________________
सारस्वतव्याकरणम् ।..
. [वृत्तिः २
थिव चुकुन्थिम । लघूपधत्वाभावान गुणः ॥ ७४७ इदितो नलोपाभावो वाच्यः ६६ ॥ कुन्थ्यात् । कुन्थिता । कुन्थिष्यति । अकुन्थिष्यत् । अकुन्थीत् अकुन्थिष्टाम् अकुन्थिषुः । पिधु गत्याम् । उकार उच्चारणार्थः ॥ ७४८ आदेः ष्णः स्वः ६७ ॥ षोपदेशस्य नोपदेशस्य च धातोरादौ वर्तमानयोः षकारणकारयोः सकारनकारौ भवतः ॥
सेक्सृप्सस्तृसृजस्तृस्त्यान्ये दन्त्याजन्तसादयः ।
एकाचः षोपदेशाः प्वकस्विद्खदखखपसिङः॥१॥ - सेकृ गतौ सूपू गतौ । सृ गतौ । स्तृ आच्छादने ।सृज् विसर्गे । स्तृ छादने । स्त्यै ष्टयै शब्दसंघातयोः । एभ्योऽन्ये दन्त्याजन्तसादयः एकाचः षोपदेशाः । दन्ते भवो दन्त्यः दन्त्यश्च अच्च दन्त्याचौ तौ अन्तौ यस्य स दन्त्याजन्तः स चासौ सश्च दन्त्याजन्तसः स आदिर्येषां ते दन्त्याजन्तसादयः । दन्त्यः केवलदन्त्यः न तु दन्तोष्ठजोऽपि वष्कादीनां पृथग्रहणात् । ष्वष्क गतौ । निविदा गात्रप्रक्षरणे । खद् आखादने । खञ् परिष्वङ्गे । जिष्वप् शये । स्मिङ् ईषद्धसने। एते षोपदेशाः । णोपदेशास्त्वननाटिनाथनानन्दनकनृनृतः ॥ नदं गतौ । नट नर्तने । नाथ् नाध् याच्लोपतापैश्व. र्याशीष्षु । टुनदि समृद्धौ । नक नाशने । न नये । नृती गात्रवि. क्षेपे । एभ्योऽन्ये णोपदेशाः॥
नकारजावनुखारपञ्चमौ झलि धातुषु । . सकारजः शकारश्च पादृवर्गस्तवर्गजः ॥३॥ - ७४९ नामधातुष्ट्यैवष्कष्ठिवां षः सो नेति वाच्यम् ६८॥ गुणः । सेधति । निपूर्वः ॥ ७५० प्रादेश्च तथा तौ सुनमाम्