यात् ।। कल्याणधर्मा। सुधर्मा ॥ केवलात्किम् । परमः खो धर्मो यस्य सः परमखधर्मः॥५१४ जायाया निडादेशो बहुव्रीहौ वक्तव्यो यलोपश्च ४९॥ भूजानिः । लक्ष्मीजानिः ॥ ५१५ उत्पूतिसुसुरभिभ्यो गन्धशब्द१प्रायिकं सामान्यम् । Page #107 -------------------------------------------------------------------------- ________________ सू०५१६-५३५] समासप्रकरणम् १६ स्येकारान्तादेशो बहुव्रीहौ वक्तव्यः ५० ॥ उद्गन्धिः। पूतिगन्धिः । सुगन्धिः । सुरभिगन्धिः ॥ ५१६ आगन्तुकस्यैकवचनान्तस वा ५१ ॥ सुगन्धिः आपणः सुगन्धो वा ॥ ५१७ अल्पाख्यायां च ५२ ॥ अल्पपर्यायो गन्धशब्दः ॥ सूपोऽल्पो यस्मिन् तत्सूपगन्धि भोजनम् । घृतगन्धि ॥ वेति केचित् । सूपगन्धम् ॥ धृतगन्धम् ॥ ५१८ उपमानाच ५३ ॥ पद्मस्येव गन्धो यस्येति पद्मगन्धिः । मतान्तरे विकल्पः ॥ ५१९ ऊधसोऽनङ् ५४ ॥ ऊधोन्ताबहुव्रीहेरनादेशः स्यास्त्रियाम् ॥ कुण्डोनी गौः ॥ पुंसि तु कुण्डोधाः गोगणः ॥ ५२० धनुषश्च ५५ ॥ शाङ्ग धनुर्यस्य स शार्ङ्गधन्वा ॥ ५२१ संज्ञायां वा ५६॥ शतधन्वा-शतधनुः॥५२२ पुंवद्वा ५७॥ समासे सति समानाधिकरणे पूर्वस्य स्त्रीलिङ्गस्य पुंवद्वा भवति ॥ वाग्रहणात्कल्याणीप्रिय इत्यादौ न भवति ॥ पुंवद्भावादीबापोनिवृत्तिः । रूपवती भायों यस्य स रूपवद्भार्यः ॥ ५२३ अन्यार्थे ५८ ॥ स्त्रीलिङ्गस्यान्यार्थे वर्तमानस्य हखो भवति ॥ ५२४ यमानिनत्वशसंततरादौ चारूप्ये ५९ ॥ एनीव आचरतीति एनायते। पल्यादित्वात्तो न । पण्डितमानिनी । पट्या भावः पटुत्वम् । अल्पं देहीति अल्पशः । पटुतरा । पटुतमा । पटुकल्पा । पटुदेश्या। पटुदेशीया । अरूप्ये इति किम् । शुभ्रारूप्या । प्रियादौ न । ( प्रिया भक्तिः मनोज्ञा सुभगा दुर्भगा क्षान्ता कल्याणी चपला वामना सचिवा समा वामा कान्ता बाला तनया दुहिता खसा ) । इति प्रियादयः ॥ ५२५ एषु परेषु भाषितपुंस्कस्य स्त्रीप्रत्ययान्तस्य न पुंवत् ६० ॥ ५२६ ऊप्रत्ययान्तस्य च न पुंवत् ६१ ॥ वामोरूभार्यः ।। ५२७ अभाषितपुंस्कस्य च न पुंवत् ६२ ॥ गङ्गाभायः॥ ५२८ १इकारान्तादेशोऽत्राप्यनुवर्तते। २ प्रियादिगणो धनुराकारचिह्ने निवेशितः। Page #108 -------------------------------------------------------------------------- ________________ सारस्वतव्याकरणम् । [ वृत्ति: १ कोपधपूरणीसंज्ञानां च न पुंवत् ६३ ॥ पाचकीभार्यः । पञ्चमीभार्यः । दत्ताभार्यः ॥ ५२९ जातिवाचकात्स्वाङ्गवाचकाद्य ईप्तदन्तस्य न पुंवदमानिनि ६४ ॥ ब्राह्मणीभार्यः । सुकेशीभार्यः ॥ अमानिनीति किम् । ब्राह्मणमानिनी ॥ ५३० युवर्जितरक्त विकारार्थवर्जिततद्धितान्तस्य न पुंवत् ६५ ॥ मैथिलीजायः । युडुर्जितरक्तविकारार्थवर्जितेति किम् । वैयाकरणभार्यः । काषायकन्थः । हैममुद्रिकः । वाग्रहणादियं विवक्षा || ५३१ गोः ६६ ॥ गोशब्दस्यान्यार्थे वर्तमानस्य ह्रस्वो भवति ॥ पञ्च गावो यस्यासौ पञ्चगुः ॥ ५३२ संख्यासु व्याघ्रादिपूर्वस्य पादशब्दस्याकारस्य लोपो वक्तव्यः ६७ || सहस्रं पादा यस्यासौ सहस्रपात् । व्याघ्रस्य पादाविव पादौ यस्यासौ व्याघ्रपात् । शोभनौ पादौ यस्य स सुपात् । पादः पत् (सू० २८१ ) द्विपदः । द्विपदा | द्विपदी । त्रिपदी | नदादित्वादीपू ।। ५३३ टाडकाः ६८ ॥ समासे सति ट अ ड क इत्येते प्रत्यया भवन्ति ॥ टच तत्पुरुषे ज्ञेय अकारो द्वन्द्व एव च । कारस्तु बहुव्रीहौ ककारो नियमो मतः ॥ ९८ ॥ अचिन्त्यो महिमा यस्य सोऽचिन्त्यमहिमः ॥ ५३४ नो वा ६९ ॥ तान्तस्य पदस्य टेर्लोपो वा भवति खरे यकारे च परे ॥ वाग्रहणाकचिन्न भवति किंतूपधालोपश्च || अहो मध्यं मध्याह्नः । द्वयोरहोः समाहारो व्यह्नः || ५३५ रात्राह्नाहाः पुंसि ७० ॥ एते पुंस्येव स्युः ॥ सर्वरात्रः सर्वाह्नः । त्र्यहः । कवीनां राजा इति कविराजः । टकार ईबर्थः । कविराजी । ष्टितः ( सू० ३७४ ) राज्ञां पूः इति राजपुरम् । अप्रत्ययः । वाक् च मनश्च वाङ्मनसम् । चोः कुः (सू० २८५ ) ञमे अमा वा (सू० ७३ ) । दक्षिणस्यां दिशि पन्थाः इति १०० Page #109 -------------------------------------------------------------------------- ________________ सू०५३६-५४९] समासप्रकरणम् १६ १०१ दक्षिणापथः । अहश्च रात्रिश्च अहोरात्रम् । डप्रत्ययः ॥ ५३६ अहोरात्रमित्यत्र नपुंसकत्वं वा वक्तव्यम् ७१ ॥ अहोरात्रः। द्वौ च त्रयश्च द्वित्राः । पञ्चषाः । बहुत्वविवक्षायां बहुवचनं जस् । बहवो राजानो यस्यां सा बहुराजा नगरी । अत्र टिलोपे कृते । आबतः स्त्रियाम् (सू० २०३) इत्याप् । कप्रत्ययः । बहवः ब्राह्मणाः कर्तारो यस्यासौ बहुकर्तृको यागः॥ ५३७ कर्मधारयस्तुल्यार्थे ७२॥ पदद्वयतुल्यार्थे एकार्थनिष्ठत्वे सति कर्मधारयसंज्ञकः समासो भवति ॥ नीलं च तदुत्पलं च नीलोत्पलम् । रक्ता चासौ लता च रक्तलता ॥ पुमांश्चासौ कोकिलश्च पुस्कोकिलः ॥ ५३८ पुंसः खपे ख्यावर्जिते च अम्परे संयोगान्तस्यालोपो वक्तव्यः ७३ ॥ तेन पुख्यानं पुंक्षीरं भवति ।। ५३९ नाम्नश्च कृता समासः ७४ ॥ प्रादेरुपसर्गस्य नाम्नश्च कृदन्तेन समासः स तत्पुरुषसंज्ञको भवति ॥ चकारात्कुशब्दस्याव्ययस्य उरीउररीशब्दयोश्विप्रत्ययान्तादेश्च कृदन्तेन समासस्तत्पुरुषो भवति ॥ प्रकृष्टो वादः प्रवादः । कुम्भकारः। सहादेः सादिः ( सू० ५०६)। (सहसंतिरसां सधिसमितिरयः) । सह अञ्चतीति सध्यङ् । समञ्चतीति सम्यङ् । तिरः अञ्चतीति तिर्यङ्॥ क्वचिन्न भवति । सह चरतीति सहचरः॥५४० कुगतिप्रादयः७५॥ कुशब्दो गतिसंज्ञाः प्रादयश्च समर्थेनान्वये समस्यन्ते स तत्पुरुषः ।। कुपुरुषः । कुत्सितमन्नं कदन्नम् ॥ ५४१ कुत्सितेपदर्थयोः ७६ ॥ कुत्सितेषदर्थयोर्वर्तमानस्य कुशब्दस्य का कव कत् इत्येते आदेशा भवन्ति तत्पुरुषे न तु बहुव्रीहौ ॥ बहुव्रीहौ तु कुत्सिता विद्या यस्यासौ कुविद्यः । कुत्सिता उष्ट्रा यस्य स कूष्ट्रः । कुत्सितः पन्था यस्मिन्नसौ कुपथो देशः॥ ५४२ काकवकदुष्णे ७७ ॥ उष्णशब्दे १ सूत्रमेवेदमिति भाति । Page #110 -------------------------------------------------------------------------- ________________ १०२ सारस्वतव्याकरणम् । [वृत्तिः१ परे कुशब्दस्य का कव कत् इत्येते आदेशा भवन्ति ॥ कु ईषदुष्णं कोष्णम्-कवोष्णम्-कदुष्णम् । कु ईषत् लवणं कालवणम् ॥ ५४३ पुरुषे वा ७८ ॥ पुरुषशब्दे परे कुशब्दस्य वा कादेशो भवति तत्पुरुषे ॥ विभाषा पुरुषे का स्थानियमेन हसे परे । अचि त्रिरथवदे कोः ककाक्षे वा पुरुषे पथि ॥ ९९॥ ईषदर्थे च वाच्ये स्युरनावुष्णे काकत्कवाः । कुत्सितास्त्रयः कत्रयः । कद्रथः । कद्वदः । काक्षः । कापथः । कुपथः । कुपुरुषः । कापुरुषः ॥ ५४४ षष उत्वं दधोडेढौ ७९ ॥ षष उत्वं दतृदशधासूत्तरपदादेः ष्टुत्वं च धासु वा भवतीति वाच्यम् ।। बहुवचनं जस् । जश्शसोर्लक् ( सू० २६४ ) । नाम्नो नो लोपशधौ (सू० २५२ ) षड्भिरधिका दश षोडश । षट्प्रकारमिति षोढा । धासु वा वक्तव्यमिति विकल्पात् षस्योत्वाभावे । षो डः (सू० २७७) इति षस्य डत्वम् । षड्ढा । संख्यायाः प्रकारे धा ( सू० ६७३)। अव्ययाद्विभक्तेलृक् (सू० ३५९) षट् दन्ता यस्य इति विग्रहे ॥५४५ विभक्तिलोपे कृते दन्तस्य दत् ८० ॥ इति दत्रादेशे षोडन् । ५४६ तहतोः करपत्योश्चौरदेवतयोः सुट् तलोपश्च ८१ ॥ बृहतां पतिः बृहस्पतिः । तत् करः तस्करः ॥ ५४७ महतष्टेराकारो भवति समानाधिकरणे ८२ ॥ महांश्चासौ ईश्वरश्च महेश्वरः । ५४८ दिवो द्यावा ८३ ॥ दिवशब्दस्य द्यावादेशो भवति ॥ द्यौश्च भूमिश्च द्यावाभूमी ॥ आकृतिगणोऽयम् ॥ सिद्धं शब्दाकारमुपलभ्य तदनुसारेणादेशविधानं क्रियते यत्र स आकृतिगणः ॥ ५४९ अलुक कचित् ८४ ॥ समासे तद्धिते कृदन्तेऽपि विभक्तेरलुग्भवति ॥ कृच्छान्मुक्तः । अप्सु योनिर्यस्येत्यप्सुयोनिः। उरसि लोमानि Page #111 -------------------------------------------------------------------------- ________________ सू० ५५०-५६३] समासप्रकरणम् १६ १०३ यस्याऽसौ उरसिलोमः । हृदि स्पृशतीति हृदिस्पृक् । कण्ठेकालः । वाचोयुक्तिः । दिशोदण्डः । पश्यतोहरः । इत्यादि । ५५० समासे समानाधिकरणे शाकपार्थिवादीनांमध्यमपदलोपोवक्तव्यः८५॥ शाकप्रियश्चासौ पार्थिवश्व शाकपार्थिवः । देवपूजकश्चासौ ब्राह्मणश्च देवब्राह्मणः ॥ ५५१ आदेश्च द्वन्द्वे ८६ ॥ द्वन्द्वसमासे सति आदिपदस्य लोपो भवति ॥ माता च पिता च पितरौ । दुहिता च पुत्रश्च पुत्रौ । श्वश्रूश्च शुश्वरश्च श्वशुरौ॥५५२ ऋता द्वन्द्वे ८७॥ ऋकारान्तानां द्वन्द्वसमासे सति पूर्वपदस्य वा आकारो वक्तव्यः ।। मातापितरौ ॥५५३ द्वन्द्वे सर्वादित्वं वा ८८ ॥ वर्णाश्च आश्रमाश्चेतरे चवर्णाश्रमेतरे वर्णाश्रमेतराः॥५५४ व्यधिकरणे बहुव्रीहौ मध्यमपदलोपो वक्तव्यः ८९ ॥ कुमुदस्य गन्ध इव गन्धो यस्यासौ कुमुदगन्धिः ॥ ५५५ उपमानाच ९० ॥ उपमानाद्गन्धशब्दस्येकारः स्यात् ॥ हंसस्य गमनमिव गमनं यस्याः सा हंसगमना ॥ ५५६ दिक्संख्ये संज्ञायाम् ९१ ॥ दिग्वाचकसंख्यावाचकशब्दावुत्तरपदतुल्यार्थी संज्ञायां समस्येते स तत्पुरुषः ॥ संज्ञायामिति पदेन नित्यसमासो दर्शितः ॥ अविग्रहो नित्यसमासः ॥ अन्यस्त्ववपदविग्रहोऽपि भवति ॥ विग्रहो द्विविधः। एकः खपदविग्रह एकोऽखपदविग्रहोऽपि भवति ॥ अखपदेन समासव्यतिरिक्तेनापि पदेन विग्रहो वाक्यं यत्र स नित्यः ॥ तेन लम्बौ कौँ यस्य स लम्बकर्णः ॥ दात्रेण छिन्नमिति खपदविग्रहः ॥ अखपदविग्रहो नित्यः । यस्मिन्समासावबोधकं वाक्यं न तिष्ठति स नित्यः । दक्षिणामिः । सप्तग्रामः । इत्यादयो ज्ञेयाः ॥ इति समासप्रकरणम् ॥ १६ ॥ Page #112 -------------------------------------------------------------------------- ________________ १०४ सारस्वतव्याकरणम् । [वृत्तिः१ तडितप्रकरणम् १७ अथ तद्धिता निरूप्यन्ते ॥ ५५७ अपत्येऽण् १ ॥ नानोऽपत्येऽर्थेऽण्प्रत्ययो भवति ॥ उपगोरपत्यं पुमानिति विग्रहे उपगोः अण् इति स्थिते । समासप्रत्यययोः (सू० ४६९) इति षष्ठीलोपः । णकारो वृद्ध्यर्थ ईबर्थश्च ॥ ५५८ आदिस्वरस्य णिति च वृद्धिः २॥ खराणां मध्ये य आदिखरस्तस्य वृद्धिर्भवति मिति णिति च तद्धिते परतः । उकारस्यौकारो वृद्धिः ॥ ५५९ वोऽव्यस्वरे ३ ॥ उकारस्य ओकारस्य च अव् भवति खरे यकारे च परे ॥ कृत्तद्धितसमासाश्चेति नामत्वम् । नामत्वात्स्यादयः । औपगवः । वसिष्ठस्यापत्यं वासिष्ठः । गोतमस्यापत्यं गौतमः। 'शिवादिभ्यश्च' इत्यण वक्तव्यः । अन्यथा उत्रः प्राप्तिः। शिवस्यापत्यं शैवः । विदेहस्यापत्यं वैदेहः ॥ ५६० उरणि ४॥ मातृशब्दस्य ऋकारस्य उर् भवति अणि परे॥षो डः (सू० २७७)। त्वन्मदेकत्वे (सू० ३३१) इति सूत्रनिर्देशात्कचिदपदान्तेऽपि झसानां जमा एष्टव्याः । षण्णां मातृणामपत्यं पाण्मातुरः॥ तिसृणां मातृणामपत्यं त्रैमातुरः । द्वयोर्मात्रोरपत्यं द्वैमातुरः॥५६१ अत इजनृषेः ५॥ अकारान्तानाम्नोऽनृषिशब्दादपत्येऽर्थे इञ्प्रत्ययो भवति ॥ यस्य लोपः (सू० ३६७ ) देवदत्तस्यापत्यं दैवदत्तिः । श्रीधरस्यापत्यं त्रैधरिः । दशरथस्यापत्यं दाशरथिः । पौरन्दरिः । क्वचिदृषिशब्दादपि भवति ॥ तेन औद्दालकिः ॥ ५६२ बहादेश्च ६ ॥ बह्वादेः पर इप्रत्ययो भवत्यपत्येऽर्थे ॥ बहोरपत्यं बाहविः । उपबिन्दोरपत्यमौपबिन्दविः । कृष्णस्यापत्यं काणिः । उडुलोम्नोऽपत्यमौडलोमिः। नो वा ( सू० ५३४) अग्निशर्मणोऽपत्यमाग्निशर्मिः ॥५६३ ण्यायनणेयण्णीया गर्गनडात्रिस्त्रीपितृष्वस्रादेः ७॥ गर्गादेर्नडादेरव्यादेः स्त्रीलिङ्गापितृष्वस्रादेश्च ण्य आयनणू एयण णीय इत्येते प्रत्यया भवन्ति अ Page #113 -------------------------------------------------------------------------- ________________ सू० ५६४-५७९] तद्धितप्रकरणम् १७ १०५ पत्येऽर्थे यथासंख्येन ॥ चकारात्पितृष्वस्रादेरेयण् प्रत्ययो भवति ॥ गर्गस्यापत्यं गार्ग्यः । वत्सस्यापत्यं वात्स्यः । जमदग्नेरपत्यं जामदग्न्यः । सोमस्यापत्यं सौम्यः । नडस्यापत्यं नाडायणः। चरस्यापत्यं चारायणः। चन्द्रस्यापत्यं चान्द्रायणः । अलुक् क्वचित् ( सू० ५४९) अमुष्यापत्यमामुष्यायणः । यस्य लोपः (सू० ३६७ ) अत्रेरपत्यमात्रेयः । मृकण्डस्यापत्यं मार्कण्डेयः । कपेरपत्यं कापेयः । गङ्गाया अपत्यं गाङ्गेयः । मह्या अपत्यं माहेयः । कचित्स्त्रीलिङ्गादण् भवति ॥ भूमेरपत्यं भौमः ॥ ५६४ मातृपितृभ्यां स्वसा ८॥ मातृपितृभ्यां श. ब्दाभ्यां परस्य खसृशब्दस्य सकारस्य षकारः स्यात्समासे सति ॥ पितुः खसा पितृष्वसा । पितृष्वसुरपत्यं पैतृष्वस्रीयः । मातुः खसा मातृष्वसा । मातृष्वसुरपत्यं मातृष्वस्रीयः॥५६५ ढकि लोपः ९॥ मातृष्वसुरन्तस्य लोपः स्याडकि ॥ अत एव ढक् ॥ ५६६ आयनेयीनीयियः फढखछयां प्रत्ययादीनाम् १० ॥ प्रत्ययादिभूतानां फादीनां क्रमादायन्नादय आदेशाः स्युः ॥ आयन् एय् ईन् ईय् इय् एते आयन्नादयः ॥५६७ किति च ११॥ किति तद्धिते परे अचामादरचो वृद्धिः स्यात् ॥ पैतृष्वसेयः ॥ ५६८ मातृष्वसुश्च १२ ॥ पितृष्वसुर्यदुक्तं तदस्यापि स्यात् ॥ मातृष्वसेयः॥ ५६९ मातृपितृभ्यां पितरि डामहचू १३ ॥ आभ्यां परो डामह प्रत्ययो भवति ॥ मातुः पिता मातामहः ॥ पितुः पिता पितामहः॥ ५७० लुग्बहुत्वे कचित् १४ ॥ अपत्येऽर्थे उत्पन्नस्य प्रत्ययस्य बहुत्वे सति कचिदनृषिविषये ऋषिविषये च लुग्भवति ॥ गर्गस्यापत्यानि पुमांसो गर्गाः । बहुत्वविवक्षायां जस् । अत्रेरपत्यानि अत्रयः। ए ओ जसि ( सू० १५९) विदेह स्यापत्यानि विदेहाः ॥५७१ भृग्वत्रिकुत्साङ्गिरोवसिष्ठगोतमदेशतुल्याख्यक्षत्रियेभ्यः परस्य प्रत्ययस्य Page #114 -------------------------------------------------------------------------- ________________ १०६ सारस्वतव्याकरणम् । [ वृत्ति: १ लुग्भवति १५ ॥ भृगवः । कुत्साः । वसिष्ठाः ॥ ५७२ देवतेदम १६ ॥ देवतार्थे इदमर्थे चोक्ताः प्रत्यया भवन्ति ॥ इन्द्रो देवता यस्येत्यैन्द्रं हविः । सोमो देवता यस्येति सौम्यं हविः । देवदत्तार्थमिदं दैवदत्तं वस्त्रम् ॥ ५७३ क्वचिद्वयोः १७ ॥ क्वचित्पूर्वोत्तरपदादेरचो वृद्धिर्भवति णिति णिति च तद्धिते परे ॥ अभिमरुतौ देवते यस्य तदाग्निमारुतं कर्म । सुष्ठु हृदयं यस्यासौ सुहृत् । सुहृदो भावः सौहार्दम् । अत्र भावेऽणू वक्तव्यः ॥ सुष्ठु भावः सौष्ठवम् । अत्र सुष्ठु अव्ययम् । एवमेव अव्ययं तिष्ठति । सुभगस्य भावः सौभाग्यम् ॥ ५७४ णितो वा १८ ॥ उक्ता वक्ष्यमाणाश्च प्रत्यया विषयान्तरे णितो वा भवन्ति ॥ अजो गौर्यस्यासावजगुः शिवः । गो: ( सू० ५३१ ) इति ह्रखः । वोव्यखरे ( सू० ५५९ ) तस्येदं धनुराजगवं - अजगवं वा । कुमुदस्येव गन्धो यस्याः सा कुमुदगन्धिः । तस्या अपत्यं स्त्री कौमुदगन्ध्या वा कुमुद्गन्ध्या । आवतः स्त्रियाम् ( सू० २०३ ) इत्याप् । श्वशुरस्यायं वाशुय ग्रामः । विष्णोरिदं वैष्णवम् । गोरिदं गव्यम् । कुले भवं कुल्यम् । तवेदं त्वदीयम् । ममेदं मदीयम् । अत्र णीयप्रत्ययो न णित् ॥ ५७५ चतुरश्र लोपो यणीययोः १९ ॥ चतुराब्दस्य चकारस्य लोपो भवति ण्यणीययोः प्रत्यययोः परतः ॥ ५७६ पूरणेऽर्थे ण्यणीयौ भवतः २० ॥ चतु संख्यापूरकं तु तुरीयम् ॥ ५७७ अन्यस्य दक् २१ ॥ अन्यशब्दस्य दगागमो भवति णीयप्रत्यये परे ॥ अन्यस्येदमन्यदीयम् । अर्धं जरद्यस्याः सार्धजरती । अर्धजरत्या इदमर्धजरतीयम् ।। ५७८ स्वपरयोः कक् २२ ॥ खकीयम् । परकीयम् ॥ ५७९ कारकाक्रियायुक्ते २३ ॥ कारकादप्येते अणादयः प्रत्यया भवन्ति क्रियायुक्ते कर्तरि कर्मणि चाभिधेये ॥ कुङ्कुमेन रक्तं वस्त्रं कौङ्कुमम् । Page #115 -------------------------------------------------------------------------- ________________ सू० ५८०-५९२] तद्वितप्रकरणम् १७ १०७ मथुराया आगतो जातो वा माथुरः । ग्रामे भवो ग्राम्यः ग्रामीणः । धुरं वहतीति धुर्यः-धौरेयः ॥ ५८० केनेयेकाः २४ ॥ क ईन इय इक एते प्रत्यया भवन्ति भवाद्यर्थेषु ॥ णित्वं चैषां वैकल्पिकम् । कर्णाटे भवः कार्णाटकः-कर्णाटकः । ग्रामादागतस्तत्र जातो वा ग्राम्यः-ग्रामीणः । अञ्चेर्दीर्घश्च (सू० २८६ ) सध्रीचि भवो वा सध्रीचा युक्तः सध्रीचीनः । समीचि भवो वा समीचा युक्तः समीचीनः । तिरश्चादयो निपात्यन्ते ( सू० २८८ ) तिरश्चि भवो वा तिरश्चा युक्तस्तिरश्चीनः । उदीचि भवो वा उदीचा युक्तः उदीचीनः। ५८१ यलोपश्च २५ ॥ कन्यादीनामन्त्ययकारस्य लोपो भवति यकारे खरे परे । कन्यादीनामुपधायाः क्वचिद्यकारस्य लोपो भवति खरे यकारे च तद्धिते परे । यस्य लोपः (सू० ३६७) कन्यायां भवः कानीनः । पुष्येण युक्ता पौर्णमासी पौषी ॥ ५८२ नक्षत्रादण् वक्तव्यः २६ ॥ अणन्तादीप् । पौष्यां भवः पौषीणः । चातुर्मास्यं व्रतमाचरतीति चातुर्मासिकः।।५८३ इयो वा २७ ॥ क्षत्रशब्दाद्वा इयप्रत्ययो भवति ॥ क्षतात्रायते इति क्षत्रम् । क्षत्राद्या निपात्यन्ते । क्षत्रे भवः क्षत्रियः । क्षात्रः ॥ ५८४ क्षत्रशब्दादण वक्तव्यः २८ ॥ शुक्रो देवता यस्य तच्छुक्रियम् शौक्रम् । इन्द्रो देवता यस्येत्यैन्द्र-इन्द्रियम् । अक्षैर्दीव्यतीत्याक्षिकः । तर्के चतुरः तार्किकः । शब्दे कुशलः शाब्दिकः । वेदे भवा वैदिकी । अत्रेकोऽग्वत्कार्यः ॥ ५८५ त्यतनौ २९ ॥ त्यश्च तनश्च त्यतनौ । किमादेरद्यादेर्भवाद्यर्थे त्यतनौ प्रत्ययौ भवतः । कुत्र भवः कुत्रत्यः । कुतो भवः कुतस्त्यः । अद्य भवोऽद्यतनः । तत्र भवस्तत्रत्यः । ततो भवस्ततस्त्यः। अत्र भवोऽत्रत्यः । अतो भवोऽतस्त्यः। सदा भवः सदातनः। १ वृत्तिद्वयमपि समानसूत्रकं ज्ञेयम् । - Page #116 -------------------------------------------------------------------------- ________________ १०८ सारस्वतव्याकरणम् । [वृत्तिः १ ह्यो भवो ह्यस्तनः । श्वो भवः श्वस्तनः । पुरा भवः पुरातनः । चिरं भवश्चिरंतनः । सायं भवः सायंतनः । प्राले भवः प्रालेतनः ॥५८६ चिरादिभ्यस्नः ३० ॥ चिरपरूपरारिभ्यस्त्रो भवाद्यर्थे । चिरं भवश्विरत्नः ॥ परू भवः परूनः । परारि भवः परारित्नः ॥ ५८७ स्वार्थेऽपि ३१ ॥ उक्ताः प्रत्ययाः खार्थेऽपि भवन्ति ॥ देवदत्त एव दैवदत्तिकः । चत्वारो वर्णा एव चातुर्वर्ण्यम् । चोर एव चौरः ॥ ५८८ अव्ययसर्वनाम्नामकच् प्राक् टेः ३२॥ अव्ययस्य सर्वादेश्चान्त्यवरात्पूर्वोऽकच्प्रत्ययो भवति ॥ उच्चैरेवोच्चकैः । नीचैरेव नीचकैः । सर्व एव सर्वकः । विश्व एव विश्वकः । मया एव मयका। त्वया एव त्वयका । तदेव तकत् । यदेव यकत् । एतदेव एतकत् ।। ५८९ अणीनयोर्युष्मदस्मदोस्तकादिः ३३ ॥ अण् च ईनश्च अणीनौ तयोः अणीनयोः । अणीनयोः प्रत्यययोः परतो युष्मदस्मदोस्तवकादय आदेशा भवन्ति ॥ आदिशब्दात्तवकममकयुष्माकास्माकाः। एकत्वे तवकममको ॥ द्वित्वे बहुत्वे च युष्माकास्माको । तवेदं तावकम् । ममेदं मामकम् । तवायं तावकीनः । ममायं मामकीनः । युवयोरयं यौष्माकः । आवयोरयमास्माकः । युवयोरयं यौष्माकीणः । आवयोरयमास्माकीनः । युष्माकमयं यौष्माकः । अस्माकमयमास्माकः । युष्माकमयं यौष्माकीणः । अस्माकमयमामाकीनः ॥ ५९० वत्तुल्ये ३४ ॥ तुल्ये सादृश्येऽर्थे वतुः प्रत्ययो भवति ॥ चन्द्रेण तुल्यं चन्द्रवन्मुखम् । घटेन तुल्यं घटवदुदरम् । पटेन तुल्यं पटवत्कम्बलम् ॥ ५९१ भावे तत्वयणः ३५ ॥ भावे तश्च त्वश्च यण् च ते तत्त्वयणः । शब्दस्य प्रवृत्तिनिमित्तं भावः तस्मिन्भावे त त्व यण् इत्येते प्रत्यया भवन्ति ॥ ब्राह्मणस्य भावो ब्राह्मणता । तान्तस्य नित्यं स्त्रीलिङ्गत्वादाप् ॥ ५९२ समाहारे ता Page #117 -------------------------------------------------------------------------- ________________ सू०५९३-६१२] तद्वितप्रकरणम् १७ १०९ च त्रेर्गुणश्च ३६ ॥ त्रयाणां समाहारस्त्रेता । चकारात्समूहे प्रत्ययान्तरमपि । तेन हस्तिनां समूहो हास्तिकम् । धेनूनां समूहो धैनुकम् । अत्र कप्रत्ययः । तस्य णित्वादादिवृद्धिः ॥ ५९३ अचित्तवाचकादिकः ३७ ॥ कवचानां समूहः कावचिकम् । अपूपानां समूहः आपूपिकम् । शष्कुलीनां समूहः शाष्कुलिकम् ॥ ५९४ कवचिन्शब्दादिकः ३८ ॥ कवचिनां समूहः कावचिकम् ॥ ५९५ गणिकाया ण्यः ३९ ॥ गणिकानां समूहो गाणिक्यम् ॥ ५९६ केदाराद्यञ् च ४० ॥ चकारादिकः । केदाराणां समूहः कैदार्यम् । कैदारिकम् ॥ ५९७ युवत्यादेरण ४१॥ युवतीनां समूहो यौवतम्। भिक्षाणां समूहो भैक्षम् ॥ ५९८ पाशादिभ्यो यः ४२ ॥ स च स्त्रियाम् ॥ पाशानां समूहः पाश्या । वातानां समूहो वात्या । रथानां समूहो रथ्या । खलानां समूहः खल्या ॥ ५९९ खलगोरथेभ्य इनित्रकव्याः ४३ ॥ इनिः खलिनी । रथानां समूहो रथकट्या । रथ्येत्यपि । गवां समूहो गोत्रा । गव्येत्यादिप्रयोगा ऊह्याः । जनानां समूहो जनता । ब्राह्मणस्य भावो ब्राह्मणत्वं । त्वयणन्तं नपुंसकम् । ब्राह्मणस्य भावो ब्राह्मण्यम् । सुमनसो भावः सौमनस्यम् । सुभगस्य भावः सौभाग्यम् । विदुषो भावो वैदुष्यम् । वसोर्व उः (सू० ३०२)॥६०० कर्मण्यपि यण् वक्तव्यः ४४ ॥ कर्मण्यपीत्यपि शब्दात्साध्वर्थे यण् तस्य णित्वं न । सामनि साधुः सामन्यः । कर्मणि साधुः कर्मण्यः । सभायां साधुः सभ्यः । ब्राह्मणस्येदं कर्म ब्राह्मण्यम् । राज्ञ इदं कर्म राजन्यम्-राज्यम् । नो वा (सू० ५३४) इति टेर्लोपः । अन्यत्रापि यण् प्रत्ययः ॥ ६०१ समानस्य वा स इत्यादेशः ४५॥ समाने उदरे शयितः समानोदयः । सोदयः । शतेन क्रीतः शत्यः ॥६०९ लोहितादेर्डिदिमन् ४६ ॥ लोहिता Page #118 -------------------------------------------------------------------------- ________________ ११० सारस्वतव्याकरणम् । [ वृत्तिः १ 1 देर्गणाद्भावेर्थे इमन् प्रत्ययो भवति स इमन् डित्संज्ञो भवति । डित्वाट्टिलोपः ॥ लोहितस्य भावो लोहितिमा । लोहितादेरिति अनेकखरात् डित् वक्तव्यः । यत्र एकखरस्तत्र न डित् । लोहितादेरिमन् वैकल्पिकः । तेन लौहित्यम् । लोहितत्वम् । कालस्य भावः कालिमा । लघोर्भावो लघिमा । अणोर्भावः अणिमां । गुर्वादेः ( सू० ६५६ ) इति गुरोर्गरादेशः । गुरोर्भावो गरिमा । वरस्य भावो वरिमा || ६०३ इमनि लोपः ४७ ॥ इमनि प्रत्यये परे वकारस्य लोपो भवति ॥ स्थूलस्य भावः स्थेमा | स्थूलस्य स्थवादेशः ॥ ६०४ ऋ र इमनि ४८ ॥ इमनि प्रत्यये परे हसादेर्लघोऋकारस्य रो भवति ॥ पृथोर्भावः प्रथिमा । दृढस्य भावो द्रढिमा । मृदोर्भावो प्रदिमा | भृशस्य भावो भ्रशिमा । कृशस्य भावः ऋशिमा । हसादित्वाभावात् ऋजोर्भावो ऋजिमा । लघुत्वाभावात् कृष्णस्य भावः कृष्णिमा । संयोगपूर्वकत्वान्न लघुः । बहोर्भाव इति विग्रहे ॥ ६०५ बहोरिलोपो भू च बहोः ४९ ॥ बहोरुत्तरेषामिमनादीनामिकारस्य लोपो भवति बहोः स्थाने भू चादेशः || भूमा || ६०६ अस्त्यर्थे मतुः ॥ ५० नाम्नो मतुः प्रत्ययो भवति अस्यास्मिन्वास्तीत्येतस्मिन्नर्थे ॥ उकारो नुम्विधानार्थः । गौरस्यास्तीति गोमान् - गोमती ॥ ६०७ फलबर्हरथेभ्य इनेनौ वा वक्तव्यौ ५१ ॥ फलमस्यास्तीति फलिनः - फली । बर्हमस्यास्तीति बर्हिणः बहीं । रथोऽस्यास्तीति रथि - नः - रथी || ६०८ बलवाताभ्यामूलः ५२ ॥ बलूलः । वातूलः ॥ ६०९ वातातिसाराभ्यां किन् ५३ ॥ वातकी । अतिसारकी ॥ ६१० ऊर्णाहंशुभंभ्यो युः ५४ ॥ अस्त्यर्थे ॥ ऊर्णायुः । अहंयुः । शुभंयुः ॥ ६११ अर्णः केशयोर्व: ५५ ॥ अर्णसः सलोपश्च । अर्णवः केशवः ॥ ६१२ शंकंभ्यां बभयुस्ततुतयसः ५६ ॥ आभ्यामेते Page #119 -------------------------------------------------------------------------- ________________ सू० ६१३-६३०] तद्धितप्रकरणम् १७ प्रत्ययाः स्युरस्त्यर्थे । शं विद्यते यस्यासौ शंबः । शंभः । शंयुः । शंतिः । शंतुः । शंतः । शंयः । कं विद्यते यस्यासौ कंबः । कंभः। कंयुः । कतिः । कंतुः । कंतः । कंयः । इत्यादि ॥ ६१३ लोमादिभ्यः शः ५७ ॥ लोमशः ॥ ६१४ पामदेिनः ५८॥ पामनः। अङ्गना ॥ ६१५ पिच्छादेरिलच् ५९ ॥ पिच्छिलः ॥ ६१६ फेनादिभ्य इलच् ६० ॥ फेनिलः ॥ ६१७ तुन्दिवलिवटिभ्यो भः ६१ ॥ तुन्दिभः । वलिभः । वटिभः ॥ ६१८ कृष्यादिभ्यो वलच दीर्घश्व ६२ ॥ कृषीवलः ॥ ६१९ प्रज्ञा श्रद्धावृत्तिभ्योऽण् ६३ ॥ प्रज्ञाऽस्यास्तीति प्राज्ञः । आर्चः। श्राद्धः । वार्तः।। ६२० शृङ्गवृन्दाभ्यामारकच ६४ ॥ प्रशस्तं शृङ्गमस्यास्तीति शृङ्गारकः । प्रशस्तं वृन्दमस्यास्तीति वृन्दारकः ॥ ६२१ मध्वादे : ६५ ॥ मधुरः मुखरः । शुषिरः । रन्ध्रवानित्यर्थः । कुञ्जरः । कुञ्जो हस्तिहनुः ॥ ६२२ सिध्मादेलः ६६॥सिध्मास्यास्तीति सिध्मलः । चूडास्यास्तीति चूडालः ॥ ६२३ अइकौ च मत्वर्थे ६७ ॥ मत्वर्थे अइको प्रत्ययौ भवतः ॥ वैजयन्ती पताका यस्यासौ वैजयन्तः । माया विद्यते यस्यासौ मायिकः॥६२४ मान्तोपधाद्वत्विनौ ६८ ॥ मान्तोपधात् वत्विनौ स्तः । मश्च अश्व मौ। अन्तश्च उपधा च अन्तोपधे । मौ अन्तोपधे यस्यासौ.मान्तोपधस्तस्माद्वत्विनौ। मकारान्तान्मकारोपधादकारान्तादकारोपधाच्च वत्विनौ प्रत्ययौ भवतः अस्त्यर्थे । मघोऽस्यास्तीति मेघवान् ॥ श्रियां यशसि सौभाग्य योनौ कान्तौ महिनि च । सूर्ये संज्ञाविशेषे च मृगाङ्केऽपि भगः स्मृतः ॥१०॥ भगं भाग्यं विद्यते यस्यासौ भगवान् । लक्ष्मीरस्यास्तीति लक्ष्मी१ आदिशब्दादङ्गनेत्यादीनां संग्रहः । २ मघवा इन्द्रः । - Page #120 -------------------------------------------------------------------------- ________________ ११२ सारस्वतव्याकरणम् । [वृत्तिः१ चान् । पुत्रोऽस्यास्तीति पुत्रवान् । धनमस्यास्तीति धनवान्-धनी । छत्रमस्यास्तीति छत्रवान्-छत्री । इनां शौ सौ (सू० २६१) दण्डो विद्यते यस्यासौ दण्डवान्-दण्डी। क्षेत्रं विद्यते यस्यासौ क्षेत्रवान् क्षेत्री । विद्यास्यास्तीति विद्यावान् । दृषदो विद्यन्ते यस्यासौ दृषद्वान् दृषद्वती भूमिः । टिव्रतः ( सू० ३७४) यशोऽस्यास्तीति यशखान् । किं विद्यते यस्यासौ किंवान् । कामो विद्यते यस्यासौ कामी । कृमयो विद्यन्ते यस्यासौ कृमिवान् । शमोऽस्यास्तीति शमी । दमोऽस्यास्तीति दमी ॥ ६२५ तडिदादिभ्यश्च ६९ ॥ तडिदादिभ्यः शब्देभ्यो वतुप्रत्ययो भवति ।। तडिद्विद्यते यस्यासौ तडित्त्वान् । भानि नक्षत्राणि विद्यन्ते यस्यासौ भवान् । यशखान् । मरुद्विद्यते यस्यासौ मरुत्वान् ॥ ६२६ तकारान्तस्य सकारान्तस्य हसादावस्त्यर्थे प्रत्यये परे अपदान्तता वक्तव्या ७० ॥ यस्वरादौ प्रत्ययमाने परे सर्वेषामपदान्तता भवति । ईये परे पदान्तता । तेन भवदीयम् ॥ ६२७ एतत्कियत्तयः परिमाणे वतुः ७१ ॥ एतत्कियत्तभ्यः शब्देभ्यः परिमाणेऽर्थे वतुप्रत्ययो भवति ॥ ६२८ यत्तदोरा ७२ ॥ यत्तदोटेरात्वं भवति वतौ परे ॥ यत्परिमाणमस्येति यावान् । तावान् ।। ६२९ किमः किर्यश्च ॥ ७३ किम्शब्दस्य किरादेशो भवति वतोर्वकारस्य यकारादेशो भवति ॥ किं परिमाणमस्येति कियान् ॥ ६३० आ इश्चैतदो वा ७४ ॥ एतदष्टेर्वा आत्वं भवति वतौ परे॥ यस्मिन्पक्षे आत्वं न तस्मिन्पक्षे इशादेशः स्यात् ।। शकारः सर्वादेशार्थः ॥ चकाराद्वतोर्वकारस्य यकारः ॥ एतत्परिमाणमस्येति एतावान् । इयान् ॥ वाशब्दोऽनुक्तसमुच्चयार्थः । तेन इदमो वतुप्रत्ययः । इदम इश् चकाराद्वतोर्वकारस्य यश्चेति वाच्यम् । इदं ता भवति । इयमवतुः ७१ ॥ तारा ७२ ॥ य Page #121 -------------------------------------------------------------------------- ________________ सू० ६३१-६५२] तद्धितप्रकरणम् १७ ११३ परिमाणं यस्य स इयान् । शकारः सर्वादेशार्थः ॥ ६३१ तुन्दादेरिलः ७५ ॥ तुन्दादेर्गणात् इलप्रत्ययो भवति ॥ प्रशस्तं तुन्दं यस्यासौ तुन्दिलः । उदरिलः ॥ ६३२ औन्नत्ये दन्तादुरः ७६ ॥ औन्नत्येऽर्थे वाच्ये सति दन्तशब्दादुरः प्रत्ययो भवति ॥ उन्नता दन्ता यस्यासौ दन्तुरः ॥ ६३३ श्रद्धादेलः ७७ ॥ श्रद्धा विद्यते यस्यासौ श्रद्धालुः । कृपा विद्यते यस्यासौ कृपालुः । मायालुः । दयालुः ॥ ६३४ सिध्मादेलः ७८ ॥ सिध्मलः । स्नेहिलः ॥६३५ अस्सायामेधास्रग्भ्योऽस्त्यर्थे विनिर्वक्तव्यः ७९ ॥ तपो विद्यते यस्यासौ तपखी । यशखी । मायावी । मेधावी। स्रक् विद्यते यस्यासौ स्रग्वी ॥ ६३६ वाचो ग्मिनिः ८० ॥वाच्शब्दात् ग्मिनिः प्रत्ययो भवति अस्त्यर्थे ॥ ग्मिनो गकारो व्यवधानार्थः । तेन अमे ञमा वा (सू० ७३ ) इत्यस्याप्राप्तिः । प्रशस्ता वाक् विद्यते यस्यासौ वाग्मी ।। ६३७ एकादाकिनिच्चासहाये ८१ ॥ न विद्यते एकः सहायो यस्य स एकाकी । स्त्री चेत् एकाकिनी ॥ ६३८ आलाटौ कुत्सितभाषिणि ८२ ॥ कुत्सितभाषिण्यर्थे वाच्ये सति आलाटौ प्रत्ययौ भवतः ॥ आलप्रत्ययो बहुभाषित्वे कुत्सितभाषित्वे च। आटप्रत्ययस्तु केवलकुत्सितभाषित्वे ॥ कुत्सिता वाक् विद्यते यस्यासौ वाचालः । एवं वाचाटः ॥ ६३९ लः समाहारप्रकृष्टयोः ८३ ॥ नाम्नः समाहारप्रकृष्टयोर्विषये लः प्रत्ययो भवति ॥ क्लेशस्य समूहः, प्रकृष्टः क्लेशो वा क्लेशलः ॥ ६४० ईषदपरिसमाप्तौ कल्पदेश्यदेशीयाः ८४ ॥ ईषदपरिसमाप्तः सर्वज्ञ इति सर्वज्ञकल्पः । ईषदपरिसमाप्तः पटुरिति पटुदेश्यः । पटुदेशीयः । ईषदूनः कविरिति कविदेश्यः । कविदेशीयः ॥ ६४१ प्रशंसायां रूपः ८५॥ प्रशंसायां रूपः प्रत्ययो भवति ॥ प्रशस्तो वैयाकरणो वैयाकरणरूपः ।। Page #122 -------------------------------------------------------------------------- ________________ ११४ सारस्वतव्याकरणम् । [ वृति: १ ६४२ पाशः कुत्सायाम् ८६ ॥ कुत्सायां वाच्यायां सत्यां पाशः प्रत्ययो भवति ॥ कुत्सितो वैयाकरणो वैयाकरणपाशः ॥ ६४३ भूतपूर्वे चरट् ८७ ॥ भूतपूर्वेऽर्थे वाच्ये सति चरटू प्रत्ययो भवति ॥ पूर्वं भूत इति भूतपूर्वः । पूर्वं भूत इति भूतचरः । पूर्व दृष्ट इति दृष्टचरः । स्त्री चेद्दृष्टचरी । ष्ट्तिः ( सू० ३७४ ) || ६४४ प्राचुर्यविकारप्राधान्यादिषु मयद् प्रत्ययो भवति ८८ ॥ ६४५ गोः पुरीषे च ८९ ॥ गोः पुरीषं गोमयम् । अन्नं प्रचुरं यस्मिन्नसौ अन्नमयो यज्ञः । मृदो विकारो मृन्मयो घटः । स्त्री प्रधानं यस्यासौ स्त्रीमयो जाल्मः । आदिशब्दात्खरूपार्थे मयट् । अमृतस्वरूपोऽमृतमयश्चन्द्रः || ६४६ तदधीते वेद वेत्यत्राण्यक्तव्यः ९० ॥ तदधीतेऽथवा वेद इत्यत्रार्थे द्वितीयान्तान्नाम्नोऽण् वक्तव्यः । व्याकरणमधीते वेद वा वैयाकरणः । द्वारि नियुक्तो दौवारिकः । स्वस्ति इत्याहासौ सौवस्तिकः । न्यग्रोधस्येदं नैयग्रोधम् || ६४७ व्यासादेः किः ९१ ॥ व्यासस्यापत्यं वैयासकिः । वारुडकिः ॥ ६४८ सुधातुरकङ् च ९२ ॥ सुधातुरिय् स्यादकडादेशश्च ॥ सुधातुरपत्यं सौधातकिः । शोभनोऽधः स्वश्वः । तं वेदेति सौवश्वः । न्याये कुशलो नैयायिकः ॥ ६४९ न संधिय्वोर्युट् च ९३ ॥ सन्धिजौ वौ सन्धिय्वौ तयोः । सन्धिजयोर्य कारवकारयोः संबन्धिनः खरस्य वृद्धिर्न भवति किंतु तयोर्युडागमो भवति तेन इट् उट् इत्येतावागमौ भवतः ॥ किं कृत्वा वर्णविश्लेषं कृत्वा ॥ यकारात्पूर्व इकारः । वकारात्पूर्व उकारः । पश्चात् आदिखरस्य गिति च वृद्धिः (सू० ५५८ ) । ६५० चटकादैरण ९४ ॥ चटकस्यापत्यं चाटकैरः ॥ ६५१ कल्याण्यादीनामिनेयः ९५ ॥ कल्याण्या अपत्यं काल्याणि - नेयः || ६५२ इतो जातार्थे ९६ ॥ जातार्थे इतः प्रत्ययो भवति ॥ 1 Page #123 -------------------------------------------------------------------------- ________________ सू० ६५३-६६१] तद्धितप्रकरणम् १७ ११५ लज्जा संजाता यस्यासौ लज्जितः । त्रपा संजाता यस्यासौ त्रपितः । क्षुधा संजाता यस्यासौ क्षुधितः॥६५३ तरतमेयस्विष्ठाः प्रकर्षे ९७॥ अतिशयेऽर्थे तरः तमः इयसुः इष्टः इत्येते प्रत्यया भवन्ति । अतिशयेन कृष्णः कृष्णतरः । अतिशयेन कृष्णः कृष्णतमः । अतिशयेन शुक्लः शुक्लतरः शुक्लतमः ।। ६५४ ईयस्विष्टौ डिताविति वक्तव्यौ ९८ ॥ अतिशयेन लघुर्लघीयान् । अतिश० लघुर्लघीयसी । अतिश० लघुर्लधिष्ठः । अतिश० पापी इति पापीयान् । अतिश० पापिनी इति पापीयसी । अतिश० पापी इति पापिष्ठः॥ ६५५ विन्मतुवतुतप्रत्ययानांलोपश्च इष्ठादौ ९९॥ मतिर्विद्यते यस्यासौ मतिमान् । अतिश० मतिमान् इति मतिष्ठः । अतिश० मायावी इति मायिष्ठः । अतिश० धनवान् इति धनिष्ठः । अतिश० कर्ता इति करिष्ठः ॥६५६ गुर्वादेरिष्ठेमेयस्सु गरादिष्टयलोपश्च १००॥ इष्ठेमेयस्सु परतो गुर्वादेर्गरादिरादेशो भवति टेरलोपः ॥ गुरोर्गरादेशः । अतिश० गुरुर्गरीयान् गरीयसी गरिष्ठः । गुरोर्भावो गरिमा । प्रियस्य प्रादेशः । अतिश० प्रिय इति प्रेयान्-प्रेयसी-प्रेष्ठः। लोहितादेर्दिडिमन् ( सू० ६०२ ) प्रेमा । स्थूलस्य स्थवादेशः । अतिश० स्थूलः स्थवीयान् स्थवीयसी स्थविष्ठः स्थेमा । स्थिरस्य स्थादेशः । स्थेयान् स्थेयसी-स्थेष्ठः-स्थेमा । बहुशब्दस्य बहादेशः । अतिश० बहुः बंहीयान् बंहीयसी-बंहिष्ठः । तृप्रशब्दस्य त्रपादेशः । त्रपिष्ठः । इखस्य हखादेशः हसिष्ठः । वृद्धस्य वर्षादेशः । अतिश० वृद्धः वर्षीयान्-वर्षियसी-वर्षिष्ठः । अन्तिकबाढयोर्नेदसाधौ । अतिश० अन्तिकः नेदीयान्- नेदीयसी-नेदिष्ठः । अतिश० बाढः साधीयान-साधीयसीसाधिष्ठः । दूरस्य दवादेशः। अतिश० दूरः दवीयान्-दवीयसी-दविष्ठः । युवनशब्दस्य यवादेशः । अतिश० युवा यवीयान्-यवीयसी Page #124 -------------------------------------------------------------------------- ________________ ११६ सारस्वतव्याकरणम् । [ वृत्ति: १ यविष्ठः । अल्पस्य कनादेशः । अ० - अल्पः कनीयान् - कनीयसी कनिष्ठः || ६५७ इलोपो ज्याशब्दादीयसः १०१ ॥ ज्याशब्दादीयस ईकारस्य लोपो भवति ॥ वृद्धस्य ज्यादेशः । अतिश ० वृद्ध इति ज्यायान् - ज्यायसी - ज्येष्ठः ज्येमा । उत्तमस्य वरादेशः । अतिश० उत्तम इति वरीयान् - वरीयसी - वरिष्ठः- वरिमा । दीर्घस्य द्राघादेशः । अतिश • दीर्घ इति द्राघीयान् द्राघीयसी - द्राघिष्ठः - द्राघिमा । प्रशस्यस्य श्रादेशः । अतिश० प्रशस्यः श्रेयसी श्रेष्ठः श्रेमा || ६५८ बहोरिष्ठे यिः १०२ ॥ बहुशब्दात्परस्य इष्ठे वर्तमानस्येकारस्य यिर्भवति 'ईयस ईकारस्य लोपश्च || बहोर्भूरादेशः । अतिश ० बहुरिति भूयान् भूयसी - भूयिष्ठः भूमा । क्षिप्रस्य क्षेपादेशः । अतिश० क्षिप्रः क्षेपीयानू-क्षेपीयसी - क्षेपिष्ठः । क्षुद्रस्य क्षोदादेशः । अतिश० क्षुद्रः क्षोदीयान - क्षोदीयसी - क्षोदिष्ठः ।। ६५९ किमोऽव्ययादाख्याताच्च तरतमयोराम्वक्तव्यः १०३ || अतिश० कुतः कुतस्तरां परमाणवः । अतिश० कुत इति कुतस्तमां तेषामारम्भकत्वम् । उच्चैस्तरां गायति । अतिश० उच्चैरिति उच्चैस्तमाम् । नीचैस्तराम् । नीचैस्तमाम् । किंतराम् । किंतमाम्। अतिश० पठति इति पठतितराम् पठतितमाम् । अतिश पचति इति पचतितराम्-पचतितमाम् || ६६० परिमाणे दघ्नादयः १०४ ॥ परिमाणेऽर्थे वाच्ये सति दन्नट् द्वयसट् मात्रट् इत्येते प्रत्यया भवन्ति ॥ जानु परिमाणं यस्य तज्जानुदघ्नं जलम् । शिरः परिमाणं यस्य तच्छिरोद्वयसम् । पुरुषः परिमाणं यस्य तत्पुरुषमात्रं जलम् ॥ ६६१ द्वयोर्बहूनां चैकस्य निर्धारणे किमादिभ्यो उतरडतमौ वक्तव्य १०५ ॥ कतरो भवतोर्मध्ये काण्वः । कतरः । कतमो भवतां तान्त्रिकः । क इति कतमः । भवतो यतरस्तार्किकस्ततर उद्धातु । य इति यतरः । स इति ततरः । ० Page #125 -------------------------------------------------------------------------- ________________ सू०६६२-६८१] तद्धितप्रकरणम् १७ ११७ यतमः । ततमः ॥ ६६२ संख्येयविशेषावधारणे द्वित्रिभ्यां तीयः १०६ ।। द्वयोः संख्यापूरको द्वितीयः॥६६३ त्रेःसंप्रसारणं सखरस्य १०७ ॥ त्रयाणां संख्यापूरकस्तृतीयः ॥ ६६४ षट्चतुरोः स्थः १०८ ॥ षण्णां संख्यापूरकः षष्ठः। ष्टुभिः ष्टुः ( सू० ७९) चतुर्णा संख्यापूरकश्चतुर्थः ॥ ६६५ पश्चादेर्मः १०९ ॥ पञ्चमः । सप्तमः । अष्टमः । नवमः । दशमः । इत्यादि ॥ ६६६ एकादशा. देडः ११० ॥ ६६७ द्वित्र्यष्टकानां द्वात्रयोष्टैकाः १११ ॥ प्राक्शतादनशीतिबहुव्रीह्योरिति वक्तव्यम् ॥ एकेनाधिका दश एकादश। एकादशानां संख्यापूरक एकादशः-एकादशी । द्वादशः-द्वादशी। त्रयोदशः-त्रयोदशी । चतुर्दशः-चतुर्दशी । सप्तदशः-सप्तदशी । अष्टादशः-अष्टादशी ॥ ६६८ विंशत्यादेवों तमट ११२ ॥ विंशतेः संख्यापूरकः विंशतितमः । पक्षे ॥ ६६९ विशतेस्तिलोपः ११३ विंशः॥ ६७० चत्वारिंशदादौ वा ११४ ॥ द्विचत्वारिंशत्-द्वाचत्वारिंशत् । त्रिचत्वारिंशत्-त्रयश्चत्वारिंशत् । अष्टचत्वारिंशत्-अष्टाचत्वारिंशत् । अनशीतीति विशेषणाद्यशीतिः । यशीतिः । अष्टाशीतिः ॥ ६७१ शतादेर्नित्यम् ११५ ॥ शततमः ॥ ६७२ कतिकतिपयाभ्यां थः ११६॥ कतिथः । कतिपयथः ॥ ६७३ संख्यायाः प्रकारे धा ११७ ॥ संख्यावाचकाच्छब्दात्प्रकारेऽर्थे वाच्ये सति धाप्रत्ययो भवति ॥ द्विप्रकारं द्विधा । त्रिप्रकार त्रिधा। चतुष्प्रकारं चतुर्धा ॥ ६७४ गुणोष्ण च ११८ ॥ धापत्ययान्तस्य शब्दस्य गुणो वा भवति अण् च वा भवति ॥ द्विप्रकारं द्वेधा । त्रिप्रकारं त्रेधा । धाप्रत्ययान्तात्वार्थेऽण् । द्विधा एव द्वैधम् । त्रैधम् ॥ ६७५ एकाध्यमुवा ११९ ॥ ऐकध्यम् । एकधा ॥ ६७६ क्रियाया आवृत्तौ कृत्वसुच् १२० ॥ पश्चवारान् Page #126 -------------------------------------------------------------------------- ________________ ११८ सारस्वतव्याकरणम्। [वृत्तिः १ भुक्ते इति पञ्चकृत्वो भुङ्क्ते । सप्तकृत्वः ॥ ६७७ द्वित्रिचतर्यः सुः १२१ ॥ द्वित्रिचतु:शब्देभ्यः सुप्रत्ययो भवति ॥ द्विवारमिति द्विः। त्रिवारमिति त्रिः । चतुः। द्विरुक्तम् । निरुक्तम् ॥ ६७८ बहादेः कारकाच्छस् १२२ ॥ बहादेः शब्दाच्छस्प्रत्ययो भवति ॥ बहुवारानिति बहुशः । अल्पशः । शतशः । सहस्रशः । लक्षशः । कोटिशः । इत्यादि । बहुशो धनं ददाति ॥ कारकात्किम् । बहूनां खामी ॥ ६७९ तयायडौ संख्याया अवयवे १२३ ॥ संख्याया अवयवे वाच्ये सति तयायडौ प्रत्ययौ भवतः ॥ द्वौ अवयवौ यस्य तहितयम् । त्रितयम् । द्वौ अवयवौ यस्य तवयम् । त्रयम् । चतुष्टयी ॥ ६८० अल्पार्थे कुटीशमीशुण्डाभ्यो रः १२४ ॥ अल्पा कुटी इति कुटीरः । अल्पा शमी इति शमीरः । अल्पा शुण्डा इति शुण्डारः ॥ ६८१ स्त्रीपुंसोनपत्रणौ १२५ ॥ स्त्रैणम् । पौंस्नम् । शेषा निपात्याः कत्यादयः । आदिशब्दात् या संख्या येषां ते यति सा संख्या येषां ते सति । का संख्या येषां ते कति । लोकाच्छेषस्य सिद्धिः ॥ ॥ इति सारखतव्याकरणे तद्धितप्रकरणम् ॥ १७ ॥ इति प्रथमा वृत्तिः समाप्ता। Page #127 -------------------------------------------------------------------------- ________________ श्रीः तिङन्तप्रकरणम् । द्वितीया वृत्तिः। भ्वादिषु परस्मैपदिनः १ लक्ष्मीनृसिंहौ प्रणिपत्य काश्यां बुधांश्च पद्माकरभट्टमुख्यान् । सारस्वतीयां च तिबादिवृत्तिं क्रमाल्लिखेयं गणपप्रसादात् ॥१॥ अथाख्यातप्रक्रिया निरूप्यते ॥ ६८२ धातोः १॥ वक्ष्यमाणाः प्रत्यया धातोर्जेयाः ॥ ६८३ भ्वादिः २॥ भूसत्तायामित्यादिगणो धातुसंज्ञो भवति ॥ स च त्रिविधः । आत्मनेपदी परस्मैपद्युभयपदी चेति ॥ ६८४ आदनुदात्तडितः ३ ॥ अनुदान्तो डितश्च धातोरादित्यात्मनेपदं भवति ॥ ६८५ जित्वरितेतश्च उमे ४॥ जितः खरितेतश्च धातोरात्मनेपदपरस्मैपदे भवतः॥ आत्मगामि चेत्फलमात्मनेपदं परगामि चेत्फलं परस्मैपदं प्रयोक्तव्यम् । अन्वर्थानुगतार्थसंज्ञाबलत्वात् ॥ ६८६ परतोऽन्यत् ५॥ पूर्वोक्तनिमित्तविधुरादन्यस्माद्धातोः परस्मैपदं भवति ॥ ६८७ नव परस्मैपदानि ६ ॥ तिबादीनामष्टादशसंख्याकानामाद्यानि नव वचनानि परस्मैपदसंज्ञानि भवन्ति ॥ पराण्यात्मनेपदानि ॥ ६८८वर्तमाने ७॥ प्रारब्धापरिसमाप्तक्रियोपलक्षितः कालो वर्तमानस्तस्मिन्वर्तमानेऽभिधेये तिबादयः प्रत्यया भवन्ति ॥ तत्रैकवचनादीनि व्याक्रियन्ते ॥ १ अस्य तिवादेः पाणिनीयानां लडिति संज्ञा । Page #128 -------------------------------------------------------------------------- ________________ सारस्वतव्याकरणम् । [वृत्तिः २ ॥ परस्मैपदानि ॥ एकवचनानि । द्विवचनानि । बहुवचनानि । प्रथमः तिप् तस् अन्ति मध्यमः सिप् थस् उत्तमः मिप् वस् मस् ॥ आत्मनेपदानि ॥ प्रथमः ते आते अन्ते मध्यमः से आथे ध्वे उत्तमः ए वहे महे ६८९ नानि च युष्मदि चासदि च भागैः ८॥ नामादिखूपपदेषु प्राप्तेषु सत्सु त्रिभिर्भागैरेते प्रत्यया भवन्ति (ते च त्रयो भागा यथाक्रमं प्रथममध्यमोत्तमसंज्ञा भवन्ति ) ॥ नाम्नि प्रयुज्यमाने शब्दादप्रयुज्यमानेऽपि प्रथमपुरुषः । युष्मदि मध्यमः ॥ तथैवास्मद्युत्तमः । भूसत्तायाम् ॥ ६९० कर्तरि पं च ९॥ परस्मैपदं कर्तरि भवति ॥ चकारादात्मनेपदमपि ॥ तत्र भू इत्येतस्मात्परस्मैपदिनोs. विकरणात्कर्तरितिबादयो योज्यन्ते ॥ तत्रैकत्वविवक्षायां प्रथमपुरुपैकवचने भू तिप् इति स्थिते । पकारः । पित्कार्यार्थः ॥ ६९१ अपकर्तरि १० ॥ धातोरप्प्रत्ययो भवति कर्तरि विहितेषु त्यादिषु चतुर्पु दिपपर्यन्तेषु परतः ॥ पकारो विकरणभेदज्ञापनार्थों गुणार्थश्च ॥ प्रकृतिप्रत्ययान्तः पतति यः प्रत्ययः स विकरणः ॥ ६९२ गुणः ११॥ धातोरन्त्यभूतस्य नामिनो गुणो भवति अवादेशश्च । भवति । व्यर्थविवक्षायां तस् ॥ ६९३ अपित्तादिर्डित् १२ ॥ पकारेतं तादिकं च विहायान्यः प्रत्ययो कित्संज्ञो भवति ॥ अन्य इति किम् । इडामायवर्जितो दशलकारान्तःपाती बित् । आदिश Page #129 -------------------------------------------------------------------------- ________________ सू० ६९४-७०३ ] भ्वादयः परस्मैपदिनः १ १२१ ब्दात्सीसिग्रहणम् ॥ ६९४ क्वित्यमुसि १३ ॥ किति किति च परे धातोर्गुणो न भवति युसं वर्जयित्वा ॥ कृतद्विर्वचनादुसि परे तु गुणो भवति ॥ ततो ङित्वात्तसि गुणप्रतिषेधेऽप्यप्प्रत्ययनिमित्तो गुणो भवत्येव ॥ सोर्विसर्गः (सू० १२४ ) भवतः । बहुर्थविवक्षायां भव अन्ति इति स्थिते ॥ ६९५ अदे १४ ॥ अकारस्य लोपो भवति अकारे एकारे च परे ॥ अदे इत्यत्र अकारैकारौ तिबादिप्रत्ययस्येत्यर्थः । भवन्ति । भवसि भवथः भवथ ॥ ६९६ व्मोरा १५ ॥ अकारस्य आत्वं भवति वकारे मकारे च परे । भवामि भवावः भवामः। स राजा धार्मिको भवति । त्वं साधुर्भवसि। अहमात्मविद्भवामीत्यादि ज्ञेयम् ॥ ६९७ अव्यवधानाच पुरुषवि. शेषः १६ ॥ यस्य क्रियापदेन व्यवधानं नास्ति ततः पुरुषविशेषः । अत्र व्यवधानं सूत्रस्थं ग्राह्यं न तु वाक्यस्थम् । सूत्रक्रमेण पुरुषप्रयोगो भवति ॥ साधु स च त्वं च भवथः ॥ अहं त्वं स च पण्डिता भवामः । भूमाप्तौ आत्मनेपदी। तस्मातेप्रभृतीनि नव वचनानि प्रयोज्यानि । अब्गुणावः । भवते ॥ ६९८ आदाथ ई १७ ॥ आकारात्परस्य अथ्संबन्धिन आकारस्य ईकारो भवति ॥ भवेते भवन्ते । भवसे भवेथे भवध्वे । अदे (सू० ६९५) भवे भवावहे, भवामहे । स श्रियं भवते ॥ ६९९ विधिसंभावनयोः १८॥ विधिः कर्तव्यार्थोपदेशः संभावनं कल्पनमूहस्तत्र यादादयः प्रत्यया भवन्ति ॥ लिडिति चैषां संज्ञा पाणिनीयानाम् ॥ ॥परस्मैपदानि ॥ एकवचनानि । द्विवचनानि । बहुवचनानि । प्रथमः यात् याताम् युस् Page #130 -------------------------------------------------------------------------- ________________ १२२ ... सारस्वतव्याकरणम् । - [वृत्तिः २ ईरन् ईवहि ईमहि ..: मध्यमः यास् यातम् यात । उत्तमः याम् याव याम ॥ आत्मनेपदानि ॥ प्रथमः ईत ईयाताम् मध्यमः ईथास् इयाथाम् इध्वम् उत्तमः ईय ७०० या ई १९ ॥ आकारात्परो या ई भवति ॥ अ इ ए (सू० ४३) भवेत् भवेताम् ॥ ७०१ युस इट् २० ॥ अकारासरस्य युस इडागमो भवति ॥ भवेयुः । भवेः भवेतम् भवेत ॥ ७०२ यामियम् २१ ॥ अकारात्परो यामियं भवति । भवेयम् भवेव भवेम । शिष्यो गुरुशुश्रूषको भवेदिति विधिः । भवेदसौ वेदपारगो ब्राह्मणत्वादिति संभावनम् । भवेत् भवेयाताम् भवेरन् । भवेथाः भवेयाथाम् भवेध्वम् । भवेय भवेवहि भवेमहि । 'अहं हरिभक्तिं भवेय' ॥ ७०३ आशी प्रेरणयोः २२ ॥ अप्राप्तप्रार्थनमाशीः परस्येष्टार्थाशंसनं वा । प्रेरणं प्रवर्तनम् । तत्र तुबादयः प्रत्यया भवन्ति ॥ एषां संज्ञा लोट् ॥ ॥परस्मैपदानि । एकवचनानि । द्विवचनानि । बहुवचनानि । प्रथमः तुप ताम् अन्तु मध्यमः हि तम् आनिप् आवप् ॥ आत्मनेपदानि ॥ प्रथमः ताम् आताम् अन्ताम् मध्यमः ख : आथाम् उत्तमः : ऐप आवहैप् आमहैप् : आमप् Page #131 -------------------------------------------------------------------------- ________________ सू० ७०४-७१६] भ्वादयः परस्मैपदिनः १ . १२३ ७०४ तुह्योस्तातडाशिषि वा वक्तव्यः २३ ॥ भवतुभवतात् भवताम् भवन्तु ॥ ७०५ अतः २४ ॥ अकारात्परस्य हे ग्भवति न तु तातङः ॥ तातङिति ङित्करणं गुणवृद्धिप्रतिषेधार्थ न त्वन्त्यादेशार्थम् । भव भवतात् भवतम् भवत । भवानि भवाव भवाम । आयुष्मान् भवतु भवान् । अध्ययनायोधतो भव सौम्य । भवताम् भवेताम् भवन्ताम् । भवख भवेथाम् भवध्वम् । भवै भवावहै भवामहै। हरिं भवख स त्वम् ॥ ७०६ अनद्यतनेतीते २५ ॥ अतीताया रात्रेर्यामद्वयादग्यावदागामिन्याः प्रथमयामद्वयं सोऽद्यतनस्ततोऽन्योऽनद्यतनस्तस्मिन्ननद्यतनेऽतीते काले दि. बादयः प्रत्यया भवन्ति । एषां संज्ञा लङ् । ॥ परस्मैपदानि ॥ एकवचनानि । द्विवचनानि । बहुवचनानि । प्रथमः दिप मध्यमः सिप् तम् उत्तमः अपि उत्तमः अमिप्व ॥ आत्मनेपदानि ॥ प्रथमः तम् आताम् अन्त मध्यमः थास् आथाम्। ध्वम् उत्तमः ई वहि महि दिसिमि इत्येतेषामिकार उच्चारणार्थः । ततो नकार इणतन्यकतरीति विशेषणार्थः । वावसाने ( सू० २४० ) इति दकारस्य तकारः ॥ ७०७ दिवादावट २६ ॥ दिबादौ परे धातोरडागमो भवति ॥ अभवत् अभवताम् अभवन् । अभवः अभवतम् अभवत । अभवम् अभवाव अभवाम । ह्योऽभवत्त्वत्पुत्रः । अभवत अमवेताम् ताम् अन् न Page #132 -------------------------------------------------------------------------- ________________ १२४ सारस्वतव्याकरणम् । [ वृत्तिः २ अभवन्त । अभवथाः अभवेथाम् अभवध्वम् । अभवे अभवावहि अभवामहि । स राज्यमभवत ।। ७०८ परोक्षे २७ ॥ धातोः परोक्षेऽतीते काले णबादयः प्रत्यया भवन्ति ॥ एषां संज्ञा लिटू ॥ ॥ परस्मैपदानि ॥ द्विवचनानि । एकवचनानि । प्रथमः णप् मध्यमः थप् उत्तमः णप् ॥ आत्मनेपदानि ॥ अतुस् अथुस् व ए से आते आथे हे बहुवचनानि । उस् अ म प्रथमः मध्यमः उत्तमः ए ७०९ णादि कित् २८ ॥ अपित् णादिः किद्भवति ॥ ७१० द्विश्व २९ ॥ णबादिसंयोगे धातोर्द्विवचनम् ॥ ७११ सखरादिद्विद्विः ३० ॥ सखराद्योऽवयवोऽद्विरुक्तो द्विर्भवति ॥ भू भू प् इति स्थिते । णकारो वृद्ध्यर्थः । पकारः पित्कार्यार्थः ॥ ७१२ आवोर्णादौ ३१ ॥ आ अश्च भूश्च आभ्वौ तयोः पूर्वस्याकारस्य भूशब्दस्य च आकारो भवति णादौ सति ॥ ७९३ हखः ३२ ॥ पूर्वसंबन्धिनो दीर्घस्य ह्रस्वो भवति ॥ ७१४ झपानां जबचपाः ३३ ॥ पूर्वसंबन्धिनां झपानां जपाश्चपाश्च भवन्ति ॥ झढघघमानां जडदगबा भवन्ति ॥ खफछठथानां चटतकपा भवन्ति ॥ ७१५ भुवो बुक् ३४ ॥ भुवो वुगागमो भवति णादौ खरे परे ॥ बभूव बभूवतुः बभूवुः ॥ ७१६ कादेर्णादेः ३५ ॥ डुकृञ् करणे । सुगतौ । १ प्रमानां चपविधानं यथासंख्यं ज्ञेयम् । ध्वे महे Page #133 -------------------------------------------------------------------------- ________________ सू० ७१७-७२२ ] भ्वादयः परस्मैपदिनः १ १२५ डुभृञ् धारणपोषणयोः । वृञ् संवरणे । द्रु गतौ । श्रु श्रवणे । नु प्रस्रवणे । ष्टुञ् स्तुतौ । कृसृभृवृदुश्रुतुस्तु इत्येतस्मात्परस्य वसादे - र्णादेर्गणस्येट् न भवत्यन्यस्माद्भवतीति नियमादनिटोsपीडागमः । 'यदागमास्तद्गुणीभूतास्तग्रहणेन गृह्यन्ते' इति न्यायादिटोऽपि बा - द्यन्तत्वेन थपि वुक् । बभूविथ बभूवथुः बभूव । बभूव बभूविव बभूविम । बलिर्बलवान् बभूव । बभूवे बभूवाते बभूविरे । बभूविषे बभूवाथे ॥ ७१७ नामिनोऽचतुर्णां धो ढः ३६ ॥ नाम्यन्ताद्धातोरुत्तरस्य तिबादिचतुष्कव्यतिरिक्तस्य लिङो लुलिटोश्च धस्य ढो भवति ॥ अत्र सेटो हलाद्वेति वक्तव्यम् ॥ बभूविध्वे- बभूविदवे । बभूवे बभूविवहे बभूविमहे । रामो राज्यं बभूवे ॥ ७९८ आशिषि ॥ धातोराशिषि यादादयो भवन्ति ॥ एषां संज्ञा लिङ् ॥ 1 एकवचनानि । ॥ परस्मैपदानि ॥ द्विवचनानि । प्रथमः यात् मध्यमः यास् उत्तमः यासम् यास्ताम् यास्तम् याख ॥ आत्मनेपदानि ॥ सीष्ट सीष्ठास् बहुवचनानि । यासुस् यास्त यास्म प्रथमः सीयास्ताम् मध्यमः सीयास्थाम् सीवहि उत्तमः सीय ७१९ आशीर्वादादेः पं किदिति वक्तव्यम् ३८ ॥ ततो गुणाभावः । भूयात् भूयास्ताम् भूयासुः । भूयाः भूयास्तम् भूयास्त । भूयासम् भूयाख भूयास्म । स श्रीमान् भूयात् । भू सीष्ट इति स्थिते ॥ ७२० सिसतासीस्यपामिट् ३९ ॥ धातोः परेषां सिस सीरन् सीध्वम् सीमहि Page #134 -------------------------------------------------------------------------- ________________ १२६ सारखतव्याकरणम् । [वृत्तिः २ तासी स्यप् इत्येतेषामिडागमो भवति ॥ गुणावादेशौ। षत्वम् । भविषीष्ट भविषीयास्ताम् भविषीरन् । भविषीष्ठाः भविषीयास्थाम् भविपीध्वम् । सीव्यवधानेऽपि ढत्वम् । भविषीढ़म् । भविषीय भविषीवहि भविषीमहि । हरिभक्ति भविषीष्ठाः ॥ ७२१ श्वस्तने ४० ॥ श्वो आगतेऽह्नि भाविन्यर्थे तादयो भवन्ति ॥ एषां संज्ञा लुट् ॥ ॥परस्मैपदानि ॥ एकवचनानि । द्विवचनानि । बहुवचनानि । प्रथमः ता. तारौ तारस् मध्यमः तासि तास्थस् तास्थ उत्तमः तामि ताखस् तासस ॥ आत्मनेपदानि ॥ प्रथमः ता तारौ तारस् मध्यमः तासे तासाथे ताध्वे उत्तमः ताहे ताखहे तास्महे इड्गुणावः । भविता भवितारौ भवितारः । भवितासि भवितास्थः भवितास्थ । भवितास्मि भविताखः भवितास्मः । श्वस्ते हरिः प्रत्यक्षो भविता । भविता भवितारौ भवितारः । भवितासे भवितासाथे भविताध्वे । भविताहे भवितावहे भवितास्महे । श्वो हरि भवितासे ॥ ७२२ त्यादौ भविष्यति स्थप ४१ ॥ धातोर्भविष्यति काले स्यप् प्रत्ययो भवति तिबादिष्वष्टादशसु परेषु ॥ अस्य संज्ञा लट् ॥ भविष्यति भविष्यतः भविष्यन्ति । भविष्यसि भविन्यथः भविष्यथ । भविष्यामि भविष्यावः भविष्यामः । कल्किधर्मप्रवर्तको भविष्यति । भविष्यते भविष्यते भविष्यन्ते । भविष्यसे १ परस्मैपदेष्वात्मनेपदेषु चेति नेयम् । साय Page #135 -------------------------------------------------------------------------- ________________ सू० ७२३–७३९ ] भ्वादयः परस्मैपदिनः १ १२७ भविष्येथे भविष्यध्वे । भविष्ये भविष्यावहे भविष्यामहे । सावर्णी राज्यं भविष्यते ॥ ७२३ स्यप क्रियातिक्रमे ४२ ॥ धातोः क्रियाया अतिक्रमे कुतश्चिद्वैगुण्यादनिष्पत्तौ सत्यां दिवादिपरः स्याप् प्रत्ययो भवति भविष्येऽर्थे क्वचिद्भूतेऽपि ॥ अस्य संज्ञा लइ ॥ अडागमः । अभविष्यत् अभविष्यद् अभविष्यताम् अभविष्यन् । अभविष्यः अभविष्यतम् अभविष्यत । अभविष्यम् अभविष्याव अभविष्याम । यदि सुवृष्टिः सुराज्यं चाभविष्यत्तदा सुभिक्षमभवि - ष्यत् । अभविष्यत अभविष्येताम् अभविष्यन्त । अभविष्यथाः अभविष्येथाम् अभविष्यध्वम् । अभविष्ये अभविष्यावहि अभविप्यामहि । यद्यभविष्यत द्रव्यं भवांस्तदा रम्यमभविष्यत ॥ ७२४ भूते सिः ४३ ॥ धातोर्भूतमात्रे काले सिः प्रत्ययो भवति दिवादिपरः ॥ अस्य संज्ञा लुङ् ॥ इकारः सेरिति विशेषणार्थः । अभूस् त् इति स्थिते ॥ ७२५ दादेः पे ४४ ॥ परस्मैपदे परे अपत् दाधास्थेण भूपिबतिभ्यः परस्य सेलोंपो भवति ॥ ७२६ शाच्छासाघाटो वेति वक्तव्यम् ४५ ॥ ७२७ भुवः सिलोपो लुग्वाच्यः ४६ ॥ लुकि न तन्निमित्तम् (सू० १७९ ) तेन गुणेड्वृद्धयो न । अभूत् अभूताम् ॥ ७२८ भुवः सिलोपे खरे वुग्वक्तव्यः ४७ ॥ अभुवन् । अभूः अभूतम् अभूत । अभूवम् अभूव अभूम । अभूदृष्टिः । आत्मनेपदे । सिः इट् गुणावौ षत्वं ष्टुत्वं अटू । अभविष्ट अभाविषाताम् ॥ ७२९ आतोऽन्तोऽदनतः ४८ ॥ आत आत्मनेपदस्यान्त इत्येतस्याद्भवति अकारादुत्तरस्य तु न ॥ अभविषत । अभविष्ठाः अभविषाथाम् ॥ ७३० ध्वे च सेर्लोपः ४९ ॥ ध्वे परे सेर्लोपो भवति ॥ सस्य वा द इति केचित् । अभविध्वम्-अभविदम् । अभविषि अभविष्वहि । अभविष्महि । देवदत्तो राज्यम 1 Page #136 -------------------------------------------------------------------------- ________________ १२८ सारस्वतव्याकरणम् । [वृत्तिः२ भविष्ट ॥ ७३१ माङि लुङेव वक्तव्यः ५० ॥ सर्वलकारापवादः ॥ ७३२ मेटः ५१ ॥ माशब्दे प्रयुज्यमाने अटो लोपो भवति ॥ मा हर्यभक्तो भवान् भूत् ॥ ७३३ स्मयोगे भूतार्थता वक्तव्या ५२ ॥ ७३४ मासयोगे लङ् च ५३ ॥ मा स्म भवत् । मा स भूत् । चिती संज्ञाने । ईकार ईदित्कार्यार्थः । पूर्ववतिवादयः । अप् कर्तरि (सू० ६९१) ॥ ७३५ उपधाया लयोः ५४ ॥ धातोरुपधाया लघोर्नामिनो गुणो भवति ॥ चेतति चेततः चेतन्ति १॥ चेतेत् चेतेताम् चेतेयुः २ ॥ चेततु-चेततात् चेतताम् चेतन्तु ३ ॥ अचेतत् अचेतताम् अचेतन् ४॥ द्वित्वम् । चिचेत । कित्वाद्गुणाभावः । चिचिततुः चिचितुः। चिचेतिथ चिचितथुः चिचित । चिचेत चिचितिव चिचितिम ५॥ कित्वाद्गुणाभावः । चित्यात् चित्यास्ताम् चित्यासुः ६॥ चेतिता चेतितारौ चेतितारः ७ ॥ चेतिष्यति चेतिष्यतः चेतिष्यन्ति ८॥ अचेतिष्यत् अचेतिष्यताम् अचेतिष्यन् ९॥ चित् सित् इति स्थिते । सिसता (सू० ७२०) इतीट् ॥ ७३६ सेः ५५ ॥ सिशब्दात्परयोर्दिस्योरिडागमो भवति ॥ ७३७ इट ईटि ५६ ॥ इट उत्तरस सेलोपो भवति ईटि परे ॥ अचेतीत् अचेतिष्टाम् ॥ ७३८ साविदाः ५७ ॥ सेराकारान्ताद्विदश्चोत्तरस्यान उस् भवति ॥ अचेतिषुः । अचेतीः अचेतिष्टम् अचेतिष्ट । अचेतिषम् अचेतिष्व अचेतिष्म । च्युतिर आसेचने । इर् अनुबन्ध इरितो वेति विशेषणार्थः । उच्चारितप्रध्वंसो ह्यनुबन्धः । च्योतति । च्योतेत् । च्योततु । अच्योतत् । च्युत् णप् द्वित्वम् ॥ ७३९ पूर्वस्य हसादिः शेषः ५८ ॥ पूर्वस्यादिहसू शिष्यते अन्यो लुप्यते । चुच्योत चुच्युततुः चुच्युतुः । चुच्योतिथ चुच्युतथुः चुच्युत । चुच्योत चुच्यु Page #137 -------------------------------------------------------------------------- ________________ सू०७४०-७५०] भ्वादयः परस्मैपदिनः १ १२९ तिव चुच्युतिम । च्युत्यात् । च्योतिता । च्योतिष्यति । अच्योतिष्यत् । अच्योतीत् अच्योतिष्टाम् अच्योतिषुः । अच्योतीः अच्योतिष्टम् अच्योतिष्ट । अच्योतिषम् अच्योतिष्व अच्योतिष्म ।। ७४० इरितो वा ५९ ॥ इरितो धातोर्वा ङः प्रत्ययो भवति दिबादिपरः परस्मैपदे । सेरपवादः । उकारो गुणप्रतिषेधार्थः । अच्युतत् अच्युतताम् अच्युतन् । अच्युतः अच्युततम् अच्युतत । अच्युतम् अच्युताव अच्युताम । श्युतिर क्षरणे । श्योतति । श्योतेत् । श्योततु । अन्योतत् । द्वित्वम् ॥ ७४१ शसात् खपाः ६० ॥ द्विर्वचने कृते यत्पूर्वरूपं तस्य शसादुत्तराः खपाः शिष्यन्ते न शसाः ॥ इति चकारशेषः । चुश्श्योत चुश्च्युततुः चुश्च्युतुः । युत्यात् । श्योतिता श्योतिष्यति । अश्श्योतिष्यत् अश्चयुतत् अश्योतीत् । मन्थ विलोडने । मन्थति । मन्थेत् । मन्थतु अमन्थत् । ममन्थ ॥ ७४२ नो लोपः ६१॥ धातोरुपधाभूतस्य नकारस्य लोपो भवति किति ङिति च परे ॥ इत्युपधानकारलोपे प्राप्ते ॥ ७४३ ऋसंयोगात् णादेरकित्त्वं वाच्यम् ६२ ॥ तेन नलोपो न । ममन्थतुः ममन्युः । ममन्थिथ ममन्थथुः ममन्थ । ममन्थ ममन्थिव ममन्थिम ॥ ७४४ केचित्संयोगाद्वेति वक्तव्यम् ६३ ॥ ममथतुः ममथुः । नो लोपः ( सू० ७४२) मथ्यात् । मन्थिता । मन्थिष्यति । अमन्थिष्यत् । अमन्थीत् अमन्थिष्टाम् अमन्थिषुः । पुथि लुथि मथि कुथि हिंसासंक्लेशनयोः ॥ ७४५ इदितो नुम् ६४ ॥ इदितो धातोर्नुमागमो भवति ॥ कुन्थति कुन्थेत् कुन्थतु अकुन्थत् । द्वित्वम् ॥ ७४६ कुहोश्रुः ६५ ॥ पूर्वसंबन्धिनोः कवर्गहकारयोश्चुत्वं भवति वर्गचतुर्थो हस्य सवर्णः । चुकुन्थ चुकुन्थतुः चुकुन्थुः । चुकुन्थिथ चुकुन्थथुः चुकुन्थ । चुकुन्थ चुकु पो भवति देरकित्वं वाला ममन्थ Page #138 -------------------------------------------------------------------------- ________________ सारस्वतव्याकरणम् ।.. . [वृत्तिः २ थिव चुकुन्थिम । लघूपधत्वाभावान गुणः ॥ ७४७ इदितो नलोपाभावो वाच्यः ६६ ॥ कुन्थ्यात् । कुन्थिता । कुन्थिष्यति । अकुन्थिष्यत् । अकुन्थीत् अकुन्थिष्टाम् अकुन्थिषुः । पिधु गत्याम् । उकार उच्चारणार्थः ॥ ७४८ आदेः ष्णः स्वः ६७ ॥ षोपदेशस्य नोपदेशस्य च धातोरादौ वर्तमानयोः षकारणकारयोः सकारनकारौ भवतः ॥ सेक्सृप्सस्तृसृजस्तृस्त्यान्ये दन्त्याजन्तसादयः । एकाचः षोपदेशाः प्वकस्विद्खदखखपसिङः॥१॥ - सेकृ गतौ सूपू गतौ । सृ गतौ । स्तृ आच्छादने ।सृज् विसर्गे । स्तृ छादने । स्त्यै ष्टयै शब्दसंघातयोः । एभ्योऽन्ये दन्त्याजन्तसादयः एकाचः षोपदेशाः । दन्ते भवो दन्त्यः दन्त्यश्च अच्च दन्त्याचौ तौ अन्तौ यस्य स दन्त्याजन्तः स चासौ सश्च दन्त्याजन्तसः स आदिर्येषां ते दन्त्याजन्तसादयः । दन्त्यः केवलदन्त्यः न तु दन्तोष्ठजोऽपि वष्कादीनां पृथग्रहणात् । ष्वष्क गतौ । निविदा गात्रप्रक्षरणे । खद् आखादने । खञ् परिष्वङ्गे । जिष्वप् शये । स्मिङ् ईषद्धसने। एते षोपदेशाः । णोपदेशास्त्वननाटिनाथनानन्दनकनृनृतः ॥ नदं गतौ । नट नर्तने । नाथ् नाध् याच्लोपतापैश्व. र्याशीष्षु । टुनदि समृद्धौ । नक नाशने । न नये । नृती गात्रवि. क्षेपे । एभ्योऽन्ये णोपदेशाः॥ नकारजावनुखारपञ्चमौ झलि धातुषु । . सकारजः शकारश्च पादृवर्गस्तवर्गजः ॥३॥ - ७४९ नामधातुष्ट्यैवष्कष्ठिवां षः सो नेति वाच्यम् ६८॥ गुणः । सेधति । निपूर्वः ॥ ७५० प्रादेश्च तथा तौ सुनमाम् Page #139 -------------------------------------------------------------------------- ________________ सू०७५१-७६३] भ्वादयः परस्मैपदिनः १ १३१ ६९ ॥ प्रादेरुपसर्गात्परेषां खादीनां नमादीनां च धातूनां सकारनकारयोस्ती पूर्वभाविनावेव षकारणकारौ भवतः षत्वणत्वनिमित्ते सति ॥ निषेधति । सेधेत् । सेधतु । अड्व्यवधानेऽपि षत्वम् । न्यषेधत् । द्वित्वव्यवधानेऽपि षत्वम् । निषिषेध । सिषिधतुः । सिषिधुः । सिषेधिथ । सिध्यात् । सेधिता सेधिष्यति । असेधिष्यत् । असेधीत् असेधिष्टाम् असेधिषुः । षिधू शास्त्रे माङ्गल्ये च । ऊकार इडिकल्पार्थः । सेधति । सेधेत् । सेधतु । असेधत् । सिषेध सिध्यात् ॥ ७५१ ऊदितो वा ७० ॥ ऊदितो धातोः परस्य वसादेरिड्या भवति ॥७५२ स्वसूतिसूयतिधूम्रधादीनामिडा वक्तव्यः ७१ ॥ स्वृ शब्दे । षूङ् प्राणिगर्भविमोचने । धूङ् प्रसवे । धूञ् कम्पने । रधू हिंसायाम् । नर् अदर्शने । तृप् प्रीणने । तृप् हर्षविमोचनयोः । द्रुह जिघांसायाम् । मुह वैचित्ये । ष्णुह उद्गिरणे। निह प्रीतौ । एते रधादयः । सेधिता । पक्षे ॥ ७५३ तथोर्धः ७२ ॥ दधाति विना झभान्ताद्धातोः परयोस्तकारथकारयोर्धकारादेशो भवति ॥ झबे जबाः ( सू० ३५) सेद्धा । सेधिष्यति-सेत्स्यति । असेधिष्यत्-असेत्स्यत् । असेधीत् असेधिष्टाम् असेधिषुः । इडभावे ॥ ७५४ अनिटो नामिवतः ७३ ॥ नामिवतोऽनिटो धातोः परस्मैपदे परे सिप्रत्यये वृद्धिर्भवति ।। चपत्वम् । सेः (सू० ७३६) असैत्सीत् असैद्धाम्॥७५५प्रत्ययलोपे प्रत्ययलक्षणं कार्य भवति ७४ ॥७५६ झसात् ७५ ॥ झसादुत्तरस्य सेलोपो भवति झसे परे ॥ असैत्सुः । असैत्सीः असैद्धम् असैद्ध । असैत्सम् असैत्ख असैत्म । खद स्थैर्ये हिंसायां च । खदति । खदेत् । खदतु । अखदत् ॥ ७५७ अत उपधायाः ७६ ॥ धातोरुपधाया अकारस्य वृद्धिर्भवति निति णिति च परे ॥ त्वम् । Page #140 -------------------------------------------------------------------------- ________________ १३२ सारस्वतव्याकरणम् । [वृत्तिः २ चखाद चखदतुः चखदुः । चखदिथ चखदथुः चखद ॥ ७५८ गलुत्तमो वा णिद्वक्तव्यः ७७ ॥ चखाद-चखद चखदिव चखदिम । खद्यात् । खदिता । खदिष्यति । अखदिष्यत् ॥ ७५९ णित्पे ७८ ॥ परस्मैपदे परे सिणिद्भवति । अत उपधायाः (सू० ७५७ ) इति वृद्धिः । अखादीत् अखादिष्टाम् अखादिषुः ॥ ७६० हसादेर्लघ्वकारोपधस्य वा वृद्धिः सेटि सौ वाच्या ७९ ॥ अखदीत् । गद् व्यक्तायां वाचि । गदति ॥ ७६१ उपसर्गस्थानिमित्तानेर्गदादौ णत्वं वाच्यम् ८० ॥ 'गद् नद् पत् पदू स्था अपित् दा धा मा सो हन् या वा द्रा प्सा वा वह चि शम् दिह् एते गदादयः । गद् व्यक्तायां वाचि । नद् अव्यक्ते शब्दे । पत्ल पतने । पद् गतौ । ष्ठा गतिनिवृत्तौ । डुदाञ् दाने । डुधाञ् धारगपोषणयोः । माङ् माने । षोऽन्तकर्मणि । हन् हिंसागत्योः। या मापणे । वा गतिगन्धनयोः । द्रा कुत्सायां गतौ च । प्सा भक्षणे। टुवम् बीजतन्तुसन्ताने । वह प्रापणे । चिञ् चयने । शम् उपशमे । दिह उपचये । प्रणिगदति । गदेत् । गदतु । अगदत् । कुहोश्चः (सू० ७४६) जगाद जगदतुः जगदुः । जगदिथ जगदथुः जमद । गद्यात् गदिता । गदिष्यति । अगदिष्यत् । अगादीत्-अगदीत् । रद विलखने । रदति । रदेत् । रदतु । अरदत् रराद ।। ७६२ लोपः पचा कित्ये चास्य ८१ ॥ पचादीनामनादेशादीनां किति णादौ सति पूर्वस्य लोपः । असंयुक्तहसयोर्मध्यस्थस्याकारस्यैकारः ॥ रेदतुः रेदुः ॥ ७६३ सेटि थपि एत्पूर्वलोपौ वक्तव्यौ ८२ ॥ रेदिथ रेदथुः रेद । रराद-ररद रेदिव रेदिम । रद्यात् । रदिता । रदिष्यति । अरदिष्यत् । अरादीत् अरादिष्टाम् अरादिषुः । अरदीत् । णद् अव्यक्ते शब्दे । आदेः ष्णः सः (सू० ७४८) Page #141 -------------------------------------------------------------------------- ________________ सू० ७६४-७७३] भ्वादयः परस्मैपदिनः १ १३३ 1 नदति । नदेत् । नदतु । अनदत् । प्रपूर्वः । प्रादेश्व ( सू० ७५० ) इति णत्वम् । प्रणदति । गदादित्वात् प्रणिनदति । ननाद नेदतुः नेदुः । नेदिथ नेदधुः नेद । ननाद-ननद नेदिव नेदिम । नद्यात् । नदिता । नदिष्यति । अनदिष्यत् । अनादीत् अनादिष्टाम् अनादिषुः । अनदीत् अनदिष्टाम् । अर्द गतौ याचने च । अर्दति अर्देत् । अर्दतु। आर्दत् । द्वित्वे कृते । आवोर्णादौ ( सू० ७१२ ) आ अर्द इति स्थिते || ७६४ नुगशाम् ८३ ॥ अश्वोर्ककारादिधातूनां संयोगान्ताकारादिधातूनां च पूर्वस्य नुगागमो भवति णादौ सति || आनर्द आनर्दतुः आनर्दुः । आनर्दिथ आनर्दधुः आनर्द | आनर्द आनर्दिव आनर्दिम । अर्थात् । अर्दिता । अर्दिष्यति । आर्दिष्यत् । आर्दीत् आर्दिष्टाम् आर्दिषुः । इदि परमैश्वर्ये । इन्दति । इन्देत् । इन्दतु ।। ७६५ स्वरादेः ८४ ॥ स्वरादेर्धातोर्द्वितीयोऽडागमो भवति दिबादौ परे ॥ अ इ ए (सू०४३) ए ऐ ऐ (सू० ४४ ) ऐन्दत् । इन्द् प् इति स्थिते ॥ ७६६ कासादिप्रत्ययादाम्कृअस्भूपरः ८५ || कास्आसूदय् अय्नाम्यादिगुरुमद्धात्वनेकखरधातुभ्यः प्रत्ययान्ताच्च णबादौ परे आम् प्रत्ययो भवति कृ-अस्-भूपरः प्रयोक्तव्यः ॥ कास्ट दीप्तौ । आस् उपवेशने । दयू दानगतिहिंसादानेषु । अय् गतौ । एते कासादयः ॥ ७६७ विद्दरिद्राकास्काशजागृउष एभ्यो वाम् ८६ ॥ विद् ज्ञाने । दरिद्रा दुर्गतौ । काश विकचने । जागृ निद्राक्षये । उष दाहे । एते विदादयः । इन्दां कृ-ण प् इति स्थिते । कृ इत्येतस्य द्वित्वम् ॥ ७६८ रः ८७ ॥ पूर्वसंबन्धिन ऋकारस्याकारो भवति ॥ चुत्वम् ॥ ७६९ धातोर्नामिनः ८८ ॥ धातोरन्त्यभूतस्य नामिनो वृद्धिर्भवति ञिति णिति च परे । इन्दांचकार इन्दांचक्रतुः इन्दां चक्रुः । क्रादि 1 Page #142 -------------------------------------------------------------------------- ________________ १३४ . सारस्वतव्याकरणम् । [वृत्तिः २ खान्नेट् । इन्दांचकर्थ इन्दांचक्रथुः इन्दांचक्र । इन्दांचकार-इन्दांचकर इन्दांचकृव । इन्दांचकृम । इन्दामास इन्दामासतुः इन्दामासुः । इन्दामासिथ । इन्दांबभूव । इन्धात् । इन्दिता । इन्दिष्यति । खरादेः (सू० ७६५) ऐन्दिष्यत् । ऐन्दीत् ऐन्दिष्टाम् ऐन्दिषुः । ऐन्दीः ऐन्दिष्टम् ऐन्दिष्ट । ऐन्दिषम् ऐन्दिष्व ऐन्दिष्म । णिदि कुत्सायाम् । निन्दति ॥ ७७० निसूनिक्षनिन्दामुपसर्गाण्णत्वं वा वाच्यम् ८९ ॥ प्रणिन्दति प्रनिन्दति । निन्देत् । निन्दतु। अनिग्दत् । निनिन्द । निन्द्यात् । निन्दिष्यति । अनिन्दिष्यत् । अनिदीत् । निक्ष चुम्बने । प्रणिक्षति । निक्षेत् निक्षतु । अनिक्षत् । निनिक्ष । निक्ष्यात् । निक्षिता । निक्षिष्यति । अनिक्षिष्यत् । अनिक्षीत् । उख गतौ। ओखति ओखेत् ओखतु । औखत् । द्वित्वे उपधागुणे च कृते ॥ ७७१ असवर्णे खरे पूर्वकारोकारयोरियुवौ वक्तव्यौ ९० ॥ उवोख । सवर्णे दीर्घः (सू० ५२) ऊखतुः ऊखुः । उवोखिथ । उख्यात् । ओखिता। ओखिष्यति । औखिष्यत् । औखीत् । अञ्च गतिपूजनयोः । अञ्चति । नुगशाम् (सू० ७६४) आनञ्च आनञ्चतुः आनञ्चुः ॥ ७७२ पूजायामश्चेनेलोपाभावो वाच्यः ९१ ॥ अञ्च्यात् । गतौ तु अच्यात् । अञ्चिता । अञ्चिष्यति । आश्चिष्यत् । आश्चीत् । आच्छि आयामे। आञ्छति । आनाञ्छ । आञ्छतेर्नुग्वेति केचित् । आन्छ । आछात् । आञ्छिता । आन्छिष्यति । आञ्छिष्यत् । आञ्छीत् । हुर्छा कौटिल्ये । बोर्विहसे (सू० ३१६) इति दीर्घः । इर्छति । कुहोश्थुः (सू०७५६) वर्गचतुर्थो हस्य सवर्णः । झपानां जबचपाः '(सू० ७१४) जुहूर्छ । अहूर्चीत् । वज गतौ । वजति । वजेत् । विजतु । अवजत् ॥ ७७३ - शमददवादिगुणभूताफाराणां नैत्व Page #143 -------------------------------------------------------------------------- ________________ सू०७७४] भ्वादयः परस्मैपदिनः १ १३५ प्रर्वलोपौ वक्तव्यौ ९२ ॥ शसु हिंसायाम् । दद दाने । शशास शशसतुः । ददाद दददतुः । ववाज ववजतुः ववजुः । ववजिथ । अवाजीत् अवजीत् । व्रज गतौ । व्रजति । व्रजेत् । व्रजतु । अत्र. जत् । वव्राज वव्रजतुः वव्रजुः । व्रज्यात् । व्रजिता । ब्रजिष्यति । अब्रजिष्यत् ॥ ७७४ वन्दिवज्योः सौ नित्यं वृद्धिः ९३ ॥ अवाजीत् । अज गतौ क्षेपणे च । अजति । अजेत् । अजतु । आजत् ॥ ७७५ अजेरार्धधातुके वी वक्तव्यः वसादौ वा ९४ ॥ एतच्च विभक्तिचतुष्टयं सार्वधातुकं परमार्धधातुकसंज्ञं पाणिनीयानाम् । द्वित्वम् वृद्धिः । विवाय ॥ ७७६ नुधातोः ९५ ॥ विकरणस्य नोर्धातोश्चैव!वर्णयोरियुवौ भवतः खरे परे ॥ अनेकखरस्यासंयोगपूर्वस्य तु य्वौ ॥ विव्यतुः विव्युः ॥ ७७७ स्वरान्तानित्यानिटस्थपो वेट ९६ ॥ विवयिथ-विवेथ आजिथ विव्यथुः विव्य । विवाय-विवय विव्यिव-आजिव विव्यिम-आजिम । वीयात् ॥ ७७८ नैकखरादनुदात्तात् ९७ ॥ एकखराद्धातोर्धातुपाठेऽनुदात्त इत्येवं पठितादिडागमो न भवति ॥ ॥ अथानिट्कारिकाः ॥ . अनिट्स्वरान्तो भवतीति दृश्यतामिमांस्तु सेटः प्रवदन्ति तद्विदः । अदन्तमृदन्तमृतां च वृबृजौ विडीङिवणेवथ शीश्रियावपि ॥ ४॥ गणस्थमृदन्तमुतां च रुस्नुवौ क्षुवं तथोर्णोतिमथो युणुक्ष्णुवः । इति स्वरान्ता निपुणैः समुच्चितास्ततो हसान्तानपि सन्निबोधत ॥५॥ शकिस्तु कान्तेष्वनिडेक इष्यते घसिश्च सान्तेषु वसिः प्रसारणी । रभिश्च भान्तेष्वथ मैथुने यभिस्ततस्तृतीयो Page #144 -------------------------------------------------------------------------- ________________ १३६ सारस्वतव्याकरणम् । [वृत्तिः २ लभिरेव नेतरे ॥६॥ यमिर्यमान्तेष्वनिडेक इष्यते रपिर्दिवादावपि पठ्यते मनिः । नमिश्चतुर्थो हनिरेव पञ्चमो गमिस्तु षष्ठः प्रतिषेधवाचिनाम् ॥ ७॥ दिहिहिर्मेहतिरोहती वहिनहिस्तु षष्ठो दहतिस्तथा लिहिः । इमेनिटोऽष्टाविह मुक्तसंशया गणेषु हान्ताः प्रविभज्य कीर्तिताः ॥ ८॥ दिशिं दृशिं दंशिमथो मृशिं स्पृशिं रिशिं रुशिं क्रोशतिमष्टमं विशिम् । लिशिं च शान्ताननिटः पुरागाः पठन्ति पाठेषु दशैव नेतरान् ॥ ९॥ रुधिः सराधियुधिबन्धिसाधयः क्रुधिः क्षुधिः शुध्यतिबुध्यती व्यधिः । इमे तु धान्ता दश चानिटो मतास्ततः परं सिध्यतिरेव नेतरे ॥१०॥ शिषि पिषि शुष्यतिपुष्यती त्विर्षि श्लिषि विषिं तुष्यतिदुष्यती द्विषिम् । इमान्दशैवोपदिशन्त्यनिड्विधौ गणेषु पातान्कृषिकर्षती तथा ॥ ११॥ तपिं तिपिं चापिमथो वपि खपि लुपि लिपि तृप्यतिदृप्यती सृपिम् । स्वरेण नीचेन शपिं छुपिं क्षिपिं प्रतीहि पान्तान् पठितांस्त्रयोदश ॥ १२ ॥ अदि हदि स्कन्दिभिदिच्छिदिक्षुदीन् शदि सदि विद्यतिपद्यतिखिदीन् । तुर्दि नुदि विद्यति विन्द इत्यपि प्रतीहि दान्तान् दश पश्च चानिटः ॥ १३॥ पचिं वचिं विचिरिचिरञ्जिपृच्छतीनिजि सिचिं मुचिभजिभञ्जिभृञ्जतीन् । त्यजिं यजि युजिरुजिसञ्जिमञ्जतीन् भुजि खजिं सृजिमृजी विद्ध्यनिटखरान् ॥१४॥ इत्यनिट्कारिकाः॥ Page #145 -------------------------------------------------------------------------- ________________ सू० ७७९-७९२] भ्वादयः परस्मैपदिनः १ १३७ I वेता- अजिता । वेष्यति - अजिष्यति । आजिष्यत् अवेष्यत् । आजीत् ! धातोर्नामिनः ( सू० ७६९ ) से ( सू० ७३६ ) अवैषीत् । ष्टुत्वम् । अवैष्टाम् अवैषुः । क्षि क्षये । क्षयति । क्षयेत् । क्षयतु | अक्षयत् । चिक्षाय । नुधातोः ( सू० ७७६ ) चिक्षियतुः ॥ ७७९ ये ९८ ॥ अनपि ॥ अनपि यकारे पूर्वस्य दीर्घो भवति ॥ क्षीयात् क्षेता क्षेष्यति अक्षेष्यात् । धातोर्नामिनः ( सू० ७६९ ) अक्षैषीत् अक्षैष्टाम् अक्षैषुः । कटे वर्षावरणयोः । कटति । कटेत् । कटतु । अकटत् । चकाट || ७८० हयन्तक्षणश्वसिजागृहसादिवर्ज सेटि सौ न वृद्धिः ९९ ।। हसादय एकारेतः । अकटीत् अकटिष्टाम् अकटिषुः । गुपू रक्षणे ॥ ७८१ आयः १०० ॥ गुपू - धूण्विच्छिपणिपनिभ्यः खार्थे आयः प्रत्ययो भवति । वा || उपधाया गुणः ॥ ७८२ स धातुः १०१ ॥ स यङादिप्रत्ययान्तः शब्दो धातुसंज्ञो भवति ॥ धातुत्वात्तबादयः । गोपायति । गोपायेत् । गोपायतु । अगोपयत् । कासादिप्रत्ययादाम् (सू०७६६ ) गोपायांचकार । गोपायामास । गोपायांबभूव । जुगोप ॥ ७८३ यतः १०२ ॥ यकारस्याकारस्य च लोपो भवत्यनपि ॥ गोपाय्यात्गुप्यात् । गोपायिता - गोपिता । ऊदितो वा ( सू० ७५१ ) गोप्ता । गोपायिष्यति-गोपिष्यति-गोप्स्यति । अगोपायिष्यत् - अगोपिष्यत्-अगोप्स्यत् । अगोपायीत्- अगोपीत् । अनिटो नामिवतः ( सू० ७५४ ) अगौप्सीत् । झसात् (सू० ७५६ ) अगौप्ताम् । एवं धूप् सन्तापे । धूपायति । धूपायांचकार । धूपायामास । धूपायांबभूव । दुधूप । दीर्घोपधत्वान्न गुणः । तप सन्तापे । तपति । तपेत् । तपतु । अतपत् । तताप तेपतुः तेपुः । तेपिथ || ७८४ अत्वतो नित्यानिटस्थपो वेट् १०३ ॥ ततप्थ । तप्यात् । तप्ता । तप्स्यति । 1 Page #146 -------------------------------------------------------------------------- ________________ १३८ सारस्वतव्याकरणम्। [वृत्तिः २ अतप्स्यत् । अताप्सीत् । क्रमु पादविक्षेपे ॥ ७८५ क्रमभ्रमुत्रसिश्रुटिलश्भ्राशमलाशो वा यः प्रत्ययो वक्तव्यः १०४ ॥ चतुषु । क्राम्यति ॥ ७८६ क्रमः पे चतुषु दीर्घता वक्तव्या १०५॥ कामति । काम्येत् कामेत् क्राम्यतु कामतु । अक्राम्यत् अक्रामन् । चक्राम । क्रम्यात् । क्रमिता । क्रमिष्यति । अक्रमिष्यत् । अक्रमीत् । यम उपरमे ॥ ७८७ गमां छः १०६ ॥ गम्यम्इषूणां छो भवत्यपि ॥ यच्छति । यच्छेत् । यच्छतु । अयच्छत् । ययाम येमतुः येमुः। येमिथ-ययन्थ । यम्यात् । यन्ता । यस्यति । अयंस्यत् ॥ ७८८ आदन्तानां यमिरमिनमीनां सेरिट सक् च पे वक्तव्यौ १०७ ॥ अयंसीत् अयंसिष्टाम् अयंसिषुः। णमु प्रहत्वे शब्दे च। नमति । नमेत् । नमतु । अनमत् । ननाम नेमतुः नेमुः । नेमिथननन्थ । नम्यात् । नन्ता । नस्यति । अनंस्यत् । अनंसीत् अनंसिष्टाम् अनंसिषुः । गम्ल गतौ । लकारो लित्कार्यार्थः । गच्छति । गच्छेत् । गच्छतु । अगच्छत् । जगाम ॥ ७८९ गमां खरे १०८॥ गम् हन् जन् खन् घस् एतेषामुपधाया लोपो भवति कृित्यङे खरे ॥ जग्मतुः जग्मुः । जगमिथ जगन्थ । गम्यात् । गन्ता ॥ ७९० हनृतः स्यपः १०९ ॥ हन्तेर्ऋकारान्तात्स्यप इडागमो भवति गमेश्व पे ॥ गमिष्यत् । अगमिष्यत् ॥ ७९१ लित्पुषादेः ११० ॥ लितो धातोः पुषादेवुतादेश्च ङप्रत्ययो भवति दिवादौ परस्मैपदे । सेरपवादः ॥ अङे इत्युक्तेनोंपधालोपः ॥ अगमत् अगमताम् अगमन् । इषु इच्छायाम् । इच्छति । इच्छेत् । इच्छतु । ऐच्छत् । इयेष ईषतुः ईषुः । इयेषिथ । इष्यात् ॥ ७९२ इषुसहलुभरिषरुषामनपि तस्येड्या वक्तव्यः १११ ॥ एपिता-एष्टा । एषिष्यति । ऐषिष्यत् । ऐषीत् ऐषिष्टाम् ऐषिषुः ॥ त्रिफला विशरणे । फलति। Page #147 -------------------------------------------------------------------------- ________________ सू०७९३-८०५] भ्वादयः परस्मैपदिनः १ फलेत् । फलतु । अफलत् । पफाल ॥ आदेशादित्वेनैत्वपूर्वलोपनिषेधे प्राप्ते ॥ ७९३ तृफलभजत्रपां किति णादौ सेटि थपि चैत्वपूर्वलोपौ वक्तव्यौ ११२ ॥ फेलतुः फेलुः । फेलिथ । फल्यात् । फलिता । फलिष्यति । अफलिप्यत् । लघ्वकारोपधत्वेन वृद्धिविकरूपे प्राप्ते ॥ ७९४ लान्तस्याकारस्य सौ नित्यं वृद्धिर्वाच्या ११३ ॥ अफालीत् । जि जये । जयति । जयेत् । जयतु । अज. यत् ॥ ७९५ सपरोक्षयोर्जेर्गिः ११४ ॥ सप्रत्यये परोक्षे च जि. जय इति धातोगिरादेशो भवति ॥ जिगाय जिग्यतुः । जिग्युः । जिगयिथ-जिगेथ । जीयात् । जेता । जेष्यति । अजेष्यत् । अजैपीत् अजैष्टाम् अजैषुः । कृष् विलेखने । कर्षति । कपेत् । कर्षतु । अकर्षत् । चकर्ष । उपाधाया लघोः (सू० ७३५) चकृषतुः चकृषुः । चकर्षिथ । कृष्यात् । गुणे कृते ॥ ७९६ रारो झसे दृशाम् ११५॥ दृश्सृज्कृष्मृश्तृप्हप्स॒पां झसे परे अरो रो भवति ।। रार इति तन्त्रोपात्तम् । तेन रा आरः र अरः। सकृदुच्चरितमनेकोपकारकं तन्त्रम् । ष्टुत्वम् । क्रष्टा ॥ ७९७ कृषादीनां रो वा वक्तव्यः ११६ ॥ कष्टी । रारो झसे दृशाम् (सू० ७९६) ।।. ७९८ षढोः कः से ११७ ॥ धातोः षकारढकारयोः कत्वं भवति सकारे परे ॥ किलात्षः सः कृतस्य (सू० १४१ ) कषसंयोगे क्षः (सू० २४२) क्रक्ष्यति-कक्ष्यति । अक्रक्ष्यत्-अकक्ष्यत्-अक्राक्षीत्। अनिटो नामिवतः ( सू० ७५४ ) अकार्की ॥ ७९९ कृपादीनां वा सिर्वक्तव्यः ११८ ॥ 'कृष् स्पश् मृष् तृप् दृप्' एते कृषादयः तत्पक्षे ॥ ८०० हशषान्तात्सक ११९ ॥ हकारान्तात् शकारान्तात् षकारान्ताच नाम्युपधादविद्यमानेटो दिवादौ परे सक्प्रत्ययो भवति दृशं वर्जयित्वा ॥ सेरपवादः ॥.अकृक्षत्- अकृक्षताम् अकृ. Page #148 -------------------------------------------------------------------------- ________________ १४० सारस्वतव्याकरणम् । [वृत्तिः २ 1 क्षन् । रुष् हिंसायाम् । उपधाया लघोः ( सू० ७३५ ) रोषति । रोषेत् । रोषतु । अरोषत् । रुरोष रुरुषतुः रुरुषुः । रुरोषिथ । रुष्यात् रोषिता रोष्टा । रोषिष्यति । अरोषिष्यत् । अरोषीत् । उष् दाहे । ओषति । ओषेत् । ओषतु । औषत् ॥ ८०१ उपविजागृणामाम्वा वक्तव्यः १२० ॥ उषांचकार- उवोष उवोषिथ । उष्यात् । उषिता । • उषिष्यति औषिष्यत् । औषीत् । मिह सेचने । मेहति । मेहेत् । 1 तु | अमेत् । मिमेह मिमिह्तुः मिमिहुः । मिमेहिथ । मियात् । हो ढः (सू० २४३ ॥ ) तथोर्धः (सू०७५३) टुत्वम् ॥ ८०२ ढि ढोलो लोपो दीर्घव १२१ ॥ ढकारस्य ढकारे परे लोपो भवति पूर्वस्य च दीर्घः ॥ मेढा । मेक्ष्यति । अमेक्ष्यत् । हशषान्तात्सक् ( सू० ८०० ) हो ढः ( सू० २४३ ) षढोः कः से ( सू० ७९८) । अमिक्षत् अमिक्षताम् अमिक्षन् । दह भस्मीकरणे | दहति । दहेत् । दहतु । अदहत् । ददाह देहतुः देहुः । देहिथददग्ध । दह्यात् । दग्धा । दादेर्घः ( सू० २३८ ) आदिजवानां झान्तस्य झभाः स्ध्वोः ( सू० २३९ ) । खसे चपाः ( सू० ८९ ) क्विलात्षः सः कृतस्य ( सू० १४१ ) । कषसंयोगे क्षः ( सू०२४२ ) धक्ष्यति । अध्यक्ष्यत् । अधाक्षीत् । झसात् (सू० ७५६ ) अदाग्धाम् अधाक्षुः । ग्लैग्लै हर्षक्षये । आयादेशः । ग्लायति । ग्लायेत् । ग्लायतु । अग्लायत् ॥ ८०३ सन्ध्यक्षराणामा १२२ ॥ सन्ध्यक्षराणां धातूनामात्वं भवति अनपि विषये ॥ णप् । द्विश्व ( सू० ७१०) हखः ( सू० ७१३ ) । पूर्वस्य हसादिः शेषः ( सू० ७३९ ) । कुहोश्धुः ( सू० ७४६ ) ॥ ८०४ आतो णपू डौ १२३ ॥ आकारान्ताद्धातोः परो णपू डौ भवति ॥ टिलोपः । जग्लौ ॥ ८०५ आतोऽनपि १२४ ॥ धातोराकारस्य लोपो भवति Page #149 -------------------------------------------------------------------------- ________________ सू० ८०६ - ८१४] भ्वादयः परस्मैपदिनः १ १४१ अनपि किति ङिति खरे सेटि थपि च || जग्लतुः जग्लुः । जग्लिथजग्लाथ जग्लथुः जग्ल । जग्लौ जग्लिव जग्लिम ॥ ८०६ संयोगादेरादन्तस्य किति यादादावेकारो वा वक्तव्यः १२५ ॥ ग्लायात् ग्लेयात् । ग्लाता । ग्लास्यति । अग्लास्यत् । अग्लासीत् अग्लासिष्टाम् अग्लासिषुः । गैरे कै शब्दे । गायति । गायेत् । गायतु । अगायत् । जगौ जगतुः जगुः || ८०७ दादेरे १२६ ॥ अपित्दाधामागैहापिबसोस्थानामाकारस्यैकारो भवति आशीर्वादादौ परस्मैपदे परे ॥ गेयात् । गाता । गास्यति । अगास्यत् अगासीत् अगासिष्टाम् अगासिषुः । ष्यै शब्दसंघातयोः । सत्वनिषेधः । यायति । ट्यायेत् । ट्यायतु । अष्ट्यात् । सन्ध्यक्षराणामा ( सू० ८०३ ) शसात्खपा : ( सू० ७४१) 'षाट्टवर्गस्तवर्गज:' इति षकारे गते तकार एव । तष्ट्यौ । ष्ट्यायात् ष्यात् । ष्ट्याता । ष्टयास्यति । अष्ट्यास्यत् । अष्ट्यासीत् । दैप् शोधने । दायति । दायेत् । दायतु | अदायत् । ददौ । पित्त्वादेकाराभावः । दायात् । दाता । दास्यति । अदास्यत । अदासीत् अदासिष्टाम् अदासिषुः । पित्त्वा - त्सिलोपाभावः इत्यादि । धेट् पाने । ट ईबर्थः । धयति । धयेत् । घयतु । अधयत् । दधौ । धेयात् । धाता । धास्यति । अधास्यत् । वा सिलोपः । अधासीत् अधासिष्टाम् अधासिषुः । अधात् अधाताम् । स्याविदः ( सू० ७३८ ) ॥ ८०८ उस्थालोपः १२७ ॥ उसि परे धातोराकारस्य लोपो भवति ॥ अधुः । धेटः सेरङ् । घातोर्द्वित्वं वेति केचित् ॥ ८०९ आतोऽनपि १२८ ॥ धातोराकारस्य लोपो भवति अनपि किति ङिति खरे सेटि थपि च ॥ अदधत् अदधताम् अदधन् । दृशिर् प्रेक्षणे ॥ ८१० दृशादेः पश्यादिः १२९ ॥ दृशादेर्धातोः पश्यादिरादेशो भवति चतुर्षु Page #150 -------------------------------------------------------------------------- ________________ १४२ सारस्वतव्याकरणम् । [वृत्तिः २ 1 परेषु ॥ 'दृश् ऋ भृ शद सद पात्रा मा स्थाना दाण' एते दृशादयः । ' पश्य ऋच्छ धौ शीय सीद पिब जिघ्र धम तिष्ठ मन यच्छ' एते पश्यादयः । पश्यति । पश्येत् । पश्यतु । अपश्यत् । ददर्श ददृशतुः ददृशुः । सृजिदृशोस्थपो वेटू । ददर्शिथ । गुणः ( सू०६९२ ) रारो झसे दृशाम् (सू०७९६ ) षत्वम् । ष्टुत्वम् । दष्ट दशथुः ददृश । ददर्श ददृशिव ददृशिम दृश्यात् । द्रष्टा । दृक्ष्यति । अद्रक्ष्यत् । अत उपधायाः ( सू०७५७ ) अद्राक्षीत् । झसात् (सू०७५६ ) टुत्वम् । अद्राष्टाम् अद्राक्षुः । पक्षे । इरितो वा ( सू० ७४० ) दृशादेर्डे गुणः | अदर्शत् अदर्शताम् अदर्शन् । रु गतौ । ऋच्छादेशः । ऋच्छति ऋच्छेत् । ऋच्छतु । आच्छेत् । रः (सू०७६८) पश्चात् । ऋ अ ( सू०५६ ) वृद्धिः । आर आरतुः आरुः ॥ ८११ अत्यर्तिव्ययतीनां थपो नित्यमिद् १३० || आरिथ आरथुः आर । आर आरिव आरिम ॥ ८१२ गुणोर्तिसंयोगाद्योः १३१ ॥ अर्तेः संयोगादेरृदन्तस्य च गुणो भवति यकि यङि किति णादावाशीर्यादादौ च ॥ अर्यात् । अर्ता । हनृतः स्यपः (सू० ७९० ) अरिष्यति । आरिष्यत् ॥ ८१३ सर्तिशास्त्यर्तिभ्यो ङो लुङि १३२ ॥ सेरपवादः । लित्पुषादेर्ड: ( सू० ७९१ ) आरत् आरताम् आरन् । अर्तेर्वा ङः । सेरपवादो लुङिति केचित् । आर्षीत् । सृ गतौ । धावादेशः । धावति । शीघ्रगतावेव धावादेशः । सरति । ससार सस्रतुः । संस्रुः । क्रादित्वात् ससर्थ संस्रथुः सस्र । ससार- ससर ससृव ससृम ॥ ८१४ यादादौ १३३ ॥ ऋकारस्य रिङादेशो भवति यादादौ परस्मैपदे परे ॥ ङकारो व्यवधानार्थः । तेन ये ( सू०७७९ ) इति न दीर्घः । त्रियात् । सर्ता । सरिष्यति । असरिष्यत् । पुषादित्वात् 1 Page #151 -------------------------------------------------------------------------- ________________ सू०८१५-८२३] भ्वादयः परस्मैपदिनः १ १४३ ङः । असरत् असरताम् असरन् । शद्ल शातने ॥ ८१५ शीयादेशे आत्मनेपदं वाच्यम् १३४ ॥ शीयते । शीयेत् । शीयताम् । अशीयत । शशाद । लोपः पचाम् (सू० ७६२) शेदतुः शेदुः। शेदिथ-शशत्थ । शद्यात् । शत्ता । शत्स्यति । अशत्स्यत् । लदित्त्वात् ङः । अशदत् । षदूल विशरणगत्यवसादनेषु । सत्वम् । सीदादेशः । सीदति । ससाद सेदतुः सेदुः । सेदिथ-ससत्थ । सद्यात् । सत्ता । सत्स्यति । असत्स्यत् । असदत् । निपूर्वः । न्यषदत् । पा पाने। पिबादेशः । पिबति । पिबेत् । पिबतु । अपिबत् । पपौ पपतुः पपुः । पपिथ-पपाथ । दादेरे (सू० ८०७) पेयात् । पाता । पास्यति । अपास्यत् । दादेः पे (सू० ७२५) अपात् । घ्रा गन्धोपादाने । जिघ्रादेशः । जिघ्रति । जिप्रेत् । जिघ्रतु । अजिप्रत् । जघौ जघ्रतुः जघुः । जघ्रिथ-जघ्राथ । प्रायात्-घेयात् । घाता। प्रास्यति । अघ्रास्यत् । अघ्रासीत् । अघ्रात् । ध्मा शब्दामिसंयोगयोः । धमादेशः । धमति । धमेत् । धमतु । अधमत् । दध्मौ । ध्मायात्-ध्मेयात् । ध्माता । ध्मास्यति । अध्मास्यत् । अध्मासीत् । ष्ठा गतिनिवृत्तौ । आदेः प्णः स्वः (सू० ७४८) सकारे जाते निमित्ताभावेन ठस्य थः । तिष्ठादेशः । तिष्ठति । तिष्ठेत् । तिष्ठतु । अतिष्ठत् । शसात्खपाः (सू० ७४१) तस्थौ तस्थतुः तस्थुः । स्थेयात्-स्थायात् । स्थाता । स्थास्यति । अस्थास्यत्। निपूर्वः । षत्वम् । न्यष्ठात् । म्ना अभ्यासे । मनादेशः । मनति । मनेत् । मनतु । अमनत् । मन्नौ मन्नतुः मनुः । मन्निथ-मनाथ । म्नायात् नेयात् । नाता नास्यति अम्नस्यात् । अम्नासीत् । दाण दाने । यच्छादेशः । यच्छति । यच्छेत् । यच्छतु । अयच्छत् । ददौ ददतुः ददुः । दादेरे (सू० ८०७) देयात् । दाता। Page #152 -------------------------------------------------------------------------- ________________ १४४ सारस्वतव्याकरणम् । [वृत्तिः २ दास्यति अदास्यत् अदात् । हृ कौटिल्ये । हरति । हरेत् । हरतु । अह्वरत् । जहार । गुणोतिसंयोगायोः (सू० ८१२) जहरतुः जह्वरुः ॥ ८१६ ऋदन्तस्य थपो नेद् १३५ ॥ जह्वर्थ जहरथुः जहर । जहार-जह्वर जहरिव जहरिम । हर्यात् हर्ता । हनृतः स्यपः (सू० ७९०) हरिष्यति । अहरिष्यत् वृद्धिः। अहार्षीत् अहाष्टीम् । स्कन्दिर् गतिशोषणयोः । स्कन्दति । स्कन्देत् । स्कन्दतु । अस्कन्दत् । चस्कन्द चस्कन्दतुः चस्कन्दुः । चस्कन्दिथ ॥ ८१७ हसात्परस्य झसस्य सवर्णे झसे लोपो वाच्यः १३६ ॥ चस्कन्थ । नो लोपः (सू० ७४२) स्कद्यात् । स्कन्ता । स्कन्त्स्यति । अस्कत्स्यत् ।। ८१८ सावनिटो नित्यं वृद्धिः १३७ ॥ णित्वविधानसामदिनुपधाभूतस्याप्यतो वृद्धिः । अस्कान्त्सीत् । इरितो वा (सू० ७४०) अस्कदत् । तृ प्लवनतरणयोः। तरति । तरेत् । तरतु । अतरत् । कित्वाभावाद्गुणः ॥ ८१९ संऋयोगादेोदेर कित्वं वाच्यम् १३८ ॥ तृफलभजत्रपाम् (सू० ७९३) इत्येत्वपूर्वलोपौ । ततार तेरतुः तेरुः । तेरिथ ॥ ८२० ऋत इर् १३९ ॥ ऋकारस्य इर् भवति किति ङिति च परे ॥ बोर्विहसे (सू० ३१६) तीयोत् ॥ ८२१ ईटो ग्रहाम् १४० ॥ ग्रहादीनोमिंट ईकारो भवति ॥ तरीता-तरिता । तरीष्यति-तरिष्यति । अतरीष्यत्-अतरिष्यत् । अतारीत् अतारिष्टाम् अतारिषुः ॥ ८२२ वृद्धिहेतौ साविटो न दीर्घो वाच्यः १४१ ॥ रञ्ज रागे । उभयपदी ॥ ८२३ अपि रञ्जदंशषञ्जष्वञ्जाम् १४२ ॥ एषामनुखा. रस्य लोपो भवत्यपि परे ॥ रजति रजते । रजेत् रजेत । रजतु रजताम् । अरजत् अरजत । ररज ररजतुः ररञ्जः । ररञ्जिथ-ररइथ ररञ्जथुः ररज । ररर्छ । रज्यात् । रङ्क्षीष्ट । रक्ता । रङ् Page #153 -------------------------------------------------------------------------- ________________ सू० ८२४-८३१] भ्वादयः परस्मैपदिनः १ १४५ क्ष्यति रक्ष्यते । अरक्ष्यत् अरक्ष्यत । अराङ्क्षीत् । चोः कुः (सू० २८५) खसे चपा (सू० ८९) षत्वम् । अराङ्क्ताम् अराक्षुः । अरङ्क्त अरङ्क्षाताम् । अरङ्कत । दंश दंशने । दशति । दशेत् । दशतु । अदशत् । ददंश ददंशतुः ददंशुः । ददंशिथ ददंष्ठ ददंशथुः । दश्यात् । ष्टुत्वम् । दंष्टा । दक्ष्यति । अदक्ष्यत् । णित्पे (सू० ७५९) णित्वाद्वद्धिः । षढोः कः से (सू० ७९८) अदाङ्क्षीत् । षञ्ज सङ्गे । सजति । सजेत् । सजतु । असजत् । ससञ्ज ससञ्जिथ-ससक्थ । सज्यात् । सङ्क्ता । सक्ष्यति । असङ्ख्यत् । असाङ्क्षीत् असाङ्क्ताम् असाक्षुः । कित रोगापनयने संशये च ॥ ८२४ गुब्भ्यः १४३ ॥ गुप् तिच् कित् मान् बध् दान् शान् एभ्यः खार्थे सः प्रत्ययो भवति ॥ धातोश्च द्वित्वम् ॥ कुहोश्चुः (सू० ७४६) गुप्तिजूकिन्यः क्रमान्निन्दाक्षमारोगापनयनेषु सः । तेन गोपति तेजति केतति । सधातुः (सू० ७८२ ) गुबादिभ्यः सस्येण्नेष्यते ॥ ८२५ नानिटि से: १४४ ॥ इवर्जिते सप्रत्यये परे धातोर्गुणो न भवति ॥ तिप् । चिकित्सति । चिकित्सेत् । चिकित्सतु । अचिकित्सत् । चिकित्सांचकार चिकित्सामास चिकित्सांबभूव । चिकित्स्यात् । चिकित्सिता । चिकित्सिष्यति । अचिकित्सिष्यत् । अचिकित्सीत् । अचिकित्सिष्टाम् । पत्ल पतने । पतति । पतेत् । पततु । अपतत् । पपात पेततुः पेतुः । पत्यात् । पतिता । पतिष्यति । अपतिष्यत् । लित्पुषादेर्डः (सू० ७९१) ८२६ पते पुमागमो वाच्यः १४५ ॥ अपप्तत् । भ्रमु चलने ॥ ८२७ शमां दीर्घः १४६ ॥ शमादीनां दीर्घो भवति यकारे परे ॥ शम् दम् श्रम् भ्रम् क्षम् क्रम् मद् एते शमादयः । भ्राम्यति । भ्रमति । भ्रम्येत्-अमेत् । भ्राम्यतु-भ्रमतु । १० Page #154 -------------------------------------------------------------------------- ________________ सारस्वतव्याकरणम् । [वृत्तिः २ अभ्राम्यत्-अभ्रमत् । बभ्राम ॥ ८२८ फणादीनामेत्वपूर्वलोपौ वा वाच्यौ १४७॥ फणतिभ्रीजिराजी च भ्राशिभ्लाशी स्यमिस्वनी। भ्रमित्रसी जीर्यतिश्च दशैते तु फणादयः ॥ १५ ॥ भेमतुः-बभ्रमतुः भ्रमुः-बभ्रमुः । श्रेमिथ-बभ्रमिथ । भ्रम्यात् । अमिता । भ्रमिष्यति । अभ्रमिष्यत अभ्रमीत् । टुवम् उद्दिरणे । टु इत्संज्ञकः । वमति वमेत् । वमतु । अवमत् । ववाम ॥ ८२९ वम एत्वपूर्वलोपौ वा वाच्यौ १४८ ॥ वेमतुः ववमतुः वेमुः ववमुः । वम्यात् । वमिता । वमिष्यति । अवमिष्यत् । अवमीत् । फण गतौ । फणति । फणेत् । फणतु । अफणत् । पफाण फेणतुः फेणुः । फण्यात् । फणिता । फणिष्यति । अफणिष्यत् । अफाणीत्-अफणीत् । खन स्यम् शब्दे । खनति । खनेत् । खनतु । अ. खनत् । सखान खेनतुः खेनुः । खन्यात् । खनिता । खनिष्यति । अखनिष्यत् । अखानीत्-अखनीत् । वस निवासे । वसति। वसेत् । वसतु । अवसत् । वसू णप् इति स्थिते । द्वित्वम् ॥ ८३० णबादौ पूर्वस्य १४९ ॥ णबादौ परे यजादीनां ग्रहादीनां च पूर्वस्य संप्रसारणं भवति । यकारवकाररेफाणामिकारोकारऋकारा भवन्ति । सखरस्य संप्रसारणं दीर्घस्य दी| ह्रखस्य हूखः ॥ गृहिावयीव्यधिर्वष्टिविचतिवृश्चतिस्तथा । पृच्छतिभृजतिश्चैव नवैते तु ग्रहादयः ॥१६॥ पूर्ववकारस्योत्वे । अत उपधायाः ( सू० ७५७ ) उवास । उवस् अतुस् इति स्थिते ॥ ८३१ यजां यवराणां स्वृतः संप्रसारणं किति १५०..॥ यजादीनां संप्रसारणं भवति. किति परे । Page #155 -------------------------------------------------------------------------- ________________ सू० ८३२-८३९] भ्वादिष्वात्मनेपदिनः २ १४७ यजिर्वपिर्व हिश्चैव वेब्व्येौ ह्वयतिः खपिः । वदवसी श्वयतिर्वक्तिरेकादश यजादयः ॥१७॥ सवर्णे दीर्घः हस (सू० ५२ ) ॥८३२ घसादेः षः १५१॥ घसिशासिवसीनां सस्य षो भवति षत्वनिमित्ते सति ॥ ऊषतुः ऊषुः उवसिथ-उवस्थ । संप्रसारणम् । षत्वम् । उष्यात् । वस्ता ॥ ८३३ सस्तोऽनपि १५२ ॥ सकारस्य तकारो भवति अनपि सकारे परे। वत्स्यति अवत्स्यत् । वृद्धिः । अवात्सीत् । झसात् (सू० ७५६) प्रत्ययलोपे प्रत्ययलक्षणमिति न्यायात् । अवात्ताम् । अवात्सुः । वद व्यक्तायां वाचि । वदति । वदेत् । वदतु । अवदत् । ववाद ऊदतुः ऊदुः । उवदिथ । उद्यात् । वदिता । वदिष्यति । अवदिप्यत् । अवादीत् । टुओश्विर गतिवृद्ध्योः । टुकारोकारौ कार्याौँ । इर् इत्संज्ञकः । श्वयति । श्वयेत् । श्वयतु । अश्वयत् ॥ ८३४ श्वयतेर्णादौ प्रथमं संप्रसारणं वा वक्तव्यम् १५३ ॥ ततो द्वित्वम् । शुशाव शुशुवतुः शुशुवुः । शुशविथ । संप्रसारणाभावपक्षे शिश्वाय शिश्वियतुः शिश्वियुः । शिश्वयिथ । संप्रसारणम् । ये (सू० ७७९) शूयात् । श्वयिता । श्वयिष्यति । अश्वयिष्यत् ॥ ८३५ श्वयतेः सौ वृद्ध्यभावो वाच्यः १५४ ॥ अश्वयीत् अश्वयिष्टाम् अश्वयिषुः । इरितो वा (सू० ७४०)॥ ८३६ श्वयतेरिलोपो ङे वक्तव्यः १५५ ॥ अश्वत् ॥ ८३७ श्वयते द्वित्वं वा १५६ ॥ अशिश्वियत् इत्यादि ॥ इति भ्वादिषु परस्मैपदिनः ॥ १॥ भ्वादिष्वात्मनेपदिनः २ अथ भ्वादिष्वात्मनेपदिप्रक्रिया ॥ एध वृद्धौ । अकार आत्मनेपदार्थः । ततः पराणि तिबादिवचनानि । अप् कर्तरि । एधते । Page #156 -------------------------------------------------------------------------- ________________ १४८ सारस्वतव्याकरणम् । [ वृत्तिः २ आदाथई । अकारान्तात्परस्य आतआथसंबन्धिन आकारस्येकारो भवति । अ इ ए (सू० ४३ ) एधेते । धर्मादेधतेऽदो राज्यं । विघिसंभावनयोरित्यादीनि नव वचनानि । एधेत । एधताम् ऐधत । कासादिप्रत्ययादाम् ( सू० ७६६ ) एधांचक्रे || ८३८ आम्प्रत्ययों यस्माद्विहितः स चेदात्मनेपदी तर्हि अनुप्रयुक्तकृञ आत्मनेपदं वसोर्नात्मनेपदम् १ || धामास एधांबभूव | विधानसामर्थ्यादस्तेर्भूभावो न । इट् । एधिषीष्ट । एधिता । एधिष्यते । ऐधिष्यत । ऐधिष्ट ऐधिषाताम् । ईक्ष दर्शनाङ्कनयोः । ईक्षते । ईक्षेत | ईक्षताम् । ऐक्षन्त । ईक्षांचक्रे । ईक्षिषीष्ट । ईक्षिता । ईक्षिष्यते । ऐक्षिष्यत । ऐक्षिष्ट । दद दाने । ददते । ददे । ददताम् । अददत् । शशददवा ( सू० ७७३ ) इति नैत्वपूर्वलोपौ । दददे दददाते दददिरे । ददिषीष्ट । ददिता । ददिष्यते । अददिष्यत् । अददिष्ट । ष्वष्क गतौ । नामधातु ( सू० ७५३ ) अनेन सत्वाभावः । ष्वष्कते ष्वष्केत । ष्वष्कताम् । अष्वष्कत । षष्वष्के । ष्वष्किषीष्ट । ष्वष्किता । ष्वष्किष्यते । अष्वष्किष्यत । अष्वष्किष्ट अष्वष्किषाताम् । ऋज गतौ स्थैर्ये स्पर्शे च । उपधाया लघोः (सू० ७३५) अर्जते । अर्जेत । अर्जताम् । आर्जत | नुगशाम् । ( सू० ७६४ ) आभ्वोर्णादौ ( सू० ७१२ ) आनृजे । अर्जिषीष्ट । अर्जिता । अर्जिष्यते । आर्जिष्यत । आर्जिष्ट । ष्वञ्ज परिष्वञ्जने । सत्वम् । अपिरञ्जदंशषञ्जष्वञ्जाम् (सू० ८२३ ) खजते । खजेत । खजताम् । अखजत । सखजे सखञ्जाते सखजिरे || ८३९ स्वजतेर्णादौ वा कित्वम् २ ॥ सखजे सखजाते सखजिरे । चोः कुः (सू० २८५) खसे चपाः ( सू० ८९ ) षत्वम् । कषसंयोगे क्षः ( सू० २४२ ) खङ्क्षीष्ट । खक्ता । T Page #157 -------------------------------------------------------------------------- ________________ सू० ८४०-८४८ ] भ्वादिष्वात्सनेपदिनः २ १४९ खझ्यते । अखझ्यत । झसात् (सू० ७५६) अखक्त अख ह्वाताम् अखङ्क्षत । अष्वङ्कथाः । त्रपूर्ण लज्जायाम् । ऊकारबकारी कार्याौँ । त्रपते । त्रपेत । त्रपताम् । अत्रपत । वृफलभजत्रपाम् (सू० ७९३) इत्येत्वपूर्वलोपौ । त्रेपे त्रेपाते त्रेपिरे । ऊदितो वा (सू० ७५१) त्रपिषीष्ट त्रप्सीष्ट । त्रपिता । त्रप्ता। त्रविष्यते-त्रप्स्यते । अत्रपिष्यत-अत्रप्स्यत । अत्रपिष्ट अत्रपिषाताम् अत्रपिषत । अत्रप्त । तिज् निशाने क्षमायां च ॥ गुब्भ्यः (सू० ८२४) तितिक्षते । तितिक्षेत । तितिक्षताम् । अतितिक्षत - तितिक्षांचक्रे तितिक्षांबभूव तितिक्षामास । तितिक्षिषीष्ट तितिक्षिता तितिक्षिष्यते । अतितिक्षिष्यत । अतितिक्षिष्ट ॥ गुप गोपनकुत्स। नयोः ॥ जुगुप्सते । जुगुप्सेत । जुगुप्सताम् । अजुगुप्सत । जुगुप्सांचके जुगुप्सांबभूव जुगुप्सामास । अजुगुप्सिषीष्ट । जुगुप्सिप्यते । अजुगुप्सिष्यत् । अजुगुप्सिष्ट । मान विचारणे । द्वित्वम् । हवः (सू० ७१३) ॥ ८४० यः से ३ ॥ पूर्वस्याकारस्येकारो भवति से परे ॥ ८४१ मानादीनां पूर्वस्य दीर्घा वक्तव्यः ४ ॥ मीमांसते । भीमांसेत । मीमांसताम् । अमीमांसत । मीमांसांचके मीमांसामास मीमांसांबभूव । मीमांसिषीष्ट । मीमांसिता । मीमांसिष्यते । अमीमांसिष्यत । अमीमांसिष्ट । बध निन्दायाम् । आदिजबानाम् (सू० २३९) बीभत्सते । बीभत्सेत । बीभत्सताम् । अबीभत्सत । बीभत्सांचके । बीभत्सिषीष्ट । बीभत्सिता । बीभत्सिप्यते । अबीभत्सिष्यत । अबीभत्सिष्ट । पण व्यवहारे स्तुतौ च । पन च । आयः (सू० ७८१) पणायते । पणायेत । पणायताम् । अपणायत । पणायांचके । आयाभावपक्षे । पेणे येणाते पेणिरे । पणायिषीष्ट-पणिषीष्ट । पणायिता-पणिता । पणा Page #158 -------------------------------------------------------------------------- ________________ १५० सारस्वतव्याकरणम् । [वृत्तिः २ यिष्यते-पणिष्यते । अपणायिष्यत-अपणिष्यत अपणायिष्ट-अपशिष्ट । एवं पन च । कमु कान्तौ ॥ ८४२ कमेः स्वार्थे जिः प्रत्ययो वक्तव्यः ५॥ अनपि तु वा वृद्धिः। सधातुः (सू०७८२) अपगुणौ । अयादेशः । कामयते कामयेत । कामयताम् । अकामयत । कामयांचके-चकमे । कामयिषीष्ट-कमिषीष्ट । कामयिताकमिता । कामयिष्यते-कमिष्यते । अकामयिष्यत-अकमिष्यत । अकामि त इति स्थिते ॥ ८४३ अरद्विश्व ६॥ ज्यन्ताद्धातोभूतेऽर्थे अङ् प्रत्ययो भवति दिवादौ परतः ॥ सेरपवादः । धातोश्च द्वित्वम् ॥ ८४४ : ७ ॥ इडागमवर्जिते अनपि विषये अलोपो भवति ॥ हवः (सू० ७१३) कुहोश्चः (सू० ७४६) ८४५ अङि लघौ हख उपधायाः ८ ॥ अङि सत्युपधाया हखो भवति पूर्वसंबन्धिनोऽकारस्येकारो भवति लघुनि धात्वक्षरे परे ॥ ८४६ लघोर्दीर्घः ९॥ अङि सति हसादेलंघोः पूर्वस्य दी| भवति लघुनि धात्वक्षरे परे ॥ अचीकमत अचीकमेताम् अचीकमन्त । अरभावपक्षे ॥ ८४७ कमेरद्वित्वे वाच्ये १० ॥ज्यन्तत्वाभावान्न दीर्घकारौ । अचकमत । अय गतौ । अयते अयेत । अयताम् आयत ॥ ८४८ परापूर्वेऽयतावुपसर्गरेफस्य लत्वं वाच्यम् ११॥ पलायते । पलायेत । पलायताम् । अपलायत । अयांचके अयामास अयांबभूव । अयिषीष्ट । अयिता । अयिष्यते । आयिष्यत । आयिष्ट । आयिषाताम् । आयिषत । आयिट्वं आयिध्वम् । दय दानगतिहिंसादानेषु । दयते । अयतिवत्प्रक्रिया । घट चेष्टायाम् । घटते । घटेत । घटताम् । अघटत । कुहोश्चः (सू० ७४६) जघटे । घटिषीष्ट । घटिता। घटिष्यते। अघटिष्यत ।अघटिष्ट । ईह चेष्टायाम्। ईहते । ईहेत । ईहताम् । ऐहत । ईहांचक्रे । ईहिषीष्ट । ईहिता । Page #159 -------------------------------------------------------------------------- ________________ सू० ८४९-८५७ ] भ्वादिष्वात्मनेपदिनः २ १५१ ईहिष्यते । ऐहिष्यत । ऐहिष्ट ।। काशङ्दीप्तौ ।। काश्यते । काशेत । काशताम् । अकाशत । विद् दरिद्रा (सू० ७६७) काशांचके । चकाशे। काशिषीष्ट । काशिता । काशिष्यते । अकाशिष्यत । अकाशिष्ट । कास शब्दकुत्सायाम् । कासते । कासेत । कासताम् । अकासत। कासांचक्रे । चकासे । कासिषीष्ट । कासिता । कासिष्यते । अकासिष्यत । अकासिष्ट । षिवृ सेवने । सत्वम् । सेवते । सेवेत । सेवताम् । असेवत । सिषेवे सिषेवाते । सेविषीष्ट । सेविता । सेविष्यते । असेविष्यत । असे विष्ट । गाङ् गतौ । सवर्णदीर्घे कृते। आकारत्वात् । आतोऽन्तोदनतः (सू० ७२९) गाते गाते गाते । गेत । गाताम् । अगात । जगे जगाते जगिरे । गासीष्ट । गाता । गास्यते । अगास्यत । अगास्त अगासाताम् । रुङ् गतौ भाषणे च । गुणः (सू० ६९२ ) रवते । रवेत । रवताम् । अरवत अरवेताम् । अनेकखरत्वादसंयोगपूर्वत्वाञ्चोकारस्य वत्वे प्राप्ते ॥ ८४९ नानप्योव: १२ ॥ अनपि विषये धातोरुवर्णस्य वत्वं न भवति ॥ तत उव् । नुधातोः (सू० ७७६) रुरुवे रुरुवाते रुरुविरे । रविषीष्ट । रविता। रविष्यते । अरविष्यत । अरविष्ट । देङ् पालने । दयते । दयेते । दयताम् । अदयत ॥ ८५० दयतेर्णादौ दिग्यादेशो द्वित्वाभावश्व वक्तव्यः १३ ॥ दिग्ये । संध्यक्षराणामा (सू० ८०३ ) । दासीष्ट । दाता । दास्यते । अदास्यत ॥ ८५१ अपिद्दाधास्थामित्वं सेर्डित्वं आत्मनेपदे वाच्यम् १४ ॥ ङित्वान्न गुणः ॥ ८५२ लोपो हवाज्झसे १५॥ हखादुत्तरस्य सेोपो भवति झसे परे । अदित अदिषाताम् अदिषत । डीङ् विहायसा गतौ। डयते । डयेत । डयताम् । अडयत । नुधातोः (सू०७७६) डीडये । डयीषीष्ट । डयिता । डयिष्यते । अडयिष्यत । अडयिष्ट ॥ दैङ् त्रैङ् Page #160 -------------------------------------------------------------------------- ________________ १५२ सारस्वतव्याकरणम् । [ वृत्तिः २ 1 1 पालने । दायते । दायेत । दायताम् । अदायत ॥ ८५३ देङो णादौ दिग्यादेशो द्वित्वाभावश्च १६ ॥ दिग्ये । दासीष्ट । अपिदाधास्थामि ( सू० ८५१ ) लोपो हखाज्झसे ( सू० ८५२ ) अदित । त्रायते । तत्रे । अत्रास्त । द्युतङ् द्योतने । उपधाया लघोः ( सू० ७३५) द्योतते । द्योतेत । द्योतताम् | अद्योतत ॥ ८५४ द्युतेः पूर्वस्य संप्रसारणं वक्तव्यं णादौ परे १७ ॥ दिद्युते । द्योतिषीष्ट । द्योतिता । द्योतिष्यते । अद्योतिष्यत । अद्योतिष्ट ॥ ८५५ द्युतादिभ्यो लुङि वा परस्मैपदं वाच्यम् १८ ॥ लित्पुषादेर्ड: । (सू० ७९१) अद्युतत् । वृतुङ् वर्तने । वर्तते वर्तेते वर्तन्ते । वर्तताम् । अवर्तत । ववृते । वर्तिषीष्ट । वर्तिता । वर्तिष्यत ॥ ८५६ वृतादिभ्यः स्यप्स्योर्वा पं पेsनित्वं च १९ ॥ वृतु वृधु शृधु स्यन्दू कृपू' एते वृतादयः । वस्र्त्स्यति । अवर्त्स्यत् । अवर्तिष्ट । परस्मैपदपक्षे । लित्पुषादेर्डः (सू० ७९१ ) अवृतत् ॥ वृधुङ् वृद्धैौ । वर्धते । वर्धेत । वर्धताम् । अवर्धत । ववृधे । वर्धिषीष्ट । वर्धिता । अवर्धिष्यते । अवर्धिष्यत । वर्त्स्यति । अवर्त्स्यत् । अवर्धिष्ट । अवृधत् । शृधुङ पर्दने । शर्धते । शर्धेत । शर्धताम् । अशर्धत । शशृधे । शर्धिषीष्ट । शर्धिता । शर्धिष्यते । अशर्धिष्यत । अशष्टि । • शर्त्स्यति । अशर्त्यत । अशृधत् । स्यन्दू प्रस्रवणे । स्यन्दते । स्यन्देत । स्यन्दताम् । अस्यन्दत । सस्यन्दे । ऊदितो वा (सू० ७५१) स्यन्दिषीष्ट । स्यन्त्सीष्ट । स्यन्दिता - स्यन्ता । स्यन्दिष्यते - स्यन्त्स्यति । अस्यन्दिष्यत - अस्यन्त्स्यत । अस्यन्त्स्यत् । अस्यन्दिष्ट अस्यन्त । पक्षे अस्यदत् । कृपू सामर्थ्ये । गुणः ॥ ८५७ कृपो रो लः २० ॥ कृपो रेफस्थ लो भवति ॥ ऋकारस्य ऌकारो भवति ॥ कल्पते । कल्पेत । कल्पताम् । अकल्पत । चक्लृपे । कल्पिषीष्ट । इडभावपक्षे । 1 1 I 1 1 Page #161 -------------------------------------------------------------------------- ________________ सू० ८५८-८६७] भ्वादिषूभयपदिनः ३ १५३ ८५८ सिस्योः २१ ॥ उपधाया गुणो न भवति सिस्योरनिटोः परतः ॥ क्लप्सीष्ट । कल्पिता - कल्प्ता । कल्पिष्यते कल्प्स्यते कल्प्स्यति । अकल्पिष्यत । अकल्प्स्यत् । अकल्पिष्ट अक्लृप्त अकुप्साताम् अकुप्सत | अकुपत् । व्यथ दुःखभयचलनयोः । व्यथते । व्यथेत । । व्यथताम् । अव्यथत ।। ८५९ व्यथतेर्णादौ पूर्वस्य संप्रसारणं वक्तव्यम् २२ ॥ विव्यथे । व्यथिषीष्ट । व्यथिता । व्यथिष्यते । अव्यथिष्यत अव्यथिष्ट । रमु क्रीडायाम् । रमते । रमेत । रमताम् | अरमत ॥ ८६० व्याङ्पर्युपेभ्यो रमः पम् २३ ॥ विरमति आरमति परिरमति उपरमति । रेमे । रंसीष्ट । रन्ता । रंस्यते । अरंस्त । अरंसाताम् । अरंसत । विपूर्वः । आदन्तानाम् (सू० ७८८ ) इतीट्सकौ । व्यरंसीत् । व्यरंसिष्टाम् । ञित्वरा संभ्रमे । ञिआवितौ । त्वरते । त्वरेत | त्वरताम् । अत्वरत । तत्वरे । त्वरिषीष्ट । त्वरिता । त्वरिष्यते । अत्वरिष्यत । अत्वरिष्ट । अत्वरिढुं - अत्वरिध्वम् । षह मर्षणे । सहते । सहेत । सहताम् । असहत । सेहे । सहिषीष्ट । सहिता । इषुसह (सू० ७९२ ) इतिवेट् । हो ढः ( सू० २४३ ) । तथोर्ध: ( सू० ७५३ ) टुत्वम् । ढलोपः ॥ ८६१ सहिवहोरोदवर्णस्य २४ ॥ सहिवहोर वर्णस्यौकारादेशो भवति ढलोपनिमित्ते ढकारे परे ॥ सोढा । सहिष्यते । असहिष्यत । असहिष्ट ॥ इति भ्वादि - ष्वात्मनेपदिनः ॥ २ ॥ 1 भ्वादिषुभयपदिनः ३ अथोभयपदिप्रक्रिया || राजू दीप्तौ । ऋकार ऋदित्कार्यार्थः । राजतिराजते । राजेत् राजेत । राजतु राजताम् । अराजत् । अराजत। रराज । फणादित्वादेत्वपूर्व लोपौ । रेजतुः रराजतुः । रेजुः - Page #162 -------------------------------------------------------------------------- ________________ १५४ सारस्वतव्याकरणम्। [वृत्तिः२ रराजुः । रेजे-रराजे । राज्यात् । राजिषीष्ट । राजिता-राजिता । राजिष्यति-राजिष्यते । अराजिष्यत्-अराजिष्यत । अराजीत्-अराजिष्ट । खन खनने । खनति-खनते । खनेत्-खनेत । खनतु-खनताम् । अखनत् अखनत । चखान । गमां खरे (सू० ७८९) चख्नतुः चख्नुः । चख्ने । खन्यात् ॥ ८६२ जनखनसनां विति ये आकारो वा वक्तव्यः १ ॥ खायात् खनिषीष्ट । खनिताखनिता । खनिष्यति-खनिष्यते । अखनिष्यत्-अखनिष्यत । अखानीत्-अखनीत् । अखनिष्ट । हृञ् हरणे । हरति-हरते । हरेत्-हरेत । हरतु-हरताम् । अहरत्-अहरत । जहार जहतुः जद्दुः ॥ ८६३ ऋदन्तस्य थपो नेट् २॥ जहर्थ । जहे । यादादौ । हियात् ॥ ८६४ उः ३ ॥ ऋकारस्य गुणो न भवति सिस्योरनिटोः परतः॥ हृषीष्ट । हर्ता २। हनृतः स्यपः (सू० ७९०) हरिष्यति हरिष्यते । अहरिष्यत । अहार्षीत् । लोपो हखाज्झसे (सू० ८५२) अहृत अहृषाताम् अहृषत । गुहू संवरणे ॥ ८६५ गुहेरुपधाया ऊगुणहेतौ स्वरे ४ ॥ गृहति-गूहते । जुगूह जुगृहतुः जुगूहिथ । जुगोढ जुधुक्षे-जुगुहिषे । जुगुहिध्वेजुगवे । गूहिषीष्ट घुक्षीष्ट । गृहिता गोढा । गूहिष्यति-घोक्ष्यति ॥ ८६६ दुहुदिहलिहगुहूभ्यः सको लुग्वा यकारतकारयोराति ५॥ अगूढ-अघुक्षत ॥ ८६७ आति सकोऽकारलोपः खरे ६ ॥ अघुक्षाताम् अघुक्षन्त । अगूढाः-अघुक्षयाः अघुक्षायाम् । अघूट्वअघुक्षध्वम् । अघुक्षि-अगुवहि । अघुक्षावहि अघुक्षामहि । दान आर्जवे । गुब्भ्यः (सू० ८२४) यः से (सू० ८४०) मानादीनां पूर्वस्य दी| वक्तव्यः । (सू० ८४१) दीदांसति-दीदांसते । दीदांसेत्-दीदांसेत । दीदांसतु-दीदासताम् । अदीदांसत् Page #163 -------------------------------------------------------------------------- ________________ सू० ८६८-८७५] भ्वादिषूभयपदिनः ३ १५५ अदीदांसत | दीदांसांचक्रे - दीदांसामास-दीदांसांबभूव । दीदांस्यात्दीदांसिषीष्ट । दीदांसिता २ दीदांसिष्यति - दीदांसिष्यते । अदीदांसिष्यत् अदीदांसिष्यत । अदीदांसीत् अदीदांसिष्ट । शान तेजने । शीशांसति शीशांसते । दानवत् । भज सेवायाम् । भजति भजते । । बभा । भेजुः । भेजिथ 1 1 1 1 1 भजेत् भजेत । भजतुं भजताम् । अभजत् - अभ तृफलभज (सू० ७९२ ) इत्येत्वपूर्वलोपौ । भेजतुः बभक्थ | भेजे भेजाते भेजिरे । भज्यात् भक्षीष्ट । भक्ता भक्ता । भक्ष्यति - भक्ष्यते । अभक्ष्यत् अभक्ष्यत । अभाक्षीत् अभाक्ताम् अभाक्षुः । अभक्त अभक्षाताम् अभक्षत । डुपचष् पाके । डुकार - षकारौ कार्यार्थी । पचति पचते । पचेत् पचेत । पचतु पचताम् । अपचत्-अपचत । पपाच पेचतुः पेचुः । पेचे । पच्यात्-पक्षीष्ट । पक्तापक्ता । पक्ष्यति - पक्ष्यते । अपक्ष्यत् अपश्यत । अपाक्षीत् । अपक्त अपक्षाताम् अपक्षत । अञ्चु गतौ याचने च । आञ्चीत् । व्यय गतौ । वव्यये । अव्ययीत् । श्रिञ् सेवायाम् । गुणः ( सू० ६९२ ) श्रयति - श्रयते । शिश्राय शिश्रियतुः । शिश्रिये । श्रीयात् श्रयिषीष्ट । श्रयिता श्रयिता । श्रयिष्यति श्रयिष्यते । अश्रयिष्यत् - अश्रयिष्यत । ८६८ श्रिवां सेरङ् धातोर्द्वित्वं च ७ ॥ अशिश्रियत्-अशिश्रियत । त्विषु दीप्तौ । त्वेषति - त्वेषते । तित्वेष तित्विषे । त्विष्यात् । त्विक्षीष्ट । त्वेष्टा २ । त्वेक्ष्यति त्वेक्ष्यते । अवेक्ष्यत् अत्वेक्ष्यत । हशषान्तात्सक ( सू० ८०० ) अत्विक्षत ॥ ८६९ सस्यात्मनेपदे खरे टिलोपो वाच्यः ८ ॥ अकारलोपे कृते । अतोऽन्तोदनतः ( सू० ७२९ ) अत्विक्षाताम् अत्विक्षत । यज देवपूजासंगतिकरणदानेषु । यजति यजते । यजेत् यजेत । यजतु यजताम् । अयजत्-अयजत । णबादौ पूर्वस्य ( सू० ८३० ) इयाज । यजां Page #164 -------------------------------------------------------------------------- ________________ १५६ सारस्वतव्याकरणम् । [वृत्तिः २ यवराणां वृतः संप्रसारणम् (सू० ८३१) ईजतुः ईजुः । इयजिथइयष्ठ । ईजे । इज्यात् । यक्षीष्ट । यष्टा यष्टा । यक्ष्यति-यक्ष्यते। अयक्ष्यत् अयक्ष्यत । अयाक्षीत् अयाष्टाम् अयाक्षुः। अयष्ट अयाक्षाताम् अयक्षत । अयष्ठाः अयक्षाथाम् ॥ ८७० ध्वे च सेर्लोपः ९॥ षत्वम् । झबे जबाः ( सू० ३५) ष्टुत्वम् । अयड्वम् । अयक्षि अयश्वहि अयक्ष्महि । टुवप् बीजतन्तुसन्ताने । टु इत् । वपति । वपेत् । उवाप ऊपतुः ऊपुः । उवपिथ-उवप्थ । ऊपे उप्यात् वप्सीष्ट । वप्ता २ । वप्स्यति-वप्स्यते । अवप्स्यत्-अवप्स्यत । अवाप्सीत्-अवप्त । वह प्रापणे । वहति-वहते । उवाह ऊहतुः ऊहुः । उवहिथ । हो ढः (सू० २४३)। तथोधः (सू० ७५३ ) । ष्टुत्वम् । ढलोपः । सहिवहोरोदवर्णस्य (सू० ८६१) उवोढ । उह्यात् । वक्षीष्ट । वोढा २ । वक्ष्यति-वक्ष्यते । अवक्ष्यत्अवक्ष्यत । अवाक्षीत् अवोढाम् । अवोढ अवक्षताम् अवक्षत । वे तन्तुसन्ताने । वयति-वयते ॥ ८७१ वेजोणादौ संप्रसारणाभावो वाच्यः १० ॥ सन्ध्यक्षराणामा (सू० ८०३) ववौ । वादित्वानैत्वपूर्वलोपौ । ववतुः ववुः । ववे ।। ८७२ वेजो वय् णादौ वा वक्तव्यः ११ ॥ उवाय ॥ ८७३ ग्रहां विति च १२ ॥ ग्रहादीनां संप्रसारणं स्यात् किति डिति च परे ॥ इति संप्रसारणम् । यकारस्य संप्रसारणनिषेधः । ऊयतुः ऊयुः । उवयिथ ऊयथुः । ऊये ऊयाते ऊयिरे ॥ ८७४ वयो यस्य किति णादौ वो वा वक्तव्यः १३ ॥ ऊवतुः ऊवुः । ऊवे । ऊयात् वासीष्ट । वातावाता । वास्यति-वास्यते । अवास्यत् अवास्यत । अवासीत् । आदन्तानाम् (सू० ७८८ ) इति इट्सको । अवासिष्टाम् । आवास्त । व्येञ् संवरणे । व्ययति-व्ययते ॥ ८७५ व्येनो णादौ नात्वम् Page #165 -------------------------------------------------------------------------- ________________ १५७ सू०८७६-८८४ ] अदादिषु परस्मैपदिनः ४ १४ ॥ विव्याय विव्यतुः विव्युः ॥ ८७६ अत्यर्तिव्ययतीनां थपो नित्यमिट १५ ॥ विव्ययिथ विव्ये । वियात् व्यासीष्ट । व्याता व्याता । व्यस्यति व्यास्यते । अव्यास्यत् अव्यास्यत । अव्यासीत् । अव्यास्त । हेञ् स्पर्धायाम् । हयति हृयते ॥ ८७७ अद्वि. रुक्तस्य ह्वयतेः संप्रसारणं वक्तव्यम् १६ ॥ जुहाव जुहुवतुः जुहुवुः । जुह विथ-जुहोथ । जुहुवे जुहुवाते जुहुविरे । हूयात् । हासीष्ट । ह्वाता-हाता । हास्यति-हास्यते । अह्वास्यत्-अह्वास्यत ॥ ८७८ अस्यतिवक्तिख्यातिलिपिसिचिह्वयतीनां सेडों वा वाच्यः १७ ॥ अह्नत अद्वेताम् अह्वन्त । अहास्त अह्रासाताम् अहासत । ऋत जुगुप्सायां कृपायां च ॥ ८७९ ऋतेरीयङ् स्वार्थेऽनपि तु वा १८ ॥ ऋतीयते । ऋतीयांचके । आनर्त । ऋतीयिष्यते । आतीत् । आर्तीयिष्ट ॥ ॥ इति भ्वादिषूभयपदिप्रक्रिया ॥ ३॥ इत्यब्विकरणा भ्वादयो धातवः॥ अदादिषु परस्मैपदिनः ४॥ इदानी लुग्विकरणाददादेर्गणाकर्तरि तिबादयो वर्ण्यन्ते ॥ अद् भक्षणे । अकर्तरि (सू० ६९१)॥ ८८० अदादेलक १ ॥ अदादेर्गणादुत्पन्नस्यापो लुग्भवति ॥ खसे चपा झसानाम् ( सू० ८९) अत्ति अत्तः अदन्ति । अत्सि अत्थः अस्थ । अनि अद्वः अद्मः । अद्यात् । अत्तु-अत्ताद्वा । अत्ताम् अदन्तु ॥८८१ झसाद्धि:: २॥झसादुत्तरस्य हेर्धिर्भवति ॥ अद्धि-अत्ताद्वा । अत्तम् अत्त । अदानि अदाव अदाम ॥ ८८२ अदो दियोरडागमो वक्तव्यः ३ ॥ आदत् आदः ॥ ८८३ सिसयोरदेघस्ल लिटि तु वा ४ ॥ Page #166 -------------------------------------------------------------------------- ________________ १५८ सारस्वतव्याकरणम् । [ वृत्ति: २ 1 1 1 जघास । गमां खरे (सू० ७८९ ) । खसे चपा ( सू० ८९ ) । घसादेः षः (सू० ८३२ ) क्षः । जक्षतुः जक्षुः । जघसिथ । पक्षे । आद आदतुः आदुः । आदिथ । अद्यात् । अत्ता । अत्स्यति 1 आत्स्यत् ॥ ऌदित्त्वादङ् । अघसत् अघसताम् अघसन् । प्सा भक्षणे । प्साति प्सातः प्सान्ति । प्सायात् प्सायाताम् प्सायुः । 1 प्सातु - प्साताद्वा प्साताम् प्सान्तु । अप्सात् अप्साताम् ॥ ८८४ आदन्तविद्विषामन उस् वा वक्तव्यः ५ ॥ उस्यालोपः ( सू० ८०९) अप्सुः - अप्सान् । पप्सौ पप्सतुः पप्सुः । पप्सिथपप्साथ । सेयात् प्सायात् । प्साता । प्सास्यति । अप्सास्यत् । आदन्तानाम् (सू० ७८८) इतीट्सकौ । अप्सासीत् अप्सासिष्टाम् । मा माने । माति । मायात् । मातु । अमात् अमाताम् अमुः । अमान् । ममौ । दादेरे ( सू० ८०७ ) मेयात् । माता । मास्यति अमास्यत् । अमासीत् । या प्रापणे । याति । यायात् । यातु । अयात् अयाताम् अयुः। अयान् । ययौ । यायात् । याता । यास्यति । अयास्यत् । अयासीत् । वा गतिगन्धनयोः । वातिवत् । रा दाने । तद्वत् । ला दानग्रहणयोः । लाति । ललौ । तद्वत् । द्रा कुत्सायां गतौ च । द्राति । दद्रौ । द्रायात् द्रेयात् । द्राता । द्वास्यति । अद्रास्यत् | अद्रासीत् । ख्या प्रकथने । ख्याति । ख्यायात् । ख्यातु । अख्यात् । चख्यौ । ख्यायात् ख्येयात् । ख्याता । ख्यास्यति । अख्यास्यत् । पुषादित्वात् ङः । आतोऽनपि ( सू० ८०५ ) अख्यत् । पा रक्षणे । पाति । पायात् । पातु । अपात् । पपौ । पाता । पास्यति । अपास्यत् । अपासीत् । भा दीप्तौ । भाति । बभौ । अभासीत् । ष्णा शौचे । स्नाति । सस्नैौ । स्वायात् । स्नेयात् । अस्नासीत् । वश कान्तौ । छशषराजादेः षः (सू० २७६) 1 Page #167 -------------------------------------------------------------------------- ________________ सू० ८८५-८९२ ] अदादिषु परस्मैपदिनः ४ १५९ इति । षत्वम् । ष्टुत्वम् । वष्टि । ग्रहां किति च ( सू० ८७३ ) उष्टः उशन्ति । षत्वम् । षढोः कः से (सू० ७९८) क्षः । वक्षिः उष्ठः उष्ठ । वश्मि उश्वः उश्मः । उश्यात् उश्याताम् । उश्युः । वष्टु उष्टात्-उष्टाम् उशन्तु । झसाद्धिर्हः ( सू० ८८१ ) । झबे जबा: (सू० ३५) टुत्वम् । उढि उष्टात् उष्टम् उष्ट । वशानि वशाव वशाम || ८८५ दिस्योर्हसात् ६ || हसादुत्तरयोर्दिसि - पोर्लोपो भवति ॥ षत्वम् । षो डः । ( सू० २७७ ) । वावसाने (सू० २५०) अवट्-अवड् । संप्रसारणम् । अडागमः । उ ओ (सू० ४५) ओ औ औ ( सू० ४६ ) औष्टाम् औशन् । अवटूअवड् औष्टम् औष्ट | अवशम् औश्व औश्म । उवाश ऊशिव ऊशिम । उश्यात् उश्यास्ताम् उश्यासुः । वशिता । वशिष्यति । अवशिष्यत् । अवाशीत् । हन् हिंसागत्योः । हन्ति ॥ ८८६ लोपस्त्वनुदात्ततनाम् ७ ॥ अनुदात्तानां तनादीनां च अमस्य लोपो भवति किति ङिति झसे परे ॥ तुशब्दात्कचिदझसेऽपि क्यप् प्रत्ययादौ मस्य लोपः || र मिर्यमिनमी हन्तिरनुदात्ता गमिर्मनिः । तनुः क्षण क्षिण ऋणुकृणू वनुर्वमुस्तनादयः ॥ १८ ॥ हतः । गमां खरे (सू० ७८९) । हनो ने ( सू० २६२ ) घ्नन्ति । हंसि हथः हथ । हन्मि हन्वः हन्मः । हन्यात् हन्याताम् हन्युः । हन्तु हताद्वा हताम् प्रन्तु ॥ ८८७ जयेधिशाधि ८ ॥ हन्तेर्ज - हिशब्दोऽस्ते रेधिशब्दः शास्तेः शाधिशब्दो निपात्यते हिविषये ॥ जहि-हताद्वा हतम् हत । हनानि हनाव हनाम । अहन् अहताम् अन्नन् । अहन् अहतम् अहत । अहनम् अहम्व अहन्म । हनो ने ( सू० २६२ ) वृद्धिः । जघान जन्नतुः जन्नुः ॥ ८८८ द्विरुक्तस्य Page #168 -------------------------------------------------------------------------- ________________ १६० सारस्वतव्याकरणम् । [ वृत्तिः १ हन्तेस्थपि घत्वं वाच्यम् ९ ॥ जघनिथ - जघन्थ जनथुः जन्न । जघान - जघन जन्निव जनिम ॥ ८८९ हन्तेः स्यानिर्यादादौ वधादेशो वक्तव्यः १० ॥ वध्यात् वध्यास्ताम् वध्यासुः । हन्ता हन्तारौ हन्तारः । हनृतः स्यपः ( सू० ७९० ) हनिष्यति हनिष्यतः हनिष्यन्ति । अहनिष्यत् अहनिष्यताम् अहनिष्यन् ॥ ८९० जनिव - ध्योर्न वृद्धिः ११ ॥ वधादेशे कृते इट् । अवधीत् अवधिष्टाम् अवधिषुः । अवधीः अवधिष्टम् अवधिष्ट । यु मिश्रणे । गुणः (सू० ६९२ ) ॥ ८९१ ओरौ १२ ॥ उकारस्याद्विरुक्तस्य औकारादेशो भवति पिति त्स्मि अबादौ विषये ॥ यौति युतः । न घातोः ( सू० ७७६) युवन्ति । यौषि युथः युथ । यौमि युवः युमः । युयात् । यौ-युताद्वा युताम् युवन्तु । युहि युताद्वा युतम् युत । यवानि यवाव यवाम । अयौत् अयुताम् अयुवन् । अयौः अयुतम् अयुत । अयवम् अयुव अयुम । धातोर्नामिनः (सू० ७६९ ) युयाव । नान 1 1 1 योः ( सू० ८४९) युयुवतुः युयुवुः । युयविथ युयुवथुः । यूया - त् । यविता । यविष्यति । अयविष्यत् । अयावीत् अयाविष्टाम् अयाविषुः । तु गतिवृद्धिहिंसासु || ८९२ तुरुनुस्तुभ्योऽद्विरुक्ते - भ्यो हसादीनां चतुर्णामीड्डा १३ ॥ तौति-तवीति तुतः - तुवीतः तुवन्ति । तौषि-तवीषि । तुथः तुवीथः । तुथ - तुवीथ । तौमि तवीमि । तुयात्-तुवियात् । तौतु-तवीतु । तुतात्-तुवीतात् । तुताम्-तुवीताम् । तुवन्तु । तुहि तुवीहि । अतौत्-अतवीत् । तुताव । तोता । तोष्यति । अतोष्यत् । अतौषीत् । रु शब्दे । रौति-रवीति । रुतः रुवीतः । रुवन्ति । रौषि-रवीषि । रुयात् रुवीयात् । रौतु-रवीतु । रुतात्रुवीतात् । अरौत्· अरवीत् । अरुताम् अरुवीताम् । अ-रुवन् । अरौ:अरवीः । रुराव रुरुवतुः रुरुवुः । रुरविथ । रूयात् । रोता । 1 Page #169 -------------------------------------------------------------------------- ________________ सू० ८९३-९०३] अदादिषु परस्मैपदिनः ४ १६१ 1 रोष्यति । अरोष्यत् । अरौषीत् । दु गतौ । भौवादिकः । दवति । दवेत् । दवतु । अदवत् । दुदाव । दुयात् । दोता । दोयति । अदोष्यत् । अदौषीत् अदौष्टाम् अदौपुः । णु स्तुतौ । आदेः ष्णः स्त्रः ( सू० ७४८) नौति - नवीति नुतः नुवीतः नुवन्ति । नुनाव । नूयात् । नोता । नोष्यति । अनौष्यत् । अनौषीत् । टुक्षु शब्दे । टु इत् । क्षौति क्षुतः क्षुवन्ति । क्षुयात् । क्षौतु । अक्षौत् । चुक्षाव चुक्षुवतुः चुक्षुवुः । क्षूयात् । क्षविता । क्षविष्यति । अक्षविष्यत् अक्षावीत् । क्ष्णु तेजने । क्ष्णौति क्ष्णुतः क्ष्णुवन्ति । क्ष्णुयात् । क्ष्णौ । अक्ष्णौत् । चक्ष्णाव । क्ष्णूयात् । क्ष्णविता । क्ष्णविष्यति । अक्ष्णविष्यत् । अक्ष्णावीत् । ष्णु प्रस्रवणे । स्नौति । स्नुयात् । स्नौतु । अस्त्रौत् । सुखाव । स्नूयात् । स्त्रविता । स्नविष्यति । अस्नविष्यत् । अस्त्रावीत् । इण् गतौ । गुणः (सू० ६९२) एति इतः ॥ ८९३ इणः क्ङिति खरे यो वक्तव्यः १४ ॥ यन्ति । एषि इथः इथ । एमि इव: इमः । इयात् इयाताम् इयुः । एतु- इताद्वा इताम् यन्तु । इहि- इताद्वा इतम् इत । अयानि अयाव अयाम | अडागमद्वयम् । ऐत् ऐताम् आयन् । ऐः ऐतम् ऐत । आयम् ऐव ऐम । द्वित्वम् । वृद्धिः । पूर्वस्य इयादेशः । इयाय । ८९४ इणः किति णादौ पूर्वस्य दीर्घो वक्तव्यः १५ ॥ ईयतुः ईयुः । इयथि - इयेथ ईयथुः ईय । इयाय - इयय ईमि । ये (सू० ७७९) ईयात् ईयास्ताम् ईयासुः । एता । एष्यति । ऐष्यत् । दादेः पे ( सू० ७२५ ) ।। ८९५ इणिको ः सिलोपे वा वक्तव्यः १६ ॥ अगात् अगाताम् अगुः । इक् स्मरणे । इडिकावध्युपसर्गतो न व्यभिचरतः । अध्येति अधीतः अधियन्ति । अधीयात् । अध्येतु । अध्यै अध्यैताम् अध्यायन् । अधीयाय अधीयात् । अध्येता । अध्ये ११ Page #170 -------------------------------------------------------------------------- ________________ [वृत्तिः १६२ सारस्वतव्याकरणम् । ष्यति । अध्यष्यत् । अध्यगात् इण्वत् । विद् ज्ञाने । उपधाया लघोः (सू० ७३५) वेत्ति वित्तः विदन्ति । वेत्सि वित्थः वित्थ । वेनि विद्वः विद्मः ॥ ८९६ विदो नवानां त्यादीनां णबादि १७॥ विद उत्तरेषां तिबादीनां नवानां णबादिर्नवको वा भवति ॥ वेद विदतुः विदुः । वेत्थ विदथुः विद । वेद विद्व विद्म । विद्यात् वेत्तु-वित्ताद्वा वित्ताम् विदन्तु । झसाद्धिः (सू० ८८१) विद्धि-वित्ताद्वा वित्तम् वित्त । वेदानि वेदाव वेदाम । दिस्योर्हसात् (सू० ८८५) अवेत्- अवेद् अवित्ताम् । अन् उस् वा अविदन्अविदुः ॥ ८९७ दः सः १८ ॥ दकारस्य वा सकारो भवति सिविषये ।। अवेः-अवेत् अवित्तम् अवित्त । अवेदम् अविद्व अविद्म। विवेद विविदतुः विविदुः । विवेदिथ । पक्षे ॥ ८९८ आमि विदेर्न गुण:१९॥ विदांचकार विदामास वेदांबभूव । विद्यात् विद्यास्ताम् । वोदता । वेदिष्यति । अवेदिष्यत् । अवेदीत् अवेदिष्टाम् अवेदिषुः । अस् भुवि । अस्ति ।। ८९९ नमसोऽस्य २० ॥ नम इत्येतस्य विकरणस्यासभुवीति धातोश्चाकारस्य लोपो भवति िित परे ॥ स्तः सन्ति ॥ ९०० सि सः २१ ॥ अस्तेः सकारस्य लोपो भवति सकारे परे ॥ सि स इत्यत्र अस्तेः सलोपः सकारमात्रे न तु पिति । तेन व्यतिसे । असि स्थः स्थ । अस्मि वः स्मः । स्यात् स्यातात् स्युः । अस्तु-स्तात् स्ताम् सन्तु । जर्जाधिशाधि । (सू० ८८७ ) एधि-स्तात् स्तम् स्त । असानि असाव असाम ॥ ९०१ अस्तेरीट् २२ ॥ अस्तेः परयोर्दिस्योरिडागमो भवति ।। आसीत् ।। ९०२ लोपागमयोर्मध्ये आगमविधिर्बलवान् २३ ॥ आस्ताम् आसन् । आसीः आस्तम् आस्त । आसम् आस्व आस्म ॥ ९०३ अस्तेरनपि भू वक्तव्यः २४ ।। बभूव । मृजूष् शुद्धौ ॥ Page #171 -------------------------------------------------------------------------- ________________ सू०९०४-९११] अदादिषु परस्मैपदिनः ४ १६३ ९०४ मृजेर्गुणनिमित्ते प्रत्यये परे वृद्धिर्वाच्या किति डिति खरे वा २५ ॥ षत्वम् ष्टुत्वम् ॥ ९०५ रात्सस्य २६ ॥ रेफादुत्तरस्य सस्येव लोपः स्यान्न त्वन्यस्य ॥ मार्टि मृष्टः मृजन्ति-मार्जन्ति । मार्कि मृष्टम् मृष्ट । मामि मृज्वः मृज्मः । मृज्यात् । माष्टुं मृष्टात् मृष्टाम् मृजन्तु मार्जन्तु । मृड़ि-मृष्टात् मृष्टम् मृष्ट । मार्जानि मार्जाव मार्जाम । अमाई-अमाई अमृष्टाम् अमृजन् अमार्जन् । अमा-अमाई अमृष्टम् अमृष्ट । अमार्जम् अमृज्व अमृज्म । ममार्ज ममृजतुः-ममार्जतुः ममृजुः ममार्जुः । ममार्जिथ-ममार्छ ममृजथुः-ममार्जथुः । मृज्यात् । मार्जिता-माष्ट। मार्जिष्यति-मायति । अमार्जिष्यत्-अमा_त् । अमार्जीत् अमार्जिष्टाम् अमार्जिषुः । अमाीत् अमाम् अमाद्दुः । वच परिभाषणे । वक्ति वक्तः॥ ९०६ नहि वचिरन्तिपरः प्रयोक्तव्यः किंतु वदन्तीत्युच्चारणीयम् २७ ॥ वदन्ति । वक्षि वक्थः वक्थ । वच्मि वच्वः वच्मः । वच्यात् । वक्तु-वक्तात् वक्ताम् वचन्तु । वग्धि-वक्तात् वक्तम् वक्त । अवक्-अवग् अवक्ताम् अवचन् । अवक्-अवग् अवक्तम् अवक्त । अवचम् अवच्च अवच्म । णबादौ पूर्वस्य (सू० ८३० ) उवाच । यजां यवराणां रवृतः संप्रसारणम् (सू० ८३१) ऊचतुः ऊचुः । उवचिथ-उवक्थ । उच्यात् । वक्ता वक्ष्यति । अवक्ष्यत् ॥ अस्यतिवक्ति (सू० ८७८) इति ङः ॥ ९०७ डे वचेरुमागमो वक्तव्यः २८ ॥ उ ओ (सू० ४५) अवोचत् अवोचताम् अवोचन् । रुदिर अश्रुविमोचने ९०८ रुदादेश्चतुर्णा ह्रसादेः २९ ॥ रुदादेः परेषां तिबादिचतुर्णी मध्ये हकारवसादेः प्रत्ययस्येद् भवति ॥ रोदितिः स्वपितिश्चैव श्वसितिः प्राणितिस्तथा । जक्षितिश्चैव विज्ञेयो रुदादिपञ्चको गणः ॥ १९॥ Page #172 -------------------------------------------------------------------------- ________________ १६४ सारस्वतव्याकरणम् । [वृत्तिः २ रोदिति रुदितः रुदन्ति । रोदिषि रुदिथः रुदिथ । रोदिमि रुदिवः रुदिमः । रुद्यात् । रोदितु-रुदिताद्वा रुदिताम् रुदन्तु रुदिहि-रुदिताद्वा रुदितम् रुदित । रोदानि रोदाव रोदाम ॥ ९०९ रुदादेर्दिस्योरीधटौ च वक्तव्यौ ३० ॥ अरोदीत् अरोदत् । रुरोद रुरुदतुः । रुद्यात् । रोदिता । रोदिष्यति । अरोदिष्यत् । अरोदीत् । इरितो वा (सू० ७४०) अरुदत् । जिष्वप् शये । जि इत् । खपिति । खप्यात् । खपितु-खपिताद्वा । अस्वपीत् । अखपत् । संप्रसारणम् । सुष्वाप सुषुपतुः सुषुपुः । सुष्वपिथ-सुष्वप्थ । सुप्यात् । खप्ता। खप्स्यति । अखप्स्यत् अखाप्सीत् अवाप्ताम् अखाप्सुः। श्वस् प्राणने । श्वसिति । श्वस्यात् । श्वसितु । अश्वसीत् । अश्वसत् अश्वसिताम् अश्वसन् । शश्वास शश्वसतुः शश्वसुः । श्वस्यात् । श्वसिता । श्वसिष्यति । अश्वासष्यत् । यन्तक्षण (सू० ७८०) इति वृद्ध्यभावः । अश्वसीत् । अन प्राणने ॥ ९१० अनिति ३१ ॥ प्रपूर्वः । [ उपसर्गस्थानिमित्तादनितेर्नस्य णत्वं वाच्यम् ] ॥प्राणिति । अन्यात् । अनितु । आनीत् । आनत् । आन आनतुः आनुः । अन्यात् । अनिष्यति । आनिष्यत् । आनीत् आनिष्टाम् आनिषुः। जक्षभक्षहसनयोः । जक्षिति जक्षितः ॥ ९११ जक्षादेरन्तोऽदन उस् ३२ ॥ जक्षजागृदरिद्राशास्चकासृभ्यः परस्य अन्त अत् अन उस् भवति ॥ जक्षति जक्षिषि । जक्ष्यात् । जक्षितु । अबक्षीत् । अजक्षत् । जजक्ष । जक्ष्यात् । जक्षिता । जक्षिष्यति । अजक्षिष्यत् । अजक्षीत् । जागृ निद्राक्षये । जागर्ति जागृतः जाग्रति । जागर्षि । जागृयात् । जागर्तु-जागृतात् जागृताम् जाग्रतु । जागृहिजागृताद्वा जागृतम् जागृत । जागराणि जागराव जागराम । गुणः (सू० ६९२) । दिस्योर्हसात् (सू० ८८५) स्रोविसर्गः (सू०. Page #173 -------------------------------------------------------------------------- ________________ सू० ९१२-९१९] अदादिषु परस्मैपदिनः ४ १२४) अजागः अजागृताम् ॥ ९१२ उस जागर्तेर्धातोर्गुणो वक्तव्यः ३३ ॥ अजागरुः । अजागः अजागृतम् अजागृत । अजागरम् अजागृव अजागृम । जजागार ॥ ९१३ जागतेः किति गुणो वक्तव्यः ३४ ॥ जजागरतुः । जजागरुः । जजागरिथ जजागरथुः जजागर । जजागार - जजागर जजागरिव जजागरिम | विद् (सू० ७६७ ) इति पक्षे आम् । जागरांचकार जागरामास जागरांबभूव । जागर्यात् । जागरिता । जागरिष्यति । अजागरिष्यत् । ह्रयन्तक्षण ( सू० ७८० ) इति न वृद्धिः । अजागरीत् । दरिद्रा दुर्गतौ । दरिद्राति ॥ ९१४ दरिद्रातेरिदालोपश्च ङिति ३५ | दरिद्रातेराकारस्य लोपो भवति ङिति खरे परे इकारश्च ङिति हसे परे ॥ दरिद्रतः दरिद्रति । दरिद्रासि दरिद्रिथः दरिद्रिथ । दरिद्रामि दरिद्रिवः दरिद्रिमः । दरिद्रियात् । दरिद्रातु - दरिद्रताद्वा दरिद्रताम् दरिद्रतु । दरिद्राहि दरिद्रताद्वा दरिद्रतम् दरिद्रित । दरिद्राणि दरिद्राव दारद्राम । अदरिद्रात् अदरिद्रिताम् अदरिद्रुः । अदरिद्राः अदरिद्रितम् अदरिद्रित । अदरिद्राम् अदरिद्रिव अदरिद्रिम || ९१५ ण वुणसयुटो हित्वा अन्यस्माद्दरिद्रातेरनप्यालोपो लुङि वा ३६ ॥ ददरिद्रौ ददरिद्रतुः ददरिदुः । ददरिद्रिथ ददरिद्रथुः । पक्षे । दरिद्राञ्चकार । दरिद्र्यात् । दरिद्रता । दरिद्विष्यति । अदरिद्विष्यत् । अदरिद्रीत् अदरिद्रिष्टाम् अदरिद्विषुः । पक्षे । अदरिद्रासीत् अदरिद्रासिष्टाम् अदरिद्रासिषुः । शास् अनुशिष्टौ । शास्ति । ९१६ शासेरिः ३७|| कितीत्यनुवृत्तम् । शास्तेराकारस्येकारादेशो भवति किति ङिति हसे ङे च परे ॥ घसादेः षः ( सू० ८३२) शिष्टः शासति । शास्ति शिष्टः शिष्ट । शास्मि शिष्वः शिष्मः । शिष्यात् । शास्तु १६५ Page #174 -------------------------------------------------------------------------- ________________ सारखतव्याकरणम् । [वृत्तिः२ · शिष्टात् शिष्टाम् शासतु । जयधिशाधि (सू० ८८७) शाधिशिष्टाद्वा शिष्टम् शिष्ट । शासानि साव शासाम ॥ ९१७ दिपि सस्य तः सिपि वा ३८ ॥ दिपि परे सस्य तकारो भवति सिपि तु वा भवति ।। अशात् अशिष्टाम् अशासुः । अशात्-अशाः अशिष्टम् अशिष्ट । अशासम् अशिष्य अशिष्म । शशास शशासतुः । शशासुः। शिष्यात् । शासिता। शासिष्यति । अशासिष्यत् । लित्पुषादेः ( सू०७९१) । शासेरिः ( सू०९१६) अशिषत् । चकासू दीप्तौ । ऋ इत् । चकास्ति चकास्तः चकासति । चकास्स्यात् चकास्तु-चकास्तात् चकास्ताम् चकासतु । झसाद्धि:: (सू० ८८१) ॥ ९१८ घौ सलोपो वाच्यः ३९ ॥ चकाधिचकास्तात् चकास्तम् चकास्त । अचकात् अचकास्ताम् अचकासुः । अचकात्-अचकाः । कासादिप्रत्ययादाम् (सू० ७६६) चकासाश्चकार । चकास्यात् । चकासिता । चकासिष्यति । अचकासिष्यत् । अचकासीत् अचकासिष्टाम् अचकासिषुः ॥ इत्यदादिषु परस्मैपदिनः ॥ ४ ॥ __ अदादिष्वात्मनेपदिनः ५ अथात्मनेपदिप्रक्रिया ॥ चक्षिङ व्यक्तायां वाचि । इकार उच्चारणार्थः। ङकार अत्मनेपदार्थः । स्कोराद्योश्च (सू० ३०१) ष्टुत्वम् । चष्टे चक्षाते । आतोऽन्तोदनतः (सू० ७२९) चक्षते । पढोः कः से (सू० ७९८) चक्षे चक्षाथे चड्ढ़े। चक्षे चक्ष्वहे चमहे । चक्षीत । चष्टाम् । अचष्ट अचक्षाताम् अचक्षत ॥ ९१९ चक्षिडोऽनपि ख्याशाली गादौ वा वक्तव्यौ १ ॥ चख्यौ चख्यतुःऽचख्युः । चक्शौ चक्शतुः चक्शुः । चचक्षे । ख्यायात् Page #175 -------------------------------------------------------------------------- ________________ सू० ९२०-९२९] अदादिष्वात्मनेपदिनः ५ ख्येयात्-क्शायात् क्शेयात् । ख्यासीष्ट-क्शासीष्ट । ख्याता २ क्शाता २ । ख्यास्यति-ख्यास्यते क्शास्यति-क्शास्यते । अख्यास्यत्-अख्यास्थत अक्शास्यत्-अक्शास्यत । पुषादित्वाद् ङः । अख्यत् ॥ ९२० अस्यतिवक्तिख्यातीनामात्मनेपदे से? वाच्यः २ ॥ अख्यत अक्शासीत् अक्शास्ताम् । ईड स्तुतौ । खसे चपा झसानाम् (सू० ८९) ईट्टे ईडाते ईडते ॥ ९२१ ईडीशोः सध्वयोरिड्वक्तव्यः ३ ॥ ईडिषे ईडाथे ईडिध्वे । ईडे ईडहे ईड्महे । ईडीत । ईट्टाम् । ऐट्ट ॥ ९२२ लङो ध्वस्य नेट् ४ ॥ रेड्नुम् । ईडांचके। ईडिषीष्ट । ईडिता । ईडिष्यते । ऐडिष्यत ऐडिष्ट । ईश ऐश्वर्ये । ईष्टे ईशिषे । ईशीत । ईष्टाम् ऐष्ट ईशाञ्चके । ईशिषीष्ट । ईशिता । ईशिष्यते । ऐशिष्यत । ऐशिष्ट । आस् उपवेशने । आस्ते । आसीत् । आस्ताम् । आस्त । कसादित्वादाम् । आसाञ्चके आसिषीष्ट । असिता। आसिष्यते । आसिष्यत । आसिष्ट । वस् अच्छादने । वस्ते । वसीत अवसिष्ट । ङ् प्राणिगर्भविमोचने । आदेः ष्णः नः (सू० ७४८) सूते । सुवीत । सूताम् ॥ ९२३ सूतेः पिति गुणाभावो वाच्यः ५॥ सुवै सुवावहै सुवामहै । असूत । सुषुवे । खरति इति वेट् । सविषीष्ट-सौषीष्ट । सावेता सोता । सविष्यते-सोप्यते । असविष्यत-असोष्यत । असविष्ट-असोष्ट । शीङ् खमे ॥ ९२४ शीङः सर्वत्र गुणो भवत्यपि विषये ॥ शेते शयाते ॥ ९२५ शीङोऽतो रुट ७ ॥ शीङः परस्यादित्येतस्य रुडागमो भवति ॥ शेरते । शयीत । शेताम् शयाताम् शेरताम् । अशेत अशयाताम् । अशेरत । शिष्ये शिष्याते । शयिषीष्ट । शयिता । शयिष्यते । अशयिष्यत । अशयिष्ट । इङ् अध्ययने । अधिपूर्वः । अधीते अधीयाते अधीयते । अधीयीत । अधीताम् अधीयाताम् अधीयताम्। Page #176 -------------------------------------------------------------------------- ________________ १६८ सारस्वतव्याकरणम् । [वृत्तिः२ अध्यैत । इयादेशे कृते पश्चादडागमद्वयम् । अध्ययाताम् अध्ययत ।। ९२६ इङो णादौ गा वक्तव्यः ८॥ अधिजगे। अध्येषीष्ट । अध्येता । अध्येष्यते । अध्यैष्यत ॥९२७ इङो वा गी सौ लङि च तत्परस्य प्रत्ययस्य ङित्वं वाच्यम् ९॥ ङित्वाद्गुणो न । अध्यगीष्यत अध्यगीष्येताम् अध्यगीष्यन्त । अध्यैष्यत । अध्यगीष्ट अध्यगीषाताम् अध्यगीषत । अध्यैष्ट अध्यैषाताम् अध्यैषत ॥ इत्यदादिष्वात्मनेपदिनः ॥ ५ ॥ अदादिषभयपदिनः ६ अथोभयपदिप्रक्रिया प्रदर्श्यते ॥ द्विष अप्रीतौ । अकार उभयपदार्थः । द्वेष्टि द्विष्टे । द्विष्यात् द्विषीत । द्वेष्टु-द्विष्टात् द्विष्टाम् । अद्वेट्-अद्वेड् अद्विष्टाम् अद्विषुः-अद्विषन् । अद्विष्ट । दिद्वेष-दिद्विषे । द्विष्यात् । द्विक्षीष्ट । द्वेष्टा २। द्वेक्ष्यति द्वेक्ष्यते । अद्वेक्ष्यत् अद्वेक्ष्यत । हशषान्तात्सक् ( सू० ८०० ) अद्विक्षत् । अद्विक्षत ॥ ९२८ सस्यात्मनेपदे स्वरे टिलोपो वाच्यः १ ॥ अद्विक्षाताम् अद्विक्षन्त । दुह प्रपूरणे । दादेर्घः (सू० २३८) दोग्धि दुग्धः दुहन्ति । धोक्षि दुग्धः दुग्ध । दोहिम दुह्वः दुमः । दुग्धे । दुह्यात् । दुहीत । दोग्धु ॥ ९२९ हकारस्य कचिज्झस्भावो वाच्यः २॥ दुग्धि दुग्धाम् । अधोक्-अधोग् अदुग्धाम् अदुहन् । अदुग्ध । दुदोह । दुदुहे । दुह्यात् । धुक्षीष्ट । दोग्धा दोग्धा । धोक्ष्यति धोक्ष्यते । अधोक्ष्यत् अधोक्ष्यत । अधुक्षत् अधुक्षत ॥ दुहूदिगुहूभ्यः सको लुग्वा वकारतवर्गयोराति (सू० ८६६) अदुग्ध अधुक्षताम् अधुक्षन्त । अधुग्धाः-अधुक्षथाः अधुक्षाथाम् अधुग्ध्वम्-अधुक्षध्वम् । अधुक्षावहि-अदुहहि अधुक्षामहि । Page #177 -------------------------------------------------------------------------- ________________ सू०९३०-९४६] अदादिषूभयपदिनः ६ १६९ दिह उपचये । देग्धि । तद्वत् । लिह आस्वादने । हो ढः (सू० २४३) लेढि । तद्वत् । ष्टुञ् स्तुतौ । आदेः ष्णः स्वः (सू० ७४८) ओरौ (सू० ८९१) स्तौति-स्तुवीति स्तुतः-स्तुवीतः स्तुवन्ति । स्तुते स्तुवीते । स्तुयात् स्तुवीयात् । स्तौतु-स्तुवीतु स्तुतात्-स्तुवीतात् स्तुताम्-स्तुवीताम् स्तुवन्तु । स्तुहि-स्तुवीतात् । अस्तौत् अस्तवीत् अस्तुताम्-अस्तुवीताम् अस्तुवन् । अस्तुत-अस्तुवीत । तुष्टाव तुष्टुवतुः तुष्टुवुः । क्रादित्वान्नेट् । तुष्टोथ तुष्टुवथुः तुष्टुव । तुष्टाव तुष्टुव तुष्टुम । तुष्टुवे । स्तूयात् स्तोषीष्ट । स्तोता स्तोता। स्तोष्यति स्तोष्यते । अस्तोष्यत् अस्तोष्यत ॥ ९३० स्तुसुधनां पे सेरिडू वक्तव्यः ३ ॥ अस्तावीत् अस्तोष्ट । ब्रूने व्यक्तायां वाचि ॥ ९३१ अबादावीपि ति त्मि ४ ॥ ब्रुव इकारः प्रत्ययो भवति तकारसकारमकारादौ पिति परे अबादौ विषये ॥ ब्रवीति ब्रतः ब्रुवन्ति । ब्रवीषि ब्रूथः ॥ ९३२ आहश्च पश्चानाम् ५ ॥ ब्रुव उत्तरेषां तिबादिनां पञ्चानां णबादयः पञ्चादेशा भवन्ति ब्रुव आहश्चादेशो भवति ॥ आह आहतुः आहुः ॥ ९३३ त थे ६ ॥ आहो हकारस्य तकारादेशो भवति थे परे ॥ आत्थ आहथुः ब्रूथ । ब्रवीमि वः ब्रूमः । ब्रूयात् ब्रवीत । ब्रवीतु ब्रूताम् । अब्रवीत् अब्रत ॥ ९३४ बुवो वचिः ७ ॥ ब्रुवो वचिरादेशो भवति अनपि विषये । इकार इत् । उवाच ऊचे । अवोचत् अवोचत । शेषस्य पूर्ववत्प्रक्रिया । डणुञ् अच्छादने ॥ ९३५ ऊर्णोतेर्वा वृद्धिः ८॥ हसादौ पिते ॥ ऊर्णोति-ऊौति ॥ ९३६ ऊर्णोतेर्गुणो दिस्योः ९॥ वृद्धेरपवादः । और्णोत् और्णोः ॥ ९३७ ऊर्णोतेराम्न १०॥ ९३८ स्वरादेः परः११॥ स्वरादेर्धातोर्द्वितीयोऽवयवोऽद्विरुक्तः सखरो द्विर्भवति ॥ ९३९ स्वरात्पराः संयोगादयो नदरा द्विन १२ ॥ Page #178 -------------------------------------------------------------------------- ________________ १७० सारस्वतव्याकरणम् । [वृत्तिः २ ऊणुनाव ऊर्गुनुवतुः ॥ ९४० ऊोतेरिडादिः प्रत्ययो वा डित १३ ॥ ऊर्जुनुविथ- ऊर्जुनविथ । ऊणुयात् ऊर्तुविषीष्ट-ऊर्णविषीष्ट । ऊर्गुविता-ऊर्णविता ॥ ९४१ उर्णोतेर्वा वृद्धिः सौ परे १४ ॥ पक्षे गुणः। और्णावीत्-और्णवीत् औMवीत् और्णविष्ट औMविष्ट ॥ इत्यदादिषूभयपदिनः ॥ ६ ॥ इति लुम्विकरणा अदादयो धातवः ।। ___ जुहोत्यादिषु परस्मैपदिनः ७ लुग्विकरणस्यापि जुहोत्यादिगणस्य विशेषः । हु दानादनयोः ॥ ९४२ हादेर्द्धिश्च १॥ हु इत्यादेर्गणादुत्पन्नस्यापो लुम्भवति तस्मिन् लुकि सति धातोर्विचनम् ॥ कुहोश्चः ( सू० ७४६) । गुणः (सू० ६९२) । जुहोति जुहुतः ॥ ९४३ द्वेः २॥ द्विरुक्तादुत्तरस्यान्त इत्येतस्याद्भवति । जुह्वति । जुहोषि जुहुथः जुहुथ । जुहोमि जुहुवः जुहुमः । जुहुयात् जुहुयाताम् । जुहोतु जुहुतात् जुहुताम् जुह्वतु ॥ ९४४ हेधिः ३ ॥ जुहोतेरुत्तरस्य हेर्धिर्भवति ॥ जुहुधि । अजुहोत् अजुहुताम् । अद्वयुसीत्युक्तेर्गुणः । अजुवुः । अजुहोः अजुहुतम् अजुहुत । अजुहवम् अजुहुव अजुहुम । जुहाव जुहुवतुः जुहुवुः । जुहविथ-जुहोथ ॥ ९४५ भीहुभृहीणामाम्वा वक्तव्यः स लुग्वत् ४ ।। लुकि सति धातोत्विम् ॥ जुहवाञ्चकार । हूयात् । होता । होष्यति । अहोष्यत् । अहौषीत् अहौष्टाम् अहौषुः । त्रिभी भये । जि इत् । बिभेति बिभीतः ॥ ९४६ ङिति हसे भिय इकारो वा वक्तव्यः ५॥ सार्वधातुके । बिभितः बिभ्यति । बिभीयात्बिभियात् । बिभेतु बिभितात्-बिभीतात् बिभीताम् बिभिताम् । अबिभेत् अबिभिताम्-अबिभीताम् अबिभयुः । बिभाय । पक्षे आम् । बिभयाचकार । भीयात् । भेता। भेष्यति । अभेष्यत् । अभैषीत् । ही Page #179 -------------------------------------------------------------------------- ________________ सू० ९४७-९५६] जुहोत्यादिषु परस्मैपदिनः ७ १७१ • लज्जायाम् । जिहेति जिह्रीतः जिह्रियति । जिहीयात् । जिहेतु । अजिह्वेत् अजिताम् अजिहयुः । जिह्वाय जिहियतुः जिहियुः । जिहियांचकार । हीयात् । ता । हृष्यति । अद्देष्यत् । अद्वैषीत् ॥ I पृ पालनपूरणयोः ॥ ९४७ ऋप्रोरिः पूर्वस्य ॥ ऋप्रोः पूर्वस्य ।। ऋकारस्य इकारो भवति लुकि सति ॥ गुण: ( सू० ६९२ ) पिपर्ति ॥ ९४८ पोरुर् ७ || पवर्गादुत्तरस्य ऋकारस्य उ भवति किति ङिति च परे ॥ य्वोविंहसे ( सू० ३१६ ) पिपूर्तः पिपुरति । पिपूर्यात् । पिपर्तु पिपूर्तात् पिपूर्तम् पिपुरतु । पिपूर्हि । अपिप: । ऋप्रोर्दिस्योरडागमो वा वक्तव्य इति केचित् ॥ अपिपरत् अपिपूर्तम् अपिपरुः । अपिपः-अपिपरः अपिपूर्तम् अपिपूर्त । अपिपरम् अपिपूर्व अपिपूर्म । पपार ॥ ९४९ ऋसंयोगादेर्णादेर कित्त्वं वाच्यम् ८ ॥ कित्त्वाभावाद्गुणः । पपरतुः पपरुः । पपरिथ । पूर्यात् ईटो हाम् ( सू० ८२१ ) परीता परिता । परीष्यति । परिष्यति । अपरी - ष्यत्-अपरिष्यत् । अपारीत् ॥ ९५० वृद्धिहेतौ साविटो न दीर्घः ९ ॥ अपारिष्टाम् अपारिषुः । हखोsपि पिपर्तिरस्ति । पिपर्ति पिपृतः पिप्रति । पिपृयात् । पिपर्तु । अपिपः । अपिपरत् अपिपृताम् अपिपरुः । अपिपः अपिपरः । पपार पप्रतुः पपुः । ऋतो - रिङ् । प्रियात् । पर्ता । हनृतः स्यपः ( सू० ७९० ) परिष्यति । 1 अपरिष्यत् । अपार्षीत् । ओहाक् त्यागे । ओकावितौ । जहाति ॥ ९५१ द्वेस्तौ लोपो ऽनुवर्तते इकारश्च १० ॥ द्विरुक्तस्य धातोराकारस्य लोपो भवति ङिति खरे इकारश्च ङिति हसे परे ॥ जहितः ॥ ९५२ जहातेराकारस्य क्लिति हसे ईर्वा वाच्यः ११ ॥ जहीतः जहति ॥ ९५३ जहातेर्यादादावालोपो वाच्यः १२ ॥ जह्यात् । जहातु-जहीतात् जहितात् जहीताम् जहिताम् जहतु ॥ 1 1 Page #180 -------------------------------------------------------------------------- ________________ १७२ सारस्वतव्याकरणम् । [वृत्तिः २ ९५४ ईर्वा हौ १३ ॥ जहातेही परे इकारः सिद्ध एव । पक्षे अकारेकारौ भवतः ॥ जहीहि-जहिहि-जहाहि । अजहात् । अजहीताम्-अजहिताम् अजहुः । जहाँ जहतुः जहुः । जहिथ-जहाथ । दादेरे ( सू० ८०७ ) हेयात् । हाता । हास्यति । अहास्यत् । अहासीत् । ऋ गतौ । ऋपोरिः पूर्वस्य ( सू० ९४७ ) ॥ ९५५ असवर्णे स्वरे पूर्वस्य इयादेशो भवति १४ ॥ इयर्ति इयतः इअति । इयूयात् । इयतु इयृतात् इय॒ताम् इयतु । इयहि-इय॒तात् इयतम् इय॒त । इयराणि इयराव इयराम । ऐयः-ऐयरत् ऐयताम् ऐयरुः । ऐयः-ऐयरः ऐवृतम् ऐयत । ऐयव ऐयुम । रः (सू० ११६) । वृद्धिः । आर आरतुः आरुः । गुणोतिसंयोगाद्योः (सू० ८१२) अर्यात् । अर्ता । अरिष्यति । अरिष्यत् । लदृशोः पुषादित्वात् ङप्रत्ययः । सेरपवादः । गुणः. ( सू० ६९२ ) आरत् ॥ ॥ इति जुहोत्यादिषु परस्मैपदिनः ॥ ७ ॥ जुहोत्यादिष्वात्मनेपदिनः ८ .. - ॥ अथात्मनेपदिनः ॥ ओहाङ् गतौ ॥ ९५६ भृमा लुकि १॥ डुभृञ् धारणपोषणयोः । ओहाङ् गतौ । माङ् माने इत्येतेषां पूर्वस्याकारस्य इकारो भवति लुकि सति ॥ द्वेस्तौ (सू० ९५१) जिहीते जिहाते जिहते । जिहीत । जिहीताम् । अजिहीत । जहे । हासीष्ट । हाता । हास्यते । अहास्यत । अहास्त अहासाताम् अहासत । माङ् माने । मिमीते मिमाते मिमते । मिमीत मिमीताम् । अमिमीत । ममे । मासीष्ट । माता । मास्यते । अमास्यत । अमास्त । ॥ इति जुहोत्यादिष्वात्मनेपदिनः ॥ ८ ॥ Page #181 -------------------------------------------------------------------------- ________________ सू०९५७-९६३] जुहोत्यादिषुभयपदिनः ९ १७३ जुहोत्यादिषुभयपदिनः ९ अथोभयदिनः ॥ ॥ डुभृञ् धारणपोषणयोः । डुआवितौ । बिभर्ति बिभृतः बिभ्रति । बिभृते । बिभृयात् । बिभ्रीत । बिभर्तु बिभृताम् । अबिभः अबिभृताम् अभिभरुः । अबिभृत । बभार बभ्रतुः बभ्रुः । बभर्थ बभ्रे बिभराञ्चकार बिभरांचक्रे बिभरामास बिभरांबभूष । यादादौ । बिभ्रियात् भृषीष्ट । भर्ता २ । हनृतः स्यपः (सू० ७९० ) भरिष्यति-भरिष्यते । अभरिष्यत्-अभरिष्यत । अभार्षीत् । उः ( सू० ८६४ ) अभृत । डुदाञ् दाने । ददाति ॥ ९५७ दादेः १ ॥ द्विरुक्तस्य धातोराकारस्य लोपो भवति डिति परे ॥ दत्तः ददति । दत्ते ददाते ददते । दद्यात् ददीत । ददातु दत्ताद्वा दत्ताम् ददतु ॥ ९५८ दा हो २ ॥ दाधोराकारास्यैकारो भवति पूर्वस्य च लोपो भवति हौ परे ॥ देहि दत्ताम् । अददात् अदत्ताम् अददुः । अदत्त । ददौ । ददे । देयात् । दासीष्ट । दाता २ । दास्यति दास्यते । अदास्यत् अदास्यत । दादेः पे (सू० ७२५ ) अदात् अदाताम् अदुः ॥ ९५९ दाधास्थामित्वं सेर्डित्वम् ३ ॥ ठित्वान्न गुणः ॥ लोपो हखाज्झसे (सू० ८५२) अदित अदिषाताम् अदिषत । डुधाञ् धारणपोषणयोः । दधाति । दादेः (सू० ९५७) ॥९६० पूर्वस्य डिति झसे धः ४ ॥झभान्तस्य दधातेः पूर्वदकारस्य धकारो भवति ङिति झसे परे ॥ धत्तः दधति । धत्ते । दध्यात् दधीत । दधातु धेहि धत्ताम् । अदधात् अदधाः अधत्त । दधौ दधे । धेयात् धासीष्ट । धाता २ । धास्यति धास्यते । अधास्यत् अधास्यत । दादेः पे (सू० ७२५) अधात् । अधित । णिजिर शौचपोषणयोः ॥ इरित् । आदेः ष्णः स्वः (७४८) ॥ ९६१ निजां गुणः ५॥ Page #182 -------------------------------------------------------------------------- ________________ १७४ सारस्वतव्याकरणम् । [वृत्तिः २ निविविषां पूर्वस्य गुणो भवति लुकि सति ॥ नेनेक्ति नेनिक्तः नेनिजति । नेनेक्षि नेनिक्थः नेनिक्थ । नेनेज्मि नेनिज्वः नेनिज्मः । नेनिक्ते । नेनिज्यात् नेनिजीत । नेनेक्तु-नेनिक्तात् नेनिक्ताम् नेनिजतु । नेनिग्धि-नेनिक्तात् नेनिक्तम् नेनिक्त ॥ ९६२ द्वे खरेऽपि नोपधागुणः ६॥ द्विरुक्तस्य धातोरपि विषये पिति खरे उपधाया गुणो न भवति ॥ नेनिजानि नेनिजाव नेनिजाम । नेनिक्ताम् । अनेनेक्-अनेनेग् अनेनिक्ताम् । अनेनिजुः अनेनिक्त । निनेज निनिजे । निज्यात् । सिस्योः (सू० ८५८) निक्षीष्ट नेक्ता नेक्ता । नेक्ष्यति नेक्ष्यते । अनेक्ष्यत् अनेक्ष्यत । अनिजत् अनिजताम् । अनिटो नामिवतः (सू. ७५४ ) अनैक्षीत् अनैक्ताम् अनैक्षुः । विजिर् पृथग्भावे । वेवेक्ति । नेनेक्तिवत् ॥ विष्ल व्याप्तौ । वेवेष्टि वेविष्टे । वेविष्यात् वेविषीत वेवेष्टु वेविष्टाम् । अवेवेट् अवेवेइ । विवेष विविषे । विष्यात् विक्षीष्ट । वेष्टा २ । वेश्यति . वेक्ष्यते । अवेक्ष्यत् अवेक्ष्यत । लित्पुषादेऊः (सू० ७९१) अविषत् । डो वेति केचित् । हशषान्तात्सक (सू० ८००) अविक्षत् अविक्षत ॥ इति जुहोत्यादिषूभयपदिनः ॥ ९ ॥ इति लुग्विकरणा जुहोत्यादयः॥ दिवादिषु परस्मैपदिनः १० अथ दिवादयः ॥ ॥ दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदखानकान्तिगतिषु ॥९६३ दिवादेर्यः१॥ दिवादेर्गणाद्यः प्रत्ययो भवति चतुषु परेषु ॥ अपोऽपवादः ॥ य्वोर्विहसे (सू० ३१६) दीव्यति । दीव्येत् । दीव्यतु । अदीव्यत् । दिदेव दिदिवतुः दिदिवुः । दिदेविथ । दीव्यात् । देविता । देवेष्यति । अदेविष्यत् । अदेवीत् । Page #183 -------------------------------------------------------------------------- ________________ सू०६९४-९७२ ] दिवादिषु परस्मैपदिनः १० १७५ षिवु तन्तुसन्ताने । सीव्यति । सीव्यत् । सीव्यतु । असीव्यत् । सिषेव । सीव्यात् । सेविता । सेविष्यति । असेविष्यत् । असेवीत् । नृती गात्रविक्षेपे । ईकार इत् । नृत्यति । नृत्येत् । नृत्यतु । अनृत्यत् । ननर्त ननृततुः ननृतुः । नृत्यात् । नर्तिता । नर्तिष्यति । अनतिष्यत् ।। ९६४ नृत्तृछ्च त्-कृतां सस्यासेरिट्र वा वक्तव्यः २ ॥ नस्यति । अनय॑त् । अनर्तीत् । इर् वयोहानौ । ऋत इर् (सू० ८२०) य्वोर्विहसे (सू० ३१६) जीर्यति । जीर्येत् । जीर्यतु । अजीर्यत् । जजार। गुणः (सू० ६९२ ) जजरतुः जजरुः । जीर्यात् । ईटो ग्रहाम् (सू० ८२१) जरिता-जरीता । जरिष्यति-जरीष्यति । अजरिष्यत् अजरीष्यत् । इरितो वा (सू ७४०) अजरत् । अजारीत् । शो तनूकरणे ॥ ९६५ योः ३ ॥ यप्रत्यये परे धातोरोकारस्य लोपो भवति ॥ श्यति । श्येत् । श्यतु । अश्यत् । शशौ । शायात् शाता । शास्यति । अशास्यत् । वा सिलोपः । अशात् अशासीत् । छो छेदने । छ्यति । च्येत् । छयतु । अछयत् । चच्छौ । छायात् । छाता । छास्यति । अच्छास्यत् । अच्छात् अच्छासीत् । षोऽन्तकमणि । स्यति । स्येत् । स्यतु । अस्यत् । ससौ । सेयात् । साता । सास्यति । असास्यत् । असात् असासीत् । दो अवखण्डने । यति । येत् । द्यतु । अद्यत् । ददौ । देयात् । दाता । दास्यति । अदास्यत् । अदात् । राध साध संसिद्धौ । राध्यति । राध्येत् । राध्यतु । अराध्यत् । रराध ॥ ९६६ राधतेहिंसायां किति णादौ सेटि थपि चैत्वपूर्वलोपौ वा ४ ॥ रेधतुः-रराधतुः । राध्यात् । राद्धा । रात्स्यति । अरात्स्यत् । अरात्सीत् । अराद्धाम् इष सर्पणे । इष्येति । इष्येत् । इष्यतु । ऐष्यत् । इयेष । इष्यत् । एषिता । एषिष्यति । ऐषिष्यत् । ऐषीत् । व्यध ताडने । ग्रहां किति च (सू० ८७३) Page #184 -------------------------------------------------------------------------- ________________ १७६ सारस्वतव्याकणरम् । [वृत्तिः २ विध्यति । विध्येत् । विध्यतु । अविध्यत् । विव्याध । व्यद्धा । व्यत्स्यति । अव्यत्स्यत् । अव्यात्सीत् अव्याद्धाम् अव्यात्सुः । पुष् पुष्टौ । पुष्यति । पुष्येत् । पुष्यतु । अपुष्यत् । पुपोष । पुष्यात् । पोष्टा । पोक्ष्यति । अपोक्ष्यत् । अपुषत् । श्लिष् आलिङ्गने । लिष्यति । श्लिष्येत् । श्लिष्यतु । अश्लिष्यत् । शिश्लेष । श्लिष्यात् । श्लेष्टा । श्लेष्यति । अश्लेष्यत् । हशषान्तात्सक (सू० ८००) ॥ ९६७ श्लिषेरालिङ्गने सक ५ ॥ ङापवादः । अश्लिक्षत्कन्यां चैत्रः । अनालिङ्गने । समश्लिषत् जतु काष्ठम् । तृप् प्रीणने । तृप्यति । तृप्येत् । तृप्यतु । अतृप्यत् । ततर्प । तृप्यत् । रधादित्वादिडिकल्पेन । तर्पिता-त्रप्ता-त" । रारो झसे दृशाम् (सू० ७९६) तर्पिष्यति-त्रप्स्यति-तय॑ति । अतर्पिष्यत्-अत्रप्स्यत्-अत य॑त् ॥ ९६८ स्पृशमशकशतृपां सिर्वा वक्तव्यः ६ ॥ रधादित्वाद्वेट् । अतीत् अत्राप्सीतू-अतार्सीत् । पुषादित्वात् ङः। अतृपत् । एवं दृप् हर्षविमोहनयोः । दृप्यति । मुह वैचित्ये । मुह्यति । मुमोह । मुह्यातू । द्रुहादीनां घत्वढत्वे वा (सू० २४४) मोढा मोग्धा मोहिता । रधादित्वाद्वेट् । मोक्ष्यति-मोहिष्यति । अमोक्ष्यत् अमोहिष्यत् । पुषादित्वात् ङः । अमुहत् अमोहीत् अमौक्षीत् अमुक्षत् । णश् अदर्शने । नश्यति । ननाश । फणादित्वादेत्वपूर्वलोपौ । नेशतुः नेशुः । नश्यात् ॥ ९६९ मस्जिनशोझसे नम् वक्तव्यः७ ॥ छशषराजादेः षः (सू० २७६) मष्टा ॥ ९७० नशेः षान्तस्य ८ ॥ नशेः पान्तस्य णत्वं न स्यात् ॥ प्रनष्टानशिता । नक्ष्यति-नशिष्यति । अशिष्यत्-अनंक्ष्यत् । पुषादित्वात् कः ॥ ९७१ डे नशेरत एत्वं वा वाच्यम् ९ ॥ अनेशत्-अनशत् । शम् दम् उपशमे ॥ ९७२ शमां दीर्घः १०॥ शमादीनां Page #185 -------------------------------------------------------------------------- ________________ सू०९७३-९७८] दिवादिष्वात्मनेपदिनः ११ १७७ दीर्घो भवति ये परे अबादौ विषये च ॥ शाम्यति । शाम्येत् । शाम्यतु । अशाम्यत् । शशाम शेमतुः शेमुः । शम्यात् । शमिता। शमिष्यति । अशमिष्यत् । लित्पुषादेऊः । अशमत् । अशमीदिति केचित् । 'दम् श्रम् तम् भ्रम् क्षम् क्रम् मद्' एते शमादयः । रूपं तद्वत् । जिमिदा स्नेहने । आजी इतौ ॥ ९७३ मिदेर्ये गुणो वक्तव्यः ११ ॥ मेद्यति । मेद्येत् । मेद्यतु । अमेद्यत् । मिमेद मिमिदतुः मिमिदुः । मिद्यात् । मेदिता । मेदिष्यति । अमेदिष्यत् । अमिदत् । असु क्षेपणे । अस्यति । आस । असिता । असिष्यति ।। ९७४ अस्यतेर्डे थुग्वक्तव्यः १२ ॥ आस्थत् । इति दिवादिषु परस्मैपदिनः ॥ १०॥ दिवादिष्वात्मनेपदिनः ११ अथात्मनेपदिनः ॥ जनी प्रादुर्भावे । ईकारेत् ॥ ९७५ जा जनीज्ञोः १ जनी प्रादुर्भावे । ज्ञाऽवबोधने । अनयोर्जादेशो भवति चतुषु परेषु ॥ जायते । जायेत् । जायेताम् । अजायत । गमां खरे (सू०७८९ ) श्चुत्वम् । जञोजः ( सू० २५३) जज्ञे । जनिषीष्ट । जनिता । जनिष्यते । अजनिष्यत । अजनिष्ट ॥ ९७६ पदादेस्तनि कर्तर्यपि सेरिण वक्तव्यो दीपादिभ्यो वा.२ ॥ 'पद् दीप जन् बुध पूरि तायि प्यायि' एते पदादयः ॥ ९७७ लोपः ३ ॥ इण्संयोगे तनो लोपो भवति ॥ जनिवध्योर्न वृद्धिः ( सू० ८९०) अजनि अजनिषाताम् । दीपी दीप्तौ । दीप्यते। दीप्येत । दीप्यताम् । अदीप्यत । दिदीपे । दीपिषीष्ट । दीपिता । दीषिष्यते । अदीपिष्यत । अदीपिष्ट । अदीपि । पूरी आप्यायने । पूर्यते । पूर्येत । पूर्यताम् । अपूर्यत । पुपूरे । पूरिषीष्ट । पूरिता । पूरिष्यते । अ १२ Page #186 -------------------------------------------------------------------------- ________________ १७८ सारखतव्याकरणम् । [वृत्तिः२ पूरिष्यत । अपूरि । अपूरिष्ट। पद् गतौ। पद्यते । पद्येत । पद्यताम्। अपद्यत । पत्सीष्ट । पेदे । पत्ता । पत्स्यते । अपत्स्यत । अपादि अपत्साताम् अपत्सत । बुध अवगमने । बुध्यते । बुध्येत । बुध्यताम् । अबुध्यत । बुबुधे । आदिजबानाम् (सू० २३९)। सिस्योः (सू० ८५८) खसे चपा झसानाम् (सू० ८९) भुत्सीष्ट । बोद्धा । भोत्स्यते । अबुद्ध अभुत्साताम् अभुत्सत । अबोधि । तायङ् पालनसन्तत्योः । तायते । तताये । तायिषीष्ट । तायिता । तायि. ष्यते । अतायिष्यत । अतायिष्ट । अतायि । ओप्यायिङ् वृद्धौ । प्यायते । पप्याये । प्यायिषीष्ट । प्यायिता । प्यायिष्यते । अप्यायिष्यत । अप्यायिष्ट । अप्यायि अप्यायिषाताम् । इमौ द्वौ भ्वादिको ॥ ॥ इति दिवादिष्वात्मनेपदिनः ॥ ११ ॥ दिवादिघूभयपदिनः १२ - अयोभयपदिनः ॥ णह बन्धने । नाति नद्यते । न त् न त । नह्यतु नह्यताम् । अनबत् अनयत । ननाह नेहतुः नेहुः । नेहिथननद्ध नेहे नह्यात् । नत्सीष्ट । नहो धः ( सू० ३१०) नद्धा । नत्स्यति नत्स्यते अनत्स्यत् अनत्स्यत । अनात्सीत् अनाद्धाम् अनात्सुः । अनद्ध अनत्साताम् अनत्सत ॥ इति दिवादिषूभयपदिनः ॥ १२ ॥ इति यविकरणा दिवादयो धातवः ॥ स्वादिषभयपदिनः १३ अथ खादयः ॥ तत्रादावुभयपदिनः । षुञ् अभिषवे। ञ उभयपदार्थः । आदेः ष्णः सः (सू० ७४८) ॥ ९७८ खादेर्नु: १॥ खादेर्गणानुः प्रत्ययो भवति चतुर्षु परेषु ॥ अपोऽपवादः ॥ Page #187 -------------------------------------------------------------------------- ________________ सू० ९७९-९८८ ] स्वादिषूभयपदिनः १३ १७९ ९७९ नूपः २ ॥ विकरणस्य नुप्रत्ययस्य उप्प्रत्ययस्य च गुणो भवति पिति परे ॥ सुनोति सुनुतः । नु धातोः ( सू० ७७६ ) सुन्वन्ति । सुनोषि सुनुथः सुनुथ । सुनोमि ॥ ९८० उर्वमोर्वा लोपः ३ || असंयोगादुत्तरस्य प्रत्ययसंबन्धिन उकारस्य वा लोपो भवति वमोः परयोः । सुनुवः-सुन्वः । सुनुमः- सुन्मः । सुनुते सुन्वाते सुन्वते । सुनुयात् सुन्वीत । सुनोतु सुनुताद्वा सुनुताम् सुन्वन्तु ॥ ९८१ ओर्वा है : ४ ॥ प्रत्ययसंबन्धिन उकारादुत्तरस्य हेर्लुग्भवति ॥ वाग्रहणात्संयोगान्न । तेन तक्ष्णुहि त्वक्ष्णुहीत्यत्र न । सुनु सुनुतात् । सुनवानि । सुनुताम् । असुनोत् असुनुत । सुषाव सुषुवतुः । सुषविथ-सुषोथ सुषुवे । सूयात् सोषीष्ट । सोता २ । सोष्यति सोष्यते । असोष्यत् असोष्यत ॥ स्तुसुधूञां पे सेरिड्डा वक्तव्यः (सू० ९३०) असावीत् असौषीत् दुसुस्तुनुधातूना मिड्डेति केचित् । असविष्ट असोष्ट । चिञ् चयने । चिनोति चिनुते । चिनुयात् चिन्वीत । चिनोतु चिनुताम् । अचिनोत् । अचिनुत । ९८२ चिनोतेः सणादौ कित्वं वा वाच्यम् ॥ ५ ॥ चिकाय चिक्यतुः चिक्युः । चिचाय । चिक्ये चिच्ये । चीयात् । चेषीष्ट । चेता २ । चेष्यति-चेष्यते । अचेष्यत् अचेष्यत । अचैषीत् अचेष्ट | स्तृञ् आच्छादने । स्तृणोति स्तृणुते । तस्तार । गुणोर्तिसंयोगाद्योः ( सू० ८१२ ) तस्तरतुः तस्तरुः । तस्तर्थ । तस्तरे । स्तर्यात् ॥ ९८३ संयोगादि ऋदन्तवृवृञां सीस्योरात्मनेपदे इड्डा वक्तव्यः ६ ॥ स्तरिषीष्ट । उः ( सू० ८६४ ) स्तृषीष्ट । स्तर्ता २ स्तरिष्यति - स्तरिष्यते । अस्तरिष्यत् अस्तरिष्यत । अस्तार्षीत् अस्तरिष्ट अस्तृत । वृन् वरणे । वृणोति वृणुते । ववार वत्रतुः वव्रुः । वृणोतेस्थपो नित्यमिट् । ववरिथ वत्रथुः वत्र । ववार ववर ववृव ववृम । वत्रे Page #188 -------------------------------------------------------------------------- ________________ सारस्वतव्याकरणम् । [वृत्तिः२ ववृट्वे । त्रियात् वरिषीष्ट । ईटो ग्रहाम् (सू० ८२१) वरीषीष्ट । वरिता वरीता २ । वरिष्यति वरीष्यति । वरिष्यते वरीष्यते । अवरिष्यत् अवरीष्यत् । अवरिष्यत अवरीष्यत । अवारीत् अवरिष्ट अवरीष्ट अवृत । धूञ् कम्पने । धूनोति धूनुते । धूनुयात् धून्वीत । धूनोतु धूनुताम् । अधूनोत् अधूनुत । दुधाव दुधुवे । धूयात् धविषीष्ट-धोषीष्ट ॥ ९८४ स्वरतिसूतिसूयतिधृवधादीनां वा ७ ॥ धविता धोता । धविष्यति धोष्यति । अधविष्यत् अधोष्यत् । अधावीत् । अधविष्ट अधोष्ट ॥ ॥ इति खादिषूभयपदिनः॥१३॥ खादिषु परस्मैपदिनः १४ ॥ अथ परस्मैपदिनः ॥ ॥ हि गतौ वृद्धौ च । हिनोति ।। ९८५ द्विरुक्तस्य हिनोतेः कुत्वं वाच्यम् १॥ जिघाय । हीयात्। हेता । हेष्यति । अहेष्यत् । अहैषीत् । शक्ल शक्तौ । शक्नोति । शशाक । लोपः पचां कित्ये चास्य (सू० ७६२) शेकतुः शेकुः । शक्यात् । शक्ता । शक्ष्यति । अशक्ष्यत् । अशकत् । घिवि प्रीतौ । इदित (सू० ७४५) इति नुम् ॥ ९८६ धिन्विकृण्व्योर्नोलोपो वाच्यः २ ॥ चतुषु ॥ ९८७ यवयोर्वसे हकारे च लोपः ३ ॥ धिनोति । धिनुयात् । धिनोतु । अधिनोत् दिधिन्व । धिन्व्यात् । धिन्विता । धिन्विष्यति । अधिन्विष्यत् । अधिन्वीत् । कृवि हिंसायाम् । कृणोति । चकृण्व । धिनोतिवत् । श्रु श्रवणे ॥९८८ श्रुवः शृ४ ॥ श्रुवः शृ भवति चतुएं परेषु ॥ शृणोति । शुश्राव । शुश्रोथ । श्रूयात् । श्रोता । श्रोष्यति । अश्रोष्यत् । अश्रौषीत् ॥ ॥ इति खादिषु परस्मैपदिनः ॥ १४ ॥ Page #189 -------------------------------------------------------------------------- ________________ सू० ९८९-९९५] रुधादिषूभयपदिनः १६ १८१ जुहोत्यादिषु आत्मनेपदिनः १५ 1 ॥ अथात्मनेपदिनः ॥ अशूङ् व्याप्तौ । ऊङावितौ । अश्नुते । अश्नुवीत् । अश्नुताम् । आनुत । नुगशाम् (सू० ७६४ ) । आभ्वो - र्णादौ (सू० ७१२) आनशे । ऊदितो वा (सू० ७५१ ) अशिषीष्ट । अक्षीष्ट । अशिता - अष्टा । अशिष्यते - अक्ष्यते । आशिष्यतआक्ष्यत । आशिष्ट- आष्ट आक्षाताम् आक्षत् ॥ ॥ इति खादिष्वात्मनेपदिनः ॥ १५ ॥ इति नुविकरणाः खादयः ॥ रुधादिषूभयपदिनः १६ ॥ अथ रुधादयः ॥ तत्रादावुभयपदिनः । रुधिरावरणे । इरित् ॥ ९८९ रुधादेर्नम् १ ॥ रुषादेर्गणान्नम् प्रत्ययो भवति चतुर्षु परेषु ॥ अपोऽपवादः । मकारः स्थाननियमार्थः । णत्वम् । तथोर्ध: ( सू० ७५३ ) रुणद्धि । नमसोऽस्य ( सू० ८९९ ) ॥ ९९० हसात् झसस्य सवर्णे झसे लोपो वाच्यः २ ॥ रुन्धः । रुन्धन्ति । रुणत्सि रुन्धः रुन्ध | रुणध्मि रुन्ध्वः रुन्ध्मः । रुन्धे रुन्धाते रुन्धते । रुन्ध्यात् । रुन्धीत । रुणद्धु रुन्धाम् । अरुणत्-अरुदू | अरुन्ध । रुरोध रुरुधतुः रुरुधुः । रुरोधिथ । रुरुधे रुरुधाते । रुध्यात् । रुत्सीष्ट । रोद्धा २ । रोत्स्यति रोत्स्यते । अरोत्स्यत् अरोत्स्यत । अनिटो नामिवतः ( सू० ७५४ ) अरौत्सीत् । सिस्योः (सू० ८५८) अरुद्ध अरुत्सातां अरुत्सत । इरितो वा (सू० ७४० ) अरुधत् । उच्छृदिर् दीप्तिदेवनयोः । उशरावितौ । छृणत्ति छन्तः छन्दन्ति । छन्ते । घृन्द्यात् । छन्दीत । छृणत्तु छृन्ताम् | अच्छृणत् अच्छृणद् ॥ ९९९ दुः सः ३ || दकारस्य वा सकारो भवति सिपि विषये || अच्छृणः । अच्छृणत् अच्छृन्तम् अच्छृन्त । T Page #190 -------------------------------------------------------------------------- ________________ १८२ सारस्वतव्याकरणम् । [वृत्तिः२ चच्छदं चच्छृदे । छुद्यात् । छ्रुत्सीष्ट छर्दिषीष्ट । छर्दिता २ । छर्दिष्यति-छप॑ति । छर्दिष्यते-च्छर्त्यते। अच्छर्दिष्यत् अच्छय॑त् । अच्छर्दिष्यत-अच्छय॑त । इरितो वा (सू० ७४०) अच्छ्रदत् अच्छर्दीत् । अच्छर्दिष्ट । उतृदिर हिंसानादरयोः । तृणत्ति तृन्तः तृन्दन्ति । तृन्ते । तृन्द्यात् । तृन्दीत् । तृणत्तु तृन्ताम् । अतृणत् अतृन्त । ततर्द ततृदे । तृद्यात् । तृत्सीष्ट तर्दिषीष्ट । तर्दिष्यति-तय॑ति । तर्दिष्यते तय॑ते । अतर्दिष्यत् अतय॑त् । अतर्दिष्यत-अतय॑त । अतृदत् अतीत् ॥ ९९२ नृततृदछ्दच्दकृयोऽसे: स्तादेरिडा ४ ॥ अतर्दिष्ट ॥ इति रुधादिषूभयपदिनः ॥ १६ ॥ रुधादिषु परस्मैपदिनः १७ अथ परस्मैपदिनः ॥ शिष्ल विशेषणे । शिनष्टि शिष्टः शिंषन्ति । शिंष्यात् । शिनष्टु अशिनट् । शिशेष । शिष्यात् । शेष्टा । शेक्ष्यति । अशेक्ष्यत् । अशिषत् । हिसि हिंसायाम् । इदित ( सू०७४५ ) इति नुम् ॥ ९९३ नमः १ ॥ नमः प्रत्ययात्परस्य नस्य लोपो भवति ॥ हिनस्ति हिंस्तः हिंसन्ति । हिंस्यात् । हिनस्तु । धौ सलोपो वा सस्य द इति केचित् । हिन्धि हिन्द्धि । अहिनत् अहिनद् ॥ ९९४ दिपि सस्य दः सिपि वा २ ॥ अहिनत् अहिनः । जिहिंस । हिंस्यात् । हिंसिता हिंसिष्यति । अहिंसिष्यत् । अहिंसीत् । भञ्जो आमर्दने । ओ इत् । भनक्ति भङ्गः भञ्जन्ति । बभञ्ज । भता । भक्ष्यति । अभक्ष्यत् ।। ९९५ सावनिटो नित्यं वृद्धिः ३ । अनिटो धातोर्नित्यं वृद्धिर्भवति परस्मैपदे सौ परे । अभाङ्क्षीत् अभाताम् अभाङ्क्षुः । अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु । अनक्ति । अज्यात् । अनक्तु आ. Page #191 -------------------------------------------------------------------------- ________________ सू०९९६-१००६] तनादिषूभयपदिनः १९ १८३ नक् आनम् । आनञ्ज । अध्यात् । अञ्जिता अता । अञ्जिष्यति अक्ष्यति । आञ्जिष्यत् आक्ष्यत् ॥ ९९६ अञ्जेः स्यौ नित्य'मिड्वाच्यः ४ ॥ आञ्जीत् ॥ इति रुधादिषु परस्मैपदिनः ॥ १७ ॥ रुधाधिष्वात्मनेपदिनः १८ । अथात्मनेपदिनः ॥ जिइन्धी दीप्तौ । बिई इतौ । इन्धे । इन्धीत । इन्धाम् । ऐन्ध । इन्धाञ्चके । इन्धिषीष्ट । इन्धिता। इन्धिष्यते । ऐन्धिष्यत । ऐन्धिष्ट ॥ इति रुधादिष्वात्मनेपदिनः १८ ॥ ॥ इति नम्विकरणा रुधादयः॥ तनादिषूभयपदिनः १९ अथ तनादयः ॥ सर्वे उभयपदिनः । तनु विस्तारे ॥ ९९७ तनादेरुप् १ ॥ तनादेर्गणादुप् प्रत्ययो भवति चतुर्पु परेषु ॥ अपोऽपवादः । नूपः (सू० ९७९) तनोति तनुते । तनुयात् तन्वीत । तनोतु तनुताम् । अतनीत् अतनुत । ततान तेनतुः तेनुः । तेने । तन्यात् । तनिषीष्ट । तनिता २ । तनिष्यति तनिप्यते । अतनिष्यत् अतनिष्यत । अतानीत् । अतनीत् । अतनिष्ट ॥ ९९८ तनादेरकरोतेस्तन्थासोवा सिलोपो वाच्यः २॥ लोपस्त्वनुदात्ततनाम् (सू० ८८६) अतत । अतथाः अतनिष्ठाः। क्षणु क्षिणु हिंसायाम् । क्षणोति क्षणुते । क्षणुयात् क्षण्वीत । क्षणोतु क्षणुताम् । अक्षणोत् । अक्षणुत । चक्षाण चक्षणे । क्षण्यात् । क्षणिषीष्ट । क्षणिता २ । क्षणिष्यति क्षणिष्यते । अक्षणिष्यत् अक्षणिष्यत । यन्तक्षण (सू० ७८०) इति न वृद्धिः । अक्षणीत् । अक्षणिष्ट-अक्षत। अक्षथाः-अक्षणिष्ठाः ॥ ९९९ तनादे Page #192 -------------------------------------------------------------------------- ________________ १८४ सारस्वतव्याकरणम् । [वृत्तिः २ रुपधायाः गुणो वा पिति ३॥ क्षिणोति क्षेणोति । अक्षेणीत् अक्षित-अक्षणिष्ट । षणु दाने । सेने । सायात् सन्यात् । असात्-असनिष्ट । असाथाः-असनिष्ठाः । डुकृञ् करणे । डुञावितौ। गुणः ( सू० ६९२ ) नूपः (सू० ९७९) करोति ॥ १००० ङित्यदुः ४ ॥ करोतेरकारस्य उकारो भवति ङिति विभक्तौ परतः ॥ कुरुतः कुर्वन्ति । करोषि कुरुथः । करोमि ॥ १००१ कुरछरोन दीर्घः ५॥ १००२ को नित्यं वमोरुलोपो वाच्यः ६ ॥ कुर्वः कुर्मः। कुरुते॥१००३ कुजोये ७ ॥ कृत्र उत्तरस्य उपप्रत्ययस्य लोपो भवति ये परे ॥ कुर्यात् कुर्वीत । करोतु करवाणि कुरुताम् । करवै । अकरोत् । अकुरुत । चकार चक्रतुः चक्रुः । चकर्थ चक्रे । क्रियात् कृषीष्ट । कर्ता । करिध्यति । अकरिष्यत् । अकार्षीत् । अकृत अकृषाताम् अकृषत ॥ १००४ संपर्युपेभ्यः करोतेभूषणेऽर्थे सुट ८ ॥ संस्करोति ।। १००५ अद्वित्वव्यवधानेऽपि सुद् स्यात् ९ ॥ समस्करोत् सञ्चस्कार ॥ १००६ ससुट् कृजो णादौ नित्यमिड्डाच्यः १० ॥ सञ्चस्करिथ । एवमुपस्कुरुते ॥ मनु अवबोधने। मनुते । मेने । मन्ता । वनु याचने । परस्मैपद्ययमित्येके । वनुते ॥ इति तनाधुभयपदिनः ॥ १९ ॥ इत्युविकरणास्तनादयः ॥ तुदादिषूभयपदिनः २० अथ तुदादयः ॥ तत्रादावुभयपदिनः ॥ तुद व्यथने । अकार उभयपदार्थः ॥ १००७ तुदादेरः १ ॥ तुदादेर्गणादप्रत्ययो भवति चतुएं परेषु ॥ अपोऽपवादः ॥ ङित्त्वान्न गुणः । तुदति Page #193 -------------------------------------------------------------------------- ________________ सू० १००८-१०१७] तुदादिषूभयपदिनः २० १८५ तुदते । तुदेत् । तुदेत । तुदतु तुदताम् । अतुदत् अतुदत । तुतोद तुतुदे । तुद्यात् । तुत्सीष्ट । तोता तोत्स्यति तोत्स्यते । अतोत्स्यत् अतौत्सीत् अतौत्ताम् अतौत्सुः । अतुत्त अतुत्साताम् अतुत्सत ॥ भ्रस्जो पाके । ओ इत् ॥ १००८ अन्यत्र सो जः २ ॥ झस्परत्वाभावे सस्य जो भवति ॥ ग्रहां क्ङिति च ( सू० ८७३ ) १००९ अप्रत्ययो ङिद्वत् ३ ॥ भृज्जति भृज्जते । बभ्रज्ज । ऋसंयोगात् (सू० ७४३ ) इति कित्त्वाभावान्न संप्रसारणम् । बभ्रुज्जतुः बभ्रज्जुः । बभ्रुज्जिथ बभ्रष्ठ बजे ॥ १०१० भ्रज्जतेः सकाररेफौ लस्वा रमागमोनपि वा वाच्यः ४ ॥ बभर्ज बभर्जे । भृज्यात् भर्ज्यात् । भ्रक्षीष्ट-भक्षष्ट । भ्रष्टा-भष्ट । भ्रक्ष्यति भर्क्ष्यति । अत्रक्ष्यत् - अभर्क्ष्यत् । अभ्राक्षीत् अभार्क्षीत् । अभ्रष्ट - अभष्ट ॥ दिश अतिसर्जने । दिक्षीष्ट । अदिक्षत् अदिक्षत । क्षिप प्रेरणे । क्षिप्सीष्ट । अक्षिप्त । कृष् विलेखने। कृक्षीष्ट ऋष्टा - कष्ट । अकाक्षत् अक्राक्षीत् । अक्षत अकृष्ट अकृक्षाताम् अक्षत ॥ मिल संगमने । मिमिले । अमेलिष्ट । मुल मोक्षणे ॥ १०११ मुचादेर्मुम् 1 ४ ॥ मुचादीनां मुमागमो भवति अप्रत्यये परे ॥ मुञ्चति मुञ्चते । मुमोच मुमुचे । मुच्यात् । सिस्योः ( सू० ८५८) अनेन गुणा - भावः । चोः कुः ( सू० २८५) मुक्षीष्ट । मोक्ता २ । मोक्ष्यति मोक्ष्यते । अमोक्ष्यत् अमोक्ष्यत । अमुचत्-अमुक्त | लुप्प छेदने । लुम्पति । लुप्सीष्ट । अलुपत् । विद्व लाभे । विन्दति । अवेदिष्ट । अनिडयमित्येके । वेत्ता । लिप् उपदेहे । 'मुच् लुप् विद् लिप् सिच् कृत् पिश् खिद् एते मुचादयः || लिम्पति । लिलेप । अलिपत् अलिपत ॥ १०१२ लिपिसिचिह्नयतीनामात्मनेपदे से वा वाच्यः ६ ॥ अतिप्त । षिच्ल क्षरणे । I Page #194 -------------------------------------------------------------------------- ________________ १८६ - सारस्वतव्याकरणम् । [वृत्तिः २ सिञ्चति सिषेच । सिच्यात् । सिक्षीष्ट । सेक्ता २। सेक्ष्यति । असिचत् असिचत असिक्त ॥ इति तुदादिषूभयपदिनः ॥ २० ॥ तुदादिषु परस्मैपदिनः २१ अथ परस्मैपदिनः ॥ कृती छेदने । कृन्तति । चकर्त । कृत्यात्। कर्तिता । कतिष्यति । अकर्तिष्यत् । अकर्तीत् ॥ लुभ विमोहने । लोभिता लोब्धा । अलोभीत् ॥ चूती हिंसाग्रन्थनयोः । चर्तिष्यति चय॑ति । अचर्तीत् ॥ विध विधाने । वेधिता ॥ कुट कौटिल्ये ॥ १०१३ कुटादेणिद्वर्जः प्रत्ययो डिद्वत् १॥ चुकोट चुकुटिथ । कुटिता । अकुटीत् ॥ त्रुट छेदने। त्रुट्यति त्रुटति। ओवश्यू छेदने । ओऊ इतौ । ग्रहां किति च (सू० ८७३) वृश्चति । वव्रश्च ववृश्चतुः ववृश्चः । वव्रश्चिथ-वज्रष्ठ वृश्च्यात् । ऊदितो वा (सू० ७५१) वृश्चिता व्रष्टा । स्कोरायोश्च (सू० ३०१) व्रश्चिष्यति ब्रक्ष्यति । अब्रवीत् अवाक्षीत् अब्राष्टाम् । कृ विक्षेपे । ऋत इर (सू. ८२०) किरति । चकार चकरतुः। कीर्यात् । करिता । ईटो ग्रहाम् (सू० ८२१) करीता । करीष्यति-करिष्यति। अकरीष्यत्-अकरिष्यत। अकारीत् ॥ १०१४ उपाकिरतेश्छेदेऽर्थे सुवाच्यः ॥ १०१५॥ हिंसायां प्रतेश्च ३ ॥ उपस्किरति उपचस्कार । प्रतिस्किरति ॥ गृ निगरणे । गिरति ॥ १०१६ ॥ गिरते रस्य वा लः स्वरे वाच्यः ४ ॥ गिलति । जगार-जगाल जगरतुः जगलतुः जगरुः-जगलुः । अगारीत् अगालीत् । स्पृश स्पर्शने । स्पृशति । पस्पर्श । स्पृश्यात् । स्प्रष्टा स्पष्टी । स्प्रक्ष्यति स्पर्ध्यति । अस्पक्ष्यत्-अस्पीत् । अस्पाक्षीत् । रो वा । अस्पाक्षीत् ॥ १०१७ कृषादीनां वा सिर्वक्तव्यः ५ ॥ तत्पक्षे । हशषान्तात्सक (सू० ८००) अस्पृक्षत् । प्रच्छ ज्ञीप्सा Page #195 -------------------------------------------------------------------------- ________________ सू०१०१८-१०२५] तुदादिष्वात्मनेपदिनः २२ १८७ याम् । संप्रसारणम् । पृच्छति । पप्रच्छ पप्रच्छतुः । पप्रच्छिथ-पप्रष्ठ । पृच्छयात् । प्रष्टा । प्रक्ष्यति । अप्राक्षीत् । सृज विसर्गे । सृजति । ससर्ज ससृजतुः ससृजुः । ससर्जिथ-सस्रष्ठ । सृज्यात् । रारो झसे दृशाम् (सू० ७९६) स्रष्टा । स्रक्ष्यति । अस्राक्षीत् । टुमस्जो शुद्धौ । टुओ इतौ । अन्यत्र सो जः (सू० १००८) मजति । ममज । मला । मस्जिनशोझसे नुम् (सू० ९६९) मक्ष्यति अमाङ्क्षीत् अमाताम् अमाक्षुः । विश् प्रवेशने । वेष्टा । अविक्षत् । मृष् आमर्शने । अम्राक्षीत् अमाीत् अमृक्षत् । विच्छ गतौ। आयः (सू० ७८१) विच्छायति । विच्छायाञ्चकार-विविच्छ । विच्छाय्यात्-विच्छयात् । विच्छायिता-विच्छिता। अविच्छायीत्। इषु इच्छायाम् । गमां छः ( सू० ७८७ ) इच्छति इच्छेत् । इयेष । एषिता । एष्टा । छुप स्पर्शे । छोप्ता अछौप्सीत् ॥ लिश गतौ । लेष्टा । अलिक्षत् । खिद परिघाते । खिन्दति खेत्ता । अखैत्सीत् ॥ पिश अवयवे । पिंशति । पेशिता ।। इति तुदादिषु परस्मैपदिनः ॥ २१ ॥ . तुदादिष्वात्मनेपदिन: २२ ॥ अथात्मनेपदिनः ॥ मृङ् प्राणत्यागे ॥ १०१८ अयकि १॥ ऋकारस्य रिङादेशो भवति अकारे प्रत्यये यकि च परे ॥नु धातोः (सू० ७७६) म्रियते ॥ १०१९ सपरोक्षयोस्तादौ म्रियतेः परसैपदं वाच्यम् २ ॥ ममार मम्रतुः । मृषीष्ट । मर्ता । मरिष्यति । अमरिष्यत् । लोपो हखाज्झसे (सू० ८५२)। अमृत अमृषाताम् अमृषत ॥ दृङ् आदरे । द्रियते । दद्रे । दृषीष्ट दर्ता । हनृतः स्यपः (सू० ७९०) दरिष्यते । अदरिष्यत । अदृत । धृङ् अवस्थाने । Page #196 -------------------------------------------------------------------------- ________________ १८८ सारस्वतव्याकरणम् । [वृत्तिः २ 1 1 1 म्रियते तद्वत् । पृड् व्यापारे । व्याप्रियते । व्यापरिष्यते । व्यापृत व्यापृषाताम् । ओविजी भयचलनयोः। विजते । विजेत । विजताम् । अविजत । विविजे । विजिता ॥ १०२० विजेः पर इट् किद्वक्तव्यः ३ ॥ ततो नोपधागुणः । विजिष्यते । अविजिष्यत । अविजिष्ट । ओलस्जी ब्रीडायाम् । अन्यत्र सो जः (सू० १००८ ) लज्जते । ललज्जे । अलज्जिष्ट || इति तुदादिष्वात्मनेपदिनः ॥ २२ ॥ इति अविकरणास्तुदादयः ॥ क्र्यादिषूभयपदिनः २३ 1 1 अथ ऋयादयः ॥ तत्रादावुभयपदिनः || डुक्रीम् द्रव्यविनिमये ॥ १०२१ ना क्र्यादेः १ ॥ त्र्यादेर्गणान्नाप्रत्ययो भवति चतुर्षु परेषु ॥ अपोऽपवादः ॥ णत्वम् । क्रीणाति ॥ ९०२२ ई हसे २ ॥ ना इत्यस्याकारस्य ईकारो भवति ङिति हसे परे ॥ क्रीणीतः १०२३ नातः ३ ॥ ना इत्यस्याकारस्य लोपो भवति ङिति खरे परे ॥ क्रीणन्ति । क्रीणासि कीणीथः क्रीणीथ । क्रीणामि क्रीणीवः 1 क्रीणीमः । क्रीणीते । क्रीणीयात् क्रीणीत । क्रीणातु क्रीणीताम् । अक्रीणात् अक्रीणीत | चिक्राय चिक्रियतुः चिक्रियुः । चिक्रयिथ चिक्रेथ । चिक्रिये । क्रीयात् षीष्ट क्रेता २ । क्रेष्यति यते । अक्रेष्यत् अक्रेष्यत । अक्रैषीत् अष्ट । प्रीञ् तर्पणे कान्तौ च । पिप्रिये । मीन् हिंसायाम् । मीनाति ॥ १०२४ मीनातिमिनो - तिदीङां गुणवृद्धिविषये क्यपि च आत्वं वाच्यम् ४ ॥ ममौ मिम्युतुः मिम्युः । ममिथ - ममाथ । मासीष्ट । माता । अमासीत्अमेष्ट || स्कुन् आप्रवणे || १०२५ स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुभ्यो नुर्नाश्च ५ || स्कुनोति स्कुनाति । अस्कुनीत् । चुस्कु I Page #197 -------------------------------------------------------------------------- ________________ सू०९२६-१०३१] क्यादिषु परस्मैपदिनः २४ विषे । अस्कौषीत् । अस्कोष्ट ।। स्तम्भु स्तम्भु स्कस्भु स्कुम्भु रोधने । स्तन्नोति-स्तभ्नाति । स्तुभ्नोति-स्तुभ्नाति । स्कन्नोति-स्कनाति । स्कुम्नोति-स्कुनाति । स्तभान । स्तुभान । स्कभान । स्कुभान । अस्तभत् ॥ १०२६ जुस्तम्भुम्रचुम्लुचुगुचुग्लुचुग्लुञ्चश्विभ्यश्लेरङ् वा ६ ॥ अस्तम्भीत् । पूञ् पवने ॥ १०२७ प्वादेहवः ७ ॥ प्वादीनां हखो भवति चतुषु परेषु ॥ पुनाति पुनीते। पुनीयात् पुनीत । पुनातु पुनीताम् । अपुनात् । अपुनीत । पुपाव पुपुवे । पूयात् पविषीष्ट । पविता २ । पविष्यति पवि. ष्यते । अपविष्यत् अपविष्यत । अपावीत् । अपविष्ट । कृञ् हिंसायाम् । कृणाति कृणीते । चकार चकरे । कीर्यात् करिषीष्ट । अकारीत् । धूञ् कम्पने । धुनाति धुनीते । दुधाव अधविष्ट अधोष्ट ॥ ग्रह उपादाने । ग्रहां विति च (सू० ८७३) गृहाति गृहीतः । गृहीते । गृह्णीयात् । गृह्णीत । गृह्णातु-गृह्णीतात् गृह्णीताम् गृह्णन्तु ॥ १०२८ हसादान हौ ८ ॥ हसान्तात्रयादेर्गणादानप्रत्ययो भवति हौ परे ॥ नाप्रत्ययाभावः । गृहाण । अगृह्णात् । जग्राह । जगृहे । गृह्यात् । ईटो ग्रहाम् (सू० ८२१) इति ईः । ग्रहिषीष्ट ग्रहीता २ । ग्रहीष्यति । अग्रहीष्यत् अग्रहीष्यत । अप्रहीत् अग्रहीष्ट ॥ इति श्यादिषूभयपदिनः ॥ २३ ॥ त्यादिषु परस्मैपदिनः २४ अथ परस्मैपदिनः ॥ पुष् पुष्टौ । पुष्णाति पुष्णीयात् । पुष्णातु पुष्णीतात् पुष्णीताम् पुष्णन्तु । पुषाण । अपुष्णात् । पुपोष । पुष्यात् । पोषिता । पोषिष्यति । अपोषिष्यत् । अपोषीत् । मुष स्तेये । मुष्णाति । मुमोष मुण्यात् । मोषिता मोषिष्यति । अमो. Page #198 -------------------------------------------------------------------------- ________________ १९० सारस्वतव्याकरणम् । [वृत्तिः२ षिष्यत् । अमोषीत् ॥ शृ हिंसायाम् । शृणाति । शशार शशरतुः शशरुः । शीर्यात् । शरिता । शरिष्यति । अशरिष्यत् । अशारीत् । ज्या वयोहानौ । ग्रहादित्वात्संप्रसारणम् । जिनाति जिनीयात् । जिज्यौ जिज्यतुः जिज्युः । जिज्यिथ-जिज्याथ । जीयात् । ज्याता। ज्यास्यति । अज्यास्यत् । अज्यासीत् । ज्ञा अवबोधने । जा जनीज्ञोः (सू० ९७५) जानाति । जज्ञौ । ज्ञायात् ज्ञेयात् । ज्ञाता अज्ञासीत् । ली श्लेषणे । लीनाति ॥ १०२९ लीलिङोरात्वं वा १ ॥ ललौ । लिलाय लिल्यतुः । लाता-लेता । अलासीत् । अलैषीत् । बन्ध बन्धने । बध्नाति बबन्ध । भत्स्यति । अमान्त्सीत् । मन्त्र विलोडने । मनाति । कुष् निष्कर्षे । कुष्णाति । कुषाण । चुकोष कुष्यात् । कोषिता । अकोषीत् । अश भोजने । अनाति अभीयात् । अनातु अनीतात् अनीताम् अनन्तु । अशान । आश। अशिता । आशीत् ॥ इति क्यादिषु परस्मैपदिनः ॥ २४ ॥ त्यादिष्वात्मनेपदिन: २५ ॥अथात्मनेपदिनः॥ वृङ् संभक्तौ । वृणीते। वृणीत । वृणीताम् । अवृणीत । वने । वरिषीष्ट वरीषीष्ट ॥ १०३० संयोगादिऋदन्त. वृवृक्षां सिस्योरात्मनेपदे इड़ा वाच्यः १॥ वृषीष्ट । उः (सू० ८६४) अवरिष्ट-अवरीष्ट अवृत । इत्यादि ॥ इति ऋयादिप्वात्मनेपदिनः २५ ॥ इति नाविकरणाः ज्यादयः ॥ चुरादिगणः २६ अथ चुरादयः ॥ चुर स्तेये ॥१०३१ चुरादेः १॥ चुरादे१ एतेषां णिजन्तवत्प्रक्रिया रूपसिद्धिश्च । Page #199 -------------------------------------------------------------------------- ________________ सू० १०३२ - १०४७] चुरादिगणः २६ १९१ र्गणात्खार्थे ञिः प्रत्ययो भवति ॥ उपधाया गुणः । सधातुः (सू० ७८२) अप्गुणायः । चोरयति । चोरयेत् । चोरयतु । अचोरयत् । चोरयाञ्चकार । चोरयाम्बभूव । चोरयामास । चोरयाञ्चक्रे । ञः 1 (सू० ८४४) चोर्यात् । चोरयिता । चोरयिष्यति । अचोरयिष्यत् । ञेरङ् द्विश्च (सू० ८४३) अङि लघौ हख उपधायाः ( सू० ८४५ ) लघोर्दीर्घः (सू० ८४६) अचूचुरत् । चिती संज्ञाने । चेतयति । अचीचितत् । चिति स्मृत्याम् । इदितो नुम् । ( सू० ७४५ ) चिन्तयति । लघोरभावान्न दीर्घः । अचिचिन्तत् । चुरादेर्जिर्वेति केचित् । चिन्तति । पीड अवगाहने । पीडयति ॥ १०३२ भ्राजभासभाषदीपजीव मीलपीडां वोपधाया हवो ङपरे जौ २ ॥ अपीपिडत् अपिपीडत् । प्रथ प्रख्याने । प्रथयति ॥ १०३३ स्मृद्दृत्वरप्रथप्रदस्तृस्पर्शा पूर्वस्यातोऽदङ्परे जौ ३ ॥ इत्वापवादः । अपप्रथत् ॥ पृथ प्रक्षेपे ॥ १०३४ उपधाया ऋवर्णस्याङि ऋ वा वक्तव्यः ४ ॥ इररारामपवादः । अपीपृथत् अपपर्थत् । ज्ञप ज्ञानज्ञापनयोर्मित् ॥ १०३५ मितां हखः ५ ॥ मितां धातूनां हखो भवति जौ परे ॥ ज्ञपयति । चिञ् चयने । मित् ॥ १०३६ चिस्फुरोर्भावात्वं वा ६ । १०३७ रातो ञौ पुक् ७ ॥ ऋ गतावित्यस्याकारस्य च पुगागमो भवति त्रौ परे ॥ चपयति-चययति ॥ अर्च पूजायाम् । अर्चयति ॥ १०३८ खरादेः परः ८ ॥ स्वरादेर्धातोः परोऽवयवोऽद्विरुक्तः सखरो द्विर्भवति ॥ नदराः संयोगादयो न द्विः (सू० ९३९) इति रेफस्य न द्वित्वम् । आर्चिचत् । कृत संशब्दे ॥ १०३९ धातोरुपधाया ऋकारस्य ईकारादेशो वाच्यो जिप्रत्यये परे ९ ॥ कीर्तयति । अचिकीर्तत् । गण संख्याने । अकारान्तः । अल्लोपस्य स्थानिवत्त्वान्न Page #200 -------------------------------------------------------------------------- ________________ १९२ . सारस्वतव्याकरणम् । [वृत्तिः२ वृद्धिः । गणयति ॥ १०४० अल्लोपिनो नाकार्यम् १० ॥ अजगणत् । कथगणयोरङ्कार्य चेति केचित् । अजीगणत् । ऋथ वाक्यप्रबन्धे । कथयति । अचकथत्-अचीकथत् । उन परिहाणे । ऊनयति ॥ १०४१ जिनिमित्तस्वरादेशो द्वित्वे कर्तव्ये स्थानिबत् ११ ॥ खरादेः परः ( सू० १०३८ ) अर्थङ् याचने । अर्थयते । आथित । संग्रामङ् युद्धे । अससंग्रामत ॥ अन्ध दृष्टयुपघाते । आन्दधत् । अङ्क अङ्ग पदे लक्षणे च । आञ्चकत् ॥ इति चुरादिगणः ॥ २६ ॥ ___ व्यन्तप्रक्रिया २७ . ॥ अथ ज्यन्ताः ॥ १०४२ धातो प्रेरणे १ ॥ प्रयोजकव्यापारेऽर्थे धातोनिः प्रत्ययो भवति ॥ कुर्वन्तं प्रेरयति यः स प्रयोजकः । कारयति कारयते । अचीकरत् । पाचयति अपीपचत् । भक्तं प्रेरयति भावयति भावयते । भावयांबभूव । १०४३ अङ्सयोः २ । पूर्वस्योकारस्येत्वं पवर्गयवरलजकारेध्ववर्णपरेषु परतः ॥ १०४४ द्विर्निमित्तेचि ३ ॥ द्वित्वनिमित्तेऽचि अच आदेशो न द्वित्वे कर्तव्ये ॥ अबीभवत् । मृङ् मोहने । मावयति । अमीमवत् । यु मिश्रणे। अयीयवत् । रु शब्दे । अरीरवत् । लूञ् छेदने । अलीलवत् । जु गतौ । अजीजवत् ॥ १०४५ स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनाम् ४ ॥ अङ्. सयोः पूर्वस्येत्वं वाऽवर्णपरे धात्वक्षरे परे ॥ असिस्रवत्-असुस्रवत् । अशिश्रवत्-अशुश्रवत् । अदिद्रवत्-अदुद्रवत् ॥१०४६ हनो घत् ५॥ हन्तेर्घदादेशो भवति ब्णिति णपवर्जिते परतः ॥ घातयति । अजीघतत् । शदूल शातने ॥ १०४७ शदेः शत् ६॥ शदेः शतादेशो Page #201 -------------------------------------------------------------------------- ________________ सू० १०४८-१०६७] ज्यन्तप्रक्रिया २७ १९३ भवति अगतौ जौ परे ॥ शातयति । गतौ तु सादयति । अशीशतत् । रातो जौ पुक् (सू० १०३७) डुदाञ् दाने । दापयति अदीदपत् । धापयति अदीधपत् ॥ १०४८ पुगन्तस्य गुणो वक्तव्यः ७ ॥ अर्पयति । खरादेः परः (सू० १०३८) आर्पिपत् । ष्ठा गतिनिवृत्तौ । स्थापयति ॥ १०४९ तिष्ठतेरुपधाया इकारो घक्तव्योङि परे ८॥ ततो द्वित्वम् । अतिष्ठिपत् ॥ १०५० पादेर्युक् ९ ॥ पाशाछासाहेवेञां युगागमो भवति नौ परे ।। पाययति॥१०५१पिबतेरङि पूर्वस्येकारोपधालोपौवक्तव्यौ १०॥ अपीप्यत् । शो तनूकरणे । सन्ध्यक्षराणामा (सू० ८०३) शाययति । अशीशयत् । छो छेदने । अचीछयत् । षोऽन्तकर्मणि । साययति असीषयत् । हृञ् स्पर्धायाम् ॥ १०५२ ह्वयतेरङि संप्रसारणं युगभावश्च वक्तव्यः कृतसंप्रसारणस्य दयतेरङि क्रमागुणवृद्धी वाच्ये ११॥ अजुहावत् अजूहवत् अजूहवताम् । व्यञ् संवरणे । व्यायति अविव्ययत् । वेञ् तन्तुसंताने। वाययति । अवीवयत् ॥ १०५३ पातेझै लुग्वक्तव्यः १२ ॥ युकोऽपवादः। पालयति । अपीपलत् । रभ राभस्ये । रभसो वेगहर्षयोः ॥ १०५४ रभलभोः स्वरेणाद्यपी विना नुम्वाच्यः १३ ।। रम्भयति । अररम्भत् । हुलभ प्राप्तौ । लम्भयति । अललम्भत् । प्रीञ् तर्पणे ॥ १०५५ प्रीधुजोर्नु १४ ॥ अनयोर्नुगागमो भवति जौ परे ॥ प्रीणयति । अपिप्रीणत् । धूञ् कम्पने। धूनयति । अदुधूनत् ॥ स्मिञ् ईषद्धसने ॥ १०५६ स्मयतेरात्यात्वं औ वाच्यम् १५ ॥ विस्मापयते । असिष्मपत् । आति किम् । विस्मापयति । असिष्मयत् ॥ १०५७ रुहेनौ पो वा वाच्यः १६ ॥ रुह बीजजन्मनि प्रादुर्भावे च । रोहयति। रोपयति । अरूरुहत् अरूरुपत्॥ १३ Page #202 -------------------------------------------------------------------------- ________________ १९. सारस्वतव्याकरणम् । [वृत्तिः २ कृपू सामर्थे । कृपो रोल: (सू०८५७) कल्पयति ॥१०५८ उपधाया ऋवर्णस्याङि वा वक्तव्यः १७ ॥ इररारामपवादः । अचीक्लुपत्अचकल्पत् ॥ वृतु वर्तने । वर्तयति। अवीवृतत्-अववर्तत् । मृजूष शुद्धौ। मार्जयति । अमीमृजत् अममार्जत् ॥ १०५९ इडादेऔं पुक् च १८ ॥ इक्रीजीनामात्वं भवति नौ परे हीलीरीनुयीक्ष्मायीनां पुगागमो भवति औ परे ॥ इङ् अध्ययने । अध्यापयति । अध्यापिपत् ॥ १०६० अपरे औ इडो गाङ् वा वक्तव्यः १९ ॥ अध्यजीगपत् । डुक्रीञ् द्रव्यविनिमये । कापयति अचिक्रपत् । जी जये । जापयति । अजीजपत् । ही लज्जायाम् । हेपयति । मजीहिपत् । ब्ली वरणे । ब्लेपयति । अबिब्लिपत् । रीङ् क्षरणे । रेपयति । अरीरिपत् ॥ कुयी दुर्गन्धे ॥ १०६१ यवयोर्वसे हकारे च लोपो वक्तव्यः २०॥ कोपयति । अचूकुपत् ।मायी विधूनने । एकः क्ष्मायति तमन्यः प्रेरयति क्षमापति । अचिक्ष्मपत् । लीङ् श्लेषणे ॥ १०६२ लीयतेावात्वं वा २१ ॥ विलापयति ॥ १०६३ लीलोः पुर वक्तव्यः २२॥ विलेपयति । व्यलीलिपत् व्यलीलपत्॥ १०६४ लीलोझै क्रमानुग्लुको वा २३ ॥ विलीनयति । व्यलीलिनत् । ला ग्रहणे । लापयति । अलीलपत् । लालयति । अलीललत् अलीललताम् ॥ १०६५ न रितः २४ ॥ ऋकारेतोऽनेकखरस्य शासश्चङि उक्त कार्य न भवति ॥ ढोक गतौ । ढोकयति । अडुढौकत् । टुयाचू याच्ञायाम् । याचयति । अययाचत् । शासु अनुशिष्टौ । शासयति । अशशासत् । दरिद्रा दुर्गतौ । दरिद्रयति । अददरिद्रत् अददरिद्रताम् । दुष वैकृत्ये ॥१०६६ दुषेऔं वा दीर्घो वक्तव्यः २५॥ दूषयति दोषयति । अदूदुषत् । घट म्भेष्टायाम् ॥ १०६७ मितां हृखः २६ ॥ धातुपाठे मित इत्येवं Page #203 -------------------------------------------------------------------------- ________________ सू० १०६८ - १०८४] सप्रक्रिया २८ १९५ पठितानां धातूनां हृखो भवति औ परे । घटयति । अजीघटत् । व्यथ दुःखभयचलनयोः । व्यथयति । अविव्यथत् ॥ एवं पञ्चपञ्चाशतो रूपम् ॥ १०६८ जनीनृषुक्रसुरञ्जोऽमन्ताश्च २७ ॥ एतेऽपि मितः ॥ जनयति । अर्जीजनत् । षु वयोहानौ । षु इत् । जस्यति । अजीजरत् । क्नसु हरणदीप्त्योः | नसयति । अचिक्नसत् । रञ्ज रागे ॥ १०६९ रञ्जेऔं मृगरमणेऽर्थे नलोपो वाच्यः २८ ॥ रजयति मृगान् । अरीरजत् । शम दम उपशमने । शमयति । अशीशमत् । दमयति । अदीदमत् ॥ १०७० जानातेऔं वा हखः २९ ॥ ज्ञाऽवबोधने । एकः जानाति तमन्यः प्रेरयतीति ज्ञपयति । अजिज्ञपत् ॥ १०७१ ज्वलग्लास्नाश्च वा मितः ३० ॥ ज्वल दीप्तौ । ज्वलयति ज्वालयति । अजिज्वलत् । ग्लै हर्षक्षये । ग्लपयति ग्लापयति । अजिग्लपत् । ष्णा शौचे । आदेः ष्णः स्रः (सू० ७४८ ) स्नापयति । स्नपयति । असिपत् ओस्फायी वृद्धौ ॥ १०७२ स्फायो वकारः स्यात् औ परे ३१ ॥ स्फावयति । अपिस्फवत् ॥ १०७३ भियो ञौ वा पुगात्वे वाच्ये ३२ ॥ भीषयति भापयति भाययति । अबीभिषत् अबीभपत् अबीभयत् ॥ १०७४ व्यापारमात्रे निर्वक्तव्यः स च डित् ३३ ॥ हलं गृह्णातीति हलयति ॥ इति व्यन्तप्रक्रिया ॥ २७ ॥ सप्रक्रिया २८ ॥ अथ सप्रक्रिया निरूप्यते ॥ १०७५ इच्छायामात्मनः सः १ ॥ धातोरिच्छायामर्थे सः प्रत्ययो भवति सा चेत्खसम्बन्धिनी । द्विश्च । भवितुमिच्छति बुभूषति । स धातुः (सू० ७८२ ) धातुत्वादतिवादि । अदे ( सू० ६९५) ॥ १०७६ वुः से२ ॥ Page #204 -------------------------------------------------------------------------- ________________ सारस्वतव्याकरणम् । [वृत्तिः२ उच्च आश्च वृ तस्मात् वुः । उवर्णान्ताहवर्णान्ताच्च ग्रहगुहोश्च से परे इट् न भवति ॥ १०७७ नानिटि से ३॥ इजिते सप्रत्यये परे गुणो न भवति ॥ तृ प्लवनतरणयोः ॥ १०७८ नाम्यन्तात्परस्य सस्य कित्वं वाच्यम् ४ ॥ ऋत इर (सू० ८२०) तरितुमिच्छति तितीर्षति । अतितीर्षीत् ।। डुकृञ् करणे । कर्तुमिच्छति चिकीपति ॥ १०७९ से दीघः ५ ॥ से परे पूर्वस्य दी! भवति ॥ चिञ् चयने ॥ १०८० चिनोतेः सणादौ कित्वं वा वाच्यम् ६॥ चिकीषति चिचीषति । जि जये । सपरोक्षयोर्जेर्गिः (सू० ७०९२) जेतुमिच्छति जिगीषति । यु मिश्रणे । युयूषति । ड्डपचर पाके । यः से (सू० ८४०) पक्तुमिच्छति पिपक्षति ॥ पातुमिच्छति पिपासति ॥ १०८१ गौणः प्रकृत्यर्थोऽन्यत्र सात् ७ ॥ प्रकृतिप्रत्यययोर्मध्ये प्रत्ययार्थः प्रधानीभूतः । अत्र सप्रत्यये तु वैपरीत्यं प्रकृत्यर्थः प्रधानीभूतः । तेन काष्ठेन पिपक्षतीत्यत्र तृतीयायाः पाकेन संबन्धो न विच्छया ॥ मृङ् प्राणत्यागे । मर्तुमिच्छति मुमूर्षति । पोरुर् (सू० ९४८) पृ पालनपूरणयोः । पुपूर्षति ॥ १०८२ वृ इत्यस्य उवाच्यः ८ ॥ वृङ् वरणे । वरितुमिच्छति वुवूर्षति ।। १०८३ रुदविदमुषग्रहिस्वपिप्रच्छः सः किद्वाच्यः ९॥ रुदिर अश्रुविमोचने । रुरुदिषति । विद् ज्ञाने । विविदिषति । मुष स्तेये । मुमुषिषति । ग्रह उपादाने । हो ढः (सू० २४३ ) आदिजबानाम् (सू० २३९) पढोः कः से (सू० ७९८) षत्वम् । क्षः गृहीतुमिच्छति जिघृक्षति ॥ सुषुप्सति । प्रच्छ ज्ञीप्सायाम् ॥ १०८४ कृगृधुप्रच्छसिङवशूङर्ती सखेड वक्तव्यः १० ॥ पिपृच्छिषति ।। करितुमिच्छति चिकरिषति । जिगरिषति जिगलिषति दिदरिषति । दिधरिषति सिमयिषति । Page #205 -------------------------------------------------------------------------- ________________ सू० १०८५-१०९६] सप्रक्रिया २८ १९७ खरादेः परः (सू० १०३८) अञ्जिजिषति । अशिशिषते । अरिरिषति । अद भक्षणे । सिसयोः (सू० ८८४) इति घसादेशः । सस्तोऽनपि (सू० ८३२) अत्तुमिच्छति जिघत्सति ॥ १०८५ हन्तीडोः सो णित् ११॥ हन्तीडोर्धात्वोः सो णिद्भवति ॥ हन् हिंसागत्योः । द्वित्वम् । पूर्वस्य हसादिः शेषः। (सू०७३९) कुहोश्चः (सू०७४६) झपानां जबचपाः (सू०७१४)। यः से (सू०८४०) हनो ने (सू० २६२) अत उपधायाः (सू० ७५७ ) नश्चापदान्ते झसे ( सू० ९५) । स धातुः (सू०७८२ ) । अप् (सू० ६९१) । अदे (सू० ६९५) हन्तुमिच्छति जिघांसति ॥ १०८६ इङः से गम् वाच्यः १२ ॥ अध्येतुमिच्छति अधिजिगांसते ॥ १०८७ गमे से इड्वाच्यः १३ ॥ गन्तुमिच्छति जिगमिषति ॥ १०८८ इस्से १४ ॥ अपित्दाधारभ्लभशक्पद्पत् मीमिमाङ्मेडहिंसार्थराधां खरस्य से परे इसादेशो भवति पूर्वस्य च लोपः ॥ दित्सति। धित्सति । स्कोराद्योश्च (सू० ३०१) खसे चपा (सू० ८९) रिप्सति । लिप्सति । शिक्षते । पित्सते ॥१०८९ पतो वेद .१५ ॥ पित्सति पिपतिषति । इट्पक्षे इसपूर्वलोपो न भवतः ॥ मीञ् हिंसायाम् । इमिञ् प्रक्षेपे । मित्सति । माङ् माने । मेङ् शोधने । मित्सते । राध संसिद्धौ । रित्सति ॥ १०९० आप्नोतेरीः १६ ॥ आप्नोतेराकारस्येकारो भवति से परे पूर्वस्य च लोपः ॥ आप्ल व्याप्तौ । ईप्सते ॥ १०९१ अशेरनायो वा १७ ॥ अशेरिच्छायां संस्थाने वा अनायप्रत्ययो भवति ॥ अशनायति । अशिशिषति ॥ १०९२ पततनदरिद्राभ्यः से वा इड्डाच्यः १८ ॥ तितनिषति तितंसति ॥ १०९३ तने से वा दीर्घः १९ ॥ तितांसति । दिदरिद्रिषति दिदरिद्रासति ॥ १०९४ वेडिस्स दीर्घता च Page #206 -------------------------------------------------------------------------- ________________ १९८ सारस्वत व्याकरणम् । [ वृत्तिः २ २० ॥ दम्भिज्ञप्योर्धात्वोर्वा इड् भवति सप्रत्यये परे ॥ यदा नेट् तदा किम् । अनयोर्दम्भिज्ञप्योर्धात्वोः सानुखारस्य स्वरस्य इस् भवति इकारस्य दीर्घता दम्भेरिकारस्य वा दीर्घता । चकारात्पूर्वस्य लोपः ॥ दम्भ दम्भने । आत्मनः दम्भितुमिच्छति दिदम्भिषति । द्वित्वम् । इस् । आदिजवानाम् (सू०२३९ ) । खसे चपा झसानाम् ( सू० ८९ ) स्कोराद्योश्च ( सू० ३०१) वा दीर्घता । धीप्सतिधिप्सति । ज्ञाऽवबोधने । इच्छायामात्मनः सः ( सू० १०७५ ) । द्विश्व (सू० ७१० ) । ह्रखः ( सू०७१३) पूर्वस्य हसादिः शेषः ( सू० ७३९) । यः से ( सू० ८४० ) । वा इट् । गुणः (सू० ६९२) ए अय् ( सू० ४१ ) । खरहीनम् (सू० ३६ ) षत्वम् । स धातुः (सू० ७८२) तिप् अप् ( सू० ६९९ ) । अदे ( सू० ६९५ ) आत्मनः ज्ञापयितुमिच्छतीति जिज्ञापयिषति । पक्षे । जिज्ञापि स इति स्थिते । सस्य इस् तस्य दीर्घता । पूर्वस्य लोपः । जे : ( सू० ८४४ ) । स्कोराद्योश्च ( सू० ३०१ ) ज्ञीप्सति । ज्ञप ज्ञानज्ञापनयोः । जिज्ञापयिषति । मितां हखः ( सू० १०३५ ) जिज्ञापयिषति ज्ञीप्सति ॥ इति सप्रक्रिया ॥ २८ ॥ यप्रक्रिया २९ अथ यज्ञप्रक्रिया निरूप्यते॥१०९५ अतिशये इसादेर्यङ् द्विश्व १ ॥ हसादेरेकखराद्धातोरतिशयेऽर्थे यड् प्रत्ययो भवति तस्मिन्सति धातोर्द्वित्वम् ॥१०९६ यङि २ ॥ यङि सति लुकि च पूर्वस्य नामिनो गुणो भवति ॥ सधातुः ( सू० ७८२) ङित्वादात्मनेपदम् । अप् (सू० ६९१) अतिशयेन भवतीति बोभूयते बोभूयेत । बोभूयताम् । अबोभूयत । बोभूयांचक्रे । बोभूयिषीष्ट । बोभूयिता । बोभूमि Page #207 -------------------------------------------------------------------------- ________________ सू० १०९७-१११२] यप्रक्रिया २९ १९९ 1 1 1 ष्यते । अबोभूयिष्यत । अबोभूयिष्ट । बोभुज्यते ॥ १०९७ अनपि 1 च हसात् ३ || हसादुत्तरस्य यङो लुग्भवति अनपि विषये ॥ १०९८ धात्वंशलोपनिमित्ते आर्धधातुके परे तन्निमित्ते समाननामिनां गुणवृद्धी न वाच्ये ४ ॥ बोभुजांचक्रे । मुह वैचित्ये । मोमुह्यते । लिह अखादने । लेलिह्यते । हु दानादनयोः । जोहूयते । विदज्ञाने । वेविद्यते ॥ १०९९ आत: ५ ॥ यङि लुकि च सति पूर्वस्य अकारस्य आकारो भवति अकिति पापच्यते । पठ व्यक्तायां वाचि । पापठ्यते ॥ ११०० सूचि त्रिमूत्र्यय्यर्त्यशूर्णोतिभ्यो यङ् वाच्यः ६ ॥ सोसूच्यते । सोसूत्रयते । मोमूध्यते ॥ गत्यर्थात्कौटिल्य एव यङ् । खरादेः परः ( सू० १०३८) अट गतौ । यसहितस्य द्वित्वम् । अय ट्य इति स्थिते । पूर्वस्य । हसादिः शेषः (सू० ७४९ ) आतः ( सू० १०९० ) । इति पूर्वस्यात्वम् । कुटिलं अटतीति अटाट्यते । अटाटांचक्रे । अटाटिषीष्ट । व्रज गतौ । कुटिलं व्रजतीति वात्रज्यते । अशु भोजने । अशास्यते । ऊर्णुञ् आच्छादने । ऊर्णोनूयते । खरात्पराः संयोगादयो नदरा द्विर्न (सू० ९३९) गुणोर्तिसंयोगाद्योः ( सू० ८१२ ) ॥ ११०१ यकारपरस्य रेफस्य द्वित्वं वाच्यम् ७ ॥ अरार्यते ॥ ११०२ लुप्सदचरजपजभदहदशगृभ्यो धात्वर्थगर्हायामेव य ८ ॥ गर्हितं लुम्पतीति लोलुप्यते । सासद्यते ॥ ११०३ ञमजपां नुक् ९ || अमान्तस्य जपादीनां च पूर्वस्य नुगागमो भवति यङि लुकि च सति ॥ ‘जप् जभ् दह दंश् भन् पश्' एते जपादयः ॥ जङ्गम्यते । बम्भ्रम्यते || अझसेऽप्यनुखारः । आदेशिना आदेशो निर्दिश्यते । यंयम्यते । कण शब्दे । चङ्कण्यते । तन्तन्यते । जप मानसे च । जपतीति जञ्जप्यते । जम 1 1 Page #208 -------------------------------------------------------------------------- ________________ २०० सारस्वतव्याकरणम् । .:. [वृत्तिः २ गात्रविनामे । जभतीति जञ्जभ्यते । दह भस्मीकरणे । दन्दह्यते । नो लोपः (सू० ७४२) दन्दश्यते । बम्भज्यते । पश्यतीति पम्पश्यते । पश् बाधनग्रन्थनयोः ॥ ११०४ चरफलो. रुच्चास्य १० ॥ अनयोर्यङि लुकि च सति पूर्वस्य नुगागमो भवति पूर्वात्परस्य अकारस्य उकारः ॥ चञ्चूर्यते । फल निष्पत्तौ । पम्फुल्यते ॥ ११०५ वलयान्तस्य वा नुक ११ ॥ मव स्थौल्ये । ममव्यते मामव्यते । चल कम्पने । चञ्चल्यते-चाचल्यते । दयङ् दाने। दन्दय्यते दादय्यते ॥ ११०६ रीगृदुपधस्य १२ ॥ ऋकारोपधस्य धातोर्यङि सति पूर्वस्य रीगागमो भवति ॥ कित्वादाकाराभावः ।। नृती गात्रविक्षेपे । अतिशयेन नृत्यति नरीनृत्यते नटः ॥ ११०७ अत्र णत्वाभावो वाच्यः १३ ॥ वृतु वर्तने । वरीवृत्यते । गृह उपादाने । जरीगृह्यते ॥ ११०८ ऋत्वतो रीग्वाच्यः १४ ॥ ओवश्चू छेदने । वरीवृश्यते । प्रच्छ ज्ञीप्सायाम् । परीपृच्छयते । कृपू सामर्थे । कृपो रो लः (सू० ८५७) ऋल । चरीकृप्यते । ११०९ वशेर्यङि न संप्रसारणम् १५ ॥ वावश्यते ॥ १११० पदासुध्वंसुभ्रंसुदंशुकस्व पतस्कन्दा यङि लुकि च सति पूर्वस्य नुगागमो वाच्यः १६ ॥ पनीपद्यते । नो लोपः (सू० ७४२) संसु ध्वंसु अधःपतने । सनीस्रस्यते । दनीध्वस्यते । बनीभ्रस्यते । वञ्च वञ्चने । वनीवच्यते । दनीदश्यते । चनीकस्यते । पनीपत्यते । चनीस्कद्यते ॥ १९११ ऋतो रिः १७ ॥ ऋकारस्य रिरादेशो भवति यङि सति ॥ ततो द्वित्वम् । ये (सू० ७७९) चेक्रीयते । चेक्रीयांचके । जेहीयते ॥ १११२ दादेरिः १८ ॥ अपिद्दाधामाङोहाकपिबसोस्थानामिकारो भवति किति किति हसे परे ॥ देदीयते। देदीयांचवे ॥ये (सू०.७७९) देधीयते । मेमी Page #209 -------------------------------------------------------------------------- ________________ २०१ सू० १११३-११२६] यङ्लुक्प्रक्रिया ३० यते । जेगीयते । जेहीयते । पेपीयते । सेषीयते । सेष्ठीयते ।। १११३ घ्राध्मोरी १९ ॥ अनयोरीकारो भवति यङि सति ।। जेघीयते ॥ देध्मीयते ॥ १११४ हन्तेहिंसायांनी वा वाच्यः २० ॥ जेन्नीयते ॥ ञमजपां नुक् (सू० ११०३) १११५ द्विरुक्तस्य हन्तेः कुत्वं वाच्यम् २१॥ जङ्घन्यते॥१११६चायो यङि की वाच्यः २२ ॥ चाय सन्तानपालनयोः चेकीयते ॥ १९१७ कवतेयङि चुत्वाभावो वाच्यः २३॥ कुशब्दे । कोकूयते ॥१११८ शीडो यकृिति ये वक्तव्यः २४ ॥ शाशय्यते । दौक गतौ । डोटौक्यते ॥ तौक गतौ । तोत्रौक्यते ॥ इति यप्रक्रिया ॥ २९ ॥ यङ्लुक्प्रक्रिया ३० ॥ अथ यङ्लुक्प्रक्रिया निरूप्यते ॥१११९ वान्यत्र लुगनुवर्तते १॥ अन्यत्रेत्यच्प्रत्ययसंयोगं विनापि वा यङो लुग्भवति ॥११२० लुकि सति पितिमि वा ईकारो वक्तव्यः २॥ बोभवीति-बोभोति बोभूतः बोभुवति । यङ्लुगन्तं परस्मैपदं हादिवच्चद्रष्टव्यम् हादित्वादपो लुक् द्वित्वमपि ज्ञातव्यम् । बोभूयात् । बोभुवति बोभोतु-बोभूतात् बोभूताम् बोभुवतु । अबोभवीत् । अबोभोत् अबोभूताम् अबोभवुः । बोभवांचकार । बोभूयात् । बोभविता। बोभविष्यति । अबोभवि. ष्यत् । दादेः पे (सू० ७२५) गुणं बाधित्वा नित्यत्वादुक् । अबोभूवीत् अबोभोत् अबोभूताम् अबोभूवुः । पापचीति-पापक्ति पापक्तः पापचति । पापच्यात् । पापचीतु-पापक्तु । झसाद्धिः (स० ८८१) पापग्धि । अपापचीत् । अपापक् । पापचांचकार पापच्यात् । पापचिता पापचिष्यति अपापचिष्यत् । अपापचीत् ॥ ११२१ द्वेः ३॥ द्विरुक्तस्य पिति सार्वधातुके खरेऽपि नोपधाया गुणः । बोभु Page #210 -------------------------------------------------------------------------- ________________ २०२ सारस्वतव्याकरणम् । . [वृत्तिः २ जीति-बोभोक्ति । अबोभुजीत्-अबोभोक् ॥ वावदीति-वावक्ति । जाघटीति-जापट्टि ॥ ११२२ ऋकारान्तानामृदुपधानां च यङ्लुकि सति पूर्वस्य रु। रिक रीक आगमा वक्तव्याः ४ ॥रः (सू० ७६८) डुकृञ् करणे । चर्करीति-चरिकरीति-चरीकरीति । चर्कर्तिचरिकर्ति चरीकर्ति । चर्कतः-चरिकृतः-चरीकृतः । चक्रति-चरिक्रति चरीक्रति । अचर्कारीत्-अचरिकारीत् अचरीकारीत् । ववृतीति-वरिवृतीति-वरीवृतीति । वर्वर्ति-वरिवर्ति-वरीवर्ति । अवतीत्-अवरिवृती त्-अवरीवृतीत् ॥ ११२३ रात्सस्य ५॥ रेफादुत्तरस्य सस्यैव लोपो नान्यस्य । अवर्वत्-अवरिवत्-अवरीवत् । अवताम् अवरिवृताम्अवरीवृताम् । वर्वर्ताञ्चकार वरिवर्ताञ्चकार वरीवर्ताञ्चकार। वनीवश्वीति वनीवक्ति । नो लोपः (सू० ७४२) वनीवक्तः वनीवचति । जङ्गमीति जङ्गन्ति । लोपस्त्वनुदात्ततनाम् (सू० ८८६) जङ्गतः । गमा खरे (सू० ७८९) जङ्गमति । धातुग्रहणोक्तं यङ्लुकि वेति केचित् । जङ्गमति जङ्गमीति ॥ ११२४ मो नो धातोः ६॥ धातोर्मकारस्य नकारो भवति झसे पदान्ते वमयोश्च ॥ जङ्गन्मि जङ्गन्वः जगन्मः ॥ ११२५ द्विरुक्तस्य हन्तेः कुत्वं वाच्यम् ७ ॥ जङ्घनीति-जङ्घन्ति जङ्घतः जन्नति । जाहेति-जाहाति जाहीतः जाहति । एवं दाधेतीत्यादि । दादेति दादाति दादत्तः दादति । दादेतु दादेयात् अदादात् । एवं धेट् । दाधेति-दाधाति दाद्धः दाधति । दाधेयात् । अदाधासीत् अदाधात् अदाधत् । धाञ् । दाधाति धत्तः । पितोस्तु । दादेति । दादीतः । दादीहि । दादायात् । अदादासीत् । जहातेः पूर्वस्य दीर्घो वेति केचित् ॥ जहाति ॥ इति यङ्लुप्रक्रिया ॥ ३० ॥ . Page #211 -------------------------------------------------------------------------- ________________ सू०११२६-११४७ ] नामधातुप्रक्रिया ३१ २०३ नामधातुप्रक्रिया ३१ अथ नामधातुप्रक्रिया ॥ ११२६ नानो य ई चास्य १॥ नाम्न इच्छायामर्थे यः प्रत्ययो भवति तत्सन्नियोगे चाकारस्य ईकारः ॥ आत्मनः पुत्रमिच्छतीति पुत्रीयति । पुत्रीयेत् । पुत्रीयतु । अपुत्रीयत् । इत्यादि ॥ ११२७ यादौ प्रत्यये ओकारौकारयोरवावौ वक्तव्यौ २॥ गां इच्छतीति गव्यति। नावं इच्छतीति नाव्यति । त्वद्यति । मद्यति । युष्मद्यति । अस्मद्यति । धनीयति ॥ ११२८ काम्यश्च ३॥ पुत्रंइच्छति पुत्रकाम्यति गव्याञ्चकार ॥११२९ यकारस्यानपि वा लोपो वाच्यः ४ ॥ गवांचकार । गव्यात् । गव्यिता-गविता । अगव्यीत् अगव्यिष्टाम् अगविष्टाम् अगव्यिषुःअगविषुः ॥ नाव्यात् नाव्यिता-नाविता । अनाव्यीत्-अनावीत् ।। ११३० हसात्तद्धितस्य लोपोये ५॥गार्गीयति । वाच्यति ॥११३१ हसाद्यस्य लोपो वाऽनपि ६ ॥ समिध्यिता समिधिता ॥ ११३२ मान्ताव्ययाभ्यां यो न ७ ॥ किमिच्छति । इदमिच्छति । खरिच्छति ॥ ११३३ करणे च ८॥ नाम्नः करणेथें यः प्रत्ययो भवति ॥ कण्डं करोतीति कण्डूयति । नमस्यति । तपस्यति । वरिवस्यति गुरून् शुश्रूषत इत्यर्थः ॥ ११३४ क्षीरलवणयोस्तुष्णायां यः सुट् च ९॥ क्षीरस्यति । लवणस्यति॥११३५ शब्दादिभ्यो यङ् १०॥ ये (सू० ७७९) शब्दायते । वैरायते । कलहायते । अभ्रायते । मेघायते । कष्टायते ॥ ११३६ ऊष्मबाप्पाभ्यामुद्वमने यङ् वाच्यः ११ ॥ ऊष्माणमुद्रमति ऊष्मायते । बाप्पायते ॥ ११३७ बिर्डित्करणे १२ ॥ नाम्नो भिः प्रत्ययो भवति करणेऽर्थे स च डित् ॥ यकार उभयपदार्थः । घटं करोतीति घटयति । अग्लोपिनो नाङ्कार्यम् । अजवटत् । महान्तं करोतीति Page #212 -------------------------------------------------------------------------- ________________ २०४ सारस्वतव्याकरणम् । [ वृत्तिः २ महयति । अममहत् ॥ ११३८ आविष्ठवत्कार्यम् १३ ॥ ११३९ पृथ्वादेरः १४ || पृथ्वादेर्ऋकारस्य रो भवति ञौ परे ॥ पृथुं करोति प्रथयति । म्रदयति । स्थूलं करोति स्थवयति । अङि लघौ हख उपधायाः (सू० ८४५) अतिस्थवत् । दवयति । अदीदवत् । प्रियं करोति प्रापयति । गुरुं करोति गरयति । स्थिरं करोति स्थापयति । ऊदिं करोतीति ऊढयति । रङ् द्विश्च (सू० ८४३)। (सू० ८४४ ) । खरादेः परः ( १०३८) अङि पूर्वस्य दस्य वा जः औडिढत् औजिढत् । ऊढं करोति ऊढयति ॥ वहः कृतक्तौ कृतसंप्रसारे हो दस्तथोर्घः टुभिना ढि ढश्व || ऊढिश्व निर्डित्करणे स धातुर्जेर खरादेर्द्वज औजढश्च ॥ २० ॥ औजढत् ॥ ११४० कर्तुर्यङ् १५ ॥ कर्तुरुपमानादाचारेऽर्थे यङ् प्रत्ययो भवति ॥ श्येन इव आचरतीति श्येनायते काकः । पण्डितायते मूर्खः ॥ १९४९ यङि सलोपो वाच्यः १६ ॥ १९४२ पयसस्तु विभाषया १७ ॥ अप्सरायते । ओजायते । पयायते पयस्यते । सुमनायते || १९४३ नाम्न आचारे कि वाच्यः १८ ॥ कृष्ण इव आचरति कृष्णति । किपो लोपः ॥ १९४४ आचार उपमानात् १९ ॥ कर्माधारयोरुपमानात् यः प्रत्ययो भवति आचारेऽर्थे || अकारस्येकारः । पुत्रीयति शिष्यमुपाध्यायः । प्रासादीयति कुट्याम् ॥ ११४५ भृशादिभ्योऽभूततद्भावे यवाच्यः २० ॥ अभृशो भृशो भवतीति भृशायते । श्यामायते । इत्यादि ॥। १९४६ अश्ववृषयो मैथुनेच्छायां यः प्रत्ययः सुगागमश्च २१ ॥ अश्वस्यति वडवा । वृषस्यति गौः ११४७. Page #213 -------------------------------------------------------------------------- ________________ सू०११४८-११६८] आत्मनेपदप्रक्रिया ३२ २०५ सुखादिभ्यो ज्ञापनायां यङ् २२ ॥ सुखं ज्ञापयति सुखायते ॥ इति नामधातुप्रक्रिया ॥ ३१ ॥ ___ आत्मनेपदप्रक्रिया ३२ ___ अथात्मनेपदव्यवस्था ॥ ११४८ निविशादेः १ ॥ नीत्याधुपसगंपूर्वकाद्विशादेर्धातोरात्मनेपदं भवति ॥ निविशते ११४९ विपराभ्यां जेः २ ॥ विजयते पराजयते ॥ ११५० समो गमादिभ्यः ३ ॥ संगच्छते ॥ ११५१ गमः परौ सिस्यौ आत्मनेपदे वा कितौ वाच्यौ ४ ॥ लोपस्त्वनुदात्ततनाम् (सू० ८८६) संगसीष्ट-संगंसीष्ट । लोपो हस्खाज्झसे (सू० ८५२) समगत समगस्त । ऋच्छ गतीन्द्रियप्रलयमूर्तिभावेषु । समृच्छते संपृच्छते । स्वृ शब्दोपतापयोः । संखरते संस्वृषीष्ट संखरिषीष्ट । समियते । संशृणुते । संवित्त संविदाते ॥ ११५२ वित्तेरन्तो वा रुद् अति ५ ॥ संविद्रते । संविदते । संपश्यते । 'गम ऋच्छ पृच्छ स्वृ ऋ श्रु विद दृश' एते गमादयः॥१९५३ आङो दोऽनास्यविहरणे ६ ॥ आपूर्वाद्ददातेरात्मनेपदं भवति मुखप्रसारणव्यतिरिक्तेऽर्थे ॥ आदत्ते मुखं व्याददाति । अत्र न ॥ ११५४ क्रीडोऽनुसंपरिभ्यश्च ७॥ अनुसंपरिभ्यः क्रीडतेरात्मनेपदं स्यात् ॥ क्रीड विहारे शब्दे च । अनुक्रीडते । संक्रीडते । परिक्रीडते ॥ ११५५ शब्दे तु न ८॥ संक्रीडति चक्रम् ॥ ११५६ समवप्रोपविभ्यः स्थः ९॥ एभ्यस्तिष्ठतेरात्मनेपदं भवति ॥ सन्तिष्ठते । अवतिष्ठते । प्रतिष्ठते । उपतिष्ठते वितिष्ठते ॥ ११५७ आडो यमहनः १० ॥ आङ्परयोर्यमहनोरास्मनेपदं भवति ॥ आयच्छते । आहते । अकर्मकयोरात्माङ्गकर्मक.योर्वा ॥ आयच्छते पाणिम् । आहते शिरः । अन्यथा परशिर आय Page #214 -------------------------------------------------------------------------- ________________ २०६ सारस्वतव्याकरणम् । [ वृत्तिः २ च्छति । शत्रुमाहन्ति ॥ ११५८ हन्तेरात्मनेपदे सिः किद्वाच्यः ११ ॥ नो लोपः (सू० ७४२ ) आहत । लोपस्त्वनु (सू० ८८६ ) ॥ ११५९ हन्तेः स्याशीर्यादाद्योर्वधादेश आति वा १२ ॥ अवधिष्ट | ११६० उद्विभ्यां तपः १३ ॥ उद्विभ्यां परस्याकर्मकस्यात्माङ्गकर्मकस्य वा तपतेरात्मनेपदं भवति ॥ उत्तपते वितपते पाणिम् । अन्यथा महीं वितपत्यर्कः ||११६१ उदश्च रस्त्यागे १४ ॥ उत्पूर्वाच्चरतेस्त्यागेऽर्थे आत्मनेपदं भवति ॥ धर्ममुच्चरते त्यजती - त्यर्थः ॥ त्यागे किम् । मन्त्रमुच्चरति ॥ १९६२ समस्तृतीयायुक्ताच्च १५ ॥ संपूर्वाच्चरतेस्तृतीयान्तेन पदेन युक्तादात्मनेपदं भवति ॥ अश्वेन संचरते || १९६३ व्यवपरिभ्यः क्रीन ः १६ ॥ एभ्यः क्रीणातेरात्मनेपदं भवति ॥ विक्रीणीते । अवक्रीणीते । परिक्रीणीते ॥ १९६४ शप उपालम्भे १७ ॥ उपालम्भेऽर्थे शपतेरात्मनेपदं भवति ॥ वाचा शरीरस्पर्शनमुपालम्भः । विप्राय शपते । विप्रशरीरं 1 स्पृशति । शपथं करोतीत्यर्थः ॥ उपालम्भे किम् । दुष्टं शपति । शापं ददातीत्यर्थः ॥ ११६५ ज्ञाश्रुस्मृदृशां सान्तानामात् १८ ॥ सप्रत्ययान्तानामेषामात्मनेपदं भवति ॥ यः से ( सू० ८४० ) जिज्ञासते । शुश्रूषते । सुस्मूर्षते । दिदृक्षते || १९६६ अनुपसर्गाज्जानातेरात्मगामिनि फले आत्मनेपदं वाच्यम् १९ ॥ गां जानीते ॥ ११६७ कर्मव्यतिहारेऽन्यत्र हिंसादेरात् २० ॥ कर्मव्यतिहारेऽर्थे वाच्ये हिंसार्थान् गत्यर्थान्पठजल्पहसान् विहाय इतरेतरान्योन्यपरस्परपदाभावे सर्वेभ्यो धातुभ्य आत्मनेपदं भवति ॥ परस्परमेकक्रियाकरणं कर्मव्यतिहारः । श्रद्धा आस्तिक्यबुद्धिः । श्रद्धा व्यतिभवते । परस्परं भवतीत्यर्थः । व्यतिस्ते । विवदन्ते वादिनः । अन्यत्रेति किम् । व्यतिनन्ति । व्यतिगच्छन्ति । व्यतिपठन्ति । व्यतिजल्पन्ति । व्यतिहस 1 Page #215 -------------------------------------------------------------------------- ________________ सू०११६९-११७५] भावकर्मप्रक्रिया ३३ २०७ न्ति । इतरेतरं परस्परं अन्योन्यं वा व्यतिलुनन्ति ॥ ११६८ भुनो मोजने आत्मनेपदं वाच्यम् २१ ॥ भुते ओदनम् । भुनक्ति महीं नृपः ॥ इत्यात्मनेपदव्यवस्थाप्रक्रिया ॥ ३२ ॥ भावकर्मप्रक्रिया ३३ अथ भावकर्मणोर्यकि प्रक्रिया ॥ ११६९ या चतुर्यु १॥ धातोर्भावे कर्मणि च यक् प्रत्ययो भवति चतुर्षु पूर्वोक्तेषु परतः ॥ ककारो गुणप्रतिषेधार्थः ॥ ११७० आइ भुवि कर्मणि २ ॥ अकमकेभ्यो भुवि भावे सकर्मकेभ्यश्च कर्मण्यात्मनेपदं भवति ॥ ये कर्मनिरपेक्षां क्रियामाहुस्ते अकर्मकाः भूएध्आसूशीप्रभृतयः । तदुक्तम् ॥ लज्जासत्तास्थितिजागरणं वृद्धिक्षयभयजीवितमरणम् । शयनक्रीडारुचिदी त्यर्थ धातुगणं तमकर्मकमाहुः ॥ २१ ॥ भावस्यैकत्वादेकवचनमेव भवति प्रथमपुरुषस्य । भूयते भवता । भूयेत भूयताम् । अभूयत । बभूवे ॥१९७१ स्वरान्तानां हन्ग्रहदशां च भावकर्मणो सिसतासीस्यपामिट् वा इण वक्तव्यः ३॥ वाशब्दात्सेटां धातूनां नित्यमिट् स विकल्पेन णित् । अनिटां धातूनां विकल्पेन इद स नित्यं णित् ॥ एवं च हन्दृशोरनिटोर्वा इट् स च नित्यं णित् । ग्रहधातुस्तु सेट् । ततः परो नित्यमिद स च वा णित् । णित्त्वाद्वृद्धिः । भाविषीष्ट । णित्वाभावे । भविषीष्ट । भाविताभविता । भाविष्यते भविष्यते । अभाविष्यत अभविष्यत ॥११७२ इण्तन्यकर्तरि ४ ॥ धातोस्तनि परे भावे कर्मणि च इण् प्रत्ययो भवति ॥ सेरपवादः। णो वृद्ध्यर्थः ॥११७३ लोप: ५॥ इण्संयोगे Page #216 -------------------------------------------------------------------------- ________________ २०८ सारस्वतव्याकरणम् । [वृत्तिः २ तनो लोपो भवति ॥ अभावि || अकर्मकोऽपि कदाचित् सकर्मकता मनुभवति । उक्तं च । 1 उपसर्गेण धात्वर्थो बलादन्यत्र नीयते । विहाराहारसंहारपरिहारप्रहारवत् ॥ २२ ॥ धात्वर्थ बाधते कश्चित् कश्चित्तमनुवर्तते । विशिनष्टि तमेवार्थमुपसर्गगतिस्त्रिधा ॥ २३ ॥ सुखमनुभूयते खामिना । अन्वभावि भवो भवता । अन्वभावि - षाताम् - अन्वभविषाताम् । अन्वभाविषत - अन्यभविषत ॥ ११७४ शीडोsयङ् किति ङिति ये वक्तव्यः ६ ॥ शय्यते । शिष्ये । शायिषीष्ट । शयिषीष्ट । अशायि । अन्वशायि अन्वशा1 यिषाताम् - अन्वशयिषाताम् अन्वशायिषत-अन्वशयिषत ॥ ये कर्म - सापेक्षां क्रियामाहुस्ते सकर्मकाः । यकि । घटः क्रियते देवदत्तेन । त्वं दुःखी क्रियसे रागैः । विरागैः सुख्यहं क्रिये । चक्रे । कारिषीष्ट । कृषीष्ट । कारिता कर्ता । कारिष्यते करिष्यते । अकारिष्यत - अकरिष्यत । अकारि अकारिषाताम् - अकृषाताम् । अकारिषत-अकृषत । चिञ् चयने । चियते । चिच्ये । चायिषीष्ट चेषीष्ट । चायिता - चेता । चायिष्यते चेष्यते । अचायिष्यत-अचेष्यत । अचायि अचायिषाताम् अचेषाताम् । दादेरिः ( सू० १११२) दीयते । ददे ददाते ददिरे ॥ ११७५ आतो युक् ७ ॥ आकारान्ताद्धातोर्युगागमो भवति ञिति णिति च परे ॥ दायिषीष्ट - दासीष्ट । दायिता - दाता । दायिष्यते - दास्यते । अदायि अदायिषाताम् । दाधास्थामित्वम् | अदिषाताम् । धीयते । अधायि अधायिषाताम् अधिषाताम् । स्थीयते । अस्थायि । स्तूयते । तुष्टुवे । अस्तावि अस्ताविषाताम् अस्तोषाताम् हरिहरौ भक्तेन । हन्यते । / Page #217 -------------------------------------------------------------------------- ________________ सू० ११७६-११८२] भावकर्मप्रक्रिया ३३ २०९ हनो ने (सू० २६२) जप्ने । घानिषीष्ट-हंसीष्ट ॥ ११७६ हन्तेः स्याशीर्यादायोर्वधादेशो वक्तव्य आति वा ८॥ वधिषीष्ट ॥ घानिता-हन्ता । घानिष्यते-हनिष्यते । अघानिष्यत-अहनिष्यत । अघानि अघानिषाताम् ॥ ११७७ हन आत्मनेपदे सिः किद्वाच्यः ९ ॥ लोपस्त्वनुदात्ततनाम् (सू० ८८६) अहसाता अघानिषत-अहसत । अवधि अवधिषाताम् । ग्रहां विति च (सू० ८७३) गृह्यते । जगृहे । ग्राहिषीष्ट । ईटो ग्रहाम् (सू० ८२१) ग्रहीषीष्ट । ग्राहिता-ग्रहीता । ग्राहिष्यते-ग्रहीष्यते । अग्राहिष्यत अग्रहीष्यत । अग्राहि अग्राहिषातां-अग्रहीषाताम् । दृश्यते ददृशे । दर्शिषीष्ट-इ. क्षीष्ट । दर्शिता-द्रष्टा। दर्शिष्यते द्रक्ष्यते । अदर्शि अदर्शिषातां-अह. क्षाताम् । डुपचष् पाके । पच्यते । पेचे। पक्षीष्ट । पक्ता । पक्ष्यते । अपक्ष्यत । अपाचि अपक्षाताम् ॥ ११७८ तनोते! वा १० ॥ तनोते कारस्य वा आकारो भवति यकि परे ॥ तायते-तन्यते । तेने। अतानि अतानिषातां-अतनिषाताम् । भञ्जो आमर्दने। नो लोपः (सू० ७४२) भज्यते । अकित्त्वात् बभर्छ । भङ्क्षीष्ट । भक्ता । भङ्ख्यते ॥ ११७९ भञ्जरिणि वा नलोपो वाच्यः ११ ॥ अभञ्जि-अभाजि । शम उपशमे । शम्यते मुनिना । धातोः प्रेरणे (सू० १०४२) । मितां हवः (सू० १०३५) ः (सू० ८४४) शम्यते मोहो हरिणा । शमयांचक्रे ॥ ११८० ज्यन्तानां मितामिणि णिदिटि च वा वृद्धिर्वाच्या णिदिटि बिलोपश्च ॥ १२ अशमि अशामि । अशामिषातां अशमिषाताम् । णिद्वदिडभावपक्षे अशमयिषाताम् । गुणोर्तिसंयोगायोः (सू० ८१२) अर्यते । मर्यते । यत्कर्म गुणसंयोगात्कर्तृत्वेन विवक्ष्यते स कर्मकर्ता । तदुक्तम् ॥ १४ Page #218 -------------------------------------------------------------------------- ________________ २१० सारस्वतव्याकरणम् । [वृत्तिः २ - क्रियमाणं तु यत्कर्म स्वयमेव प्रसिद्ध्यति । सुकरैः स्वैर्गुणैर्यस्मात्कर्मकर्तेति तद्विदुः ॥२४॥ तत्राप्येतदेवोदाहरणम् ॥ ११८१ कर्मवत्कर्मणा तुल्यक्रिया १३ ॥ कर्मस्थया क्रियया तुल्यक्रियः कर्ता कर्मवद्भवति ॥ लूयते केदारः खयमेव । लुलुवे । अलावि अलाविषाताम् । पच्यते ओदनः खयमेव ॥ भिदिर विदारणे । भिद्यते काष्ठं खयमेव । अमेदि । १९८२ द्रुहस्नुनमां कर्मकर्तरि यगिणौ न १४ ॥ दुग्धे नुते गौः खयमेव । नमते दण्डः स्वयमेव । अदुग्ध । अलोष्ट । अस्लोविष्ट । अनस्त ॥ ॥ अथ द्विकर्मकाः ॥ दुह्याच्पच्दण्ड्धिप्रच्छिचिब्रूशासुजिमथ्मुषाम् । कर्मयुक् स्यादकथितं तथा स्थानीहकृष्वहाम् ॥ २५ ॥ न्यादयो ज्यन्तनिष्कर्मगत्यार्थी मुख्यकर्मणि । प्रत्ययं यान्ति दुह्यादिौणेऽन्ये तु यथारुचि ॥ २६ ॥ निन्ये विजनमजागरि रजनीमगमि त्वयाचि संभोगम् । गोपी हास्य मकार्यत भावश्चैनामनन्तेन ॥ २७॥ ___ कर्तुरिष्टमतं प्रधानं कर्म । अन्यदप्रधानम् । नगरं नीयते नागरिकैर्वनेचरः । भोजनं याच्यते यजमानो याचकेन । पृच्छयते पन्थानं पथिकेन पान्थः । शिष्येणाचार्यस्तत्त्वं पृच्छयते । कटश्चिकीर्ण्यते देवदत्तेन । यतः (सू० ७८३) बोभूयते । अनपि च हसात् (सू० १०९७) पापच्यते । तेन पापचिता । अपापचि । इत्यादि ॥ इति भावकर्म-प्रक्रिया ॥ ३३ ॥ Page #219 -------------------------------------------------------------------------- ________________ सू० १९८३ - ११८९] लकारार्थप्रक्रिया ३४ लकारार्थप्रक्रिया ३४ I अथ लकारार्थप्रक्रिया ॥ ॥ हठपौनःपुन्ययोर्लोण्मध्यमपुरुषैकवचनान्तता निपात्यते । सर्वकाले सर्वपुरुषविषये अतीते काले ॥ पुरीमवस्कन्द लुनीहि नन्दनं मुषाण रत्नानि हरामराङ्गनाः । विगृह्य चक्रे नमुचिद्विषा बली य इत्थमस्वास्थ्य महर्दिवं दिवः ॥ २८ ॥ १९८३ वर्तमानार्थाया अपि विभक्तेः स्मयोगे भूतार्थता वक्तव्या १ ॥ आह स्म हारीतः । यजति स्म युधिष्ठिरः || १९८४ वैचित्यापह्नत्रयोरल्पकालेऽपि णादिर्वक्तव्यः २ ॥ सुप्तोऽहं किल विललाप । नाहं कलिङ्गं जगाम ॥ ११८५ यावत्पुरानिपातयोयोगे भविष्यदर्थे तिबादयः लट् ३ ॥ पुरा करोति । यावत्क - रोति । करिष्यतीत्यर्थः ॥ १९८६ स्मृत्यर्थधातुयोगे भूतेऽर्थे लुट् ४ ॥ स्मरसि मित्र यदुपकरिष्यसि । उपकुरुथा इत्यर्थः ॥ ॥ इति लकारार्थप्रक्रिया ॥ ३४ ॥ २११ धातूनामप्यनन्तत्वान्नानार्थत्वाच्च सर्वथा । अभिधातुमशक्यत्वादाख्यातख्यापनैरलम् ॥ २९ ॥ इति श्रीअनुभूतिस्वरूपाचार्य विरचितायां सारस्वतप्रक्रियायामाख्यातप्रक्रिया समाप्ता ॥ ; Page #220 -------------------------------------------------------------------------- ________________ कृदन्तप्रकरणम् । वृत्तिस्तृतीया । कृदन्तप्रकरणम् १ निजजनैर्विधिना निखिलापदो झटिति यो विनिवर्तयति स्मृतः । जलधिजापरिरम्भणलालसो नरहरिः कुरुतां जगतां शिवम् ॥ १ ॥ अथ कृदन्तप्रक्रिया निरूप्यते ॥ ११८७ कृत्कर्तरि च १ ॥ वक्ष्यमाणाः प्रत्ययाः कृत्संज्ञकास्ते च कर्तरि च भवन्ति ॥ चकारा - द्भावकर्मणोरपि ॥ ११८८ स्वतत्रः कर्ता २ ॥ क्रियायां स्वातत्र्येण विवक्षितोऽर्थः कर्ता स्यात् ॥ शुद्धो धात्वर्थो भावः ॥ कर्तु - रीप्सिततमं कर्म ( सू० ४१२ ) । तथायुक्तं चानीप्सितम् (सू० ४१३ ) विषं भुङ्क्ते देवदत्तः । अन्नं भुङ्क्ते देवदत्तः ॥ १९८९ तृणौ ३ ॥ धातोस्तृवुणौ प्रत्ययौ भवतः ॥ डुपचष् पाके । पचू तृ इति स्थिते । • चोः कुः ( सू० २८५ ) पक् तृ इति स्थिते । कृत्तद्धितसमासाश्च प्रातिपदिकसंज्ञा इति केचित् । इति नामत्वम् । नामसंज्ञायां स्यादिर्विभक्तिर्भवति । तुर् ( सू० १८९ ) । सेरा ( सू० १८४ ) पचतीति पक्ता पक्तारौ पक्कारः । पक्तारम् । पुंलिङ्गे पक्ता । ष्टितः ( सू० ३७४ ) स्त्रियां पत्री । नपुंसके पक्त पक्तृणी पक्त्तृणि इत्यादि ॥ डुकृञ् करणे । करोतीति कर्ता । हृञ् हरणे । हरतीति हर्ता । मृङ् प्राणत्यागे । म्रियते Page #221 -------------------------------------------------------------------------- ________________ सू० ११९०-११९७] कृदन्तप्रकरणम् १ २१३ इति मर्ता । डुभृधारणपोषणयोः। बिभर्तीति भर्ता ॥११९० कृतः ४॥ सेट्धातोः परस्य कृत्प्रत्ययस्य वसादेरिडागमो भवति ॥ कृत इदं सूत्रं सेधातुविश्यम् ॥ स्वसूतिसूयतिधूत्रधादीनामिका वक्तव्यः (सू० ७५२) ञ् प्राणिप्रसवे। सूते वा सूयतेऽसौ सोता-सविता। स्तृ शब्दे । गुणः (सू० ६९२ ) वा इट् । खरतीति खरिता खतः । ठुञ् स्तुतौ । स्तौतीति स्तोता । एध वृद्धौ । एधतेऽसौ एधिता। यु मिश्रणे । यौतीति यविता । रु शब्दे । रौतीति रविता । णु स्तुतौ । नौतीति नविता । भू सत्तायाम् । भवतीति भविता । गुपू रक्षणे ॥ ऊदितो वा (सू० ७५१ ) ऊदितो धातोरिडा भवति । गोपायति गोपिता-गोपायिता-गोप्ता । षिधू शास्त्रे माङ्गल्ये च । सेधिता-सेद्धा ॥ इषुसहलुभरिषरुषामनपि नस्येड्डा भवति (सू० ७९२) इषु इच्छायाम् । इच्छतीति एषिता-एष्टा । लुम् विमोहने । लुभ् गाये । लुभ्यतीति लोभिता । इडभावपक्षे । झबे जवाः (सू० ३५)। तथोर्घः (सू० ७५३ ) लुभ्यतीति लोब्धा । रिष् बन्धने । रेषतीति वा रिष्यतीति रेषिता-रेष्टा । रुष क्रोधे । रोषतीति रोषिता-रोष्टा । षह मर्षणे । आदेः ष्णः स्वः (सू० ७४८)। हो ढः (सू० २४३) तथोघः (सू० ७५३ )। ष्टुभिः ष्टुः (सू० ७९)। ढि ढो लोपः (सू० ८०२)। सहिवहोरोदवर्णस्य (सू० ८६१) सहतेऽसौ सोढा। वह प्रापणे । वहतीति वोढा ॥ ११९१ युवोरनाकौ ५॥यु वु इत्येतयोरन अक इत्येतवादेशौ भवतः यथासंख्येन ॥ णित्त्वादृद्धिः । अत उपधायाः । (सू० ७५७ ) पचति वा पाचयतीति पाचकः पाचकौ पाचकाः । देवशब्दवत् । पठति वा पाठयतीति पाठकः । एवं याचते वा याचयतीति याचकः । भवति वा भावयतीति भावकः । लुनाति वा लावयतीति लावकः । पुनाति Page #222 -------------------------------------------------------------------------- ________________ २१४ सारस्वतव्याकरणम् । [वृत्तिः ३ वा पावयतीति पावकः । श्रुञ् श्रवणे । शृणोति वा श्रावयतीति श्रावकः । यु मिश्रणे । औ आव् (सू० ४८) यौति वा यावयतीति यावकः । वध हिंसायाम् । वधतीति वधकः । हनो घत् (सू० १०४६) हन्ति वा घातयतीति घातकः । जायते वा जनयतीति जनकः । जनिवध्योर्न वृद्धिः (सू०८९०)। मितां हखः (सू०१०३५) घटते वा घटयतीति घटकः ॥ ११९२ आतो युक् ६॥ आकारान्ताद्धातोयुगागमो भवति जिति णिति च परे ॥ डुदाञ् दाने । ददाति वा दत्तेऽसौ दायकः । दैप् शोधने । सन्ध्यक्षराणामा (सू० ८०३) दायतीति दायकः ॥ ११९३ वुण्सयुटौ हित्वा दरिद्रातेरनप्यालोपो लुङि वा वक्तव्यः ७ ॥ दरिद्रा दुर्गतौ । दरिद्राति वा दरिद्रायतीति दरिद्रायकः । दरिद्रिता। नृतिखनिरजिभ्यो वुर्वक्तव्यः । नृती गात्रविक्षेपे । उपधाया लघोः (सू०७३५)। राधपो द्विः (सू०३७) नृत्यतीति नर्तकः । नदादेः (सू०३७८) नर्तकी । खनकः खनकी ॥ ११९४ रञ्जनलोपो वा ८ ॥ रञ्जक:रजकः रजकी । युवोरनाको इति तद्धितयुप्रत्ययस्य नेति वक्तव्यम् । तेन ऊर्णायुः ॥ ११९५ नाम्युपधात्कः ९॥ नाम्युपधाद्धातोः कः प्रत्ययो भवति ॥ ककारो गुणाभावार्थः । क्षिप् प्रेरणे । क्षिपतीति क्षिपः । छिदिर विदारणे द्वैधीकरणे च । छिनत्तीति छिदः । भिदिर विदारणे । भिनत्तीति भिदः । दुह प्रपूरणे । द्रवद्रव्यभागानुकूलो व्यापारः प्रपूरणम् । कामान् दोग्धि सा कामदुघा ॥ ११९६ दुहः के वा घो वाच्यः १० ॥ तेन कामदुहा । दुहः-दुघः । तुद् व्यथने । तुदतीति तुदः। विद् ज्ञाने । वेत्तीति विदः । द्विष् अप्रीतौ । द्वेष्टीति द्विषः । पुर ऐश्वर्यदीप्त्योः । सुरतीति सुरः । शुभ् शोभायाम् । शोभते तत् शुभं कल्याणम् ॥ ११९७ जानातेव Page #223 -------------------------------------------------------------------------- ________________ २१५ सू०११९८-१२०५] कृदन्तप्रकरणम् १ ११ ॥ जानातेर्धातोरपि कः प्रत्ययो भवति ॥ जानातेश्चेति चकारात्कृगधृदृप्रीब्रुवामपि कः प्रत्ययो भवति ॥ कृ विक्षेपे । ऋत इर् (सू०८२०) । किरतीति किरः॥धृञ् धारणे । धरतीति ध्रः । श्री तर्पणे । प्रीणाति वा प्रीणीतेसौ प्रियः । नु धातोः (सू० ७७६)। गृ निगरणे । गिरतीति गिरः । गिरते रस्य वा लः खरे वाच्यः (सू०१०१६) १९९८ गिले परेऽगिलस्य १२ ॥ गिलशब्दं विहाय पूर्वस्य मुम् वक्तव्यः । तिमि गिलतीति तिमिगिलः । अगिलस्येति किम् । गिलगिलः । ब्रूञ् व्यक्तायां वाचि । नु धातोः। (सू० ७७६) ब्रवीतीति ब्रुवः । अपिशब्दात्कर्तरि गहेरपि कः प्रत्ययो भवति । गृह्णातीति गृहम् । तात्स्थ्यात् गलन्ति ते गृहा दाराः॥ १९९९ पचिनन्दिग्रहादेरयुणिनि १३ ॥ पचादेनन्द्यादेग्रहादेश्व अयु णि नि इत्येते प्रत्यया भवन्ति यथासंख्येन ।। पचतीति पचः । वक्तीति वचः । वेत्तीति वेदः । वपतीति वपः ॥ १२०० चरिचलिपतिहनिवदीनां वा द्वित्वं पूर्वस्याऽगागमश्च १४ ॥ अप्रत्यये परे । हसादिः शेषाभावः । चर गतिभक्षणयोः चरतीति चराचर:चरः । चल चलने । चलतीति चलाचल:-चलः । पत्ल पतने । पततीति पतापतः-पतः । वदतीति वदावदः-वदः ॥ १२०१ हन्तर्घनश्च १५ ॥ हन्तीति धनाधना-हनः । चकाराद्धन शब्द। घनतीति घनाघनः-धनः । इत्यादि । णद अव्यक्ते शब्दे । नदतीति नदः । प्लङ् गतौ । प्लवतेऽसौ प्लवः । चरतेऽसौ. चरः । क्षमूष सहने । क्षमतेऽसौ क्षमः । पचादिषु देवट् नदट् इति । टकारानुबन्धत्वादीप् । दीव्यतीति देवी । षिवु तन्तुसन्ताने । षे सेवने । सेवतेऽसौ सेवः । सीव्यतीति सेवः । व्रण क्षते । व्रण रुजि । व्रण शब्दे । व्रणतीति व्रणः । अन प्राणने । प्राणितीति प्राणः । दृशिर Page #224 -------------------------------------------------------------------------- ________________ . सारस्वतव्याकरणम् । [वृत्तिः३ प्रेक्षणे । पश्यतीति दर्शः । सृप्लः गतौ सर्पतीति सर्पः । भृञ् भरणे । भरते वा भरतीति भरः । डुभृञ् धारणपोषणयोः । बिभूति वा बिभृतेऽसौ भरः । सहतेसौ सहः पचादिराकृतिगणः । पचादेरप्रत्ययो निरुपपदस्येव ज्ञातव्यः ॥ इति पदादिः ॥ अथ नन्दादिनिरूप्यते ॥ टुणदि समृद्धौ । इदितो नुम् ( सू० ७४५ ) नन्दति वा नन्दयतीति नन्दनः । नन्दतीति नन्दकः । रमु क्रीडायाम् । रमतेऽसौ रमणः । वाम क्रम संहर्षे । वामतीति वामनः । क्रमतीति क्रमणः । वास शब्दे । वासयतीति वासनः । मितां हवः (सू० १०३५) मदी हर्षे । माद्यतीति वा मदयतीति मदनः। दुष वैकृत्ये॥ १२०२ दुषेौं कृति च दी? वक्तव्यः१६॥दूषयतीति दूषणः । राध् साध् संसिद्धौ । राध्यतीति वा राधयतीति राधनः साधनः । वृधु वृद्धौ । वर्धयतीति वर्धनः । रु शब्दे ॥ १२०३ रोयुण १७॥ रु शब्द इत्येतस्माद्धातोर्युण् प्रत्ययो भवति ॥ रौति वा रावयतीति रवणः ॥ १२०४ रुशब्दात् युरपि वक्तव्यः १८॥ तेन रावणः ॥ १२०५ ऋकारान्ताच १९ ॥ युण्प्रत्ययो भवति । करोतीति वा कारयतीति कारकः । कारणः । शुभ शोभने रोचने च । शोभयतीति शोभनः । रुच दीप्तौ । रोचयतीति रोचनः । बिभीषयतीति बिभीषणः । णशू अदर्शने । चित्तं विनाशयतीति चित्तविनाशनः । युध्यते इति योधनः । एते ज्यन्ताः । सहतेऽसौ सहनः । तपतीति तपनः । ज्वल ज्वलने । ज्वल दीप्तौ । ज्वलतीति ज्वलनः । शम् दम् उपशमे । शाम्यतीति शमनः । दाम्यतीति दमनः । जल्पतीति जल्पनः । तृप प्रीणने। तृप्यतीति तर्पणः । रमणः । हप् संदर्षे । दृप्यतीति दर्पणः । क्रन्द आक्रन्दने । ऋदि आह्वाने रोदने च । संपूर्वः। संक्रन्दति वा संक्रन्दयतीति संक्रन्दनः। Page #225 -------------------------------------------------------------------------- ________________ सू० १२०६-१२११] कृदन्तप्रकरणम् १ २१७ कृष् निष्कर्षे कृष् आमर्षणे । संकर्षतीति संकर्षणः। अर्द मर्द अर्दने । अर्द गतौ याचने च । जनान् अर्दयतीति जनार्दनः । मर्दयतीति मर्दनः । घृष संघर्षणे । संघर्षतीति संघर्षणः। पुनातीति पवनः । पवतेऽसौ पवनः । षूद क्षरणे । षूद निबर्हणे । सूदी हिंसायाम् । मधुं सूदयतीति मधुसूदनः । लुनातीति लवणः । अत्र णत्वं निपात्यते । शत्रून् दाम्यतीति वा दामयतीति शत्रुदमनः। इति नन्दादिः ॥ ॥ अथ ग्रहादिर्निरूप्यते ॥ ग्रह उपादाने । इनां शौ सौ ( सू० २६१) हसे पः सेर्लोपः (सू० १५६) णिनिप्रत्ययान्ताः सर्वे दण्डिवत् । गृह्णातीति ग्राही। उत्साही । आस् उपवेशने। उदास्तेऽसौ उदासी । दास दाने । उत्पूर्वः । उद्दासी। भासू दीप्तौ । उद्भासतेऽसौ उद्भासी। आतो युक् (सू०११९२) छो छेदने । छचतीति छायी। तिष्ठतीति स्थायी । मत्रि गुप्तभाषणे । मत्रि अवधारणे । मन्त्रयतीति मन्त्री । मृद मर्दने । मर्द आमर्दने । मृदु आर्जवे । संमर्दति वा संमर्दयतीति संमर्दी। निस्तौतीति निस्तावी। निशृणोतीति निश्रावी । रक्ष पालने । निरक्षतीति निरक्षी । वस् निवासे । निवसतीति निवासी । टुवप् बीजसंताने । निवपतीति निवापी। शो तनूकरणे । निश्यतीति निशायी ॥ १२०६ नपूर्वेभ्यः कृहणीयावदिभ्यो णिनिश्च २०॥ न करोति वा कुरुतेऽसौ अकारी । इनां सौ (सू० २६१) न हरतीत्यहारी। णीञ् प्रापणे । न नयतीत्यनायी । न याचतेऽसौ अयाची । न वदतीत्यवादी । रध हिंसायाम् । णिनिश्चेति चकारादपावपरिविभ्यो णिनिः । अपराध्यतीत्यपराधी । रुधिर् आवरणे । अवरुणद्धीत्यवरोधी। परिभवतीति परिभावी । विपूर्वः। विचरतीति विचारी । विशेषेण रौतीति विरावी ॥ इति ग्रहादयः ॥ ॥ अथ दृशादिनिरूप्यते ॥ १२०७ दृशादेः शः २१ ॥ दृश् हन् धेट Page #226 -------------------------------------------------------------------------- ________________ २१८ सारस्वतव्याकरणम् । [वृत्तिः३ ध्मा प्रा पा दा धा विद् एभ्यः शप्रत्ययो भवति ॥ शकारः शिति चतुर्वकार्यार्थः ॥ १२०८ शिति चतुर्वत २२ ॥ शिति प्रत्यये परे तिबादिषु परेषु यत्कार्यमुक्तं तद्भवति ॥ दृशादेः पश्यादिः (सू० ८१०) अप् । अदे (सू० ६९५) पश्यतीति पश्यः । उत्पूर्वः। उत् ऊर्ध्वं पश्यतीति उत्पश्यः । हन् हिंसागत्योः । अप् । अदे (सू० ६९५ ) अदादित्वादपो लुक् । अपितादिर्डित् ( सू० ६९३ ) । गमां खरे (सू० ७८९) हनो ने (सू० २६२) गां हन्तीति गोन्नः । पापन्नः । धेट पाने । अप् । अदे (सू० ६९५) धयतीति धयः । ध्मा धमादेशः । धमतीति धमः । उद्धमतीति उद्धमः । प्रा जिघ्रादेशः । जिघ्रतीति जिघ्रः । पा पाने । पिबादेशः । पिबतीति पिबः । अप् । अदे (सू० ६९५) ह्रादेxिश्च (सू० ९४२ ) । दादेः (सू० ९५७ ) इत्याकारलोपः । ददाति वा दत्तेऽसौ ददः । दधाति वा धत्तेऽसौ दधः । मुचादेर्मुम् (सू० १०११) तुदादेरः (सू० १००७ ) विदूल लाभे । गां विन्दतीति गोविन्दः ॥ १२०९ ज्वलादेर्णः २३ ॥ ज्वलादेर्ग'णात् णः प्रत्ययो भवति ॥ ज्वलादेणे वेति केचित् ॥ पक्षे पचादित्वादः । ज्वल दीप्तौ । ज्वाल:-ज्वलः । तपतीति ताप:-तपः । पथि गतौ । चुरादिः । इदित् । पान्थयतीति वा पन्थतीति पान्थः-पथः अत्र वृद्ध्यनन्तरं नुमागमः । ज्वलादिगणपाठसामथ्यात् । पत्ल गत्यैश्वर्ययोः । पततीति पात:-पतः । कथ पचने । कथतीति काथःकथः । पथ गत्याम् । पथतीति पाथः-पथः । मथ गाहे । मथतीति माथ:-मथः । सहतेऽसौ साहः-सहः ॥ इति ज्वलादिः ॥ ॥ अथाऽण् ॥ १२१० कार्येऽण् २४ ॥ धातोः कर्मणि. प्रयुज्यमाने अण् प्रत्ययो भवति ।। कुम्भकारः ॥ १२११ नानि च २५ ॥ नान्युप Page #227 -------------------------------------------------------------------------- ________________ २१९ सू० १२१२-१२१८ ] कृदन्तप्रकरणम् १ पदे धातोर्डः ॥ द्वाभ्यां पिबतीति द्विपः । द्वौ वारौ जायतेऽसौ द्विजः । गृहदारैः सह तिष्ठतीति गृहस्थः । गिरिशः । शीङ् खप्ने । पादैः पिबतीति पादपः । द्रु गतौ । शुचं द्रवतीति शूद्रः ॥ १२१२ शुचः शूद्रे २६ ॥ शुचः शूरादेशो भवति द्रे परे ॥ १२१३ उरसः सलोपो मुम्वा २७ ॥ उरसः सकारस्य लोपो भवति डप्रत्ययान्ते गमो मुमागमश्च वा ॥ उरसा गच्छतीत्युरगः उरङ्गः सर्पः॥ १२१४ विहायसो विहश्च २८॥ विहायस्शब्दस्य विहादेशो भवति चकारान्मुम्बा डान्ते गमौ ॥ विहायसि आकाशे गच्छतीति विहगः-विहङ्गः॥१२१५ भुजस्य च मुम्वा डप्रत्ययान्ते गमौ २९॥ भुजो वकार्थे ॥ भुजं वक्र गच्छतीति भुजगः भुजङ्गः। विहायसो विहश्चेति चकारात् तरसस्तुरादेशः । मुम्वेति अनुवर्तनीयम् । तरसस्तुरादेशः । तुरस्य मुम्वा डान्ते गमौ ॥ तरसा वेगेन गच्छतीति तुरगः-तुरङ्गः ॥ १२१६ अटौ ३० ॥ नाम्नि कार्ये च उपपदे सति अटौ प्रत्ययौ भवतः ॥अस्थि हरतीति अस्थिहरः श्वा । कवचंहरतीति कवचहरः कुमारः। धृञ् धारणे। धनुर्धरतीति धनुर्धरः क्षत्रियो राजा 'वा। चर गतौ। कुरुषु देशेषु चरतीति कुरुचरः। ट ईबर्थः । ष्टवितः (सू० ३७४) स्त्री चेत् कुरुचरी ।महीचरी सेनाचरी । भिक्षाचरी । दीक्षाचरी । अप्रत्ययः सर्वधातुसाधारणः । टप्रत्ययस्तु चरादेरेव भवति । शोकं करोतीति शोककरी कन्या। यशः करोतीति यशस्करी विद्या । सृ गतौ । पुरः सरतीति पुरःसरः। अग्रे सरतीति अग्रेसरः। पार्थे शेतेऽसौ पार्श्वशयः। तथैव पृष्ठे शेतेऽसौ पृष्ठशयः । उदरशयः। उत्तानादिषु कर्तृषु । उत्तानः शेतेऽसौ उत्तानशयः। स्तम्बरमः हस्ती। नप जल्प व्यक्तायां वाचि । कर्णेजपः । ग्रह उपादाने । शक्तिं गृहातीति शक्तिंग्रहः । लाङ्गलग्रहः । पृष्ठिग्रहः । अकुशग्रहः । तोमरग्रहः । Page #228 -------------------------------------------------------------------------- ________________ २२० सारस्वतव्याकरणम् । [वृत्तिः३ घटीग्रहः । धनुग्रहः । सूत्रग्रहः । पुष्पग्रहः । फलग्रहः। कामग्रहः । मधुरग्रहः। शंपूर्वः कृञ् । शं सुखं कल्याणं वा करोतीति शंकरः । शंवदः । भारंवहः । अत्र कर्मणि अणपि वक्तव्यः । भारवाहः । श्वेतवाहः । इत्यादि ॥ १२१७ इखखि ३१ ॥ धातोर्नाम्नि कार्ये च सति इख खि एते प्रत्यया भवन्ति ॥ खकारः खिति पदस्येति सूत्रस्य विशेषणार्थः ॥ १२१८ खिति पदस्य ३२ ॥ खिति प्रत्यये परे पूर्वपदस्याव्ययवर्जितस्य मुमागमो भवति ॥ तेन दोषामन्यमहः । आत्मानं दोषा मन्यते तदोषामन्यं अहः ॥ शकृत्स्तम्बात्कृञः फले रजोमलाद्हो हनः । दृतिनाथाद्देववातादापःकर्तरि वाच्य इः ॥२॥ वत्सत्रीह्योरेव । डुकृञ् करणे । शकृत्करोतीति शकृत्करिः वत्सः। स्तम्बं करोतीति स्तम्बकरिः व्रीहिः । फलं गृह्णातीति फलेग्रहिः वा फलानि गृहातीति फलेग्रहिवृक्षः । फलस्वेदन्तत्वं निपातनात् । रजो गृह्णातीति रजोग्रहिः । मलग्रहिः । इति हरतीति इतिहरिः । नाथहरिः । आप्ल व्याप्तौ । देवान् आमोतीति देवापिः । वातं. आमोतीति वातापिः। करीषकूलसर्वाभ्रात्कषः प्रियवशाद्वदः। ऋतिमेघभयात्कृनः क्षेमभद्रप्रियात्तु वा ॥३॥ कष निष्कर्षे । करीषं कषतीति करीषंकषः । करीषं शुष्कगोमयमित्यमरः । कूलं कषतीति कूलंकषः । सर्वं कषतीति सर्वकषः । अनं कषतीति अभ्रंकषः । खकारो मुमागमार्थः । वद व्यक्तायां वाचि । प्रियं वदतीति प्रियंवदः। वशंवदः । ऋतिं करोतीति ऋतिकरः । मेघंकरः । भयंकरः । विकल्पपक्षे कार्ये अण् । क्षेम Page #229 -------------------------------------------------------------------------- ________________ सू० १२१९-१२२०] कृदन्तप्रकरणम् १ २२१ करोतीति क्षेमंकरः-क्षेमकारः । भद्रं करोतीति भद्रंकरः-भद्रकारः। प्रियं करोतीति प्रियंकरः-प्रियकारः॥ आशिताच भुवो भावो करणे च तुराभुजात् । विहायसः सुतोरोभ्यां हृदयाच जनात् प्लवात् ॥४॥ गच्छतेः प्रत्ययः खः स्यानो धातोस्तु खिर्भवेत् । आत्मन्कुक्ष्युदरेभ्यः स्युस्तथा वाचंयमादयः ॥५॥ आशितेन भूयते इति आशितंभवम् । (भावे नपुंसकता वाच्या)। आशितो भवत्यनेनेति आशितंभव ओदनः । तुरं गच्छतीति तुरंगमः । भुजंगमः। विहंगमः । सुतंगमः । उरंगमः । हृदयंगमः । जनंगमः । प्लवेन गच्छतीति प्लवंगमः । डुभृञ् धारणपोषणयोः । आत्मानं बिभर्तीति आत्मभरिः । कुक्षिभरिः। उदरंभरिः लुप्तविभक्तेश्च पदान्तत्वं विज्ञेयम् । अतः परं वाचंयमादीन् कथयति । वाचंयमादयो निपात्याः । वाचं यच्छतीति वाचंयमः । अत्र अकारो निपात्यते । दृ विदारणे । पुरं दारयतीति पुरंदरः । तप संतापे । द्विषं तापयतीति द्विषतपः । परंतपः । सर्व सहतेऽसौ सर्वसहः । विश्वं बिभतीति विश्वंभरः । भगं दारयतीति भगंदरः । तृ प्लवनतरणयोः । रथं तरतीति रथंतरः । वृञ् वरणे । पतिं वृणोतीति वा वृणुते सा पतिवरा । जि जये । धनंजयतीति धनंजयः । धृञ् धारणे । वसूनि वा वसु धरति वा धरतेऽसौ वसुंधरा । शत्रुसहतेऽसौ शत्रुसहः । अरिं दाम्यतीति अरिंदमः । शत्रुतपः । एते वाचंयमादयः ॥ १२१९ एजां खश् ३३ ॥ एज कम्पने इत्यादीनां खश् प्रत्ययो भवति ॥ खकरो मुमागमार्थः। शकारः शिति चतुर्वत्कार्यार्थः । धातोः प्रेरणे (सू० १०४२) इति निः प्रत्ययः। जनान् एजयतीति जनमेजयः ।। Page #230 -------------------------------------------------------------------------- ________________ २२२ सारस्वतव्याकरणम् । [वृत्तिः३ ज्यन्तैजेर्मन्यतेमुञ्जकूलास्यपुष्पतो धयेः। नाडीमुष्टीशुनीपाणिकरस्तना सनासिकात् ॥६॥ मनु अवबोधने । दिवादेर्यः (सू० ९६३) आत्मानं पण्डितं मन्यतेऽसौ पण्डितमन्यः । धेट पाने । मुझं धयतीति मुझंधयः । कूलंधयः। आस्यंधयः। पुष्पंधयः। ध्माघेटोस्तुल्योपपदत्वं ज्ञेयम् । ध्मा शब्दामिसंयोगयोः । नाडी धयतीति नाडिंधयः । नाडिंधमः ॥ १२२० खशन्ते पूर्वपदस्य ह्रस्वो वाच्यः ३४ ॥ मुष्टिंधयः । मुष्टिंधमः । शुनिधयः । शुनिधमः । पाणिंधयः । पाणिधमः। करंधयः । करंधमः । स्तनंधयः । स्तनंधमः । नासिकां धयतीति नासिकंधयः । नासिकंधमः ॥ ध्माखारीवातघटीतो रुजवहौ तु कूलतः। अरुर्विधुतिलात्तुद् स्यादसूर्योगादृशिस्तपिः ॥७॥ ललाटतो वहाभ्रालिह मितमाननखात्पचिः। वातादजिरिराया मद् जहतिः शर्धतिस्तथा ॥८॥ खारीं धमतीति खाधिमः । वातंधमः । घटिंधमः । रुजो भङ्गे । वह प्रापणे । उत्पूर्वः । कूलमुद्रुजतीति कूलमुद्रुजः । कूलमुबहतीति कूलमुद्रहः । अरुः किम् । मर्मस्थानम् । अरुस्तुदतीति अरुंतुदः । विधुतुदः । तिलंतुदः । दृशिर् प्रेक्षणे । न सूर्य पश्यन्तीति असूर्यपश्याः राजदाराः । उग्रंपश्यः । ललाटंतपः। लिह आखादने । वहं लेढीति वहलिहः। अभ्रंलिहः। मितं पचतीति मितंपचः। प्रस्थंपचः । पानंपचः । नखंपचः । अज गतौ क्षेपणे च । वातमजतीति वातमजः । मदी गर्वप्लवनयोः । इरया माद्यतीति इरंमदः । ओहाक् १ वर्णशिल्पी. २ बालः. Page #231 -------------------------------------------------------------------------- ________________ सू०१२२१ - १२४०] कृदन्तप्रकरणम् १ २२३ त्यागे । श जहतीति शजहा माषाः ॥ इति खश्प्रत्ययः ॥ १२२१ ख्युट् करणे ३५ ॥ धातोः करणेऽर्थे ख्युट् प्रत्ययो भवति ॥ १२२२ अभूततद्भावे ३६ ॥। १२२३ आढ्य सुभगस्थूलपलितननांधप्रियेषु कृञः ख्युट् वाच्यः ३७ ॥ अनाढ्यः आढ्यः क्रियतेऽनेनेति आढ्यंकरणं द्यूतम् । सुभगंकरणम् । स्थूलंकरणं किं । दधि । पलि। । तंकरणं किं । शीतवस्तुसेवनम् । अनमो नमः क्रियते अनेनेति नमंकरणं द्यूतम् । अन्धंकरणं किं । सूर्यावलोकनमसकृत् । अप्रियः प्रियः क्रियते अनेनेति प्रियंकरणं मैत्रयम् ॥ १२२४ दार्वाहनो अण् वक्तव्यः ३८ ॥ तुकारस्य च टः ॥ १२२५ घदादेशो वक्तव्यः ३९ ॥ उवम् (सू० ३८) दारु आहन्तीति दार्वाघाट: ॥ १२२६ चारौ वा ४० ॥ चारुं आहन्तीति चार्वाघाट :- चार्वाघातः ॥ १२२७ कर्माणि संपूर्वाच्च ४१ ॥ वर्णान् संहन्तीति वर्णसंघातः ॥ १२२८ जायापत्योष्टक ४२ ॥ जायापत्योरुपपदयोर्हन्तेष्टक् प्रत्ययो भवति लक्षणवति कर्तरि ॥ जायां हन्तीति जायानः ना। पतिं हन्ती पतिघ्नी स्त्री ॥ १२२९ अमनुष्यकर्तृके च ॥ जायान्नः तिलकालकः । कपाले भ्रमरः । पतिघ्नी पाणिरेखा ॥ ९२३० पाणिघताडघौ शिल्पिनि निपात्येते ४४ ॥ १२३१ राजघ उपसंख्यानम् ४५ ॥ १२३२ भजां विश् ४६ ॥ भजसहवहां कर्तरि विणू प्रत्ययो भवति ॥ णकारो वृद्ध्यर्थः ॥ ९२३३ वेः ४७ ॥ वेर्लोपो भवति ॥ भज सेवायाम् । अर्धे भजतीति अर्धभाक् । I चोः कुः (सू० २८५) सुखभाक् । दुःखभाक् । सह मर्षणे । हो ढ़: ( सू० २४३ ) । वावसाने ( सू० २४० ) । सहादेः सादिः ( सू० ५०६ ) इति सूत्रेण त्वरायास्तुरादेशः । त्वरां शत्रूणां वेगं सहतेऽसौ तुराषाट् । सहेः षः साढि (सू० २४७ ) तुरासाही तुरा+ . Page #232 -------------------------------------------------------------------------- ________________ २२४ सारस्वत व्याकरणम् । [ वृत्ति: ३ 1 साहः । वह प्रापणे । भारं वहतीति भारवट्-भारवाड् भारवाहौ भारवाहः । भारवाहम् भारवाहौ । वाहो वौ ( सू० २४५ ) भारोहः । भारौहा भारवाड्भ्याम् भारवाङ्भिः । इत्यादि || १२३४ पृच्छतेर्वि ४८ ॥ तत्त्वं पृच्छतीति तत्त्वप्राट् । अम्बूनि वहतीति अम्बुचाट् । शसादौ तु अम्बूहः ॥ १२३५ अन उ: ४९ ॥ अनकारादुचरस्य वाहो वाकारस्य उः स्यात् शसादौ खरे परे ॥ शालिवाट् शाल्यूहः ॥ १२३६ शमेरपि विश् वक्तव्यः ५० ॥ मो नो धातोः (सू० २७५ ) शम दम उपशमने । प्रकर्षेण शाम्यतीति प्रशान् प्रशामौ प्रशामः ॥ १२३७ अभूततद्भावे कृभ्वस्तियोगे नानश्विः ५१ ॥ अभूततद्भावेऽर्थे भू अस् इत्येतेषु नान्नविः प्रत्ययो भवति ॥ १२३८ संपद्यकर्तरीति वक्तव्यम् ५२ ।। तेन अगृहे गृहे भवतीति गृहेभवति । चकार वा दीर्घ इति विशेषणार्थः । अथवा चकारः प्रत्ययभेदज्ञापनार्थः । वेः ( सू० १२३३ ) || १२३९ च्वौ दीर्घ ई चास्य ५३ ॥ च्वौ प्रत्यये परे आकारस्य ईकारादेशो भवति अन्यस्य खरस्य दीर्घो भवत्यव्ययवर्जितस्य ॥ अमिथुनं मिथुनं संपद्यमानं तथा करणं इति मिथुनीकरणं । पाणिग्रहणम् । च्व्यन्तत्वादव्ययम् । अव्ययाद्विभक्तेर्लुक् ( सू० ३५९ ) असहायः सहाय: संपद्यमानस्तथा स्यात् इति सहायीस्यात् । अकृष्णः कृष्णः यथा संपद्यमानस्तथा करोतीति कृष्णीकरोति । हेतूकृतम् । अव्ययस्य न दीर्घत्वम् । अखस्ति स्वस्ति यथा संपद्यमानस्तथा स्यादिति स्वस्ति स्यात् । संपद्य - कर्तीरे किम् । अगृहे गृहे भवतीति गृहेभवति । अलुक् क्वचित् ( सू० ५४९ ) इति विभक्तेरलुक् ॥ १२४० च्चौ सलोपश्च ५४ ॥ मनस् महस् रजस् इत्यादीनां सकारस्य लोपो भवति च्वौ प्रत्यये परे ॥ द्वौ नञौ प्रकृतमर्थमनुसरतः । उत्सुकं मनो 1 Page #233 -------------------------------------------------------------------------- ________________ २२५ सू० १२४१-१२५२] कृदन्तप्रकरणम् १ यस्यासौ उन्मनाः, न उन्मनाः अनुन्मनाः, अनुन्मनाः उन्मनाः संपद्यमानस्तथा भाव इति उन्मनीभावः । विगतं मनो यस्याऽसौ विमनाः, न विमनाः अविमनाः, अविमना विमनाः संपद्यमानः तथा भाव इति विमनीभावः । न विद्यते मनो यस्यासौ अमनाः, न अमनाः अनमनाः, अनमनाः अमनाः संपद्यमानस्तथा भाव इति अमनीभावः । तथा सुमनीभावः । सुचेतीभावः । महीकरोति । अरूकरोति । चक्षूकरोति ॥ १२४१ डाच् कचिद्वक्तव्यः ५५॥ अभूततद्भावेऽर्थे कचित् डाच् प्रत्ययो भवति ॥ अदुःखं दुःखं संपद्यते तत् करोतीति दुःखाकरोति । तथा भद्राकरोति ॥ १२४२ आतो मनिपकनिब्वनिप: ५६ ॥ प्रादौ नाम्नि च प्रयुज्यमाने आकारान्ताद्धातोर्मनिप् कनिप् वनिप् इत्येते प्रत्यया भवन्ति ॥ सुष्ठु ददातीति सुदामा । राजन्शब्दवद्रूपम् । खसे चपा झसानाम् ( सू० ८९) अश्वे तिष्ठतीति अश्वत्थामा ॥१२४३ स्थामी ५७ ॥ इश्च ईश्व ई दासोमास्तां हख इकारो भवति । दा सोमा स्थां ह्रख इकारो भवति धागैहाकपिबतीनां दीर्घ ईकारो भवति तकारादौ किति हसे परे, न क्यपि विपि वा कनिप्प्रत्ययः। सुष्ठु पिबतीति सुपीवा । भूरि ददातीति भूरिदिवा। घृतं पिबतीति घृतपीवा । धनदिवा । मलसिवा। मार्गस्थिवा। धनधीवा । सुगीवा । दोषहीवा ।। १२४४ कनिए कचिदन्येभ्योऽपि दृश्यते ५८ ॥ सुष्टु करोतीति सुकर्मा । सुष्टु शृणोतीति सुशर्मा । अन प्राणने। अत्र विप् । प्राणितीति प्राण प्राणौ प्राणः। हे प्राण ॥१२४५ अनः ५९ ॥ पदान्ते वर्तमानस्यापि अनो नस्य णत्वं स्यात् । अधौ इति विशेषणान्नलोपो न शङ्कनीयः ॥ १२४६ ह्रस्वस्य पिति कृति तुक ६० ॥ हखस्य पिति कृति परे तुगागमो भवति ॥ इण् गतौ । प्रातरेतीति प्रातरित्वा ॥१२४७ वनिपि अमस्याऽत्वं वाच्यम् ६१॥ १५ Page #234 -------------------------------------------------------------------------- ________________ २२६ सारस्वतव्याकरणम् । [वृत्ति: ३ 1 1 जनी प्रादुर्भावे । विजायतेऽसौ विजावा । केवलेभ्योपि वनिप् । ओण अपनयने । ओणतीति अवावा अवावानौ ।। १२४८ ईपि वनो नस्य रो वाच्यः ६२ ॥ न्रण ईप् (सू० ३६५) ओणति सा अवावरी । पारं पश्यतीति पारश्वा | पारं पश्यतीति सा पारदृश्वरी । केवलेभ्योऽपि क्वनिप् । षुञ् अभिषवे । षूङ् प्राणिगर्भविमोचने । सुनोतीति सुत्वा । तुक् । धेट् पाने । धयतीति धीवा । गै शब्दे । गायतीति गीवा । जहातीति हीवा । पीवा ॥। १२४९ कि ६३ ॥ उपपदे सति असति च सर्वधातुभ्यः क्विप् प्रत्ययो भवति ॥ क्विपः सर्वापहारित्वाल्लोपः । कपावितौ ॥ वे: ( सू० १२३३ ) हस्वस्य पिति कृति तु ( सू० १२४६ ) | कर्म करोतीति कर्मकृत् । अग्निं चिनोतीति अग्निचित् । देवान् स्तौतीति देवस्तुत् । सोमं पिबतीति सोमपाः । सर्वं पश्यतीति सर्वदृक् । दिशाम् (सू० ३१९ ) इति कुत्वम् । दिश अतिसर्जने । दिशतीति दिक् ॥ १२५० किवचिप्रच्छयायतस्तुकटप्रुङ्जुश्रीणां दीर्घः संप्रसारणभावश्च वक्तव्यः ६४ ॥ वक्त्यनया सा वाक् वा उच्यते अनया सा वाक् । प्रच्छ ज्ञीप्सायाम् । तत्त्वपूर्वः । तत्त्वं पृच्छतीति तत्त्वप्राट् । छशषराजादेः षः ( सू० २७६ ) || १२५१ वो: शऊ वाच्यौ किति ङिति झसे परेऽनुनासिके कौ च ६५ ॥ तेन तत्त्वप्राशौ तत्त्वप्राशः । ष्टुञ् स्तुतौ । आयतं स्तौतीति आयतस्तूः । प्रुङ गतौ । कटं प्रवतेऽसौ कटप्रूः । जु गतौ । जवतेसौ जूः । सुष्ठु श्रयतीति सुश्रीः । वा सुष्ठु श्रीर्यस्याऽसौ सुश्रीः । श्रयन्ते जना यामिति श्रीः ।। १२५२ नहिवृतिव्यधिवृषिरुचिसहितनिषु किबन्तेषु पूर्वपदस्योपसर्गस्यान्ते दीर्घो वाच्यः ६६ ॥ णह बन्धने । आदेः ष्णः नः (सू० ७४८ ) । नहो धः (सू० ३१०) उप समीपे नह्यतीति उपानत् । नितरां वर्ततेऽसौ 1 Page #235 -------------------------------------------------------------------------- ________________ सू०१२५३-१२६४] कृदन्तप्रकरणम् १ २२७ नीवृत् । व्यध ताडने।ग्रहां किति च (सू० ८७३) मर्माणि विध्यतीति मर्मावित् । वृष वृष्टौ। प्रकर्षेण वर्षतीति प्रावृट् । रुच दीप्तौ । नितरां रोचतेऽसौ नीरुक् ॥ १२५३ गम्यम्नम्हन्तनादीनां विपि जमस्य लोपो वाच्यः क्यपि वा ६७ ॥ तुक् । परितः तनोतीति परितत् । कटं चिकीर्षतीति कटचिकीः । चिकीर्षतेः विप् । यतः (सू० ७८३) इत्यकारलोपः । दोषाम् (सू० २९७) इति षस्य रेफः । रिलोपो दीर्घश्च (सू० ११७ ) इति मध्यमरेफस्य लोपः ।। नतु संयोगान्तस्य लोपः । रसे पदान्ते चेति चकारात् ।। रात्सस्य (सू० ९०५) स्रोविसर्गः (सू० १२५) कटचिकीर्षों कटचिकीर्षः । वह प्रापणे । यजां यवराणाम् (सू० ८३१) अनो वहतीति अनडान् ॥ १२५४ किबन्ते वह्यनसो डान्तादेशो वाच्यः ६८ ॥ अनड्डाहौ अनड्डाहः । राज़ दीप्तौ । मो राजि समः क्को (सू० २७८) सम्यक् राजतेऽसौ सम्राट् । ध्यै चिन्तायाम् ॥ १२५५ ध्यायतेः किपि संप्रसारणं दीर्घता च वक्तव्या ६९ ॥ मुष्ठु ध्यायतीति सुधीः ॥ १२५६ द्युतिगमिजुहोतीनां किपि कचित् द्वित्वं वाच्यम् ७० ॥ हसादिः शेषाभावः ॥ १२५७ द्योततेः कचित्पूर्वस्य किपि संप्रसारणं वाच्यम् ७१ ॥ द्योततेऽसौ विद्युत् । गच्छति उत्पत्तिस्थितिलयान् प्राप्नोतीति जगत् । जुहोतेीर्वश्च । जुहोत्यनया सा जुहूः ॥ १२५८ दृशेष्टक्सको चोपमाने कार्ये ७२ ॥ दृशेर्धातोः सर्वादिषु टक्सको प्रत्ययौ भवत उपमाने कार्ये सति ॥ जकारात् विप् वक्तव्यः ॥ १२५९ आ सर्वादेः ७३॥ एतेषु प्रत्ययेषु परेषु सर्वादेः पूर्वस्य टेरात्वं भवति ॥ दृशिर प्रेक्षणे । अन्यइव दृश्यतेऽसौ अन्यादृशः । छशवराजादेःषः (सू० २७६)। षढोः कः से (सू० ७९८)। किलात् (सू० १४१) अन्यादृशः Page #236 -------------------------------------------------------------------------- ________________ २२८ सारस्वतव्याकरणम् । [वृत्तिः३ अन्यादृक् । स इव दृश्यतेऽसौ तादृशः-तादृक्षः-तादृक् । य इव दृश्यतेऽसौ यादृशः-यादृक्षः-यादृक् । एष इव दृश्यतेऽसौ एतादृशःएतादृक्षः-एतादृक् ॥ १२६० किमिदमः कीशूईशौ ७४ ॥ किम्शब्दस्य इदम्शब्दस्य च कीश् ईश् इत्येतावादेशौ भवतः टकारादिषु प्रत्ययेषु परेषु ॥ शकारः सर्वादेशार्थः। क इव दृश्यतेऽसौ कीदृशः कीदृक्षः-कीहक् । अयमिव दृश्यतेऽसौ ईदृशःईदृक्षः-ईदृक् । ईदृशी वार्ता । सर्वादित्वामुरात्वम् । भवदादिषु दृशेष्टकारादयः पूर्वस्य टेर्दीता च वक्तव्या ।। भवानिव दृश्यतेऽसौ भवादृशः-भवादृक्षः-भवादृक् । चकारात् एतेषु प्रत्ययेषु परेषु समानशब्दस्य सो वाच्यः । समान इव दृश्यतेऽसौ सदृशः-सदृक्षः-सदृक् ।। १२६१ अदसोऽमू आदेशः ७५ ॥ अदसूशब्दस्य टगादिषु सत्सु अमू आदेशो भवति किति परे ॥ असाविव दृश्यतेऽसौ अमूदृशःअमूदृक्षः-अमूदृक्-ग् ॥ १२६२ प्रत्ययोत्तरपदयोः परतो युष्मदसदोरेकत्वे त्वत् मत् इत्येतावादेशौं भवतः ७६॥ त्वमिव दृश्यतेऽसौ त्वादृशः त्वादृक्षः-त्वदृक्-ग् । अहमिव दृश्यतेऽसौ मादृशः-मादृक्षः-मादृक् ग् । यूयमिव दृश्यतेऽसौ युष्मादृशः-युष्मादृक्षः-युष्मादृक् । वयमिव दृश्यतेऽसौ अस्मादृशः अस्मादृक्षः-अस्मादृक् । टकारानुबन्धत्वादीप् । तादृशी । यादृशी । एतादृशी । त्वादशी । मादृशी । अन्यादृशी । युष्मादृशी । अस्मादृशी । भवादृशी । इत्यादि । १२६३ णिनिरतीते ७७ ॥ धातोरतीते काले शीलेऽर्थे च णिनिप्रत्ययो भवति ॥ १२६४ करणे उपपदे यजेर्णिनिर्वाच्यः ७८॥ इनां शौ सौ (सू० २६१) अग्निष्टोमेन इयाज इति वा अग्निष्टोमेन अयाक्षीत् इति वा अग्निष्टोमयाजी । वा अग्निष्टोमं यष्टुं शीलं यस्य सः अमिष्टोमयाजी। अश्राद्धं भुङ्क्ते इत्येवंशीलः. अश्राद्ध Page #237 -------------------------------------------------------------------------- ________________ सू० १२६५-१२७४] कृदन्तप्रकरणम् १ २२९ भोजी । अर्धं भुङ्क्ते इत्येवंशील : अर्घभोजी । सुखभोजी । उष्णं भुते इत्येवंशीलः वा भुक्तवान् इति उष्णभोजी । हनो घत् ( सू० १०४६)॥ १२६५ हन्तेर्निन्दायां णिनिर्वाच्यः ७९ ॥ पितरं जघान वा अवधीत् इत्येवंशीलः पितृघाती । दण्डिन् शब्दवद्रूपं ज्ञेयम् ।। १२६६ कर्तर्युपमाने णिनिर्वाच्यः ८० ॥ अभ्र इव पततीति अभ्रपाती । मत्त इव करोतीति मत्तकारी । हंस इव गच्छतीति हंसगामी । स्त्री चेत् हंसगामिनी । ईप् ॥ १२६७ किपूकनिब्डाः ८१ ॥ धातोरतीते काले शीलेऽर्थे च क्विप् क्वनिप् डा इत्येते प्रत्यया इव भवन्ति ॥ १२६८ किपू ८२ ॥ वृत्र ब्रह्म भ्रूण एतत्पूर्वकादेव हन्तेः क्विप् स्यात् ॥ अतीते काले एव वृत्रं हतवानिति वृत्रहा । ब्रह्महा । भ्रूणहा । अन्यत्र शत्रुघातीत्यत्र णिनिः । शत्रु हन्तीत्येवंशीलः शत्रुघाती । सुष्ठु करोति स्माऽसौ सुकृत् । कर्मकृत् । पापकृत् । पुण्यकृत् । शास्त्रकृत् । सोमं सुनोति स्माऽसौ सोमसुत् । अग्निं चिनोति स्माऽसौ अग्निचित् । इत्येते बिन्ताः ॥ क्वनिप् । युधि संप्रहारे । राजानं युध्यते स्माऽसौ राजयुध्वां । राजानं करोतीत्येवंशीलः राजकृत्वा । सह युध्यते स्माऽसौ सहयुध्वा । सहकृत्वा । षुञ् प्राणिप्रसवे । वन तुक् । कित्वाद्गुणाभावः । सुनोति स्माऽसौ वा सुतवान् इति सुत्वा । स्तुत्वा । यजति स्माsसौ यज्वा । पारमद्राक्षीत् इति पारदृश्वा । इत्येते कनिबन्ताः ॥ जनी प्रादुर्भावे ।। १२६९ सप्तम्यां जनेर्डः ८३ ॥ सप्तम्यां जनेर्धातोर्डः प्रत्ययो भवति अतीते काले || सरसि जायते स्म तत् सरसिजं पद्मम् । अलुक् क्वचित् (सू० ५४९ ) सरसि जातं सरोजम् । संस्कारजः । अजः । द्विजः । परितः खाता इति परिखा । प्रकर्षेण जायते स्मेति प्रजा । सर्वं गतवान् इति सर्वगः Page #238 -------------------------------------------------------------------------- ________________ २३० सारस्वतव्याकरणम् । [वृत्तिः ३ वा सर्व गच्छति माऽसौ सर्वगः । गै शब्दे । साम गीतवान् गायति स्माऽसौ सामगः ॥ इति डप्रत्ययान्ताः ॥ इति कर्बर्थप्रक्रिया ॥१॥ निष्ठाधिकारप्रक्रिया २ अथ निष्ठाधिकारप्रक्रिया ॥ १२७० क्तक्तवतू १ ॥ धातोरतीते काले क्तक्तवतू प्रत्ययौ भवतः ॥ भावकार्ययोः क्तः । क्तवतुः कर्तर्येव ॥ उकावितौ । उtमर्थः । ष्णा शौचे । स्नातं त्वया । आगम्यते स्म तत् आगतम् । स्थीयते स्म तत् स्थितं देवदत्तेन । भावस्यैकत्वादेकवचनं नपुंसकत्वं च । भावे नपुंसकता ॥ अन्तः प्रान्तेऽन्तिके नाशे स्वरूपे च मनोहरे। धात्वर्थः केवलः शुद्धो भाव इत्यभिधीयते ॥ ८॥ क्रियते स्माऽसौ कृतः कटस्तेन । स कटं कृतवान् । करोति स्माऽसौ कृतवान् । कृष्णः सर्वं कृतवान् । बितो नुम् (सू० २९२) इति नुमागमः ॥ १२७१ गत्यर्थादकर्मकाच कर्तरि क्तः २॥ गत्यर्थादकर्मकाच्च कतरिक्तः प्रत्ययो भवति ॥ चाद्भावकर्मणोरपि ।। लोपस्त्वनुदात्ततनाम् (सू० ८८६) गच्छति स्म इति गतः । स्थामी (सू० १२४३ ) तिष्ठति स्म इति स्थितः । कृतः (सू० ११९०) अटति म इति अटितः । शम दम उपशमे ॥ १२७२ जमान्तस्य कृिति झसे दीर्घः ३ ॥ ञमान्तस्य धातो| भवति किति झसे परे किपि वा ॥ शाम्यति स्म इति शान्तः । दाम्यति स्म इति दान्तः । टुवम् उद्गिरणे । वमति स्म इति वान्तः ॥ १२७३ यस्य कचिद्विकल्पेनेट् तस्य निष्ठायां नेइ वाच्यः ४ ॥ अधिशी स्थाऽऽसां कर्म (सू० ४२९) ॥ १२७४ श्लिष्शीइन्स्थाआस्श्रिवसूजनरुहजीर्यतीनां सोपसर्गत्वेन सकर्मकाणामपि कर्तरि Page #239 -------------------------------------------------------------------------- ________________ सू० १२७५-१२८९] निष्ठाधिकारप्रक्रिया २ २३१ तो वाच्यः ५॥ रमामाश्लिष्यति स्मेति आश्लिष्टः हरिः । हरी रमामाश्लिष्टः। शेषमधिशिश्ये इति अधिशयितः को विष्णुः । शेषमधिशयितो विष्णुः । खर्गमधितष्ठाविति खर्गमधिष्ठितः । उपासांचके इति उपासितः भक्तो हरिम् । भक्तो हरिमुपासितः । आश्रयति स इति आश्रितः । एकादशीमुपोवास इति उपोषितः वा हरिदिनमुपोवास इति उपोषितः ॥ १२७५ वसिक्षुध्योरिट् ६ ॥ आभ्यां नित्यमिट् स्यात् ॥ घसादेः षः (सू० ८३२) राममनुजज्ञे इति अनुजातोऽच्युतः तमनुजातः । वृषमारुरोह इति आरूढः शिवः । जृष् वयोहानौ । ऋत इर् (सू० ८२०)। य्वोर्विहसे (सू० ३१६) जगत् अनुजजार इति अनुजीर्णोऽच्युतः । जगदनुजीर्णो वासुदेवः॥१२७६ र ७ ॥ रेफादुत्तरस्य क्तस्य नो भवति ॥ णत्वम् ॥ पक्षे तेन रमाश्लिष्टा हरिणा इत्यादि ज्ञेयम् ॥ १२७७ तो वा सेट ८॥ उकारोपधान्मृषश्च परः सेट् क्तः प्रत्ययः किद्वा भवति ॥ दिद्युते तत् द्युतितम् । द्योतते स्म तत् द्योतितम् । प्रकर्षण दिद्युते स्माऽसौ प्रद्युतितः । प्रकर्षेण द्युतं प्राप्तः वा प्रद्योतते स्माऽसौ प्रद्योतितः ॥ मृष क्षान्तौ संपूर्वः । सम्यक् ममृषे तत् संमृषितं-संमर्षितम् । उदयं प्राप्तः उद्यते स्माऽसौ उदितः । रोदनं प्राप्तः रोदितः वा रोदिति स्माऽसौ रोदितः-रुदितः । मुष्यते स्माऽसौ मोषितःमुषितः । ग्रहां विति च (सू० ८७३ ) गृह्यते स्माऽसौ गृहीतः । नुद्यते स्म इति नोदितः नुदितः । वेदितः-विदितः ॥ १२७८ शीङ्खिदिमिदिश्विदिधृषुपूङ क्षेमार्थे ९ ॥ एभ्यः परौ सेटौ तक्तवतू प्रत्ययौ कितौ न भवतः ॥ १२७९ पूडो वा क्तः सेटू १०॥ पूङः परस्य क्तप्रत्ययस्येडा भवति ॥ पूङ् शोधने । पुपूवेऽसौ पवितः पूतः । शिष्येऽसौ शयितः ॥ १२८० कित: ११ ॥ उवर्णान्तात् Page #240 -------------------------------------------------------------------------- ________________ २३२ सारस्वतव्याकरणम् । [ वृत्तिः ३ ऋवर्णान्तात् श्विश्रियश्च धातोः परस्य कित्प्रत्ययस्य वसादेः इट् न भवति ॥ बभूवेत्यसौ वा भवति स्म इति भूतः । णु स्तुतौ । नौति स्म इति नुतः । वृञ् वरणे । ववार इति वृतः । टुओश्विर्गतिवृद्ध्योः । शिश्वायेति श्वितः । श्रयते स्म इति श्रितः ॥ १२८१ श्वयतेः संप्रसारणस्य दीर्घः १२॥ अशिश्वियदिति शूतः ॥ १२८२ आदीदितः १३ ॥ आदितः ईदितश्च परस्य तस्येट् न भवति ॥ १२८३ जीतां तक वर्तमानेऽपि १४ ॥ जीतां धातूनां मतिबुद्धिपूजार्थानां च वर्तमानेऽपि तक प्रत्ययो भवति । अपिशब्दात् भावकर्मणोरपि ॥ १२८४ दस्तस्य नो दव १५ ॥ दकारादुत्तरस्य कितस्तस्य नत्वं भवति ॥ चकाराद्दकारस्य नकारो भवति ॥ ञिमिदा स्नेहे ॥ १२८५ आदितः कर्मणि निष्ठा कर्तरि च वाच्या १६ ॥ मिद्यते तत् मिन्नं । मिन्नमन्नं तैलेन वर्तते ।। १२८६ भावे कर्तरि चादितः तस्येट् वा वाच्यः १७ ॥ १२८७ मिदेर्गुणः १८ ॥ मेद्यतेऽसौ मेदितः । मिद्यते तत् मेदितम् । ह्लाद आह्लादने || १२८८ निष्ठायां हस्वो वाच्यः १९ ॥ ह्रादतेऽसौ हृन्नः । ञिष्विदा गात्रप्रक्षरणे ह्लादने च । आयासेन प्रस्विद्यतेऽसौ प्रखिन्नः । प्रखेदितः । खेदितं तेन । ञिविदा संचूर्णने । क्ष्विद्यतेऽसौ क्ष्विण्णः । विद्यते तत् क्ष्वेदितं तेन । ञिधृषा प्रागल्भ्ये । खादिषु । धष्णोतीति धर्षितः धृष्टः । मन्यतेऽसौ मतः। बुध अवगमने । बुद्ध्यतीति बुद्धः । पूज अर्चायाम् । पूजतीति पूजितः सः । ञीतां तक् वर्तमानेऽपि इत्यपिशब्दात् ज्ञार्चे - च्छार्थशीलादेस्तक् । ज्ञा अवबोधने । अर्च पूजायाम् । इषु इच्छायाम् । शील स्वभावे । एतेषां तक् भवति ॥ ज्ञातः । अर्चितः । इष्यतेऽसौं एषितः । शील्यतेऽसौ शीलितः ।। १२८९ क्तस्य च वर्तमाने २० ॥ वर्तमानार्थस्य क्तस्य योगे षष्ठी स्यात् ॥ तेन राज्ञां पूजितः । 1 ५ Page #241 -------------------------------------------------------------------------- ________________ सू०१२९०-१३००] निष्ठाधिकारप्रक्रिया २ २३३ पूज पूजने । अन्यत्र कार्य क्तः सामान्यः । दस्तस्य नो दश्चेति चकारान्मदेनेति वाच्यम् । तेन माद्यतीति मत्तः । मदी हर्षे ॥ १२९० अदो जघुः २१ ॥ अदो जघुरादेशो भवति निष्ठायां किति तकारे परे क्यपि च ॥ उकार उच्चारणार्थः ॥ १२९१ तक्तवतू निष्ठा २२ ॥ एतौ प्रत्ययौ निष्ठासंज्ञौ स्तः ॥ तथोर्धः ( सू०७५३)। झबे जबाः (सू० ३५) । अद् भक्षणे । अद्यते स्म तत् जग्धम् किं अन्नम् । रः (सू० १२७६) दृ विदारणे । कृ हिंसायाम् । कृ विक्षेपे । ऋत इर् (सू० ८२० ) । य्वोर्विहसे (सू० ३१६) विकीर्यते स्माऽसौ विकीर्णः । जष् वयोहानौ । षकारः विद्भिदामङ् इत्यस्य विशेषणार्थः । जीर्यते स्म तत् जीर्णम् किं शरीरम् । गीर्यते स्म तत् गीर्णम् । पूरी पूर्ती । पूर्यते स्माऽसौ पूर्णः॥१२९२ र इति सूत्रंन पिपर्तेः २३ ॥ पोरुर् (सू० ९४८) पिपर्ति स्म इति पूर्तः ॥ १२९३ ल्वाद्योदितः २४ ॥ त्वादेरोदितश्च धातोः कितस्तो नो भवति ॥ लूञ् छेदने । लूयते स्माऽसौ लूनः । ज्या वयोहानौ । ग्रहां कृिति च (सू० ८७३) जीनाति स्माऽसौ जीनः । भुजो कौटिल्ये । चोः कुः (सू० २८५) भुज्यते स्माऽसौ भुग्नः । ओहाक् त्यागे । स्थामि (सू० १२४३) हीयते स्माऽसौ हीनः । षूङ दूङ डीङ् धीङ् रीङ् मीङ् दीङ् लीड् व्रीङ् एते नव ओदितः । पूङ प्राणिप्रसवे । सूयसे स्मासौ सूनः। दूङ परित्यागे । दूङ् दुःखे। दूयते स्माऽसौ दूनः । डीङ् विहायसा गतौ ॥ १२९४ डीङ् इडभाव: २५ ॥डीयते स्माऽसौ डीनः। धीङ् धारणे । धीङ् सामर्थ्ये । धीयते स्माऽसौ धीनः । रीङ् क्षरणे । रीङ् स्रवणे । रीयते स्माऽसौ रीणः। मीङ् प्राणवियोगे मी हिंसायाम् । मीयते स्माऽसौ मीनः । दीङ क्षये। दीयते स्माऽसौ दीनः। लीङ् आश्लेषणे ली विलेपने। लीयतेस्माऽसौ Page #242 -------------------------------------------------------------------------- ________________ २३४ सारखतव्याकरणम् । [वृत्तिः ३ लीनः । व्रीङ् वरणे । बीयते स्माऽसौ वीणः । इत ओदितः । ओप्यायी वृद्धौ ॥ १२९५ प्यायः पी २६ ॥ प्यायः पी आदेशो भवति निष्ठायाम् ॥ प्यायते मासौ पीनः । क्षि क्षये ॥ १२९६ क्षियो निष्ठायां कर्तरि दी? वाच्यः २७ ॥ १२९७ दीर्घादेव क्षियो निष्ठायास्तस्य नो वाच्यः २८ ॥ क्षीयते स्माऽसौ क्षीणः । क्षीणवान् । भावकर्मणोस्तु क्षीयते स तत् क्षितं तेन । क्षितः कामो मया वा ॥ १२९८ यरलवसंयोगादेरादन्तानिष्ठातस्य नो वाच्यः २९॥ द्रा स्वप्ने । द्रायते स्माऽसौ द्राणः । ग्लै म्लै हर्षक्षये । ग्लायते स्मासौ ग्लानः । म्लानः। हि गतौ । हीयते स्माऽसौ हितः। त्रै पालने ॥ १२९९ त्राणाद्या वा ३०॥ त्राणादीनां नत्वं वा निपात्यते । त्रायते स्माऽसौ त्राणः-त्रातः । घा गन्धोपादाने । जिघ्रति स्माऽसौ घ्राणः-प्रातः । ही लज्जायाम् । हीयते स्माऽसौ हीण:-हीतः। नुद् प्रेरणे । नुद्यते स्माऽसौ नुन्नः-नुत्तः । विदिर विचारणे । विद्यते स्माऽसौ विन्नः-वित्तः ॥ वेत्ति रूपं विद ज्ञाने विन्ते विदिर विचारणे । विद्यते विद सत्तायां विद लाभे च विन्दति ॥ १०॥ उन्दी केदे । उद्यते स्मासौ उन्नः-उन्तः । वा गतिगन्धनयोः । निर्वाति स्म वा निर्वायते माऽसौ निर्वाणः-निर्वातः । विद सत्तायाम् । विद्यते स्माऽसौ विन्नः-वित्तः । एते त्राणाद्या ज्ञेयाः ॥ १३०० सं परि उप एभ्यः परस्य करोतेर्धातोर्भूषणेऽर्थे शोभनेऽर्थे च वाच्ये सति सुट् प्रत्ययो भवति ३१ ॥ टित्त्वादादौ । संस्क्रियते स्माऽसौ संस्कृतः । परिष्क्रियते स्माऽसौ परिष्कृतः । उपस्क्रियते स्माऽसौ उपस्कृतः । यदा संस्कृतिर्न तदा संक्रियते साऽसौ संकृतः। परिक्रियते साऽसौ परिकृतः । उपकृतः । भावे Page #243 -------------------------------------------------------------------------- ________________ सू०१३०१-१३१५] निष्ठाधिकारप्रक्रिया २ २३५ घञ् । संस्क्रियते स्माऽसौ संस्कारः । अलंक्रियतेऽसौ अलंकारः। विद ज्ञाने । विद्यते स्माऽसौ विदितः ॥ १३०१ दो दत्ति ३२ ॥ दा इत्यस्य दद्भवति किदि तकि परे ॥ दीयते स्माऽसौ दत्तः । ददाति स्म इति दत्तवान् । बितो नुम् ( सू० २९२ ) ॥ १३०२ स्वरात्तो वा ३३ ॥ खरादुत्तरस्य दा इत्यस्य वा तो भवति किति तकि परे ॥ प्रकर्षेण दीयते स्माऽसौ प्रत्तः प्रदत्तः । अवदीयते स्माऽसौ अवदत्तःअवत्तः ॥ १३०३ नाम्यन्तोपसर्गस्य दीर्घो भवति ३४ ॥ १३०४ ददातेस्तो वाच्यः ३५ ॥ नितरां दीयते स तत् नीतं नीदत्तम् । पर्यासमन्ताद्भावेन दीयते स्म तत् परीतं परीदत्तम् ॥ १३०५ दधातेर्हिनिष्ठायां वाच्यः ३६ ॥ धीयते स्माऽसौ हितः । दधाति स्माऽसौ हितवान् ॥ १३०६ जहातेश्व किति ३७ ॥ जहातेर्धातोः किति प्रत्यये परे हिरादेशः स्यात् ॥ तेन पूर्व हित्वा हीयतेस्माऽसौ हितः । अहासीदिति हितवान् ॥ १३०७ ध्याख्यापृमूर्छिमदां क्तस्य नत्वाभावो वाच्यः ३८ ॥ ध्यै चिन्तायाम् । ध्यायते स्माऽसौ ध्यातः । ख्या प्रकथने । ख्यायते स्माऽसौ ख्यातः । पृ पालने । पूर्यते स्माऽसौ पूर्तः । पोरुर् ( सू० ९४८ ) । बोर्विहसे (सू० ३१६) मुर्छा मोहसमुच्छ्राययोः॥१३०८ राल्लोपश्छोः ३९ ॥ रेफादुत्तरयोश्छोरोपो भवति किति तकारे परे ॥ मूछचते स्माऽसौ मूर्तः । मदी हर्षे । मद्यते स्म इति मत्तः । यज देवपूजासंगतिकरणदानेषु । यजेः क्तः । षत्वम् । ष्टुत्वम् । संप्रसारणम् । इज्यते स्म तत् इष्टं-इष्टवान् । टुवप् बीजतन्तुसन्ताने । उप्यते स्म तत् उप्तम् । वह प्रापणे । हो ढः (सू० २४३)। तथोधः (सू० ७५३ ) ढि ढो लोपो दीर्घश्च ( सू० ८०२) उद्यते स्माऽसौ ऊढः भारः । ऊढोऽनडुहा पङ्गुः । वेञ् तन्तुसन्ताने । ऊयते स्माऽसौ Page #244 -------------------------------------------------------------------------- ________________ २३६ सारस्वतव्याकरणम् । [वृत्तिः ३ उतः । व्यञ् संवरणे । संवीयते स्माऽसौ संवीतः । हृञ् स्पर्धायां । हेञ् आह्वाने । हृञ् कौटिल्ये । संप्रसारणं दीर्घः । आहूयते स्माऽसौ आहूतः । वद व्यक्तायां वाचि । संप्रसारणम् । उद्यते स्माऽसौ उदितः । वच परिभाषणे । उच्यते स्माऽसौ उक्तः । वसिक्षुध्योरिट् ( सू० १२७५ ) वस् निवासे । उष्यते स्माऽसौ उषितः । घसादेः षः ( सू० ८३२) क्षुध बुभुक्षायाम् । क्षुध्यते स्माऽसौ क्षुधितः । जिष्वप् शये । सुप्यते स्माऽसौ सुप्तः। ओन छेदने ॥ १३०९ वेटो निष्ठायां इट् न ४० ॥ स्कोरायोश्च (सू० ३०१ संप्रसारणं । ल्वाद्योदितः (सू० १२९३) इति नत्वम् । णत्वम् चोः कुः (सू० २८५) प्रवृश्श्यते स्माऽसौ प्रवृक्णः ॥ १३१० जनेर्जा निष्ठायाम् ४१ ॥ जनेर्धातोर्जा आदेशो भवति निष्ठायां परतः ॥ जन जनने । जन्यते स्माऽसौ जातः ॥ १३११ खनेरात्वं निष्ठायाम् ४२॥ खन खनने । खन्यते स्माऽसौ खातः॥ १३१२ पचो वः ४३ ॥ पचेः परस्य क्तस्य वो भवति निष्ठायाम् ॥ पच्यते स्माऽसौ वा पाकक्रियया निवृत्तः पक्तः । पचति स्माऽसौ पक्कवान् ॥ १३१३ क्षायो मः ४४ ॥ क्षायः परस्य क्तस्य मो भवति निष्ठायाम् ॥ क्षै क्षये । सन्ध्यक्षराणामा (सू० ८०३) क्षायते स्माऽसौ क्षामः ॥ १३१४ शुषेः कः ४५॥ शुषेः परस्य क्तस्य को भवति निष्ठायाम् ॥ शुष् शोषणे । शुष्यते स्माऽसौ शुष्कः ॥ १३१५ स्फायः स्फीः ४६ ॥ स्फायः स्फीरादेशो भवति निष्ठायां परतः॥ ओस्फायी वृद्धौ । स्फायते स्माऽसौ स्फीतः । धेट् पाने । पीयते स्म तत् पीतम् । स्थामी (सू० १२४३) गै शब्दे । गीयते स्म तत् गीतम् । पा पाने । पियते स्म तत् पीतम् । दो अवखण्डने । दीयते स्म तत् दितम् । षोऽन्तकर्मणि । सीयते Page #245 -------------------------------------------------------------------------- ________________ सू०१३१६-१३२६] कस्वादिप्रक्रिया ३ २३७ स्म तत् सितम् । माङ् माने । मीयते स्म तत् मितम् ॥ १३१६ सेति निष्ठायां जेर्लोपो वाच्यः ४७ ॥ चोर्यते स्माऽसौ चोरितः । याच्यते स्माऽसौ याचितः ॥ क्तक्तवतू निष्ठासंज्ञौ ॥ इति निष्ठा - धिकारप्रक्रिया ॥ २ ॥ कखादिप्रक्रिया ३ अथ कखादिप्रक्रिया ॥ १३१७ कसुकानौ णबेवत् १ ॥ धातोः कसुकानौ प्रत्ययौ भवतः अतीते काले वाच्ये सति तौ च णबेवत् परस्मैपदात्मनेपदे भवतः ॥ णबादित्वाद्विर्वचनं न तु णपो णित्त्वा - दृद्धिरित्याशयः ॥ यथा चणपू परस्मैपदे तथा वसुः । यथा आत्मनेपदे ए तथा कानः । ककारो गुणप्रतिषेधार्थः । उकारो नुम्विधानार्थः । डुकृञ् करणे । चकार इति चक्रवान् । त्रितो नुम् (सू० २९२) हे चक्रुवन् । चकृवांसौ चकृवांसः । चकृवांसम् । चकृवांसौ । वसोर्व उः (सू० ३०२ ) चक्रुषः । चक्रुषा । वसां रसे (सू० २३६) चक्रवद्भ्याम् चक्रवद्भिः । इत्यादि । चक्रे इति चक्राणः । स्त्रीलिङ्गे चक्रुषी । नपुंसके चक्रुषः चक्रुषी चक्रुवांसि । भिदिर् विदारणे । बिभेद इति बिभिद्वान् बिभिद्वांसौ । बिभिद्वांसः । बिभिद्वांसम् । बिभिद्वांसौ । वसोर्व उः ( सू० ३०२ ) बिभिदुषः । बिभिदुषा । वसां रसे ( सू० २३६) बिभिद्वद्भ्याम् बिभिद्वद्भिः । इत्यादि । बिभिदे इति बिभिदानः । भो आमर्दने । बभञ्ज इति बभवान् । बभञ्जे इति बभञ्जानः । जागृ निद्राक्षये । जजागार इति जजागृवान्- जजागंर्वान् इत्यपि भवति ॥ १३१८ जागर्तेः किति गुणो वक्तव्यः २ ॥ तेन जजागरुषः ।। १३१९ कृतद्वित्वानामेकस्वराणामादन्तानां च घसेरेव कसोरिड्डाच्यो नान्येषाम् ३ ॥ बभूव इति बभू Page #246 -------------------------------------------------------------------------- ________________ २३८ सारखतव्याकरणम् । [वृत्तिः ३ वान् । ऋगतौ। आर इति आरिवान् । पपौ इति पपिवान् । अद भक्षणे। आद इति आदिवान् । तस्थौ इति तस्थिवान् । बभौ इति बभिवान् । ययौ इति ययिवान् । या प्रापणे । दरिद्रातेरनपि नित्यालोपित्वेनेट् । ददरिद्रौ इति दरिद्रिवान् ॥ १३२० वुणसयुटौ हित्वा दरिद्रातेरनप्यालोपो वाच्यो लुङि वा ४ ॥ ददरिद्रुषः । डुदाञ् दाने । ददौ इति ददिवान् दुदुषः । घस्ल अदने । जघास इति जक्षिवान् । कुहोश्चः ( सू० ७४६ ) । झपानां जबचपाः (सू० ७१४ । गमां खरे (सू० ७८९) खसे चपा झसानाम् (सू० ८९ ) । किलात् (सू० १४१) वस्योत्वे कृते इडभावः । जक्षुषः ॥ १३२१ गम्धन्विद्विशूदृशां कसोट् ५॥ गम्ल गतौ । जगाम इति जन्मिवान् जगन्वान् । मो नो धातोः ( सू० २७५) ॥ १३२२ द्विरुक्तस्य हन्तेर्हकारस्य धत्वं वक्तव्यम् ६ ॥ जघान इति जग्निवान्जगन्वान् । विद ज्ञाने । विवेद इति विविदिवान् विविद्वान् । विश् प्रवेशने । विवेश इति विविशिवान्- विविश्वान् । दृशिर प्रेक्षणे । ददर्श इति ददृशिवान् ददृश्वान् । इण् गतौ ॥ १३२३ इणो दीर्घता कसौ वक्तव्या ७ ॥ इयाय इति ईयिवान् । उपेयाय इति उपेयिवान् । लोपः पचा कित्ये (सू० ७६२ ) पपाच इति पेचिवान् ॥ १३२४ शतृशानौ तिवत् क्रियायाम ८॥ क्रियापदे गम्यमाने सति धातोः शतृशानौ प्रत्ययौ भवतः वर्तमानेऽर्थे तौ च तिप्तेवत् परस्मैपदात्मनेपदयोर्भवतः ॥ अदे ( सू० ६९५) पचतीति पचन् आस्ते ॥ १३२५ ऋकारानुबन्धस्य नुमागम एव भवति न दीर्घता वक्तव्या ९ ॥ पठतीति पठन् । तिष्ठतीति तिष्ठन् । गायतीति गायन् । गच्छतीति गच्छन् । पिबतीति पिबन् ॥ १३२६ मुगानेतः १० ॥ अकारस्य आने परे मुगागमो भवति ॥ पचतेऽसौ Page #247 -------------------------------------------------------------------------- ________________ सू० १३२७-१३३८] कस्वादिप्रक्रिया ३ पचमानः । पिबति वा पठति । यज देवपूजासंगतिकरणदानेषु । यजतेऽसौ यजमानः स्तौति । मन ज्ञाने । मन्यतेऽसौ मन्यमानः । मनु अवबोधने । तनादेरुप (सू० ९९७) मनुतेऽसौ मन्वानः । परागच्छति करोतीति कुर्वन् सः । ढित्यदुः ( सू० १००० ) कुरुतेऽसौ कुर्वाणः । क्रियतेऽसौ क्रियमाणः ॥ १३२७ उपसर्गस्थनिमित्चात नकारस्य णो वाच्यः ११ ॥ प्रपीयतेऽसौ प्रपीयमाणः ॥ १३२८ आसेरानई १२ ॥ आसेर्धातोः परस्य आन आकारस्य ईकारादेशो भवति ॥ आस् उपवेशने । आस्तेऽसौ आसीनः ॥ १३२९ वा दीपोः शतुः १३ ।। अवर्णात्परस्य शतृप्रत्ययस्य वा नुमागमो भवति ईकारे ईपि च परे ॥ तुद व्यथने । तुदतीति तुदन् । तुदन्तौ तुदन्तः । स्त्रीलिङ्गे तुदति सा तुदन्ती-तुदती तुदन्त्यौ-तुदत्यौ तुदन्त्यः-तुदत्यः । नपुंसके तुदतीति तुदत् तुदन्ती-तुदती तुदन्ति । इत्यादि ॥ १३३० अप्ययोरान्नित्यम् १४ ॥ अप्प्रत्यययप्रत्ययसंबन्धिनः अकारात्परस्य शतुर्नित्यं नुमागमो भवति ईपोः परतः ।। भवति इति भवन् भवन्तौ भवन्तः । भवति सा भवन्ती भवन्त्यौ भवन्त्यः । भवति तत् भवत् भवन्ती भवन्ति । पचतीति पचन् पचन्ती स्त्री । नपुंसके पचति तत् पचत् पचन्ती पचन्ति । दिवु क्रीडादिषु । दीव्यति इति दीव्यन् दीव्यन्ती स्त्री नपुंसके । दीव्यति तत् दीव्यत् दीव्यन्ती दीव्यन्ति । पठतीति पठन् । पठन्ती स्त्री । नपुंसके पठन् पठन्ती पठन्ति । हसतीति हसन् । हसन्ती स्त्री हसत् नपुंसके । श्लिष्यतीति श्लिष्यन् । श्लिष्यन्ती स्त्री। श्लिष्यत् नपुंसके । जयतीति जयन् । जयन्ती स्त्री । नपुंसके जयत् ॥ १३३१ वादिपोः शतुरित्यत्र वाशब्दात द्विरुक्तानां जक्षादीनां च शतुर्नित्यं नुमप्रतिषेधो वक्तव्यः नपुंसके शौ वा १५ ॥ Page #248 -------------------------------------------------------------------------- ________________ २१० सारस्वतव्याकरणम् । [वृत्तिः ३ ददातीति ददत्-दधत् ददती ददति । जक्ष भक्षहसनयोः। जक्षतीति जक्षत् जक्षती जक्षति जक्षन्ति कुलानि । जागृ निद्राक्षये । जागर्तीति जाप्रती जाग्रत् जाग्रन्ति-जाग्रती । दरिद्रा दुर्गतौ ॥ १३३२ दरिद्रातरालोपो वक्तव्यः १६ ॥ दरिद्रातीति दरिद्रत् दरिद्रन्ती दरिद्रति दरिद्रन्ति । चकास्तीति चकासत् चकासति चकासन्तिचकासति । शास्तीति तत् शासत् । अनुशास्ति तत् अनुशासत् । दादेः (सू० ९५७) ददत् ददती ददन्ति-ददति । दधत् इत्यादि । १३३३ विदेवो वसुः १७ ॥ विदेर्धातोः शतृविषये वा वसुःप्रप्रत्ययो भवति ॥ वेत्तीति विद्वान्-विदन् ॥ १३३४ भविष्यदर्थे तितेवत् शतृशानौ भवतः १८ ॥ १३३५ अत्रभवत्तत्रभवच्छब्दौ पूज्यार्थे निपात्येते १९॥ अत्रभवन्तो भट्टमिश्राः। पूज्या इत्यर्थः । तत्रभवद्भिर्भगवत्पादैर्भणितम् ॥ १३३६ शीले तृन् २०॥ धातोस्तृन् प्रत्ययो भवति शीले खभावेऽर्थे ॥ नकारः प्रत्ययभेदज्ञापनार्थः । करोतीत्येवंशीलः कर्ता। विचरतीत्येवंशीलः विचरिता । णीञ् प्रापणे । नयतीत्येवंशीलः नेता । धर्ता । म्रियते इत्येवंशीलः मर्ता । बिमर्तीत्येवंशीलः भर्ता । शयिता इत्यादि ॥ इति कखादिप्रक्रिया ॥ ३ ॥ शीलार्थप्रक्रिया ४ अथ शीलार्थप्रक्रिया ॥ १३३७ इष्णुस्नुक्रुः १॥ धातोः शीले खभावेऽर्थे इष्णु स्नु नु इत्येते प्रत्यया भवन्ति । अलंपूर्वः ॥१३३८ अलंकृञ् निराकृञ् प्रजन् उत्पच उत्पत् उत्पद् ग्रस् उन्मत् रुच अपत्र' वृतु वुधु सह चर भू भ्राञ् ञ्यन्त एभ्य इष्णुः २॥अलंकरोतीत्येवंशीलः अलंकरिष्णुः। निराकरिष्णुः । प्रजायते इत्ये Page #249 -------------------------------------------------------------------------- ________________ सू० १३३९-१३४९] शीलार्थप्रक्रिया ४ २४१ वंशीलः प्रजनिष्णुः । उत्पचतीत्येवंशीलः उत्पचिष्णुः । पत्ल पतने । उत्पततीत्येवंशीलः उत्पतिष्णुः । पद गतौ । उत्पद्यते इत्येवंशीलः उत्पदिष्णुः । अस् अदने । प्रसतीत्येवंशीलः असिष्णुः । उन्माद्यतीत्येवंशीलः उन्मदिष्णुः । रुच दीप्तौ । रोचतीत्येवंशीलः रोचिष्णुः । त्रपूष् लज्जायाम् । अपत्रपति वा अपनपते इत्येवंशील अपत्रपिष्णुः । वृतु वर्तने । वर्तते इत्येवंशीलः वर्तिष्णुः । वृधुङ् वृद्धौ । वर्धते इत्येवंशीलः वर्धिष्णुः । सहिति सहते वेत्येवंशीलः सहिष्णुः । चरतीत्येवंशीलः चरिष्णुः । भविष्णुः । भ्राज दीप्तौ । भ्राजते इति प्राजिष्णुः ॥ १३३९ इष्णुप्रत्यये परे ज्यन्तानां जिलोपाभावो वाच्यः३॥ कारयतीत्येवंशीलः कारयिष्णुः॥ एते इष्णुप्रत्ययान्ताः॥ १३४० ग्ला जि स्था भू म्ला क्षि पच् यज् परिमृज् एभ्यः स्नुः ४ ॥ ग्लै हर्षक्षये । ग्यालतीत्येवंशीलः ग्लास्नुः । जयतीत्येवंशीलः जिष्णुः । भवतीत्येवंशीलः भूष्णुः ॥ १३४१ जिभ्वोः स्त्रो गुणाभावो न इट् ५॥ १३४२ क्षेश्च तथा ६॥ तिष्ठतीत्येवं. शीलः स्थास्नुः । क्षि क्षये । क्षयतीत्येवंशीलः क्षिष्णुः । पचतीत्येवंशीलः पक्ष्णुः । यजतीत्येवंशीलः यक्ष्णुः । मृजूष् शुद्धौ ॥ १३४३ मृजेर्गुणनिमित्ते प्रत्यये परे वृद्धिर्वाच्या ७ ॥ परिमाष्र्टीत्येवंशीलाः परिमाणुः ॥ १३४४ विष त्रस् गृध धृष् क्षिप् एभ्यः स्नुः ८॥ विष्ल व्याप्तौ । वेवेष्टि इत्येवंशीलः विष्णुः । त्रसी उद्वेगे । त्रसी भये । त्रस्यतीत्येवंशीलः त्रस्नुः । गृधु अभिकाङ्क्षायाम् । दिवादिः । गृध्यतीत्येवंशीलः गृघ्नः । निधृषा प्रागल्भ्ये । स्वादिः । धृष्णोतीत्येवंशीलः धृष्णुः । क्षिप् प्रेरणे । क्षिपतीत्येवंशीलः क्षिमुः। ककारो गुणनिषेधार्थः ॥ १३४५ षाकोकणः ९॥ धातोः शीलेर्थे पाक उ उकण् इत्येते प्रत्यया भवन्ति ॥ १३४६ १६ Page #250 -------------------------------------------------------------------------- ________________ २४२ सारस्वतव्याकरणम् । [वृत्तिः ३ जल्प भिक्ष कुट्ट लुण्ट वृङ् एभ्यः षाकः प्रत्ययो भवति १०॥ जल्प व्यक्तायां वाचि । जल्पतीत्येवंशीलः जल्पाकः। भिक्ष याच्लायाम् । भिक्षतीत्येवंशीलः भिक्षाकः । कुट्ट ताडने वा छेदने । कुट्टतीत्येवंशीलः कुट्टाकः । लुण्ट चौर्ये । लुण्टतीत्येवंशीलः लुण्टाकः । वृङ् संभक्तौ । वृञ् संवरणे । वर निवारणे । वृणुते वा वरतीत्येवंशीलः वा वृणीत इत्येवंशीलः वराकः । ष ईबर्थः । वराकी ॥ १३४७ सान्ताशंस् भिक्ष एभ्य उः प्रत्ययो भवति ११ ॥ १३४८ सान्ताशंसयोश्च १२ ॥ सप्रत्ययान्तादापर्वात् शंसु स्तुतावित्यस्माद्धातोश्च शीलाथै विनापि उः प्रत्ययो भवति ॥ वच परिभाषणे । विवक्षतीति विवक्षुः । इच्छायामात्मनः सः ( सू० १०७५) द्वित्वम् । पूर्वस्य हसादिः शेषः ( सू० ७३९) ऋत इर् (सू० ८२० । य्वोर्विहसे (सू० ३१६)। कुहोश्चः ( सू० ७४६) चिकीर्षतीत्येवंशीलः चिकीर्षुः । जिघृक्षतीत्येवंशील: जिघृक्षुः । आयूर्वः शंसु स्तुतौ । शंस् कथने । आशंसतीत्येवंशीलः आशंसुः । भिक्षतीत्येवंशीलः भिक्षुः । पिपासतीत्येवंशीलः पिपासुः । तितीर्षतीत्येवंशीलः तितीर्घः ॥ १३४९ लष पत पद भिक्ष स्था भू वृष हन् कम् गम् शृ एभ्यः उकण् प्रत्ययो भवति १३ ।। लष कान्तौ । लषतीत्येवंशीलः लाषुकः । पततीत्येवंशीलः पातुकः । पद गतौ । णित्त्वाद्वृद्धिः । पद्यतीत्येवंशीलः पादुकः । भिक्ष याच्मायाम् । भिक्षतीत्येवंशीलः भिक्षुकः । तिष्ठतीत्येवंशीलः स्थायुकः । भवतीत्येवंशीलः वा भवितुं शीलमस्यास्तीति भावुकः । वृष वृष्टौ । वृषु सेचने । वर्षतीत्येवंशीलः वर्षकः । हन्तीत्येवंशीलः घातुकः । कमु कान्तौ । कामयते इत्येवंशीलः वा कामितुं शीलमस्यास्तीति कामुकः । गम्ल गतौ । गच्छतीत्येवंशीलः गामुकः । शू हिंसायाम् । Page #251 -------------------------------------------------------------------------- ________________ सू०१३५०-१३६५] शीलार्थप्रक्रिया ४ २४३ शृणातीत्येवंशीलः शारुकः ॥ १३५० शृवन्योरारुः १४ ॥ शृवन्द्योर्धात्वोरारुः प्रत्ययो भवति ॥ शरारुः । वन्दारुः ॥ १३५१ स्पृहि गृहि पति शीङ् एभ्य आलुवाच्यः १५ ॥ स्पृह ईप्सायाम् । ईप्सा इच्छा । ग्रह ग्रहणे । पत ऐश्वर्ये । त्रयश्चरादयोऽदन्ताः ॥ १३५२ आलौ जिलोपाभावो वाच्यः १६ ॥ स्पृह्यतीत्येवंशीलः स्पृहयालुः । गृहयतीत्येवंशीलः गृहयालुः । पतयतीत्येवंशीलः पतयालुः । शीङ् खप्ने । शेते इत्येवंशीलः शयालुः ॥ १३५३ नमादे रः १७ ॥ नम् कपि स्मिङ् नपूर्वो जस् कम् हिंस् दीपू एभ्यो रः प्रत्ययो भवति शीलेऽर्थे ॥ णमु प्रहत्वे शब्दे च । नमतीत्येवंशीलः नम्रः । कपि चलने । कम्पतीत्येवंशीलः कम्प्रः । स्मिङ् ईषद्धसने । स्मयते इत्येवंशीलः स्मेरः । जसु मोक्षणे । जस् गतिनिवृत्तौ । दिवादिः । न जस्यतीत्येवंशीलं अजस्रम् । कामयते इत्येवंशीलः कम्रः । हिसि हिंसायाम् । हिनस्तीत्येवंशीलः हिंस्रः । दीपी दीप्तौ । दीप्यते इत्येवंशीलः दीपः ॥ १३५४ घसादेः क्मरः १८ ॥ घसू सू अद् एभ्यः क्मरः प्रत्ययो भवति शीलेऽर्थे ॥ घस्ल अदने । घसतीत्येवंशीलः घस्मरः । सृ गतौ । स सरणे । सृ हिंसायाम् । सरतीत्येवंशीलः सृमरः। अद् भक्षणे । अत्तीत्येवंशीलः अमरः ॥ १३५५ भिदि छिदि विदि एभ्यः कुरवाच्यः शीलेऽर्थे १९ ॥ भिनत्तीत्येवंशीलः भिदुरः । विद् ज्ञाने । वेत्तीत्येवंशीलः विदुरः । छिदिर द्वैधीकरणे । छिनत्तीत्येवंशीलः छिदिरः ॥ १३५६ भासादेघुरः २० ॥ भास् भन् मिद् एभ्यो घुरः प्रत्ययो भवति शीलेऽर्थे ॥ घकारो मित्कार्यार्थः ॥ भास दीप्तौ । भासते इत्येवंशीलः भासुरः ॥ १३५७ चजोः कगौ घिति २१ ॥ धातोश्चकारजकारयोः ककारगकारौ भवतः घिति प्रत्यये Page #252 -------------------------------------------------------------------------- ________________ २४४ सारस्वतव्याकरणम् । [वृत्तिः ३ परे ॥ भञ्जो आमर्दने । भनक्तीत्येवंशीलः भङ्गुरः । जिमिदा गात्रविक्षेपे । मेद्यते इत्येवंशीलः मेदुरः ॥ १३५८ यङ ऊका २२ ॥ यज् जप दंश् वद् एभ्यो यङ्प्रत्ययान्तेभ्य ऊकः प्रत्ययो भवति शीलेऽर्थे । यङो लुक् । तत्सन्नियोगेन धातोर्विचनम् । यज देवपूजासंगतिकरणदानेषु । अतिशयेन यजतीति वा इज्यते इत्येवंशीलः यायजूकः । जप व्यक्तायां वाचि । अमजपां नुक् (सू० ११०३) जञ्जपूकः । दंश् दंशने । दंदशूकः । वावद्यते इत्येवंशीलः वावदूकः ॥ १३५९ जागर्तेरूको वाच्यः २३ ॥ जागर्तीत्येवंशीलः जागरूकः ॥ १३६० इणनशजिमृगमिभ्यः करप वाच्यः २४ ॥ इण् गतौ । हखस्य पिति (सू० १२४६) एतीत्येवंशील इत्वरः । णश अदर्शने । नश्यतीत्येवंशीलः नश्वरः । जयतीत्येवंशीलः जित्वरः । सरतीत्येवंशीलः सृत्वरः ॥ १३६१ गत्वरो निपात्यते शीलेऽर्थे २५ ॥ गच्छतीत्येवंशीलः गत्वरः ॥ १३६२ भियः कुकुको वक्तव्यौ २६ ॥ बिभेतीत्येवंशीलः भीरुः । भीरुकः ॥ १३६३ इषेरुश्छश्च २७ ॥ इषेरुः प्रत्ययो भवति छान्तादेशश्च । इच्छतीति इच्छुः ॥ १३६४ वरः २८ ॥ स्था ईशू भास् पिस्कसादिभ्यो वरः प्रत्ययो भवति शीलेऽर्थे ॥ तिष्ठतीत्येवंशीलः स्थावरः । ईशू ऐश्वर्ये । ईष्टे इत्येवंशीलः ईश्वरः । भासू दीप्तौ । भासते इत्येवंशीलः भाखरः । पिसृ गतौ । पिसतीत्येवंशील: पेखरः । कस् गतौ । कसतीत्येवंशीलः कखरः ॥ १३६५ आदृतः किर्द्विश्व भूते २९॥ आकारान्ताहकारान्ताद्धातोर्जनिनमिगमिभ्यश्च शीलेऽर्थे भूतकाले किः प्रत्ययो भवति णबादिवद्धातोश्च द्विर्वचनं भवति ॥ आतोऽनपि (सू० ८०५)॥ Page #253 -------------------------------------------------------------------------- ________________ सू० १३६६ - १३७८] उणादिप्रक्रिया ५ रामः सोमं पपियज्ञे ददर्गाश्चक्रिरद्भुतम् । याजकान् वत्रिराजहिः पौण्डरीके महाद्विजान् ॥ १ ॥ तदा जज्ञिर्महाश्चर्य नेमिर्नृपगणोऽपि तम् । ब्राह्मणानां श्रुतिविदां गणो जग्मिर्धनं मुदा ॥ २ ॥ इति कृदन्तप्रक्रियायां शीलार्थप्रक्रिया ॥ ४ ॥ २४५ उणादिप्रक्रिया ५ 1 अथोणादयो निरूप्यन्ते ॥ १३६६ सदोणादयः १ ॥ सर्वस्मिन्काले उणादयः प्रत्यया भवन्ति ।। १३६७ कृ वा पा जिमि स्वदि साधि अशुङ् एभ्य उण् प्रत्ययो भवति २ ॥ णकारो वृद्ध्यर्थः । करोतीति कारुः कारुकः । वा गतिगन्धनयोः । आतों युक् (सू० ११९२ ) वातीति वायुः । पा पाने । पातीति पायुः । जयति अनेनेति जायुः । डुमिन् प्रक्षेपणे । मि कौटिल्ये । मिनो1 तीति मायुः । स्वदि आखादने । स्वद्यते इति खादुः । साध्यतीति I साधुः । अश्नोतीति आशुः || १३६८ सि तनि गमि मसि सचि अवि हि धा ऋशि एभ्यस्तुन्प्रत्ययो भवति ३ ॥ षिञ् बन्धने । सिनोतीति सेतुः । तनोतीति तन्तुः । गच्छतीति गन्तुः । मसि परिणामे रक्षणे च । मस्यतीति मस्तुः । षच संबन्धे । सचतीति सक्तुः । अव रक्षणे । अवतेर्वकारस्य उकारः । अवतीति ओतुः । हि गतौ वृद्धौ च । हिनोतीति हेतुः । दधातीति धातुः । क्रुश आह्वाने । क्रुशि रोदने च । क्रुश् आक्रोशे । छशषराजादेः षः ( सू० २७६ ) टुभि: ष्टुः (सू० ७९ ) क्रोशतीति क्रोष्टा । अव रक्षणे पालने च । कित्त्वात्संप्रसारणमुकारः ॥ १३६९ अवतेर्मुक् ४ ॥ अवते Page #254 -------------------------------------------------------------------------- ________________ सारस्वतव्याकरणम् । [वृत्तिः ३ धातोर्मुक्प्रत्ययो भवति ॥ अवतीति ओम् ओमौ ओमः ॥ १३७० अतिबृहिभ्यां मनिण ५ ॥ अत सातत्यगमने । सततं अततीति आत्मा वा अतति अखिलजनान्तर्निवासित्वेन सुकृतदुष्कृतकर्माणि पश्यतीति आत्मा । बृहि वृद्धौ ॥ १२७१ वन्युपधाया कर ६॥ मनिण्प्रत्यये परे उपधाया ऋकारस्य रेफो भवति ॥ बृंहतीति ब्रह्मा ॥ १३७२ घृधृपदो मः ७ ॥ धृ क्षरणे दीप्तौ च । घरतीति वा प्रियते इति धर्मः । धृ धारणे । धरतीति वा ध्रियतेऽसौ धर्मः । पद गतौ । पद्यते तत् पद्मम् ॥१३७३ ऋ स्तु सु ह हु मृक्षि या क्षु भा मा वा जक्ष रै नी श्यैङ् पद एभ्यो मः प्रत्ययो भवति ८॥ऋ गतौ । ऋच्छतीति अर्मः नेत्ररोगः । स्तौतीति स्तोमः । घू प्रसवे । सूतेऽसौ सोमः । हर्मः । जुहोतीति होमः । म्रियते इति मर्मः । क्षि निवासगत्योः । क्षयतीति क्षेमः । टुक्षु शब्दे । क्षौतीति क्षोमः । मातीति मामः । यातीति यामः । भातीति भामः। जक्ष भक्ष हसनयोः । जक्ष्मः । रायतीति रामः । नेमः । श्यैङ् दीप्तौ । श्यायतीति श्यामः । पद्मः ॥ १३७४ भीध्वोर्वा मक ९॥ बिभेत्यस्मादिति भीमः । धूयतेऽसौ धूमः ॥ १३७५ ध्वादेरुलिक १० ॥ ध्वादेर्धातोरुलिक् प्रत्ययो भवति ॥ धूनोमि वा धूयतेऽसौ धूलिः । अगि लघि रघि गत्यर्थाः इदितः । अङ्गते सा अङ्गुलिः ॥ १३७६ भविष्यदर्थे णिनिः ११॥ आगमिष्यतीति आगामी । भविष्यतीति भावी ॥ १३७७ शसादेः करणे त्रक १२ ॥ शसादेर्धातोः करणेऽर्थे त्रक् प्रत्ययो भवति ॥ १३७८ सर्वधातुभ्यस्त्रमौ १३ ॥ शस् हिंसायाम् । शंसति वा शस्यते अनेनेति शस्त्रम् । शास् अनुशिष्टौ । शिष्यते अनेनेति शास्त्रम् । असु क्षेपणे । अस्यते अनेनेति अस्त्रम् । पा पाने । पीयते Page #255 -------------------------------------------------------------------------- ________________ सू०१३७९-१३९७ ] उणादिप्रक्रिया ५ २४७ अनेनेति पात्रम् । नीयते अनेनेति नेत्रम् । दा प्लवने । दीयते अनेनेति दात्रम् ॥ १३७९ युवहागिभ्यो निः १४ ॥ एभ्यो धातुभ्यो निःप्रत्ययो भवति ॥ यु मिश्रणे । यौतीति योनिः । वहतीति वह्निः । अङ्गतेऽसौ अमिः ॥ १३८० इदिचदिशकिरुदिभ्यो र १५ ॥ एभ्यो रप्रत्ययो भवति ॥ इदि चदि आह्लादने दीप्तौ च ॥ इन्दतेऽसौ इन्द्रः । चन्दतेऽसौ चन्द्रः । शन्नोतीति शक्रः । रोदितीति रुद्रः ॥१३८१ पुष्पादेरः १६॥ पुष्पादेर्धातोरः प्रत्ययो भवति ॥ पुष्प विकसने। पुष्पति तत् पुष्पम् । फल निष्पत्तौ । फलति तत् फलम् । मूल व्याप्तौ । मूलति तत् मूलम् । रघ सामर्थे ॥ १३८२ उप्रत्ययः १७ ॥ रघते शास्त्राणां शत्रूणां च अन्तं गच्छति प्रामोतीति रघुः॥१३८३ गमे?:१८॥ गमेर्धातो?ः प्रत्ययो भवति ॥ गच्छतीति गौः १३८४ ग्लानुदिभ्यां डौः १९ ॥ ग्लायतीति ग्लौः । नुदतीति नौः । नुद प्रेरणे। श्यै स्त्यै शब्दसंघातयोः ॥ १३८५ स्त्यायतेऽट २० ॥ डित्त्वाहिलोपः। संयोगान्तस्य लोपः (सू० २३५) टित्त्वादीप् । स्त्यायति समूह करोति सा स्त्री । लक्ष दर्शनाङ्कनयोः ॥ १३८६ लक्षतेरी मुटु च २१ ॥ लक्षतेर्धातोरीः प्रत्ययो भवति तस्य ईप्रत्ययस्य मुडागमश्च ॥ लक्ष्यते पुमान् अनया सा लक्ष्मीः ॥ १३८७ राजादेः कन् २२॥ राजादेर्धातोः कन् प्रत्ययो भवति ॥ राज् धन्व यु यु प्रतिदिव् वृष् तक्ष दंश् पचि षप् अशूङ् नु मह एते राजादयः । राजू दीप्तौ । राजतेऽसौ राजा । धन्व गतौ । धन्वतीति धन्वा । यु मिश्रणे । यौतीति युवा । द्यु गतौ । द्योतीति युवा । प्रतिदीव्यतीति प्रतिदिवा । वृषु वृद्धौ । वर्षतीति वृषा । तक्षु तनूकरणे । तक्ष्णोतीति तक्षा । दंशन्तीति दश । पचि विस्तारे । पचि संख्याने । इदित् Page #256 -------------------------------------------------------------------------- ________________ २४८ सारस्वतव्याकरणम् । [वृत्तिः३ जस्शसोर्लक् (सू० २६४) पञ्चतीति पञ्च । षप् संबन्धे । षप् गणने । अशूङ व्याप्तौ ॥ १३८८ षपेरशेः किति तुग वक्तव्यः २३ ।। सपन्ति ते सप्त । अनुवते इति अष्ट । णु स्तुतौ ॥ १३८९ अस्य गुणः २४ ॥ नुवन्ति ते नव । मह पूजायाम् ॥ १३९० अस्य घान्तादेशो वुगागमश्च निपात्यते कन्प्रत्यये परे २५ ॥ मह्यते इति मघवा । इति राजादयः ।। १३९१ इमन्त्रासुकः सर्वधातुभ्यः २६ ॥ सर्वधातुभ्य इसू मन्त्र असुक् इत्येते प्रत्यया भवन्ति ॥ १३९२ वचादेरस् २७ ॥ वचादेर्धातोरस् प्रत्ययो भवति वा सर्वधातुभ्योऽस्प्रत्ययः ॥ उच्यते इति वचः । मह्यते इति महः । पीङ् पाने । पीयते तत् पयः ॥ १३९३ पिबतेरसि २८ ॥ पिबतेर्धातोरसुन्प्रत्ययो भवति इकारान्तादेशश्च ।। पीयते इति पयः । तिज निशाने क्षमायां च । तितिक्षतीति । तेजः । तप्यते इति तपः । रञ्ज रागे ॥१३९४ असि नलोपो वाच्यः २९॥ रजते तत्र रजः । रक्ष हिंसायाम् । रक्षतीति रक्षः ।। १३९५ अर्चिरुचिशुचिहुमृपिछादिदिभ्य इस् प्रत्ययो भवति ३० ॥ अर्चिरुची दीप्तौ । अर्चतीति अर्चिः । गुणः । रोचिः । शोचिः। हूयते इति हविः। सर्पिः ।। १३९६ छादेरिसन्त्रपक्किप्सु हस्वो वाच्यः ३१ ॥ छद संवरणे । चुरादिः। छादयतीति छदिः । उच्छृदिर दीप्तिदेवनयोः । छुणत्तीति छर्दिः ॥ सर्वधातुभ्यस्त्रमनौ (सू० १३७८) तनु विस्तारे। तनोति तत् तत्रम् । मन ज्ञाने । मन्यते इति मन्त्रः । यम उपरमे । यच्छतीति यन्त्रः । छिदि संवरणे । ज्यन्तः । छादयतीति छत्रम् । क्रियते तत्कर्म । वृञ् आच्छादने । वृणोतीति वर्म । मर्म । दाम । धर्म । छादयतीति छद्म ॥ १३९७ धनार्तिचक्षिपृवपितपिजनि- . यजिभ्य उस् प्रत्ययो भवति ३२ ॥ धन शब्दे । धनतीति धनु Page #257 -------------------------------------------------------------------------- ________________ सू०१३९८-१४०७] भावाधिकारप्रक्रिया ६ २४९ ऋ गतौ । गुणः । अरुः । चक्षि व्यक्तायां वाचि । चष्टे इति चक्षुः । पिपर्तीति परुः । वपतीति वपुः । तपतीति तपुः । जायते इति जनुः । यजतीति यजुः || १३९८ अवतृस्तृत त्रिकण्ठिभ्य ई१ ३३ ॥ अवतीति अवीः । तरतीति तरीः । स्तृञ् आच्छादने । स्तृणोतीति स्तरीः । तन्त्रि धारणे । कण्ठ अवधारणे । तन्त्रयति वा तन्त्रयते सा तन्त्रीः । कण्ठयतीति कण्ठीः || १३९९ सौकर्ये केलिमः ३४ ॥ सुखेन भिद्यते तत् भिदेलिमं वा भेत्तुं सुकरं भिदेलिमं किम् काष्ठम् । सुखेन पच्यन्ते इति पचेलिमा आढक्यः वा पक्तुं सुकराः पचेलिमाः के । तण्डुलाः ॥ संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे । कार्याद्विद्यादनुबन्धमेतच्छास्त्रमुणादिषु ॥ १ ॥ उणादयोऽपरिमिता येषु संख्या न गम्यते । प्रयोगमनुसृत्याद्धा प्रयोक्तव्यास्ततस्ततः ॥ २ ॥ इति कृदन्ते उणादिप्रक्रिया ॥ ५ ॥ भावाधिकारप्रक्रिया ६ १४०० तुम् तदर्थायां भविष्यति १ ॥ धातोर्भविष्यति काले तुम् प्रत्ययो भवति तदर्थायां क्रियायां प्रयुज्यमानायाम् ॥ भुज पालनाभ्यवहारयोः । भोक्ष्यतीति भोक्तुं व्रजति । पठिष्यतीति पठितुं ईष्टे । स्तोष्यतीति स्तोतुं ईहते । स्थातुं ईहते ॥ १४०१ तुमर्थे वुण् वक्तव्यः २ ॥ द्रक्ष्यतीति द्रष्टुम् कृष्णं द्रष्टुं व्रजति । कृष्णदर्शको व्रजति ॥ १४०२ कालसमयवेलासु तुम् ३ ॥ भोक्तुं कालः । अध्येष्यतीति अध्येतुं समयः । स्तोष्यतीति स्तोतुं वेला ॥ 1 Page #258 -------------------------------------------------------------------------- ________________ २५० सारस्वतव्याकरणम् । [वृत्तिः३ १४०३ घन भावे ४ ॥ धातो वे घञ् प्रत्ययो भवति ॥ चजोः कगौ घिति (सू० १३५७) पच्यते तत् पचनं पाकः । त्यज् वयोहानौ । त्यज्यते तत् त्यजनं त्यागः । भज्यते तत् भजनं भागः । इज्यते तत् यजनं यागः । विभज्यते तत् विभजनं विभागः । युजिर योगे। अनुप्रयुज्यतेऽसौ अनुप्रयोगः । अनूच्यते तत् अनुवचनं अनुवाकः । इण् गतौ नन्दादित्वाद्युः । ततोऽनादेशः। गुणः वृद्धिः । अयनं आयः । भूयते तत् भवनं भावः । आतो युक् (सू० ११९२ ) दीयते तत् दानं दायः । पानं पायः ॥ १४०४ भावे करणेऽर्थे पनि रञ्जर्नलोपो वाच्यः ५॥ रज्यते अनेनेति रञ्जनं वा रागः । भावे किम् । रज्यतेऽस्मिन्निति रङ्गः । रभ राभस्ये ।। १४०५ रभलभोः स्वरेणाद्यपी विना नुम् वाच्यः ६॥ आरम्भः । अञ्च गतिपूजनयोः । परितो अञ्चतीति प्राङ्कः ॥ १४०६ संज्ञायामकर्तरि च ७ ॥ धातोः कर्तृवर्जिते कारके भावे कर्मणि च घञ् प्रत्ययो भवति संज्ञायां विषये ॥ कार्य कार्य प्रति आहियते इति प्रत्याहारः । दीयते अस्मिन् इति दायः । पीयते अस्मिन् इति पायः । विक्रियते अनेनेति विकारः । मृजूष शुद्धौ । अपामृज्यते अनेनेति अपामार्गः । लिख आलेखने । लिख्यतेऽस्मिन्निति लेखः। आचर्यतेऽसिन्निति आचारः । उपाधीयतेऽस्मादिति उपाध्यायः ॥ १४०७ स्वरादः ८॥ इउऋवर्णान्तेभ्यो धातुभ्यः अः प्रत्ययो भवति भावादौ॥ धनोपवादः । संचीयतेऽसौ संचयः। चयनं चयः । जीयते इति जयः । नीयते तत् नयनं नयः । उन्नीयते इति उन्नयः । नूयते तत् नवनं नवः । लवनं लवः । स्तूयते तत् स्तवनं स्तवः । कृ विक्षेपे । कीर्यते इति करः । न विक्षेपे । त्रियते विक्षिप्यते कामादिभिरिति नरः । पिञ् बन्धने । विशेषेण सीयते जनयोः । कर्तृवाज कार्य प्र Page #259 -------------------------------------------------------------------------- ________________ सू० १४०८-१४२२] भावाधिकारप्रक्रिया ६ २५१ वध्यते अनेनेति विषयः ॥ १४०८ मदामः ९॥ मदादीनां अः प्रत्ययो भवति भावादौ कर्तृवर्जिते ॥ मदी हर्षे । मद्यते तत् मदनं मदः । प्रमद्यते अनेनेति प्रमदः । प्रमद्यते पुरुषोऽनया सा प्रमदा । पण्यते तत् पणनं पणः । शमु दमु उपशमे । शम्यतेऽसौ शमः । दमनं दमः । श्रम खेदे । श्रम्यते इति श्रमः । भ्रमः । यमु उपरमे । यम्यते इति यमः । दीव्यति विश्वमनेनेति देवः । जङ्गम्यतेऽसौ जङ्गमः । हिसि हिंसायाम् ॥ १४०९ सिंहे वर्णविपर्ययश्च १०॥ चकारादः प्रत्ययः । हिनस्तीति सिंहः ॥ १४१० मृतौ घनः ११ ॥ मूर्ती काठिन्ये परिच्छेदेऽर्थे चाभिधेये हन्तेरः प्रत्ययो भवति भावादौ हन्तेर्घनादेशश्च ॥ दधिकाठिन्यं हन्यते इति दधिधनः । परिच्छिन्नं सैन्धवं हन्यते इति सैन्धवघनः ॥ १४११ हनो वधादेशश्चाप्रत्ययः १२ ॥ हन्यते इति वधः ॥ १४१२ द्वितोऽथुः १३ ॥ द्वितो धातोरथुः प्रत्ययो भवति भावादौ ॥ टुवेतृ कम्पने । वेप्यते अनेनेति वेपथुः । टुनदि समृद्धौ । नन्द्यते अनेनेति नन्दथुः । टुवप् बीजतन्तुसन्ताने। उप्यते इति वपथुः । टुक्षेप क्षेपणे । क्षेप्यते अनेनेति क्षेपथुः । टुओश्वि गतिवृद्ध्यौः । श्वयथुः । टुक्षु शब्दे । थूयते इति क्षक्थुः । टुवम् उद्गिरणे । वमथुः ॥ १४१३ ड्डितस्त्रिमा १४ ॥ द्वितो धातोस्त्रिमा प्रत्ययो भवति तेन धात्वर्थन कृतेऽर्थे वाच्ये सति ॥ क्रियया निवृत्तः कृत्रिमः घटः । संभारेण संभृतं वा निर्वृत्तं संभृत्रिम युद्धम् । पाकेन निर्वृत्तं पक्रिमं फलम् । याचनेन निर्वृत्तं याचित्रिमं किम् । विप्रधनम् ॥१४१४ न ङ्की १५॥ धातोर्नकी इत्येतौ भवतः भावादौ ॥ १४१५ यज़ याचू यत विच्छ प्रच्छ स्वपू एभ्यो नङ् प्रत्ययो भवति १६ ॥ स्तोः श्चुभिः श्चुः (सू० ६) असंप्र Page #260 -------------------------------------------------------------------------- ________________ २५२ सारस्वतव्याकरणम् । [ वृत्ति: ३ सारणम् । इज्यते अनेनेति यज्ञः । याच्यते सा याच्ञा । यती प्रयत्ने । यत्यते तत् यतनं यत्नः ॥ १४१६ छः श्रे १७ ॥ छकारस्य शकारादेशो भवति नप्रत्यये परे भावादौ । शकारादेशः संप्रसारणबाधार्थः । विच्छि गतौ । विच्छयते इति विश्वः । प्रच्छि ज्ञीप्सायाम् । पृच्छयतेऽसौ प्रश्नः । रक्ष्यतेऽसौ रक्षणः । सुप्यते इति खमः ॥ १४१७ उपसर्गकर्माधारेषु दाधोः किः १८ ॥ उपसर्गे कर्मण्युपपदे आधारे च दाधोः किः प्रत्ययो भवति ॥ अन्तर्धीयते इति अन्तर्धिः । आधिः । आदिः । विधिः । आधीयते तत् आधानं आधिः । आदीयते तत् आदानं आदिः । आतोऽनपि (सू०८०९) इत्याकारलोपः । विधीयते तत् विधानं विधिः । संघीयते तत् संधानं संधिः । उदकं धीयतेऽस्मिन्निति उदधिः ॥ ९४९८ उदकस्य १९ ॥ उदकशब्दस्य उदादेशो भवति अधिकरणे । पयोधिः । अम्भो 1 निधीयते यत्र स अम्भोनिधिः ॥ १४१९ भावे युद्ध २० ॥ धातोर्भावे युट् प्रत्ययो भवति ॥ युवोरनाकौ ( सू०९१) ज्ञायते तत् ज्ञानम् । क्रियते तत् करणम् । दीव्यते तत् देवनम् । दीयते तत् दानम् । भूष अलंकारे । भूप्यते तत् भूषणम् । ह्रियते तत् हरणम् । हूयते सत् हवनम् । उद्यते तत् वहनम् । भाष व्यक्तायां वाचि । भाष्यते तद्भाषणम् । दूष वैचित्ये । दूष्यते तत् दूषणम् । गीयते तत् गानम् । पीयते तत् पानम् । मीयते तत् मानम् ॥ १४२० उद: स्थास्तम्भोः सलोपश्च २१ ॥ उदुपसर्गात्परयोः स्थास्तम्भयोः सकारस्य लोपो भवति ॥ उत्थीयते तत् उत्थानम् । स्तम्भ रोधने । उत्तम्भ्यते तत् उत्तम्भनम् || १४२१ साधनाधारयोर्युट् २२ ॥ साधने आधारे चार्थे युट् प्रत्ययो भवति ॥ पच्यते अनेनेति पचनः अग्निः । पच्यतेऽस्यां स्थाल्यां सा पचनी स्थाली ।। १४२२ ईषदु: सुषु Page #261 -------------------------------------------------------------------------- ________________ सू० १४२३-१४३०] कृत्यप्रक्रिया ७ २५३ खल्यू २३ ॥ ईषदादिषु प्रयुज्यमानेषु खल्यू इत्येतौ प्रत्ययौ भवतः भावादौ ॥ लकारः प्रत्ययभेदज्ञापनार्थः । खकारो गुणविधानार्थः ॥ मुमागमार्थश्च । ईषत्सु अकृच्छ्रार्थौ । दुःकृच्छ्रार्थः । ईषदनायासेन भूयते इति ईषद्भवः । दुर्भवः । सुभवः । ईषदनायासेन क्रियते इति ईषत्करः प्रपञ्चो हरिणा । दुःखेन क्रियते इति दुष्करः। सुखेन क्रियतेऽसौ सुकरः । ईषदाढ्यः क्रियते अनेनेति ईषदाव्यंकरः। आब्यंकरश्चैत्रो भवता । ईषत् पीयते असौ ईषत्पानः सोमो भवता। दुष्पानः । सुपानः । युधि संप्रहारे । दुःखेन योधयितुं शक्यः दुर्योधनः । सुखेन योधयितुं शक्यः सुयोधनः। ईषत्शासनः । दुःखेन शासयितुं शक्यः दुःशासनः । सुशासनः ॥ इति कृदन्ते भावाधिकारप्रक्रिया ॥६॥ कृत्यप्रक्रिया ७ अथ कृत्यप्रक्रिया ॥ तव्यादीनां कृत्यसंज्ञा पाणिनीयानाम् । कृत्यादि भावकर्मणोरेव ॥ १४२३ तव्यानीयौ १॥धातोस्तव्यानीयौ प्रत्ययौ भवतः भावादौ ॥ एध वृद्धौ । एध्यते वा एधितुमर्ह एधितव्यं एधनीयं धनं त्वया । भावस्यैकत्वादेकवचनं नपुंसकत्वं च । भूयते वा भवितुमहं भवितव्यं भवनीयम् । क्रियते वा कर्तुमर्ह कर्तव्यं करणीयम्। आस्यते वा आसितुमर्ह आसितव्यं आसनीयम् । कर्तव्यः करणीयो वा धर्मस्त्वया । या प्रापणे । प्रयातुमर्ह प्रयातव्यं प्रयाणीयम् । ईटो ग्रहाम् (सू० ८२१) गृह्यते तत् ग्रहीतव्यं ग्रहणीयम् । वृक संभक्तौ । बियते वा वरितुं योग्यं वरितव्यं वरीतव्यम् वरणीयम् । वृञ् वरणे । वियते तत् वरितव्यं वरीतव्यं वरणीयम् ॥ १४२४ खरायः २॥ खरान्ताद्धातोर्यः प्रत्ययो भवति भावादौ । चीयते वा Page #262 -------------------------------------------------------------------------- ________________ २५४ सारस्वतव्याकरणम् । [ वृत्तिः 1 चेतुमर्ह चेयम् । नेयम् । जेयम् । भीयते तत् भेयम् ॥ १४२५ असरूपोऽपवादः प्रत्ययोऽस्त्रियां वा बाधकः सरूपस्तु नित्यम् ३ ॥ चीयते वा चेतुमर्ह चेतव्यं चयनीयम् । चिकीर्ष्यते वा चिकीर्षितुम चिकीर्ष्यम् । दातुमिच्छतीति दित्सति वा दित्स्यते इति दित्स्यम् ॥ १४२६ क्षय्यजय्यौ शक्यार्थे निपात्येते ४ ॥ क्षेतुं शक्यं क्षय्यं । जेतुं शक्यं जय्यम् । अन्यत्र क्षेयं पापं जेयं मनः । क्षय्यजय्यौ चेति चकारादजर्यमिति निपात्यते । न जीर्यतीत्य जयें संगतम् ॥ १४२७ इच्चातः ५ || आकारान्ताद्धातोर्यः प्रत्ययो भवति आकारस्य च इकारादेशः ॥ दीयते वा दातुमर्ह देयम् । ज्ञातुं योग्यं ज्ञेयम् । गीयते तत् गेयम् । ग्लेयम् । पातुम पेयम् । धीयते तत् धेयम् ॥ १४२८ पुशकात् ६ ।। पवर्गान्तात् शकादेश्च यः प्रत्ययो भवति भावादौ ॥ शप् उपालम्भे आक्रोशे च । शप्यते इति शप्यम् । जतुं योग्यं जप्यम् । सरूपत्वात् पक्षे न ध्यण् । शक्यम् । शक् सह गद् मद् चर् यम् तक् शस् चत् यत् पत् जन् हन् शल रुच् एते शकादयः । षह मर्षणे । सोढुं शक्यं शक्यते सह्यते वा सोढुम सह्यम् । गद्यते वा गदितुमर्ह गद्यम् । मद्यते वा मदितुमर्ह मद्यम् । चरितुमर्ह चर्यम् । यम्यम् । तक् हसने । तक्यते वा कितुम तक्यम् । शसु हिंसायाम् । शसितुमर्ह शस्यम् । चते माने । चते कान्तौ । चत्यते इति चत्यम् । यत्यम् । 1 पत्यम् । जन्यम् ॥ १४२९ हनो वधादेशो ये ७ ॥ हन्यते वा हन्तुमर्हे वध्यम् । शल शोभायाम् । शल्यम् । रोचितुं शक्यं रुच्यम् । डुलभष् प्राप्तौ । लब्धुं योग्यं लभ्यम् । यम् मैथुने । यब्धुं शक्यं यभ्यम् । शक् सामर्थे । शक्ल शक्तौ । शक्यते तत् शक्यम् ॥ १४३० ऋहसात् घ्यणू ८ ॥ ऋवर्णान्साद्धसान्ताच्च धातोर्ध्य‍ 1 Page #263 -------------------------------------------------------------------------- ________________ सू० १४३१-१४४८] कृत्यप्रक्रिया ७ २५५ प्रत्ययो भवति भावादौ ॥ घकारो घित्कार्यार्थः । णकारो वृद्ध्यर्थः । क्रियते वा कर्तुमर्ह कार्यम् । वृञ् वरणे । वियते तत् वार्यम् । चार्यम् । हस हसने । हास्यम् । ह्रियते तत् हार्यम् । हनो घत् (सू० १०४६) हन्यते तत् घात्यम् । चजोः कगौ घिति (सू० १३५७) पक्तुं योग्यं पाक्यम् । याच्यते तत् याच्यम् । रुज्यते तत् रोज्यम् । वच परिभाषणे ॥ १४३१ वचः शब्दसंज्ञायां कुत्वं वाच्यम् ९॥ तेन वाक्यम् । अन्यत्र वाच्यम् ॥ १४३२ यज्याच्वचूरुच्प्रवच्अत्यपूजूगर्जुभुजां घ्यणि कुत्वाभावः १० ॥ याज्यम् । याच्यम् । वाच्यम् । रोच्यम् । प्रवाच्यम् । अयम् । त्याज्यम् । पूज्यम् । गर्ज शब्दे । गय॑ते तत् गर्व्यम् । भुज्यते तत् भोज्यम् । बाधू हिंसायाम् । बाधितुं योग्यं बाध्यम् । भजितुं योग्यं भाज्यम् ॥ १४३३ ओरावश्यके घ्यण ११ ॥ उवर्णान्ताद्धातोरावश्यकेऽर्थे ध्यण् प्रत्ययो भवति ॥ १४३४ ओदौतोर्यः प्रत्ययः खरवत् १२ ॥ धातोरोकारौकारयोनिमित्तं वा संबन्धी यः प्रत्ययः स खरवत् स्यात् ॥ ॥ समासे अवश्यमादीनामन्तलोपमिच्छन्ति शाब्दिकाः॥ लुम्पेदवश्यमः कृत्ये तुं काममनसोरपि। समो वा हितततयोर्मासस्य पचि युधजोः ॥१॥ लूञ् छेदने । लूयते वा लवितुं योग्यः लाव्यः । अवश्यं लाव्यो अवश्यलाव्यः । भोक्तुं कामो यस्य स भोक्तुकामः । श्रोतुं मनो यस्य स श्रोतुमनाः । सम्यक्प्रकारेण हितं सहितं संहितम् । संतत-सततम् । मांसस्य पचनं मांसपचनम् । युड्योः पचि परे मांसस्याकारो वा लुम्पेत् । मांसस्य पचनं मांसूपचनम् । मांसस्य पाकः मांस्पाकः मांसपाकः ॥ १४३५ ऋदुपधात् क्यप् १३ ॥ ऋका Page #264 -------------------------------------------------------------------------- ________________ २५६ सारस्वतव्याकरणम् । [ वृत्ति: ३ रोपधाद्धातोः क्यप् प्रत्ययो भवति भावकार्ययोः । कृती छेदने । कर्तितुमर्हे कृत्यम् । नितरां कर्तितुं योग्यं निकृत्यम् । वृद्ध्यत् । वृत्यते तत् वृत्यम् ॥ १४३६ कृपिवृत्योर्न क्यप् १४ ॥ कृपू सामर्थ्ये । कृपो रो लः (सू० ८५७) कल्पितुं योग्यं कल्प्यम् । नृत दीप्तौ । चर्त्यम् || १४३७ मृजो वा क्यप् १५ ॥ मृज्यं मार्ग्यम् ॥ १४३८ हस्वाच्च क्यप् १६ ॥ हखान्ताद्धातोर्भावे क्यप् प्रत्ययो भवति ॥ तस्य ग्रहणे तदन्तस्य ग्रहणम् । क्रियते तत्कृत्यम् ॥ १४३९ कृञः क्यपि वा रिङ् वक्तव्यः तुगभावश्च १७ ॥ कृत्या क्रिया ॥ ९४४० ङिदनेकाक्षरोऽप्यादेशस्तदन्तस्यैव वक्तव्यः १८ ॥ १४४१ गुप्गुहोः क्यप् १९ ॥ गोप्तुं योग्यं गुप्यम् । गूहितुं योग्यं गुह्यम् ॥। १४४२ वदेः क्यपू भावादौ २० ॥ वदेर्धातोः क्यप् प्रत्ययो भवति भावादौ ॥ मृषा उद्यते इति मृषोधम् । ब्रह्मणा उद्यते या कथा सा ब्रह्मोद्या ॥। १४४३ ग्रहेः क्यप् २१ ॥ अर्जुनगृह्या सेना || १४४४ भुवो भावे क्यप् २२ ॥ नाम्नि उपपदे भुवो भावे क्यप् प्रत्ययो भवति ॥ ब्रह्मणो भावः ब्रह्मभूयं गतः । ब्रह्मणा भूयते तत् ब्रह्मभूयम् । नाम्नि किम् । भवितव्यं भव्यम् || १४४५ इणू स्तु वृ द्द भृ शास् जुषु खन् एभ्यः क्यप् वाच्यः २३ ॥ तुक् । ईयते इति इत्यः । स्तुत्यः । वृत्यः । दृङ् आदरे । दृत्यः । भृत्यः । शासेरिः ( सू० ९१६ ) शिष्यः । जुष् प्रीतिसेवनयोः । जुष्यः || १४४६ खन एवं क्यपि वाच्यम् २४ ॥ खन्यते इति खेयम् ॥ ९४४७ भिद्योध्यौ नदे निपात्येते २५ ॥ भिनत्ति कूलमितिभिद्यः । उज्झ उत्सर्गे । उज्झति जलमिति उच्यः नदः । नदे किम् । भेत्ता उज्झिता । १४४८ कृवृष्योर्वा क्यप् २६ ॥ क्रियते तत् कृत्यम् । कर्तुं Page #265 -------------------------------------------------------------------------- ________________ सू०१४४९-१४६०] स्त्रीप्रत्ययाधिकारः ८ २५७ योग्यं कार्यम् । वृष वृष्टौ । वृष्यम् । वर्ण्यम् ॥ १४४९ एते भावकार्ययोर्विहितास्तव्यादयस्तेऽर्ह विधौ च वक्तव्याः २७ ॥ रारोझसे दृशाम् ( सू० ७८६) दर्शनार्थी द्रष्टव्यः । द्रष्टुं अर्ह: दर्शनीयः-दृश्यः । इङ् अध्ययने । खाध्यायोऽध्येतव्यः । खाध्यायो नाम वेदः । श्रु श्रवणे । श्रवणाहः श्रोतव्यः श्रोतुं योग्यं श्रवणीयम्। मान पूजायाम् । मानितुं योग्यो मानितव्यः-माननीयः। ध्ये चिन्तायाम् । ध्याना) ध्यातव्यः । ध्यातुं योग्यो ध्यानीयः । मन ज्ञाने । मनना) मन्तव्यः । मन्तुं योग्यो मननीयः ॥ १४५० सप्रत्ययान्तादपि एते प्रत्यया भवन्ति २८ ॥ नितरां ध्यातुमेष्टव्यो निदिध्यासितव्यः । भवितुमेष्टव्यो बुभूषितव्यः बुभूषणीयः। तव्यानीयौ क्यबध्यण्याः ॥ कृत्याः पञ्च समाख्याता ध्यणक्यपौ भावकर्मणोः। तव्यानीयौ स्वरायश्व शब्दशास्त्रविचक्षणः ॥२॥ ॥ इति कृत्यप्रक्रिया ॥ ७॥ स्त्रीप्रत्ययाधिकारः ८ अथ रूयधिकारः ॥ १४५१ स्त्रियां यजां भावे क्यपू १॥ यजादेर्धातोः स्त्रियां भावे क्यप् प्रत्ययो भवति ॥ यज् बज् समज् निषद् निपत् मन् नम् विद् षुञ् शीङ् भृञ् इण् कृ इषु परिसृप परिचर अटाट्य आस् चर् जागृ हन् एते यजादयः ॥ कित्त्वात्संप्रसारणम् ॥ इज्यते सा इज्या । स्त्रीत्वादाप् । व्रज्यते सा व्रज्या । अज गतौ क्षेपणे च । समज्यते सा समज्या शिबिका । प्रकर्षण १७ Page #266 -------------------------------------------------------------------------- ________________ २५८ सारस्वतव्याकरणम् । [वृत्तिः ३ बज्यते अस्यामिति प्रव्रज्या । षद् विशरणगत्यवसादने । निषद्यते सा निषद्या । निपत्या । मन ज्ञाने । मन्यते सा मन्या । नम्या । विद्यते सा विद्या । सुत्या ॥ १४५२ शीडोऽयक किति ये वक्तव्यः २॥ शय्या । भृत्या । ईयते सा इत्या । कृत्या ॥ १४५३ को यक् वा वाच्यः ३ ॥ अयकि । क्रियते सा क्रिया ॥ १४५४ इषेश्छान्तादेशो यलोपश्च ४ ॥ इष्यते सा इच्छा ॥ १४५५ सरतेर्गुणः ५॥ परिसर्या । परिचर्या । अटाट्या । आस्या। चर्या ॥१४५६ जागर्तेर्गुणः ६ ॥ जागर्या । हनस्तकारान्तादेशो हिंसायामर्थे । हन्यते सा हत्या ॥१४५७ हन्तेस्तः ७ ॥ हन्तेर्नकारस्य तकारादेशो भवति क्यपि स्त्रियाम् ॥ ब्रह्म हन्यते इति ब्रह्महत्या ॥ १४५८ स्त्रियां भावे क्तिः ८॥ धातोः स्त्रियां भावे क्तिः प्रत्ययो भवति ॥ क्रियते सा कृतिः । बुद्ध्यते सा बुद्धिः । स्मृङ् चिन्तायाम् । मर्यते सा स्मृतिः । पच्यते सा पक्तिः। पचि विस्तारे । पञ्च्यते तत् पञ्चनं पंक्तिः। संप्रसारणं । उह्यते सा ऊढिः । संविद्यते संवित्तिः ॥ १४५९ शमां दीर्घः ९ ॥ शमादीनां दी? भवति क्तिप्रत्यये परे ॥ शम्यते सा शान्तिः। दम्यते सा दान्तिः । गम्यते सा गतिः। हन्यते सा हतिः । भ्रमु चलने । भ्रम्यते सा भ्रान्तिः । अनुभूयते तत् अनुभवनं अनुभूतिः। विशिष्टा भूतिः विभूतिः । प्रभूतिः । भवनं भूतिः । शुध शौचे । शोधनं शुद्धिः ॥ १४६० ईशशीडोर्वरक्तिप्रत्ययौ नेड्गुणश्च १०॥ ईशूशीडोर्वरक्तिप्रत्ययौ स्तो वरप्रत्ययस्य क्तिप्रत्ययस्य च इद् न शीडो गुणोऽपि न भवति ॥ ईष्टेऽसौ ईश्वरः। संशय्यते तत् संशयनम् संशीतिः । ही गतौ । हीयते इति हीतिः। जागरणं जागृतिः । Page #267 -------------------------------------------------------------------------- ________________ २५९ सू०१४६१-१४७५] स्त्रीप्रत्ययाधिकारः ८ निगृह्यते सा निगृहीतिः । कुच संकोचने । कुच संपर्चनकौटिल्यमतिष्टम्भविलेखनेषु । तुदादिः । निकुचितिः। निपठितिः । निह आस्कंदने । उपनिहितिः। निपतितिः । विशेषण ध्रियते सा विधृतिः ॥ १४६१ ग्लाम्लाज्याक्त्वरिभ्यः क्तेरर्थे निः प्रत्ययो भवति ११ ॥ ग्लायते सा ग्लानिः । ज्यानिः । हानिः । जित्वरा संभ्रमे ॥ १४६२ त्वरतेर्वस्य उत्वं वाच्यम् १२ ॥ त्वर्यते सा तूर्णिः ॥ १४६३ कृल्वादिभ्यश्च तेरर्थे निःप्रत्ययो भवति १३ ॥ ऋत इर् (सू० ८२०) कीर्यते सा कीर्णिः । लूनिः । धूनिः पूर्णिः ॥ १४६४ संपदादेः किप् वा वाच्यः १४ ॥ संपत् संपत्तिः ॥ १४६५ कर्तरि क्तिश्च संज्ञायाम् १५॥ कर्बर्थे धातोः क्तिः प्रत्ययो भवति संज्ञायां विषये ॥ डुकृञ् करणे । प्रकुरुते सा प्रकृतिः । धृञ् धारणे । विपूर्वः । विशेषेण धरतीति विधृतिः ॥ १४६६ षिद्भिदामङ् १६ ॥ षितो धातोर्भिदादेश्च स्त्रियामङ् प्रत्ययो भवति भावादौ ॥ पच्यते सा पचा । मृज्यते सा मृजा । जषु वयोहानौ ॥ १४६७ जरादौ ङानुबन्धरहितः अ: प्रत्ययो भवति १७ ॥ जीर्यत्यनया सा जरा । इषु इच्छायामिति निर्देशाज्ज्ञापकादिच्छा इत्यादि निपात्यते । इच्छा ॥ १४६८ इषादेरङर्थे युट् १८॥ एषणमिति एषणा। भिद्यते अनया सा भिदा । छिद्यतेऽनया सा छिदा। क्षिपा । गुहू संवरणे । गुहा । मेधृ हिंसायाम् । मेधृ वधमेधासंगमेषु । मेध्यते इति मेधा । कृपा । पीड बाधायाम् । पीडा। बाध पीडायाम् । बाधा । क्षपा । रात्रिः॥१४६९गुरोहंसात् १९ ॥गुरुमतो हसान्ताद्धातोः स्त्रियामङ् प्रत्ययो भवति भावादौ न क्तिः॥ईह चेष्टायाम् । ईह्यते सा ईहा । उह्यते सा ऊहा। ईक्ष दर्शनाङ्कनयोः । ईक्ष्यते तत् Page #268 -------------------------------------------------------------------------- ________________ २६० सारस्वतव्याकरणम् । [वृत्तिः ३ ईक्षणं ईक्षा । एध्यते सा एधा । गुरोः किम् । भक्तिः । हसात्किम् । नीतिः। लिखू रिख लेखने । लिख्यते तल्लेखनं लेखा । रिख्यते तद्रेखणं रेखा । गुध परिवेष्टने । गुध्यते इति गोधा । धेट् पाने । सुष्टु धीयते इति सुधा । डुधाञ् धारणपोषणयोः । श्रद्धीयते सा श्रद्धा ॥ १४७० क्तिरापादिभ्यः २० ॥ आप्तिः । दीप्यते सा दीप्तिः । राध्यते सा राद्धिः । प्रशास्तिः ॥ १४७१ प्रत्ययान्तात् २१ ॥ प्रत्ययान्ताद्धातोः स्त्रियामङ् प्रत्ययो भवति भावादौ ॥ चिकीर्च्यते सा चिकीर्षा । आत्मनः कर्तुमिच्छा चिकीर्षा । आत्मनः पुत्रेच्छा वा पुत्रीयते सा पुत्रीया । अशितुमिच्छा अशनाया । लोलूयते सा लोलूया । अटाट्या । कण्डूञ् गात्रविघर्षणे । कण्डूयते सा कण्डूया। मुमूर्षणं मुमूर्षा ॥ १४७२ इश्तिपौ धातुनिर्देशे २२ ॥ धातुनिदेशे वाच्ये सति इश्तिपौ प्रत्ययौ भवतः । शकारः शिति शतुवकार्यार्थः । पच् इत्ययं धातुः पचिः । श्रयतिः। पचतिः । भवतिः ॥ १४७३ ज्यन्तआम्ग्रन्थअर्थश्रन्थविद्वदिइषिभ्यः स्त्रियां युर्वाच्यः २३ । डुकृञ् करणे। युवोरनाको (सू०११९१) कारणा। आसना । अर्थ याच्याप्रकाशनयोः । अर्थना । ग्रन्थ संदर्भ । प्रथ्यते तदन्थनमिति ग्रन्थना । उपासनमिति उपासना । श्रथि शैथिल्ये । श्रन्थना । घटनमिति घटना । विद्यते वेदनमिति वेदना। वन्द्यते सा वन्दना । एषणमिति एषणा ॥ १४७४ इञ् अजादिभ्यः २४ ॥ अज गतौ । आजिः । अत सातत्यगमने । आतिः॥१४७५ इक् कृष्यादिभ्यः २५ ॥ भवादौ ॥ कृष्यते सा कृषिः । गिरिः । किरिः । सर्वधातुभ्य इः । कविः । रविः ॥ ॥ इति ख्यधिकारप्रकिया ॥८॥ Page #269 -------------------------------------------------------------------------- ________________ सू०१४७६-१४८८] क्त्वाप्रत्ययाधिकारः ९ २६१ क्वाप्रत्ययाधिकारः ९ अथ क्त्वादयः प्रत्ययाः ॥ १४७६ पूर्वकाले क्त्वा १ ॥ धातोः क्त्वा प्रत्ययो भवति पूर्वकाले समानकर्तृके धातौ प्रयुज्यमाने ॥ देवदत्तः सात्वा भुते । भुक्त्वा व्रजति ॥ १४७७ न क्त्वा सेट् २॥ सेटू क्त्वा किन्न भवति ॥ वर्तित्वा । शपित्वा । भवित्वा । सेट किम् । कृत्वा ॥ १४७८ रलो व्युपधाद्धलादेः संश्च ३ ॥ उश्च इश्च वी ते उपधे यस्य तस्माद्धलादे रलन्तात्परौ क्त्वासनौ सेटौ वा कितौ स्तः ॥ विद ज्ञाने । विदित्वा-वेदित्वा ॥ लिखित्वा द्युतित्वा। व्युपधात्किम् । वर्तित्वा । रलः किम् । सेवित्वा । हलादेः किम् । एषित्वा । सेट् किम् । भुक्त्वा ॥ १४७९ मृडमृदगुध्रगुहकुषक्लिशवदवसमुष्ग्रहिभ्यः ४. ॥ सेट् किद् भवति । मृड सुखने ! मृडित्वा । मृद क्षोदे। मृदित्वा। गुध् रोचने । गुधू रोषे। गुधित्वा । गुह रोगे । गुहू संवरणे । गुहित्वा । कुष् निष्कर्षे । कुषित्वा । क्लिश् विबाधे । क्लिशित्वा । वद व्यक्तायां वाचि । उदित्वा । वसू निवासे । उषित्वा । मुषित्वा । गृहीत्वा ॥ १४८० नोपधा. स्थफान्ताद्वा कित् ५॥ नकारोपधात् थफान्ताद्धातोः सेट् क्त्वा वा किद्भवति ॥ ग्रन्थ संदर्भ । नो लोपः (सू०७६२) प्रथित्वा-प्रन्थित्वा गुम्फू ग्रन्थने । गुफित्वा-गुम्फित्वा इत्यादि ॥ १४८१ अलंखल्वोः प्रतिषेधे क्त्वा ६॥ प्रतिषेधार्थयोरलंखलुशब्दयोः पूर्वपदयोः सतोः पूर्वकालं विनापि क्त्वा प्रत्ययो भवति ॥ अत्रालंखलुशब्दौ निषेधार्थों तयोरुपपदत्वात् । अलं भुक्त्वा न भोक्तव्यम् । भोजनं मा कुरु इत्यर्थः । खलु भुक्त्वा न भोक्तव्यम् ॥ १४८२ उदितः क्त्वा वेट ७ ॥ उदितो धातोः परस्य क्त्वाप्रत्ययस्य वा इडागमो भवति ॥ एषित्वा Page #270 -------------------------------------------------------------------------- ________________ २६२ सारस्वतव्याकरणम् । [ वृत्ति: ३ इष्ट्वा । भ्रमु चलने । भ्रमित्वा भ्रान्त्वा । अदो जघुः ( सू० १२९० ) जग्ध्वा || १४८३ समासे क्यप् ८ ॥ समासे सति पूर्वकाले क्यप्प्रत्ययो भवति तत्कर्तृके धातौ प्रयुज्यमाने ॥ ह्रस्वस्य पिति कृति तुक् (सू० १२४६ ) डुभृञ् धारणपोषणयोः । संभृत्वा करो - तीति संभृत्यकरोति । णमु प्रहृत्वे शब्दे च । प्रकर्षेण कायवाङ्मनो - भिर्नत्वा इति प्रणम्य गच्छति । अनञ्पूर्व इत्येके । अकृत्वा जल्पति । अकृत्वा गच्छति । अजित्वा शात्रवान्सर्वानकृत्वा विमलं यशः । अदत्त्वा वित्तमर्थिभ्यः कथं जीवन्ति भूभृतः ॥ १ ॥ १४८४ क्यपि जेर्गुणश्च ९ ॥ क्यपि लघुपूर्वस्य रयादेशोऽपि - वाच्यः ॥ परिणमयित्वा इति परिणमय्य भुङ्क्ते । विगमय्य । विग णय्य । अलघुपूर्वस्य न । तेन जेर्लोपो वाच्यः । प्रतार्य । संप्रधार - यित्वा इति संप्रधार्य । विचार्य करोति । आम्ल व्याप्तौ । आफ्नोतेर्वा । प्रापय्य । प्राप्य ॥ १४८५ दादीनां क्यपि ईत्वाभावो वाच्यः १० ॥ क्यपि स्थामी इति ईकारो न भवति ।। दो अवखण्डने । प्रदाय । प्रसाय । प्रमाय । प्रस्थाय । उप समीपे स्थित्वा इति उपस्थाय । पितेव प्रपाय प्रपीय । लोपस्त्वनुदात्ततनाम् (सू० ८८६ ) १४८६ अमस्य क्यपि वा लोपः ११ ॥ प्रकर्षेण नत्वा इति प्रणम्य-प्रणत्य । आसमन्तात् ग्रामे आगम्य - आगत्य ॥ १४८७ विपूर्वस्य दधातेः करोतेरर्थे क्यप् १२ ॥ विधाय । प्रहाय ॥ १४८८ तत्कालेऽपि क्यप् दृश्यते १३ ॥ नेत्रे निमीत्य हसति । मील संमीलने । मील संगमे । उभयपदी । अक्षिणी संमीलित्वा इति अक्षिणी 1 संमील्य हसति । चक्षुषी संमील्य हसति । मुखं व्यादत्त्वा इति Page #271 -------------------------------------------------------------------------- ________________ सू०१४८२-१४९४] क्त्वाप्रत्ययाधिकारः ९ २६३ । मुखं व्यादाय खपिति ॥ १४८९ पौनःपुन्ये णम्पदं द्विश्व १४ ॥ समानकर्तृकेषु धातुषु प्रयुज्यमानेषु पूर्वकाले पौनःपुन्यार्थे धातोर्णम् प्रत्ययो भवति णमन्तस्य पदस्य द्विर्वचनं भवति ॥ आतो युक् (सू० ११९२) पीत्वा पीत्वा इति पायं पायं गच्छति । आदरे वीप्सायां द्विर्भावः । भुक्त्वा भुक्त्वा इति भोजं भोजं व्रजति । स्मृत्वा स्मृत्वा इति स्मारं सारं नमति शिवम् ॥ १४९० कथमादिषु स्वार्थे कृञो णम् १५ ॥ कथं इत्थं अन्यथा एवं एतेषु प्रयुज्यमानेषु खार्थे कृनो णम् प्रत्ययो भवति ॥ कथंकारं इत्थंकारं अन्यथाकारं एवंकारं पठति । एवं पठतीत्यर्थः ॥ १४९१ समूलाकृतजीवेषु हन्कृञ्ग्रहांणम् वाच्यः खार्थे तेषामनुप्रयोगश्च १६॥ समूलघातं हन्ति । अकृतकारं करोति । जीवं गृहीत्वा इति जीवनाहं गृह्णाति । इत्यादि ॥ १४९२ वर्णात्कारः १७ ॥ वर्णमात्राकारः प्रत्ययो भवति ॥ क इति वर्णः ककारः । व इति वर्णों वकारः।. अ इति वर्णः अकारः । वर्णसमुदायादपि कारो दृश्यते । अहंकारः। ओंकारः । टकारः । पकारः । तकारः इत्यादि ॥ १४९३ रादिको वा १८ ॥ र इति वर्णः रेफः-रकारः॥ रकारादीनि नामानि श्रुत्वा तत्रास रावणः । रत्नानि च रमण्यश्च संत्रासं जनयन्ति मे ॥२॥ रकारादीनि नामानि शृण्वतो मम पार्वति । मनः प्रसन्नतामेति रामनामाभिशङ्कया ॥३॥ १४९४ लोकाच्छेषस्य सिद्धिर्यथा मातरादेः १९ ॥ अस्स सारखतव्याकरणस्य ये शेषप्रयोगास्तेषां लोकात् अन्यव्याकरणासिद्धिर्भवति यथा मातरादेः । इत्यादिप्रयोगानुसारेण बोद्धव्यम् ॥ Page #272 -------------------------------------------------------------------------- ________________ २६४ सारस्वतव्याकरणम् । [ वृत्ति: ३ स्वरूपान्तोऽनुभूत्यादिः शब्दोऽभूद्यत्र सार्थकः । स मस्करी शुभां चक्रे प्रक्रियां चतुरोचिताम् ॥ ४ ॥ अवताद्वो हयग्रीवः कमलावर ईश्वरः । सुरासुरनराकारमधुपापीतपत्कजः ।। ५ ।। इति श्रीमत्परमहंसपरिव्राजकाचार्याऽनुभूतिस्वरूपाचार्यविरचितायां कृदन्तप्रक्रियायां क्त्वादिप्रत्ययप्रक्रिया समाप्ता ॥ ९ ॥ Page #273 -------------------------------------------------------------------------- ________________ श्री । सारस्वतवृत्तित्रयस्थ सूत्राणां अकारादिवर्णक्रमः । क्रमाङ्कः सूत्राणि. अ. १ अइउऋऌसमानाः ४३ अ इ ए ६२३ अइकौ च मत्वर्थे ३१ अः इति विसर्ज - नीयः ४६२ अकथितं च ४६३ अकर्मकधातुभियोगे देशः कालो गन्तव्योऽध्वा च कर्मसंज्ञः स्यादिति वाच्यम् १३३ अकारस्य भिसि छन्दस्येकारो व कव्यः क्रमाङ्कः सूत्राणि. क्रमाङ्कः सूत्राणि. ५९३ अचित्तवाचका- | १३७० अतिबृहिभ्यां म न्दसि १०६० अपरे जौ इङो गाङ् वा वक्तव्यः १०४३ अङ्सयोः - ८४५ अङि लघौ हख उपधायाः १२५ अकाराज्जसो लु. कूकचिद्वक्तव्यश्छ दिकः २२६ अच्चास्नां शसादौ ३६१ अजादेश्चापू व क्तव्यः ७७५ अजेरार्धधातुके वी वक्तव्यः वसा २८४ अञ्चेः पञ्चसु नु. मागमो वक्तव्यः' २८६ अञ्चैर्दीर्घश्च ९९६ अञ्जेः स्यौ नित्य मिडूवाच्यः १२१६ अटौ ५८९ अणीनयोर्युष्मद स्मदोस्त का दिः १४९ अतः ७०५. " ५६१ अत इञनृषेः ७५७ अत उपधायाः १०९५ अतिशये हसादेर्यङ् द्विश्व नि‍ १०९ अतोऽत्युः २१५ अतोम् ८२९ अतोन्तोदनतः ४७५ अतोऽमनतः ८११ अत्त्यर्तिव्ययतीनां थपो नित्यमिद् ८७६” ४७२ अत्यादयः क्रान्ताद्यर्थे द्वितीयया ११०७ अत्र णत्वाभावो वाच्यः १३३५ अत्रभवत्तत्रभवच्छब्दौ पूजार्थे . निपात्येते ७८४ अत्वतो नित्यानि - टस्थपो वेद २९४ अत्वसोः सौ | १२६१ अदसोम आदेशः २९० अदसोसेर्दादुदोमः ८८० अदादेर्लुक् ६९५ अदे Page #274 --------------------------------------------------------------------------  Page #275 -------------------------------------------------------------------------- ________________ अकारादिवर्णक्रमः ध्य EE: क्रमाङ्कः सूत्राणि. क्रमाङ्कः सूत्राणि. क्रमाङ्कः सूत्राणि. त्रवृतुवृधुसहच- ४३३ अशिष्टव्यवहारे १३८९ अस्य गुणः रभूभ्राज्ञन्त ए- दाणःप्रयोगे चतु-१३९० अस्य घान्तादेशो भ्य इष्णुः __र्थ्यर्थे तृतीया वुगागमश्च निपा. १४८१ अलंखल्वोः प्रति- १०९१ अशेरनायो वा । त्यते कन्प्रत्यये षेधे क्खा ११४६ अश्ववृषयोमथुने. परे ५४९ अलुक् क्वचित् च्छायां यः प्रत्य- ८७८ अस्यतिवक्तिख्या५१७ अल्पाख्यायां च | यः सुगागमश्च तिलिपिसिचिह्व६८० अल्पार्थे कुटीश- | २६७ अष्टनो डौ वा यतीनां से? वा मीशुण्डाभ्यो रः | २७ असंयोगादिपरो वाच्यः २२७ अल्लोपः खरेऽम्व- ह्रस्वो लघुः ९२० अस्यतिवक्तिख्यायुक्ताच्छसादौ १४२५ असरूपोऽपवादः तीनामात्मनेपदे १०४० अल्लोपिनो नाङ् प्रत्ययः स्त्रियां वा सेडों वाच्यः कार्यम् बाधकः सरूपस्तु ९७४ अस्यतेर्डे थुग्वक्त नित्यम् १४७ अवकुप्वन्तरेऽपि १३६९ अवतेयुक । ७७१ असवर्णवरे पूर्वे. ४७७ अवधारणार्थे या- कारोकारयोरियु- ५३६ अहोरात्रमित्यत्र वति च वौ वक्तव्यौ नपुंसकत्वं वा ५ अवा नामिनः | ९५५ असवणे खरे पू. वक्तव्यं ९४ अवसाने वा । र्वस्य इयादेशो आ. १२२ अविभक्ति नाम भवति ६३० आइश्चैतदोवा १३९८ अवेतृस्तृस्तन्त्रि- १३९४ असि नलोपो ११७० आई. भुवि कर्मणि कण्ठिभ्य ईः वाच्यः ५१६ आगन्तुकस्यैक५८८ अव्ययसर्वनाम्ना- । ९०३ अस्तेरनपि भू वचनान्तस्य वा मकच् प्राक् टेः वक्तव्यः १७१ आगमजमनित्यम् ४७१ अव्ययीभावात् ९०१ अस्तेरी ४७९ आङ् मर्यादामि. ६९७ अव्यवधानाच पु. ६०६ अस्त्यर्थे मतुः विध्योः .... रुषविशेषः । ६३५ अस्मायामेधास्त्र- ९२ आङ्माड्भ्यां च ३५९ भव्ययाद्विभकेल- ग्भ्योऽस्त्यर्थे वक्तव्यम् विनिर्वतव्यः । ४५१ आनादियोगे Page #276 -------------------------------------------------------------------------- ________________ सारस्वतव्याकरणे ७८१ आय: भूते क्रमाङ्कः सूत्राणि. क्रमाङ्कः सूत्राणि, | क्रमाङ्कः सूत्राणि. ११५३ आङो दोऽनास्य- ६९८ आदाथ ई ३२८ आमा विहरणे । २३९ आदिजबानां । १८३ आम्डेनियश्च ११५७ आडो यमहनः ___ झभान्तस्य झभाः ८३८ आम्प्रत्ययो ११४४ आचार उपमा. स्वोः यस्माद्विहितः स. नात् १२८५ आदितः कर्मणि चेदात्मनेपदी त१२२३ आट्यसुभगस्थूल- निष्ठा कर्तरि च हि अनुप्रयुक्तकृञ् पलितनमान्धप्रि. वाच्या आत्मनेपदं भ्व. येषु कृञः ख्युट् ५५८ आदिखरस्य ञ्णि- सो त्मनेपदम् वाच्यः ति च वृद्धिः १९४ आम् शसि १०९९ आतः १२८२ आदीदितः. ३३१ आम् स्भौ ८६७ आतिसकोकारलोपः खरे | १३६५ आइतः किर्दिश्च ५६६ आयनेयीनीयियः ८०४ आतो णपूडौ ५५१ आदेश्च द्वन्द्वे फढखछघां प्रत्य१५७ आतो धातोर्लोपः यादीनाम् ८०५ आतोऽनपि ७४८ आदेः ष्णः स्नः । २४ आरै औ वृद्धिः ८०९, १३ आद्यन्ताभ्याम् । १२४२ आतो मनिनक्क- ४२६ आधारे सप्तमी ६३८ आलाटौ कुत्सित भाषिणि निब्वनिपः १९६ आपः १३५३ अलो जिलोपा. ११७५ आतो युक् १०९० आप्नोतेरीः भावो वाच्यः ११९२ , २०३ आवतः स्त्रियाम् | ७१८ आशिषि १२० आत्खसयोरुः ३६५ आबन्तस्यानाब. | ७०३ आशीःप्रेरणयोः ७८८ आदन्तानां य. न्तस्यापि कप्रत्यये ७१९ आशीर्यादादेः मिरमिमनीनां से. परे बहुव्रीहौ वा पंकिदिति वक्तरिट्र सक् च पे १४४ आभिमुख्यामि । व्यम् वक्तव्यौ . व्यक्तये हेशब्दस्य | १२५९ आ सर्वादेः ६८४ आदनुदात्तडितः प्राक्प्रयोगः १३२८ आसेरानई ८८४ आदन्तविदद्वि- | ७१२ आभ्वोर्णादौ । २५९ आसौ ... षामन उस् वा । ४०९ आमन्त्रण च: । ९३२ आहश्च वक्तव्यः १४२ आमन्त्रणे सिधिः १११ आदबे लोपश् । ८९८ आमि विदेन गुणः १४७५ इकू कृष्यादिभ्य Page #277 -------------------------------------------------------------------------- ________________ अकारादिवर्णक्रमः क्रमाङ्कः सूत्राणि. क्रमाङ्कः सूत्राणि. क्रमाङ्कः सूत्राणि. १४७२ इश्तिपौ धातु. १४४५ इण्स्तु भृशासू- ७९२ इषुसहलुभरिषरुनिर्देशे जुष्खन् एभ्यः षामनपि तस्येडू १२१७ इखखि क्यप् वाच्यः वा वक्तव्यः १०८६ इङः से गम् । ६५२ इतो जातार्थे १३६३ इषेरुश्छश्च वाच्यः २५७ इतोत्पञ्चसु १४५४ इषेश्छान्तादेशो १०५९ इडादेौं पुक् च | ४४८ इत्थंभावे तृतीया यलोपश्च ९२७ इङो णादौ गा ३२५ इदमेतदोद्वितीय- १३३९ इष्णुप्रत्यये परे वक्तव्यः कवचने नपुंसके अन्तानां जिलो. ९२७ इडो वा गी सौ एनद्वा वाच्यः लङि च तत्परस्य पाभावो वाच्यः ३७४ इदमोऽप्यन्वादेशे डित्वं वाच्यम् द्वितीयाटौःस्व. । १३३७ इष्णुस्नुक्नुः मानोरा १३९१ इस्मन्त्रासुकः स१४२७ इच्च तः र्वधातुभ्यः १०७५ इच्छायामात्मनः २६९ इदमो यं पुंसि १३८० इदिचदिशकिरुसः | १०८८ इस्से १४७४ इञ् अजादिभ्यः दिभ्यो रः ७३७ इट ईटिं ७४७ इदितो नलोपा- ८२१ ईटो ग्रहाम् ८९३ इणः किति खरे भावो वाच्यः ९२१ ईडीशोः सध्वयो ७४५ इदितो नुम् यो वक्तव्यः रीवक्तव्यः २०७ इदुझ्याम् ८९४ इणः किति णादौ ३७९ ईप्यनडुहो वाम् पूर्वस्य दीर्घो व२६१ इनां शौ सौ वक्तव्यः ३८२ इन्द्रादेरानीप् च क्तव्यः ३८८ ईप् समाहारे ८९५ इणिकोः सिलोपे ५११ इन्द्रादिभ्यश्च गुणश्च १२४८ इपि वनो नस्य गा वक्तव्यः २१६ ईमौ रो वाच्यः १३२३ इणो दीर्घता ६५४ ईयविष्ठौ डिता। ६.