________________
सू०७४०-७५०] भ्वादयः परस्मैपदिनः १
१२९
तिव चुच्युतिम । च्युत्यात् । च्योतिता । च्योतिष्यति । अच्योतिष्यत् । अच्योतीत् अच्योतिष्टाम् अच्योतिषुः । अच्योतीः अच्योतिष्टम् अच्योतिष्ट । अच्योतिषम् अच्योतिष्व अच्योतिष्म ।। ७४० इरितो वा ५९ ॥ इरितो धातोर्वा ङः प्रत्ययो भवति दिबादिपरः परस्मैपदे । सेरपवादः । उकारो गुणप्रतिषेधार्थः । अच्युतत् अच्युतताम् अच्युतन् । अच्युतः अच्युततम् अच्युतत । अच्युतम् अच्युताव अच्युताम । श्युतिर क्षरणे । श्योतति । श्योतेत् । श्योततु । अन्योतत् । द्वित्वम् ॥ ७४१ शसात् खपाः ६० ॥ द्विर्वचने कृते यत्पूर्वरूपं तस्य शसादुत्तराः खपाः शिष्यन्ते न शसाः ॥ इति चकारशेषः । चुश्श्योत चुश्च्युततुः चुश्च्युतुः ।
युत्यात् । श्योतिता श्योतिष्यति । अश्श्योतिष्यत् अश्चयुतत् अश्योतीत् । मन्थ विलोडने । मन्थति । मन्थेत् । मन्थतु अमन्थत् । ममन्थ ॥ ७४२ नो लोपः ६१॥ धातोरुपधाभूतस्य नकारस्य लोपो भवति किति ङिति च परे ॥ इत्युपधानकारलोपे प्राप्ते ॥ ७४३ ऋसंयोगात् णादेरकित्त्वं वाच्यम् ६२ ॥ तेन नलोपो न । ममन्थतुः ममन्युः । ममन्थिथ ममन्थथुः ममन्थ । ममन्थ ममन्थिव ममन्थिम ॥ ७४४ केचित्संयोगाद्वेति वक्तव्यम् ६३ ॥ ममथतुः ममथुः । नो लोपः ( सू० ७४२) मथ्यात् । मन्थिता । मन्थिष्यति । अमन्थिष्यत् । अमन्थीत् अमन्थिष्टाम् अमन्थिषुः । पुथि लुथि मथि कुथि हिंसासंक्लेशनयोः ॥ ७४५ इदितो नुम् ६४ ॥ इदितो धातोर्नुमागमो भवति ॥ कुन्थति कुन्थेत् कुन्थतु अकुन्थत् । द्वित्वम् ॥ ७४६ कुहोश्रुः ६५ ॥ पूर्वसंबन्धिनोः कवर्गहकारयोश्चुत्वं भवति वर्गचतुर्थो हस्य सवर्णः । चुकुन्थ चुकुन्थतुः चुकुन्थुः । चुकुन्थिथ चुकुन्थथुः चुकुन्थ । चुकुन्थ चुकु
पो भवति
देरकित्वं वाला ममन्थ