________________
१२८
सारस्वतव्याकरणम् । [वृत्तिः२ भविष्ट ॥ ७३१ माङि लुङेव वक्तव्यः ५० ॥ सर्वलकारापवादः ॥ ७३२ मेटः ५१ ॥ माशब्दे प्रयुज्यमाने अटो लोपो भवति ॥ मा हर्यभक्तो भवान् भूत् ॥ ७३३ स्मयोगे भूतार्थता वक्तव्या ५२ ॥ ७३४ मासयोगे लङ् च ५३ ॥ मा स्म भवत् । मा स भूत् । चिती संज्ञाने । ईकार ईदित्कार्यार्थः । पूर्ववतिवादयः । अप् कर्तरि (सू० ६९१) ॥ ७३५ उपधाया लयोः ५४ ॥ धातोरुपधाया लघोर्नामिनो गुणो भवति ॥ चेतति चेततः चेतन्ति १॥ चेतेत् चेतेताम् चेतेयुः २ ॥ चेततु-चेततात् चेतताम् चेतन्तु ३ ॥ अचेतत् अचेतताम् अचेतन् ४॥ द्वित्वम् । चिचेत । कित्वाद्गुणाभावः । चिचिततुः चिचितुः। चिचेतिथ चिचितथुः चिचित । चिचेत चिचितिव चिचितिम ५॥ कित्वाद्गुणाभावः । चित्यात् चित्यास्ताम् चित्यासुः ६॥ चेतिता चेतितारौ चेतितारः ७ ॥ चेतिष्यति चेतिष्यतः चेतिष्यन्ति ८॥ अचेतिष्यत् अचेतिष्यताम् अचेतिष्यन् ९॥ चित् सित् इति स्थिते । सिसता (सू० ७२०) इतीट् ॥ ७३६ सेः ५५ ॥ सिशब्दात्परयोर्दिस्योरिडागमो भवति ॥ ७३७ इट ईटि ५६ ॥ इट उत्तरस सेलोपो भवति ईटि परे ॥ अचेतीत् अचेतिष्टाम् ॥ ७३८ साविदाः ५७ ॥ सेराकारान्ताद्विदश्चोत्तरस्यान उस् भवति ॥ अचेतिषुः । अचेतीः अचेतिष्टम् अचेतिष्ट । अचेतिषम् अचेतिष्व अचेतिष्म । च्युतिर आसेचने । इर् अनुबन्ध इरितो वेति विशेषणार्थः । उच्चारितप्रध्वंसो ह्यनुबन्धः । च्योतति । च्योतेत् । च्योततु । अच्योतत् । च्युत् णप् द्वित्वम् ॥ ७३९ पूर्वस्य हसादिः शेषः ५८ ॥ पूर्वस्यादिहसू शिष्यते अन्यो लुप्यते । चुच्योत चुच्युततुः चुच्युतुः । चुच्योतिथ चुच्युतथुः चुच्युत । चुच्योत चुच्यु