३ इमनि लोपः क्वसौ वक्तव्या विति वक्तव्यौ ३३ इ यं स्वरे ११७२ इण्तन्यकर्तरि ९५४ ईवा हो ३१७ इयं स्त्रियाम् १३६ इण्नशजिमृग- | ५८३ इयो वा । |१०२२ ई हसे मिभ्यः करपू । ७४० इरितो वा ६५७ ईलोपोज्याशब्दावाच्यः १४६८ इषादेरङर्थे युट् ... दीयसः . . Page #278 -------------------------------------------------------------------------- ________________ वा ५५५ , सारखतव्याकरणे क्रमाः सूत्राणि. क्रमाङ्कः सूत्राणि. क्रमाङ्कः सूत्राणि. १४६० ईशशिडोर्वरक्ति- ७३५ उपधाया लघोः | ३१२ उरसे प्रत्ययौ नेड्गुणश्च ३७२ उपधालोपिनोन्न- ९८९ उर्वमोर्वा लोपः ६४० ईषदपरिसमाप्तौ कल्पब्देश्यदेशी न्ताद्बहुव्रीहेरीप् ३८ उवम् याः ३०३ उशनसाम् ५१८ उपमानाच १४२२ ईषदुःसुषु खल्यू ८०१ उषविदजागृणा माम्वा वक्तव्यः ४१४ उपर्यध्यधसः सा- ९१२ उसि जागर्तेर्धातो. ८६४ उः मीप्ये ४५ उ ओ गुणो वक्तव्यः १४१७ उपसर्गकर्माधारे१९० उकारान्तस्यापि ८०८ उस्यालोपः षु दाधोः किः । क्रोष्टशब्दस्य प. चखधिषु तृप्रत्या १३२७ उपसर्गस्थ निमित्तानकारस्य णो ७५१ ऊदितो वा यान्तता वा व. ५१९ ऊधसोऽनङ् कव्या वाच्यः ४०६ उत ऊः ७६१ उपसर्गस्थानिमि. ५२६ ऊप्रत्ययान्तस्य त्तानेर्गदादौ णत्वं ५१५ उत्पूतिसुसुरभि च न पुंवत् भ्यो गन्धशब्द ६१० ऊर्णाहंशुभंभ्यो वाच्यम् स्येकारान्तादेशो ५९ उपसर्गादवर्णा बहुव्रीही वक्तव्यः न्ताहकारादौ धा- ९३६ ऊर्णोतेर्गुणो दि. तौ आर भवति स्योः २९१ उद ईत् | ४८२ उपसर्जनं पूर्व १४१८ उदकस्य ९३७ ऊर्णोतेराम्न ११६१ उदश्चरस्त्यागे १०१४ उपाकिरश्छेदेर्थे । ९३५ ऊर्णोतेवा वृद्धिः ९४१ ऊौतेर्वा वृद्धिः १४२० उदःस्थाःस्तम्भोः सुइवाच्यः सलोपश्च ४३१ उपान्वध्यावसः सौ परे १४८१ उदितः क्खा वेट १३८२ उप्रत्ययः ९४० ऊर्णोतेरिडादिः ११६० उद्विभ्यां तपः । ४४२ उभयप्राप्तौ कर्मणि| प्रत्ययो वा डित् १०३४ उपधाया ऋवर्ण- ४३ उभये खराः । ३५३ ऊर्युरर्यङ्गीकरणे, स्याडि ऋ वा व- ५६० उरणि ११३६ ऊप्मबाष्पाभ्या क्तव्यः १२१३ उरसः सलोपो । मुद्वमने यङ् वा१०५८ उपधाया ऋवर्ण मुम्बा वास्ता कमाण च्यः Page #279 -------------------------------------------------------------------------- ________________ अकारादिवर्गक्रमः . a सहाये क्रमाः सूत्राणि. क्रमाङ्कः सूत्राणि. क्रमाङ्कः सूत्राणि. १७३ ऋतो ङ उः । ४४ ए ऐ ऐ ५६ ऋ अर् |११११ ऋतो रिः ३ एएओऔ संध्य. ६३ ऋलवर्णयोः सा- ७१ ऋतौ नमानो वा क्षराणि वर्ण्य वक्तव्यम् | ११०८ ऋखतोरीग्वाच्यः | १५९ ए ओ जसि १२०५ ऋकारान्ताच | ८७९ ऋतेरीयड्वार्थे | ४९८ एकवद्भावो वा ११२२ ऋकारान्तानामृ- नपितु वा समाहारे वक्तव्यः दुपधानां च य. ८१६ ऋदन्तस्य थपो ५०० एकत्वे द्विगुद्वन्द्वौ लुकि सति पूर्व- नेद ६६६ एकादशादेर्डः स्य क्रिक्रीक् | ८६३ " ६३६ एकादाकिनिच्चाआगमा वक्तव्याः १४३५ ऋदुपधात्क्यप् ६१ ऋकारादौ आर् | ९४७ ऋपोरी: ६७५ एकाध्यमुचा नेति वाच्यम् । ३९ ऋ रम् १२१९ एजां खशू ६. ऋकारादौ नाम- ६०४ ऋर इमनि ३३३ ए टाड्योः धातौ वा ७४३ ऋसंयोगात् णा ६२७ एतत्कियत्तयः १३२५ ऋकारानुबन्धस्य देर कित्वं वाच्यम् । परिमाणे वतुः नुमागम एव भ ८१५ऋसंयोगादेर्णादेर- २८३ एतदोन्वादेशे वति न दीर्घता कित्त्वं वाच्यम् द्वितीयाटौःस्वे. वक्तव्या नादेशो वा वक्त३७० ऋचि पादन्तादा- १३७३ ऋस्तुसुहृहुमृक्षि- व्यः ब् वक्तव्यो न ईप क्षुभामान् यावा- | १४४९ एते भावकार्य१७२ ऋङ् डे जक्षरैतीश्यैङ्पद योर्विहितास्तव्या८२० ऋत इर एभ्यो मः प्रत्य- दयस्तेऽर्ह विधौ ४३७ ऋतआदियोगे यो भवति च वक्तव्याः पञ्चमी १४३० ऋहसात् ध्यण ५१ एदोतोतः ५५२ ऋता द्वन्द्वे ३०८ एरी बहत्वे ५८ ऋते च तृतीया- ६२ ल अल् ५२५ एषु परेषु भाषिसमास एवार् । ४० ललम् तपुंस्कस्य स्त्रीप्र४३८ ऋतेयोगे द्विती त्ययान्तस्य न . यापि । ४१ ए अय् वतू ९४९ " Page #280 -------------------------------------------------------------------------- ________________ क्रमाङ्कः सूत्राणि. १३५ एभि बहुत्वे ४७ ऐ आय् ४०१ ऐच्च मन्वादेः १६७ ऐ सख्युः ओ. ८४२ कमेः खार्थे ञिः प्रत्ययो वक्तव्यः १२६४ करणे उपपदे यजेर्णिनिर्वाच्यः ४२ ओ अव् ४६ ओ औऔ १४३४ ओदौतोर्यः प्रत्य - १४६५ कर्तरि तिश्च सं ११३३ करणे च यः स्वरबत् ५४ ओमाडावप ५५ ओमि नित्यम् १४३३ ओरावश्यके यण् १९३ ओरौ ८९१ 22 ९८१ ओर्वा हे ६४ ओष्ठोत्वोव १३८ ओसि औ. ४८ औ आव् ६७ औ निपातः ६३२ औन्नत्ये दन्त दुरः १५८ औ यू ९७. औ A सारस्वतव्याकरणे क्रमाङ्कः सूत्राणि. क्रमाङ्कः सूत्राणि. ८४७ कमेरङ् द्वित्वे वा- | ११६७ कर्मव्यतिहारेऽ • न्यत्र हिंसादेरात् च्ये ६०० कर्मण्यपि यण् वक्तव्यः क. ६७२ कतिकतिपयाभ्यां ज्ञायाम् ६९० कर्तरि पंच ४२० कर्तरि प्रधाने क्रियाश्रये साधने च १२६६ कर्तर्युपमाने णिनिर्वाच्यः ४१२ कर्तुरीप्सिततमं कर्म ११४० कर्तुर्यङ् ४६१ कर्तृकरणयोस्तृतीया ६५१ कल्याण्यादीनामिनेयः ५९४ कवचिन्शब्दादि कः १११७ कवतेर्यङि चुत्वाभावो वाच्यः २४२ कषसंयोगे क्षः ५४२ काकवकदुष्णे ३६२ काप्यतः | ११२८ काम्यच्च ५७९ कारकात्क्रियायुक्ते १५ कार्यायेत् १२१० कार्येण् १४०२ कालसमयवेलासु थः द्वितीया १४९० कथमादिषु खा - ११८१ कर्मवत्कर्मणा तुकृञो णम् ल्यक्रियः तुम् ४१९ कालाध्वनोर्नैरन्तर्ये ७६६ कासादिप्रत्यया दामूकृअसूभूपरः ४४१ कर्तृकार्ययोरक्तादौ कृति षष्ठी १२२७ कर्मणि संपूर्वाच्च | १२८० कितः ५३७ कर्मधारयस्तु ५६७ किति च ल्यार्थे ६२९ किमः किर्यश्च ४१८ कर्मप्रवचनीययु- | १२६० किमिदमः की ईशौ ६५९ किमोऽव्ययादा ख्याताच तरत Page #281 -------------------------------------------------------------------------- ________________ अकारादिवर्णक्रमः क्रमाङ्कः सूत्राणि. क्रमाङ्कः सूत्राणि. क्रमाङ्कः सूत्राणि. मयोराम् वक्तव्यः, १६७ कृवापाजिमिखि- ५०९ कक्तवतू निष्ठा ५४० कुगसिप्रादयः दिसाध्यशू ए. १२९१ , २२ कुचुटुतुपु वर्गाः भ्य उण्प्रत्ययो १२८९ कस्य च वर्तमाने १०१३ कुटादेगिदर्जः भवति १४७० क्तिरापादिभ्यः प्रत्ययो डिद्धत १४३६ कृपिचत्योर्न क्य- १२७७ क्तो वासेद ५४१ कुत्सितेषदर्थयोः ७८६ क्रमः पे चतुर्यु १०७ कुप्वोxxपौ वा ८५७ कृपो रोलः दीर्घता वक्तव्या १००१ कुर्छरोर्न दीर्घः १४४८ कृवृष्योर्वा क्यप् ७८५ क्रमभ्रमुत्रसित्रु'७४६ कुहोश्वः । ७९७ कृषादीनां रो वा टिलष्भ्राशमला१४३९ कृमः क्यपि वा वतव्यः । शो वा यः प्रत्य. यो वक्तव्यः १०१७ कृषादीनां वा रिङ् वक्तव्यः १००२ कृनो नित्यं वमो सिर्वक्तव्यः । ७१६ कादेर्णादेः रुलोपो वाच्यः ६१८ कृष्यादिभ्यो वल- ४२३ क्रियया यमाभ• १४५३ कुलो यक् वा प्रैति सोऽपि संप्रच् दीर्घश्च १०८४ कृगृध्रुवप्रच्छस्मि दानम् वाच्यः ६७६ क्रियाया आवृत्ती १००३ कृतो ये डवऽवशूर्ती कृलसुच ११९० कृतः सस्येड् वक्तव्यः ११५४ क्रीडोनुसंपरिभ्य१३१९ कृतद्विखानामेक- १४६३ कृल्वादिभ्यश्च खराणामादन्ता- केरर्थे निः प्रत्य- ४५३ क्रुधदुहेासूयानां च घसेरेव . यो भवति र्थानां यं प्रति कसोरीड्वाच्यो | ७४४ केचित्संयोगाद्वेति कोपः नान्येषाम् . वक्तव्यम् २११ कोष्टुः स्त्रियां तृ४६७ कृते समासे अ. ५९६ केदाराद्यञ् ज्वद्भावः स्यात् व्ययानां पूर्वनि- ५८० केनेयेकाः ३५८ क्लायन्तं च .. पातो वक्तव्यः | ५२८ कोपवूरणीसंज्ञा-१४८४ क्यपि बेर्गुणश्च. ११८७ कृत्कर्तरि | नां च न पुंवत् । ४५५ क्यब्लोपे कर्म४०० कृदिकारादक्तेरी- ६९४ कित्यद्वयुसि ण्यधिकरणे, च ५ वा वक्तव्यः (१२७० ककवतू पञ्चमी वक्तव्या १८ Page #282 -------------------------------------------------------------------------- ________________ सारस्वतव्याकरणे क्रमाङ्कः सूत्राणि. क्रमाङ्कः सूत्राणि, क्रमाङ्कः सूत्राणि. . ४८४ क्वचिदमाद्यन्तस्य ११३४ क्षीरलवणयोस्तु- ११५१ गमः परौ सिस्यौ परत्वम् bणायां यःसुद च आत्मनेपदे वा ५७ क्वचिदार् १३४२ क्षेश्च तथा कितौ ५७३ कचिद्योः ७८७ गमां छः .११९ क्वचिनानिनोबे लोपशू | १४४६ खन एत्वं क्यपि ७८९ गमां खरे १३८३ गमेडौंः वाच्यम् १२४४ वनिप्वचिदन्ये भ्योपि दृश्यते १३११ खनेरात्वं निष्ठा- १०८७ गमेः से इडाच्यः १३१७ कसुकानौ णबेवत् याम् | १३२१ गम्धविविश्ट२८० क्विन्प्रत्ययस्य कुः ४०५ खरुसंयोगोपधान शां कसोर्वेद १२४९ किए ५९९ खलगोरथेभ्य इ-१२५३ गम्यम्नमूहम्त१२६८ , नित्रकट्याः । नादीनां विपि १२६७ विपक्वनिप्डाः १२२० खशन्ते पूर्वपद यमस्य लोपो वा१२५० विप्वचिप्रच्छया- स्य ह्रखो वाच्यः च्यः क्यपि वा यतस्तुकटाइजु- ८९ खसे चपा झसा ३९३ गवयहयमुकयमश्रीणां दीर्घः नाम् त्स्यमनुष्याणां न १२५४ क्विबन्ते वह्यन- १२१८ खिति पदस्य निषेधः सो डान्तादेशो १२२१ ख्युट करणे १०१६ गिरते रस्य वा वक्तव्यः लः खरे वाच्यः १४१ किलात्षः सः . - कृतस्य । | ५९५ गणिकाया ण्यः ११९८.गिले परेऽगिलस्य ५८४ क्षत्रशब्दादण | ४६४ गतिबुद्धिप्रत्यव- । ६९२ गुणः सानार्थशब्दक- । ६७४ गुणोऽण च १४२६ क्षय्यजय्यौ श. किर्मकाणामणि ८१२ गुणोर्तिसंयोगाक्यार्थे निपात्येते कर्ता स णौ । योः १३१३ क्षायो मः १२७१ गत्यर्थादकर्मका-१४४१ गुप्गुहोः क्यप् १२९६ क्षियो निष्ठायां च कर्तरि क्तः - ८२४ गुबभ्यः . कर्तरि दी? वा-१३६१ गवरो निपात्यते २१८ गुरुः शिच सर्वस्य च्यः शीलेऽर्थे वक्तव्यः वक्तव्यः Page #283 -------------------------------------------------------------------------- ________________ क्रमाङ्कः सूत्राणि. १४६९ गुरोर्हसात् ६५६ गुर्वादेरिष्ठेमेयःसु गरादिव्यलोपश्च ८६५ गुहेरुपधाया ऊद्रुतौ स्वरे ५३१ गोः ३९० गोपालिकादीनांच ६४१ गोः पुरीषे १०८१ गौणः प्रकृत्यर्थो - ऽन्यत्र सात् ८७३ ग्रहां क्ङिति च १४४३ ग्रहेः क्यप् १३४० ग्लाजिस्थाभूम्लाक्षिपच्यज्परिमृ ज् एभ्यः स्नुः १३८४ ग्लानुदिभ्यां डौः १४६१ ग्लाम्लाज्याहाक्त्वरिभ्यः क्तेरर्थे तिः प्रत्ययो भव ति ET. १२२५ घदादेशो वक्तव्यः १३७२ घृधृपदो मः १११३ घ्राध्मोरी ङ. ३३६ ङसिभ्यसोः इतुः १३६ ङसिरत् १३७ ङस्स्य १६२ ङस्य अकारादिवर्णक्रमः | क्रमाङ्कः सूत्राणि. २०९ ङितामद २०० ङितां यद १६२ ङिति इसे मिय इकारो वा वक्त व्यः १००० ङित्यदुः १४४० ङिदनेकाक्षरोप्यादेशस्तदन्तस्येव वक्तव्यः १७७ ङिदन्त्यस्य वक्त व्यः १५१ ङिस्मिन् १३४ ङे अक् ९७१ ङे नशेत एवं वा वाच्यम् १६४ ङेरौ डित् ९०७ ङे वचेरुमागमो वक्तव्यः १८६ ङौ १०० ङ्ह्णोः कुकूटुक् वा शरि ८७ नो हखाद्रिः स्वरे च. ९१९ चक्षिङोऽनपि ख्याकशाञ णावा वक्तव्यौ १३५७ चजोः कगौ घिति ११ क्रमाङ्कः सूत्राणि... ६५० चटकादेरेरण ११ चटतकप ५७५ चतुरश्च लोपो यणीययोः ४८ चतुराम्शौ च ६७० चत्वारिंशदादौ वा ७२ चपा अबे जबा: ७५. चपाच्छशः ११०४ चरफलोरुच्चास्य १२०० चरिचलिपतिह निवदीनां वा द्वि. त्वं पूर्वस्यागाग मश्च ३४७ चादिभिश्च १११६ चायो यङि की · वाच्यः १२२६ चारौ वा ४९४ चार्थे द्वन्द्वः ९८२ चिनोतेः सणादौ कित्वं वा वाच्यम् १०८० " ५८६ चिरादिभ्यः स्नः १०३६ चिस्फुरोर्जावात्वं वा |५०३१ चुरादेः २८५ चोः कुः १२३९ च्वौ दीर्घ ई चा स्य Page #284 -------------------------------------------------------------------------- ________________ सारस्वतव्याकरणे खफ २ मात्रः सूत्राणि. क्रमाङ्कः सूत्राणि. क्रमाङ्कः सूत्राणि. १२४० च्चौ सलोपश्च १४६७ जरादौ ङाबुबन्ध- १०७० जानातेऔं वा रहितः अप्रत्ययो भवति ११९७ जानातेश्च १४१६ छः श्ने २०५ जरायाः स्वरादौ | १२२८ जायापत्योष्टक १० छठथखफ ___ जरवा वक्तव्यः । ५१४ जायाया निङादे. १०२ छन्दसि १३४६ जल्पमिक्षकुलु- शो बहुव्रीहौ व३२४ छन्दस्यागमजा- ण्टवृद्एभ्यःषाकः कव्यो यलोपश्च नागमजयोलोपौ प्रत्ययो भवति १३४१ जिभ्वोः नौ गुचवफव्यौ २६४ जश्शसोलुक् __णाभावो न इद जाटे : २१७ जश्शसोः शिः १०२६ जस्तम्भम्रचुम्लु. ११९६ छादेरिस्मन्त्रघ १४५ जसी क्किप्सु ह्रखो । | ९५३ जहातेर्यादादावा श्विभ्यश्चलेरङ् वा लोपो वाच्यः वाच्यः ९५२ जहातेराकारस्य ११६५ ज्ञाश्रुस्मृदृशां सा१२५१ छोः शऊ वाच्यौ न्तानामात् कृिति हसे ईर्वा किति वाच्यः १०७१ ज्वलग्लानाश्च .१३०६ जहातेश्च किति वा मितः ८८७ जोधिशाधि | १२०९ ज्वलादेर्णः । ९१३ जागर्तेः किति २५३ जजोईः गुणो वक्तव्यः ८ झढधषभ ९ जडदगब ७१४ झपानां जबचपाः ८६२ जनखनसनां१४५६ जागर्तेर्गुणः ७३ झबे जबाः छिति य आकारा १३५९ जागर्तेरूकः ७५६ झसात् वा वक्तव्यः । ९७५ जा जनीज्ञोः ८८१ झसाद्धिः ४५० जनिकर्तुः प्रकृतिः छातः ५२९ जातिवाचका. ८९० जनिवध्योर्नवृद्धिः वागवाचकाद्य ७ अणनङम १८६८ जनीजृषकसुरजो |११०३ बमजपा नुक .. मन्ताश्च पुंवदमानिनि |१४८६ अमस्य क्यपि १३१० जनेर्जा निष्ठायाम्। ३९२ जातेरयोपधात् वा लोपः ज. ९११ उस् १३१८ , तस्य न Page #285 -------------------------------------------------------------------------- ________________ क्रमाङ्कः सूत्राणि. १२७२ जमान्तस्य किति झसे दीर्घः ९६ मा यपेऽस्य ७३ जमे जमा वा ११३८ आविष्ठवत्कार्यम् १०४१ त्रिनिमित्तः खरादेशो द्वित्वे क र्तव्ये स्थानिवत् ६८५ खरितेतच अकारादिवर्णक्रमः ८४४ ञः ८४३ रयद्विश्व १४७३ त्र्यन्त आम् ग्र न्थअर्थश्रन्थघट्विदूव दिइषिभ्यः • स्त्रियां युर्वाच्यः ११८० ञ्यन्तानां मिता मिणिणिदिटि च वा वृद्धिर्वाच्या मिलोपश्च क्रमाङ्कः सूत्राणि. ८५ टित्कितावाद्यन्त योर्वक्तव्य १३० टेन ८३ टोरन्त्यात् १९९ टौसोरे १४१२ द्वितो थोः ड. १७८ डतेश्च उमे २२० डलकवतीनां न | १२४१ डाच् कचिद्वक्तव्यः १६५ डिति टे: ११३७ ७ ञिर्डिकरणे १२८३ ञीतां तक् वर्त- | १२९४ डीङ इडभावः मानेऽपि '२९६ ड्णः १४१३ द्वितस्त्रिमक् ढ. ५६५ ढकि लोपः ८०२ ढिढो लोपो दीर्घ श्व ण. ९१५ टो हित्वान्यस्माद्दरि द्रातेरनप्यालोपो ङिति वा ८३० णबादौ पूर्वस्य ७५८ लुत्तमो वा णि ट. ५३३ टाडकाः २३१ टादावुक्तपुंस्कं पुंवद्वा १६१ टाना स्त्रियाम् ७५९ णित्ये द्वक्तव्यः ७०९ णादिः कित् ५७४ णितो वा १३ क्रमाङ्कः सूत्राणि. ४०३ णिपि परे निर्ऋद्धिर्वाच्या ५६३ ण्यायनयणी या गर्गनडात्रिस्त्रीपितृष्वस्रादेः • त. ६२६ तकारान्तस्य सकारान्तस्य हसा - दावस्त्यर्थे प्रत्यये परे अपदान्तता वक्तव्या २०३ तकारो लचटवर्गेषु ६२५ तडिदादिभ्यश्च १४८८ तत्कालेपि क्यप् दृश्यते ४६५ तत्प्रयोजको हे. तुव ४१३ तथायुक्तं चानीप्सितम् ९३३ तथे ७५३ तथोर्षः ६४६ तदधीते वेद वे त्यत्राण्वक्तव्यः ३५२ तदधीनकात्स्यं - योर्वा सात् ३५७ तदव्ययम् ५४६ तद्बृहतोः करप• त्योश्चौर देवतयोः सुंद तलोपश्च Page #286 -------------------------------------------------------------------------- ________________ सारखतव्याकरणे क्रमाङ्कः सूत्राणि. क्रमाङ्कः सूत्राणि. क्रमाङ्कः सूत्राणि. ९९८ तनादेरकरोतेस्त- ३१५ तिसृचतसृ एत. ८० तोलिल: न्थासो वा सि- ___ योर्नामि दीर्घत्वं । ५८५ त्यतनौ : लोपो वाच्यः च वक्तव्यम् १७५ त्यादेष्टेरः स्यादौ ९९७ तनादेरुप् ११००७ तुदादेरः ७२२ त्यादौ भविष्यति ९९९ तनादेरुपधाया । ६३१ तुन्दादेरिलः स्यप् गुणो पिति १२९९ त्राणाद्या वा १०९३ तनेः से वा दीर्घः/ । भ्यो भः ३१४ त्रिचतुरोः स्त्रियां ११७८ तनोते! वा तिसृचतसृवत् | ३०४ तुभ्यं मह्यं ड्या ६७९ तयायडौ संख्या १७६ रयङ् व्या. १४०१ तुमर्थे वुण वक्त. या अवयवे ६६३ त्रेः संप्रसारणं व्यः ३६४ तरतः पूर्वस्य १४०० तुम् तदार्थायां ... सखरस्य पुंवत् ___भविष्यति ३३० वन्मदेकत्वे ६५३ तरतमेयस्विष्टाः ८९२ तुरुनुस्तुभ्योऽद्वि- प्रकर्षे ३३७ तवमम ङसा वाच्यम् १४२३ तव्यानियौ नां चतुर्णामी ३४० खामामा १२३ तस्मात् ४१५ तस्य परमानेडि- ७०४ तुह्योस्तातलाशितम् षि वा वक्तव्यः १९१ तृतीयादौ खरा-१३०४ ददतेस्तो वाच्यः च वक्तव्या दौ तृप्रत्ययान्त |१३०५ दधातहिनिष्ठायां १४८५ तादीनां क्यपि- । तादा वक्तव्या वाच्यः · इवाभावो वाच्यः | १९८९ तृवुणौ ८५० दयतेादौ दि२८८ तिरश्चादयस्त्रिच | ७९३ तृफलभजत्रपां | ग्यादेशो द्विवातुरोः स्त्रियां ति- किति णादौ सेटि| भावश्च वक्तव्यः सृचतसृवत् थपि चैवपूर्वलो- १३३२ दरिद्रातरालोपो १०४९ तिष्ठतेरुपधाया पौ वक्तव्यौ वक्तव्यः इकारो वक्तव्यो. ५०५ तेन सहेति तु. ९१४ दरिद्रातेरिदालोऽडि परे ल्ययोगे पश्च डिति रुक्तेभ्यो हसादी-/१४६२ वरतेर्वस्य उत्वं वा २५८ थो नुन Page #287 -------------------------------------------------------------------------- ________________ अंकारादिवर्णक्रमः । ९९१ " क्रमाङ्कः सूत्राणि. क्रमाङ्कः सूत्राणि. क्रमाङ्कः सूत्राणि... २७० दः सः । १२९७ दीर्घादेव क्षियो ८५५ द्युतादिभ्यो लुङि निष्ठायास्तस्य नो वा परस्मैपदं वा. ८९७ , वाच्यः च्यम् ३०६ दस्य मः | १२०२ दुषेनौं कृति च १२५६ द्यतिगमिजुहोती. १२८४ दस्तस्य नो दश्च - दीर्घो वक्तव्यः । नां विपि क्वचि. ..९५७ दादेः १०६६ दुषेऔं वा दी? द्वित्वं वाच्यम् १११२ दादेरिः वक्तव्यः १२५७ द्योततेः क्वचित्पू८०७ दादेरे ८६६ दुहदिहलिहगुहू२३८ दादेर्घः र्वस्य विपि संप्र. भ्यः सको लुग्वा ९५९ दाधास्थामित्वं यकारतकारयो सारणं वाच्यम् सेर्डित्वं राति - ११८२ द्वहस्नुनमा कमे४२२ दानपात्रे संप्रदा-११९६ दुहः के वा घो कर्तरि यगिणौ न नकारके चतुर्थी वाच्यः । २४४ दुहादीनां घत्व. ढत्वे १२२४ दार्वाहनो अण । ६९ दूरादाबाने च टेः वक्तव्यः १२०७ दृशादेः शः ४९५ द्वन्द्वेऽल्पस्वरप्रकृ. ८१० दृश्यादेः पश्यादिः। ९५८ दाहौ तेऽकारोकारा१२५८ दृशेष्टक्सको चो५५६ दिक्संख्ये संज्ञा न्तानां पूर्व निपापमाने कार्ये याम् तो वक्तव्यः ४९६ देवताद्वन्द्वे पूर्व ९१७ दिपि सस्य तः ५५३ द्वन्द्वे सर्वादित्वं वा पदस्य वा दीघों सिपि वा ६६१ द्वयोर्बहूनां चैक. ९९४ , ५७२ देवतेदमर्थे ..स्य निर्धारणे कि३११ दिव औ ८५३ दैडो णादौ दि. मादिभ्यो डतर. ७०७ दिवादावद ग्यादेशो द्विखा. डतमौ वक्तव्यौ ९६३ दिवादेयः भावश्च ४८४ द्वितीयाश्रिताती५४८ दिवो द्यावा १३०१ दो दत्ति तपतितगतात्य. ३१९ दिशाम् २९७ दोषाम् स्त पाप्त पनैः ८८५ दिस्योहंसात् ८५४ यतेः पूर्वस्य सं- ६७७ द्वित्रिचतुर्थः सुः ९० दीर्घादपि च व. प्रसारणं वक्तव्यं । ६६७ द्विव्यटानां द्वात्रकाव्यः णादौ परे योष्टकाः वक्तव्यः Page #288 -------------------------------------------------------------------------- ________________ सारस्वतव्याकरणे ८७०, क्रमाङ्कः सूत्राणि. क्रमाङ्कः सूत्राणि. क्रमाङ्कः सूत्राणि, ९८५ द्विरुक्तस्य हिनोतेः ५२० धनुषश्च | १३७५ ध्वादेरुलिक कुत्वं वाच्यम् । ६८३ धातोः ७३० ध्वे च सेलेपः १११५ द्विरुकस्य हन्तेः | १०४२ धातोः प्रेरणे । कुत्वं वाच्यम् । ३७५ धातोरुदितो न ११२५ , | १०३९ धातोरुग्धाया १४७७ न क्वा सेट ८८८ द्विरुकस्य हन्ते. ऋकारस्य ईकारा ५८२ नक्षत्राण वक्तव्यः स्थपि धत्वं वा- देशो वाच्यो जि ३९८ नखमुखयोश्च च्यम् प्रत्यये परे संज्ञायां नेप् २१५ द्विरुक्तानां जक्षा- ७६९ धातोर्नामिनः दीनां च शतुर्नु २१८ धातोः सलोपो । |१४१४ नङ् की प्रतिषेधः पुलि ४९. नञ् वाच्यः हे नित्यं वक्तव्यो १०९८ धात्वंशलोपनि. ४८९ नमि नपुंसके वा शौ मित्त आर्धधातुके १२०६ नपूर्वेभ्यः कृह. परे तनिमित्ते णीयावृदिभ्यो १०४४ द्विनिमित्तेऽचि समाननामिनां । १६९ द्विवचनस्य वा गुणवृद्धी न वाच्ये ९६४ नत्तृवृत्कृ. छन्दसि २३७ धावम् तां सस्यासेरिद ७१० द्विश्व २५१ , वा वक्तव्यः ९८६ घिन्विकृण्यगोनों १२२१ , लोपो वाच्यः १९८ धिरिः २२३ नपुंसकस्य ९५२ द्वेस्तौ लोपोनुव. १८७ धेरर तते इकारश्च १६० धौ २२४ नपुंसकात्स्यमोल९५२ द्वेः खरेपि नोप- २१० धौ हखः धागुणः |१३०७ ध्याख्यापछि ९९३ नमः घ. मदा कस्य नत्वा. ८९९ नमसोऽस्य १३९७ धनार्तिचचक्षि भावो वाच्यः । ४३४ नमःखतिखाहाक्षिचङ्पवपित१२५५ ध्यायतेः विपि खधालंवषड्योगे पिजनियजिभ्य संप्रसारणं दीर्घता चतुर्थी उस् प्रत्ययो भवति च वकव्या १०६५ न रितः णिनिश्च २३० " Page #289 -------------------------------------------------------------------------- ________________ अकारादिवर्णक्रमः। १५ क्रमाङ्कः सूत्राणि. क्रमाङ्कः सूत्राणि. क्रमाङ्कः सूत्राणि. ... . ४४४ न लोकाव्ययनि- ३२३ नान्ताददन्ता. ११६५ नाम्युपधात्कः. छाखलर्थतनाम् । च्छन्दसि डिश्यो- ३९९ नासिकाशब्दात्के. ३६० नरशब्दनिर्देशे वा लोपो वक्तव्यः वलाने ६८७ नव परस्मैपदानि ७४९ नामधातुष्ट्यैष्व. | ९६१ निजां गुणः । ७८ न शात् कष्ठिवां षः सो ११४८ निविशादेः . ९७० नशेः षान्तस्य नेति वाच्यम् १२८८ निष्ठायां ह्रखो ९५ नश्वापदान्ते झसे १३५३ नामादेरः वांच्यः ८२ न षि . १४० नामि ७७० निसूनिक्षनिन्दा८४ न सक्छते ७१७ नामिनश्चतुर्णा मुपसर्गाण्णत्वं वा ६४९ न संधिव्योयुट् च धौ ढः वाच्यम् ९०६ नहिवचिरन्तिप- २२५ नामिनः खरे | ७६४ नुगशाम् रःप्रयोकव्यः । ११४ नामिनो रः । १३९ नुडाम: किंतु वदन्तीत्यु- ६५ नामी नुधातोः चारणीयम् ११४३ नान आचारे ११९ नुमयमः १२५२ नहितिव्यधि- विधाच्यः १८८ नुर्वा नामि दीर्घः विरुचिसहितनिषु १२११ नानि च ९७९ नूपः किबन्तेषु पूर्वप-/ ५३९ नानि च कृता स. ९९२ नृततृदचूदकृद्भयो रस्योपसर्गस्यान्ते मासः सेः स्तादेरिडा दीर्घो वाच्यः ६८९ नानि च युष्मदि ७७८ नैकखरादनुदा३१० नहो धः ___चास्मदिच भागैः चात् ४९१ ना २५२ नानो नो लोप-१४८० नोपधात्थफान्ता१०२१ नात्यादेः शुधौ । द्वा कित् २८७ नाचेः पूजायां |११२६ नाम्नो य ई चास्य २२१ नोपधायाः १०२३ नातः १०७८ नाम्यन्तात्परस्य ७४२ नो लोपः ३४१ नादौ सस्य कित्वं वा. ५३४ नो वा ८४९ नानप्योर्वः च्यम् ३६६ व्रण ईप् ८२५ नानिटि सेः १३०२ नाम्यन्तोपसर्गस्य २९३ न्संमहतो धौ १०७७ " दीर्घो भवति । दीर्घः शौच Page #290 -------------------------------------------------------------------------- ________________ १४ सारखतव्याकरणे वा क्रमाङ्कः सूत्राणि. क्रमाङ्कः सूत्राणि... क्रमाङ्कः सूत्राणि.. ६८६ परतोऽन्यत् १०५१ पिबतेरङि पूर्व११९९ पचिनन्दिग्रहादे- ८४८ परापूर्वी यतावुप- स्येकारोपधालोपौ रयुणिनि सर्गरेफस्य लत्वं वक्तव्यौ १३१२ पचो वः वाच्यम् १३९३ पिबतेरसि २३३ पञ्चखनडुहः ६६० परिमाणे दना- ४८६ पिशाचादेः सभा६६५ पञ्चादेर्मः दयः दीनां नपुंसकत्वं १.९२ पततनदरिद्राभ्यः . से वा इइ वाच्यः ४१६ परितःसमयानि १७४ पतिरसमास एव कषाहाप्रयोगेपि १०४८ पुगन्तस्य गुणो वक्तव्यः सखिशब्दवद. ७०८ परोक्षे । ८३९ पुंयोगे च कव्यः १२३० पाणिघताडघौ ८२६ पतेर्डे पुमागमो "शिल्पिनि निपा ३८१ पुरुषाद्वा परिमाणे ५४३ पुरुष वा वक्तव्यः त्येते १०८९ पतो वेद | ५२२ पुंवद्वा १०५३ पातेनो लुग्व. १४२८ पुशकात् ४०२ पत्यादयः क्तव्यः १३८१ पुष्पादेरः २६० पथां टेः ५०३ पात्रावन्तो द्विगु. ५३८ पंसः खपे ख्याव१११० पदस्रंसुध्वंसुभ्रंसु बन्तः र्जिते च अम्परे दंशुकसूवञ्चपत ३६९ पादन्तास्त्रियास्कन्दा यङि लुकि संयोगान्तस्यालोमीप् वा वक्तव्यः च सति पूर्वस्य २८१ पादः पत् पो वक्तव्यः ...... नुगागमा क्षच्यः १०५० पायुक् २९९ पुंसोऽसुङ् ३४२ पदात्पस्मोरनयो १२७९ पूडो वा का सेट ४८८ पानस्य वा रेते आदेशा ७७२ पूजायामञ्चनलोवक्तव्याः ६१४ पामादेनः पाभावो वाच्यः ९७६ पदादेस्तनि कर्तर्य ४८० पारेमध्ये षष्ट्या १४७६ पूर्वकाले क्वा पि सेरिण्वक्तव्यो वा । ५७६ पूरणेथे ण्यणीयौ दीपादिभ्यो वा । ५९८ पाशादिभ्यो यः भवतः ११४२ पयसस्तु विभा. ६४२ पाशः कुत्सायां ९६० पूर्वस्य ङिति झसे षया ६१५ पिच्छादेरिलच् । धः Page #291 -------------------------------------------------------------------------- ________________ अकारादिवर्णक्रमः । . वा क्रमाङ्कः सूत्राणि. क्रमाङ्कः सूत्राणि. क्रमाङ्कः सूत्राणि. ७३९ पूर्वस्य हसादिः १५८ प्रथमचरमतया- ६१६ फेनादिभ्य इलच् शेषः यडल्पार्धकतिप१५३ पूर्वादिभ्यो न- यनेमानां जसी ६०८ बलवाताभ्यामूलः वभ्यो सिड्योः . स्मास्मिनौ वा ३९६ प्रथमवयोवाचिः ६७८ बहादेः कारकावक्तव्यौ नोऽत ईप् व. च्छस् १५२ पूर्वादीनां तु न. क्तव्यः ५०४ बहुव्रीहिरन्यार्थे माजका ४८१ प्रथमानिर्दिष्टं स- ५०७ बहुव्रीहौ विशेषवा वक्तव्यः मास उपसर्जनम् णसप्तम्यन्तयोः ४६८ पर्वेव्ययेऽव्ययी. ६७१ प्रशंसायां रूपः । पूर्वनिपातो भाव: ५०८ प्रहरणार्थभ्यः परे वक्तव्यः . १२३४ पृच्छतेर्विण निष्ठासप्तम्यौ व- ६०५ बहोरिलोपो भू ११३९ पृथ्वादेरः क्तव्यौ च बहोः ९४८ पोरुर् ३५६ प्राग्धातोः । ६५८ बहोरिष्ठे यिः १४८९ पौनःपुन्ये णम- ६४४ प्राचुर्यविकारप्रा. ५६२ बहादेश्च . पदं द्विश्च धान्यादिषु मय | ३८३ ब्रह्मनूशब्दस्य १२९५ प्यायः पी ४२१ प्रकृत्यादिभ्यः । ३५५ प्रादिरुपसर्गः । ५१२ प्रजामेधयोरसुक् ९३४ ब्रुवो वचिः ७५० प्रादेश्व तथातौसु६१९ प्रज्ञा श्रद्धावृत्ति- _ नमाम् भ्योऽण् ५१० प्रियादीनां वा १२३२ भजां विण् ७५५ प्रत्ययलोपे प्रत्य- १०५५ प्रीधूमो क ११७९ भञ्जरिणि वा न. यलक्षणम् ६८ प्लुतः लोपो वाच्यः १४७१ प्रत्ययान्तात् १०२७ प्वादेहवः ४४६ भयहेतौ पञ्चमी १२६२ प्रत्ययोत्तरपदयोः च वक्तव्या परतो युष्मदस्म ८२८ फणादीनामेवपू. | १३७६ भविष्यदर्थे णिनिः दोरेकत्वे खत्म- लोपौ वा वाच्यौ १३३४ भविष्यदर्थे तितूइत्येतावादेशौ । ६०७ फलबहरथेभ्यइ. तेवत् शतृशानौ भवतः नेनौ वा वक्तव्यौ। भवतः दप्रत्ययो भवति नलोपो वाच्यः Page #292 -------------------------------------------------------------------------- ________________ २० सारखतव्याकरणे न्ति क्रमाङ्कः सूत्राणि. क्रमाङ्कः सूत्राणि. क्रमाङ्कः सूत्राणि. १४०४ भावे करणेथे घ. ११६८ भुजो भोजने पदं म. लिरजेनेलोपो वाच्यम् । २५५ मघवा बहुलं वाच्यः |१४४४ भुवो भावे क्यप् ५६४ मातृपितृभ्यां १२८६ भावे कर्तरि चा- ७१५ भुवो वुक् खसा दितः कस्यैद वा ७२७ भुवः सिलोपो१४०८ मदामः वाच्यः लुग्वाच्यः । ६२१ मध्वादेरः ५९१ भावे तखयणः । ७२८ भुवःसिलोपे खरे ९९ मनयवलपरे ह. १४१९ भावे युद वुग्वक्तव्यः कारेऽनुवारस्य ४२७ भावे सप्तमी ६४३ भूतपूर्व चरद ते यथाक्रमं भव. १३२६ भासादे ः ७२४ भूते सिः ३१८ मिदपाम् ९५६ भृक्षां लुकि १३७१ मन्युपधाया ऋरः १३५५ मिदिछिदिविदि .११४५ भृशादिभ्योऽभू. ७४ मयटि नित्यं वा. एभ्यः कुरङ् वा. च्यः शीलेर्थे ततद्भावे यङ्वा- च्यम् १४४७ मिद्योध्यौ नदे च्यः ९६९ मस्जिनशोझसे ११३ भोसः नम् वक्तव्यः निपात्येते ४१० भोस्भगोस्अघो- १०१ मः खरे १३६२ मियः क्रुनुको ५४७ महतष्टेराकारो वक्तव्यौ १०१. भ्रजतेः सकार. भवति समाना. १०७३ मियो औ वा रेफौ लुप्त्वा र. घिकरणे षुगात्वे वाच्ये मागमोऽनपि वा ३९५ महत्पूर्वात्तु ईप २०६ मिस ऐस् वक्तव्यः वाच्यः ७३१ माङि लुडेच व२७३ भिस् भिसू |१०३२ भ्राजभासभाष- क्तव्यः १३७४ भीध्वोर्वा मक दीपजीवमीलपी- ५६९ मातृपितृभ्यां पि. ९९५ भीहुभृहीणामा डां वोपधाया ह. तरि डामह म्वा वक्तव्यः स खो ङपरे औ । ५६८ मातृष्वसुश्च लुग्वत् १३२ भ्यः ३०७ मादू १२१५ भुजस्य च मुम्वा ३३५ भ्यसोइभ्यम् । ८४१ मानादीनां पूर्व डप्रत्ययान्ते गमौ ६८३ भ्वादिः स्य दीवो वक्तव्यः Page #293 -------------------------------------------------------------------------- ________________ अकारादिवर्णक्रमः। क्रमाङ्कः सूत्राणि. क्रमाङ्कः सूत्राणि. क्रमाङ्कः. सूत्राणि.. ११३२ मान्ताव्ययाभ्यां .१४४३ मृजेर्गुणनिमित्ते । ८३१ यजां यवराणां यो न प्रत्यये परे वृद्धि- स्वृतः संप्रसारणं ६२४ मान्तोपधात्वि- च्या कि नौ ९०४ मृजेर्गुणनिमित्ते १४३२ यज्याच्वच्च. . १५५ मासस्यालोपोवा प्रत्यये परे वृद्धि- प्रवचअन्त्य ७३४ मारमयोगे लङ् र्वाच्या किति पूगर्जभुजां डिति खरे वा ध्यणि कुखाभावः १०३५ मितां ह्रखः १४३७ मृजो वा क्यप् १४१५ यज्याच्यत् वि. १०६७ , १९ मित्रवदागमः | ७३२ मेटः च्छप्रच्छखप ए. ९३ मोऽनुस्वारः २२० मिदचोऽन्त्यात्परः भ्यो नङ् प्रत्ययो २७५ मो नो धातोः १२८७ मिदेर्गुणः भवति ९७३ मिदेर्ये गुणो व११२४ , २०४ यटोच्च २७८ मो राजि समः क्तव्यः ७८३ यतः कौ १०३४ मीनातिमिनोति.. ४३९ यतश्च निर्धारणं ६२८ यत्तदोरा. विषये क्यपि च ११०१ यकारपरस्य रे. ४७४ यथाऽसादृश्ये आत्वं वाच्यम् फस्य द्वित्वं वा. १२९ यदादेशस्तद्वद्भव२९ मुखनासिकाभ्या च्यम् मुच्चार्यमाणो व. ११२९ यकारस्यानपि १२९८ यरलवसंयोगादेगोऽनुनासिकः । वा लोपो वाच्यः रादन्तानिष्ठातस्व ३० मुखेनोच्चार्यमाणो ११६९ यक् चतुर्यु नो वाच्यः निरनुनासिकः १३५८ यङ ऊकः । ५८१ यलोपश्च १३२६ मुगानेतः १०९६ यङि ३८७ यवनालिप्याम् १०११ मुचादेमुम् ११४१ यडि सलोपो वा. ९८७ यवयोवैसे हकारे १४१० मूर्ती घनः च्यः च लोपः १४७९ मृङ् मद्गुधूगुहू- ५२४ यङ्मानिन्वश-१०६१ यवयोर्वसे हकारे कुक्तिश्ववस्. संततरादौ चारू- च लोपो वक्तव्यः मुष्यहिभ्यः प्ये ३८६ यवाहोषे य. डा गुणवृद्धि- Page #294 -------------------------------------------------------------------------- ________________ २२ क्रमाङ्कः सूत्राणि. ८४० यः से १२७३ यस्य क्वचिद्विकल्पेनेड् तस्य नि ष्ठायां नेड् वाच्यः ३६७ यस्य लोपः १६ यस्येत्संज्ञा तस्य लोपः ७०० या ई ८१४ यादा द १२२७ यादौ प्रत्यये ओकारौकारयोरवा - वौ वक्तव्य ७०२ यामि यम् ३१८५ यावत्पुरानिपात योर्योगे भविष्य दर्थे तिबादयो लट् ४७८ यावदवधारणे २७९ युजेरसमासे ५३० युड्वर्जितरक्तवि कारार्थवर्जितत द्वितान्तस्य न पुंवत् ५९७ युवस्यादेर १३७९ युवहागिभ्यो निः ३२७ युवावो द्विवचने ११९१ युवोरनाकौ सारस्वतव्याकरणे क्रमाङ्कः सूत्राणि. ३३९ युष्मदस्मदोः षष्ठीचतुर्थीद्वितीया भिस्तेमे वान्नौ वनसौ ७०१ युस इट् ४०७ यूनस्तिः ३२९ यूयं वयं जसा ७७९ ये ४४९ येनाङ्गविकारः ९६५ यौः २२९ वृणां नपुंसके धौ वा गुणो व क्तव्यः ६६ वे द्वित्वे १८० वोर्धातोरियुव खरे ४९ वोर्लोपश्वा प द ३१६ वोर्विसे १८१ त्रौ वा र. १२९२ र इति सूत्रं न पिपर्तेः १०६९ रञ्जेऔं मृगरमणे s नलोपो वा च्यः ११९४ रञ्जेर्नलोपो वा क्रमाङ्कः सूत्राणि. १०५४ रभलभोः खरे द्यपी विना मु म्वाच्यः १४०५ " १४७८ रलो व्युपधाद्ध देः संश्च ११६ रः ७६८ १२७६ " २४९ रः संख्यायाः ވގ २५० रः सुपि १२३१ राजघ उप सं ख्यानम् १३८७ राजादेः कन् १०३७ रातो ञौ पुक् ५३५ रात्राह्नाहाः पुंरि ९०५ रात्सस्य ११२३ रात्सस्य १४९३ रादिको वा . ३७ राद्यपो द्विः ९६६ राधते हिंसायां किति णादौ से थपि चैव पूर्व पौवा ७९६ रोझसे शाम १३०८ राल्लोपः ११७ रिलोपो दीर्घ | ११०६ मृदुपधस्य Page #295 -------------------------------------------------------------------------- ________________ अकारादिवर्णक्रमः । - सा वान् क्रमाङ्कः सूत्राणि. क्रमाङ्कः सूत्राणि. क्रमाङ्कः सूत्राणि. ४३६ रुच्यर्थानां प्रीय- ६३९ लः समाहारप्रकृ. ९७७ लोपः ... माणः टयोः ११७३ , १०८३ रुदविदमुषग्रहि- ७९४ लान्तस्याकारस्य ७६२ लोपः पचां किखपिप्रच्छः सः सौ नित्यं वृद्धि त्ये चास्य । किद्वाच्यः । वाच्या । ५० लोपशि पुनर्न ९०९ रुदादेर्दिस्योरीड- ४०८ लिङ्गार्थे प्रथमा __ संधिः टौ च वक्तव्यौ । ७९१ लित्पुषादेः | ८८६ लोपस्वनुदात्तत९०८ रुदादेश्चतुर्णा ह. १०१२ लिपिसिचिह्वय- नाम् . सादेः तीनामात्मनेपदे १८९ स्वादेर्नम् । ९०२ लोपागमयोर्मध्ये से? वा वाच्यः १२०४ रुशब्दाधुरपि व- १०२९ लीलिङोरात्वं वा आगमविधिबलक्तव्यः १०६४ लीलोऔं क्रमाल्लु१०५७ रुहेऔं पो वा | ७५२ लोपो हखाज्झसे ग्लुको वा । वाच्यः ६१३ लोमादिभ्यः शः १०६३ लीलोः पुरवक्तव्यः ११५ रेफप्रकृतिकस्य ६०२ लोहितादेर्डिदि१०६२ लीयतेर्जावात्वं वा खपे वा १७९ लुकि न तनिमि- १२९३ वाद्योदितः । १९२ रैस्भि १२०३ रोर्युण त्तम् २६५ , १३९२ वचादेरस् ११२० लुकि सति पिति १४३१ वचेः शब्दसंज्ञा ४१७ लक्षणेत्थंभूता स्मि वा ईकारो | यां कुत्वं वाच्यम् ख्यानभागवी वक्तव्यः प्सासु प्रतिपर्य ५९० वत्तुल्ये ... नवः ५७० लुग्बहुत्वे क्वचित् १४४२ वदेः क्यप् भा." १३८६ लक्षेरी युद च | ११०२ लुप्सदचरजपज- वादौ भदहदशगृभ्यो | १२४७ वनिपि जमस्या८४६ लघोर्दीर्घः ९२२ लडो ध्वस्य नेद धालथगोयामेव त्वं वाच्यम् १३३९ लषपतपदस्थाभू. यङ् ७७४ वन्दिव्रज्योः सौ नित्यं वृद्धिः एभ्य उकण प्र. सिद्धिर्यथा मात- ८२९ वम एलपूर्वलोपौ त्ययो भवति रादेः वा वाच्यौ. वृषहन्कम्गम् १४९४ लोकाच्छेषस्य Page #296 -------------------------------------------------------------------------- ________________ सारखतव्याकरणे । क्रमाङ्कः सूत्राणि.क्रमाङ्कः सूत्राणि. क्रमाङ्कः सूत्राणि. ८७४ वयो यस्य किति १३२९ वादीपोः शतुः । ७६८ विदरिद्राकास्____णादौ- वो वा व. १३३१ वादीपोः शतुरि- काश्जायउष तव्यः सत्र वाशब्दाद्वि- एभ्यो वाम् १३६४ वरः रुक्तानां जक्षा- ६९९ विधिसंभावनयोः ९८ वर्ग वर्गान्तः दीनां च शतु- ४२८ विनासहनमऋते १८ वर्णविरोधो लो- नित्यं नुम्प्रति- निर्धारणखाम्या. पशू षेधो वक्तव्यो न. दिभिश्च ३२ वर्णशिरोबिन्दुर- पुंसके शौ वा । ६५५ विन्मतुवतुतृप्रत्य- नुखारस १११९ वान्यत्र लुगनुव- . याना लोपश्च इ. १४९२ वर्णात्कारः तते छादौ १७ वर्णादर्शनं लोपः ९७ वा पदान्ते ११४९ विपराभ्यां जेः 11८३ वतमानाथाया । २१२ वामि |१४८७ विपूर्वस्य दधातेः अपि विभक्तः ३१३ वाम् शसि करोतेरर्थे क्यप् स्मयोगे भूतार्थता ४७६ वा टाङयोः ५४५ विभक्तिलोपे कृते वक्तव्या . ४३४ वारणार्थयोगे ६८८ वर्तमाने दन्तस्य दत तृतीया ११०५ वलयान्तस्य वा १२१ विभक्त्यन्तं पद २४० वावसाने नुक २४१ विरामोऽवसानं ११०९ वशेर्यडि न संप्र. ६६९ विंशतेस्तिलोपः सारणम् . २४५ वाहो वो शसादौ ६६८ विंशत्यादेवी त. २३६ वां रसे खरे मद्र १२७५ वसिक्षुधोरिट्र १०२० विजेः पर इट् ३४६ विशेष्यपूर्वसंबो. ३०२ वसोर्व उः किद्वक्तव्यः धनेतरपूर्व वा सं. १०७ वाचस्पत्यादयः | ११५२ वित्तेरन्तो वा सद बोधनं हित्वान्य. संप्रसारणं आति स्मात्संबोधनात्प. ६३६ वाचो ग्मिनिः १३३३ विदेर्वा वसुः रयो ते आदेशा ६०९ वातातीसाराभ्यां ८९६ विदो नवानां भवन्ति त्यादीनां णबा| ४२४ विश्लेषावधौ प३७७ ॥ दिवा . २६८ वासु किन् श्चमी Page #297 -------------------------------------------------------------------------- ________________ अकारादिवर्णक्रमः क्रमाङ्कः सूत्राणि. क्रमाकः सूत्राणि.. क्रमाङ्कः सूत्राणि. ४५६ विषये च १२३३ वेः १०७४ व्यापारमात्रे १३४४ विष्त्रस्गृध्धृष्- २२८ वेड्योः निर्वतव्यः क्षिप् एभ्यः क्रुः । ८७१ वेजो णादौ संप्र- स च डितू २८९ विष्वग्देवयोश्च टे- सारणाभावो ६४७ व्यासादेः किः . रयश्चत्तौ वप्रत्यये वाच्यः ८७५ व्येो णादौ २८ विसर्गानुखारसं- ८७२ वेयो वय् णादौ । नालम् योगपरो दीर्घश्च वा वक्तव्यः २९२ बितो नुम् . गुरुः १३०९ वेटो निष्ठायां इट् .. श.. .. १०४ विसर्जनीयस्य सः न ६१२ शंकंभ्यां बभयु. १२१४ विहायसो विहश्च १०९४ वेडिस्से दीर्घता तितुतयसः ११९३ वुण्सयुटौ हिला च ६७१ शतादेर्नित्यम् दरिद्रातेरनप्या- २१४ वे युवः | १३२४ शतृशानौ लोपो' लुङि वा ११७४ वैचित्यापह्नवयोर- तिप्तेवत् क्रि.. वक्तव्यः । ___ ल्पकालेऽपि णा- | यायाम् १३२० वुण्सयुटौ हिला दिर्वकव्यः । । २० शत्रुवदादेशः . दरिदातेरनप्या- ४०४ वोर्गुणात् | १०४७ शदेः शत् लोपो वाच्यो ५५९ वोव्यखरे |११३५ शब्दादिभ्यो यङ् लुडि वा. ६९६ व्योरा |११५५ शब्दे तु नु १०७६ वुः से ८५९ व्यथतेर्णादौ पू. ११६४ शप उपालम्मे १०८२ वृङ् इत्यस्य उ. र्वस्य संप्रसारणं ८२७ शमां दीर्घः वाच्यः वक्तव्यम् । ९७२ . ८५६ वृतादिभ्यः स्य- ५५४ व्यधिकरणे बहु. १४५९ . प्स्योर्वा पं पेऽनि- वीही मध्यमपद- १२३६ शमेरपि विण् दत्वं च लोपो वकव्यः वक्तव्यः ९५० वृद्धिहेतौ सा- ११६३ व्यवपरिभ्यः . १२ शषस विटो न दीर्घः । १०५ शषसे वा. ८२९ वृद्धिहेतौ साविटो ८६० व्यापर्युपेभ्यो ७७३. शसददवादिगुणन दीर्घो वाच्यः । रमः पम्... भूताकाराणां नै १९ Page #298 -------------------------------------------------------------------------- ________________ २६ सारस्वतव्याकरणे व्यौ । क्रमाङ्कः सूत्राणि. क्रमाङ्कः सूत्राणि. क्रमाङ्कः सूत्राणि. वपूर्वलोपौ वक्त- ३९४ शूद्राज्जातौ न । २५४ श्वादेः । ६२० शृङ्गवृन्दाभ्यामा- | २४६ श्वेतवाह्उक्थशा७४१ शसात्खपाः रकन् . . स्पुरोडाशूअवया. १३७७ शसादेः करणे १३५० शृवन्द्योरारुः जां डसू रसे प. त्रक ८६ शे चगवा दान्ते चेति व१२८ शसि ४११ शेषाः कार्ये क्तव्यम् ३३२ शसो नो वक्तव्यः २२२ श्वन्यादेः ७२६ शाच्छासाघ्राधेटो ६३३ श्रद्धादे ः ६६४ षट्चतुरोः स्थः . वेति वक्तव्यम् । ९८८ श्रुवः श च । ७९८ षढोः कः से ९१६ शासेरिः | ९६७ श्लिषेरालिङ्गने १३८८ षपरे शे किति १२१८ शिति चतुर्वत् १२७४ श्लिष्शीस्थाआ- तुक वक्तव्यः ९२५ शीडो.तो रुट स शिवसजनरु- ५४४ षष उत्वं दयो११७४ शीडो यङ् किति हजीर्यतीनां सो- डेढौ डिति ये वक्तव्यः पसर्गत्वेन सकर्म- १६८ षष्ठीनिर्दिष्टस्यादे१११८ शीडो यङ् कृिति काणामपि कर्तरि शस्तदन्तस्य ज्ञेयः ये वक्तव्यः । को वाच्यः ४५७ षष्ठीसप्तम्यौ चा१४५२ , ८३७ श्वयते द्वित्वं वा ९२४ शीङ सर्वत्र गुणो ८३६ श्वयते रिलोपे डे ... १३४५ षाको कणः भवत्यपि विषये वक्तव्यः १४६६ षिद्भिदामङ् १२७८ शीङ् खिदिमिदि- १२८१ श्वयतेः संप्रसार- २७७ षोडः क्ष्विदिधृषु पूङः । क्षेमार्थे । ८३५ श्वयतेः सौ वृद्ध्य- ३७४ ष्टव्रितः ८१४ शीयादेशे आत्म- भावो वाच्यः २६६ ष्णः नेपदं वाच्यम् । ८३४ श्वयतेर्णादौ प्रथ- १४६ रुनॊणोनन्ते १३३६ शीले तृन् मं संप्रसारणं वा १२१२ शुचः शूद्धे वक्तव्यम् ७३६ सः १३१४ शुषेः कः । ७२१ श्वस्तने १७० सखिपत्योरिक नादरे णस्य दीर्घः ७९ ष्टुमिः टुः Page #299 -------------------------------------------------------------------------- ________________ अकारादिवर्णक्रमः क्रमाङ्कः सूत्राणि. क्रमाङ्कः सूत्राणिः क्रमाङ्कः सूत्राणि. ३७३ संख्यादेर्दाम्न ईप १०१९ सपरोक्षयोस्तादौ ४६६ समासश्चान्वये. ५०१ संख्यापूर्वो द्विगुः . म्रियतेः परस्मैप- नानाम् . ६७३ संख्यायाः प्रकारे दं वाच्यम् १४८३ समासे क्यप् धा. ७९५ सपरोक्षयोर्जेर्गिः । ५५० समासे समाना५३२ संख्यासु व्याघ्रा. १३०० सं परि उप ए धिकरणे शाकपादिपूर्वस्य पादश- भ्यः परस्य करो र्थिवादीनां मध्यब्दस्याकारस्य तेर्धातोभूषणेर्थे मपदलोपो वक्तलोपो वक्तव्यः शोभनेर्थे च वा व्यः । ६६२ संख्येये विशेषा- च्ये सति मुद् प्रधारे द्वित्रिभ्यां त्ययो भवति ५०२ समाहारेत ईप् तीयः १००४ संपर्युपेभ्यः करोते ५९२ समाहारे ता च २९८ सजुषाशिषो रसे भूषणे सुटू । त्रैर्गुणश्च .. पदान्ते च दी| १२६९ सप्तम्यां जनेडः | १४९१ समूलाकृतजीवेषु वक्तव्यः १४५० सप्रत्ययान्तादपि। हनुकृञ्ग्रहां णम् एते प्रत्यया भव- वाच्यः खार्थे ते. ५२१ संज्ञाया वा । षामनुप्रयोगश्च १४०६ संज्ञ'यां कर्तरि च ४२५ संबन्धे षष्ठी | ११५० समोगमादिभ्यः ४८७ संज्ञायां वा ३२२ संवोधने नपुंस१३६६ सदोणादयः ....... लोपः ... ३५४ सद्यादिः काले वक्तव्यः निपात्यते |११५६ समवप्रोपविभ्यः | १०३० संयोगादि ऋद. ७८२ सधातुः स्थः - न्तवृवृक्षां सि८०३ संध्यक्षराणामा ११६२ समस्तृतीयायु - स्योरात्मनेपदे इइ ४७० स नपुंसकम् । ताच वा वाच्यः १४६४ संपदादेः क्विपू । ६०१ समानस्य वा स ९८३ संयोगादिऋद. वा वाच्यः इत्यादेशः न्तवृञा सि. १२३८ संपद्यकर्तरीति १४३. समानार्लोिपो स्योरात्मनेपदे इ. . वक्तव्यम् . . . . ] धातोः .. .....ड्डा वक्तव्यः . . . २५४ ३२० " " न्ति कानां नलोपो वा २३५ संयोगान्तस्य Page #300 -------------------------------------------------------------------------- ________________ सारस्वतव्याकरणे क्रमाङ्कः सूत्राणि. क्रमाङ्कः सूत्राणि. क्रमाङ्कः सूत्राणि. ८०६संयोगादेरादन्तस १३४७ सान्ताशंसमिक्ष | १५० सुडामः किति यादादावे. एभ्य उः प्रत्ययो ६४८ सुधातुरकङ् च कारो वा वक्तव्यः भवति ११०० सूचिसूत्रिमूत्र्य. १४५५ सरतेर्गुणः ३३८ सामाकम् . ट्यवंशूर्णोतिभ्यो ८१३ सर्तिशास्त्यति- । ३०९ सामान्ये अदसः | यङ्वाच्यः भ्यो ङो लुङि कः स्यादिवच | ९२३ सूतेः पिति गु. १३७८ सर्वधातुभ्यस्त्रमौ २३४ सावनडहः । णाभावो वाच्यः १४८ सवोदेः स्मद । ८१८ सावनिटो नित्यं । ३९१ सूर्योद्देवतायां ५२ सवर्णे दीर्घः सह वृद्धिः चाप १००६ ससुदकृतो पादौ ९९५ , ७६३ सेटि थपि यत्वनित्यमिवाच्यः । ४६९ सासप्रत्यययोः पूर्वलोपौ वक्त८३३ सस्तोऽनपि ६२२ सिध्मादेलः व्यौ ९२८ सस्यात्मनेपदे |१३१६ सेटि निष्ठायां . खरे टिलोपो वा- ९०० सिसः लोपो वाच्यः च्यः १३६८ सितनिगमिमसि-१०७९ से दीर्घः सचिभविद्विधा- १८२ सेनान्यादीनां ७११ सखरादिरिद्विः क्रुशि एभ्यस्तुन्प्र- वामो नुइ वक्त५०६ सहादेर्द्विगुःसादिः त्ययो भवति व्यः । ८६१ सहिवहोरोदवर्ण- | ७२० सिसतासीस्यपा- १८४ सेरा मिद ३०५ , २४७ सहेः सः साढि ८८३ सिसयोरदेर्घस्ल १६६ से धेः ४३२ सहादियोगे तृती- लिटि तु वा. . ११८ सैषाद्धसे .याप्रधाने ८५८ सिस्योः . १२७ सो नः पुंसः ४६० साधकतमं कर-१४०९ सिंहे वर्णविपर्य- ४५४ सोपसर्गयोः क्रुणम् यश्च धद्वहोर्योगे द्विती. १४२१ साधनाधारयोर्युद ११४७ सुखादिभ्यो ज्ञाप- या वक्तव्या १३४८ सान्ताशंसयोश्च | नायां यङ् १३९९ सौकर्ये केलिमः Page #301 -------------------------------------------------------------------------- ________________ अकारादिवर्णक्रमः २९ योगे भूतार्थे लद १०३८ " स्तृस्पृशां पूर्व । ७७ स्तोः श्चभिः श्वः . क्रमाङ्क: सूत्राणि.. क्रमाङ्कः सूत्राणि. क्रमाङ्कः सूत्राणि... ३०४ सौ सः १०५६ स्मयतेरात्यात्वं । ९३९ खरात्पराः संयो३०१ स्कोराद्योश्च औ वाच्यम् - गादयो नदरा २८२ स्तः ७३३ स्मयोगे भूतार्थ. द्विर्न १०२५ स्तम्भुस्तम्भुस्क ता वक्तव्या १४०७ खरादः ४४३ स्मृतौ च कार्ये । ७६५ खरादेः उभ्यो नुनश्चि ११८६ स्मृत्यर्थधातुमि. ९३८ स्वरादेः परः १८९ स्तुराद ९३० स्तुसुधूजां पे सेरिड् वक्तव्यः १०३३ स्मृतरप्रथमद | २१ खरानन्तरिता हसाः संयोगः १४५८ स्त्रियां भावे क्तिः स्यातादकर आ १४२४ खरायः १४५१ स्त्रियां यजा भा ७३८ स्याविदः .., ८६८ मुश्रिनुवां सेरङ् ११७१ स्वरान्तानां हन्धातोद्धित्वं च ग्रहदृशां च भाव. २०८ स्त्रियां वोः । कर्मणोः सिसता. ६८१ स्त्रीपुंसोनणनगौ १२४ स्रोर्विसर्गः सीस्यपामिद वा २१२ स्त्रीभ्रुवोः ७२३ स्यक्रियातिक्रमे इण वक्तव्यः १३८५ स्त्यायतेर्डट् | ८३९ खजतेर्णादौ वा किलम् ७७७ खरान्तानित्या९६८ स्पृशमुशकृशतृपा निटस्थपो वेद - सिर्वा वकव्यः । ४५९ खतन्त्रः कर्ता १२४३ स्थामी ११२ खरे यत्वं वा १३५१ स्पृहिगृहिपतिशी. ९८४ खरतिसूतिसूय- ३६८ खस्रादीनामन्त्र. एभ्य आलु- तिधूनधादीनां न्तानां संख्यावा. वाच्यः वा चिनां च नेप् व तव्यः १३१५ स्फायः स्फी - ५७८ खरपरयोः कक् १०७२ स्फायो वकारः । ३६ खरहीनं परेण | ३९७ खानाद्वा .. . स्यात् औ परे । संयोज्यम् . | ९७८ स्वादेर्नुः २७२ स्भ्यः .१३०२ खरात्तो वा । ४४० खाम्यादिमिश्च ११८८ " Page #302 -------------------------------------------------------------------------- ________________ ३० सारस्वतव्याकरणे क्रमाङ्कः सूत्राणि. क्रमाङ्कः सूत्राणि. क्रमाङ्कः सूत्राणि. ५८७ खार्थेऽपि |१२०१ हन्तेर्घश्च |११३१ हसाद्यस्य लोपो ७५२ स्वसूतिसूयतिधू. १२६५ हन्तेनिन्दायां वानपि अधादीनामिड्वा | १४ हसा व्यञ्जनानि वक्तव्यः१४५७ हन्तेस्तः | १५६ हसे पः सेर्लोपः । ९२९ इकारस्य क्वचि- | ८८९ हन्तेः स्याशीर्या ३४ हसेहहसः ज्झसूभावो वा दादौ वधादेशो | ३८० हायनाद्वयसि च वकव्यः ३८५ हिमारण्ययोमह. ह..... ११०४ हन्तेहिंसायां नी १५ हस्तीडो सौ. . | ... वा वाच्यः १०१५ हिंसायां प्रतेश्व 0 णित् ........... ११० हले | ४४५ हेतौ तृतीया प. ११७७ हमें आत्मनेपदे हयवरल ञ्चमी च वक्तव्या सिः विद्वाच्यः ५३ हलादेरीषादौ टे- ९४४ हेधिः ७९० हनृतः स्यपः । 'लोपो वक्तव्यः | ७० हैहयोः खरे सं. १०४६ हनो घत ८०० हशषान्तात्सक धिन वक्तव्यः ६९० हसात् झसस्य २६२ हनो ने ७६ हो झभाः १४११ हनो वधादेशश्चा सवर्णे झसे लोपो| २४३ हो ढः वाच्यः ७८० हृयन्तक्षणश्वसिप्रत्ययः ११३० हसात्तद्धितस्य | १४२९ हनो वधादेशो ये' जागृहसादिवर्ज लोपो ये सेटि सौ न वृद्धिः ११५९ हन्तेः स्याशीर्या ८१७ हसात्परस्य झस- ७१३ ह्रखः दादौ वधादेश स्य सवर्णे झसे | २ ह्रखदीर्घप्लुतभेदाः आति वा लोपो वाच्यः सवर्णाः ११७६ " १०२८ हसादानही १२४६ हवस्य पिति कृ. २६३ हन्तेरत्पूर्वस्य | ७७० हसादेलध्वकारो• ति तुक् ११५८ हन्तेरात्मनेपदे पधस्य वा वृद्धिः |१४३८ हखाच क्यप् सिः किद्वाच्यः सेटिसौ वाच्या | ४७३ ह्रखादेशे संध्य. Page #303 -------------------------------------------------------------------------- ________________ अकारादिवर्णक्रमः क्रमाङ्कः सूत्राणि. क्रमाङ्कः सूत्राणि. क्रमाङ्कः सूत्राणि. 'क्षराणामिकारो-१०५२ ह्वयतेरङि संप्र- प्रसारणस्य श्वय कारौ च वक्तव्यौ ___ सारणं युगभाव- तेरडि क्रमाद्गुण२३२ , श्च वक्तव्यः कृत- वृद्धी वाच्ये १६३ ह्रखो वा स्त्रियाम् सं. ९४२ ह्रादेर्दिश्च समाप्तेयं सूत्राणामकाराद्यनुक्रमणी । Page #304 -------------------------------------------------------------------------- _