________________
सू०७५१-७६३] भ्वादयः परस्मैपदिनः १
१३१
६९ ॥ प्रादेरुपसर्गात्परेषां खादीनां नमादीनां च धातूनां सकारनकारयोस्ती पूर्वभाविनावेव षकारणकारौ भवतः षत्वणत्वनिमित्ते सति ॥ निषेधति । सेधेत् । सेधतु । अड्व्यवधानेऽपि षत्वम् । न्यषेधत् । द्वित्वव्यवधानेऽपि षत्वम् । निषिषेध । सिषिधतुः । सिषिधुः । सिषेधिथ । सिध्यात् । सेधिता सेधिष्यति । असेधिष्यत् । असेधीत् असेधिष्टाम् असेधिषुः । षिधू शास्त्रे माङ्गल्ये च । ऊकार इडिकल्पार्थः । सेधति । सेधेत् । सेधतु । असेधत् । सिषेध सिध्यात् ॥ ७५१ ऊदितो वा ७० ॥ ऊदितो धातोः परस्य वसादेरिड्या भवति ॥७५२ स्वसूतिसूयतिधूम्रधादीनामिडा वक्तव्यः ७१ ॥ स्वृ शब्दे । षूङ् प्राणिगर्भविमोचने । धूङ् प्रसवे । धूञ् कम्पने । रधू हिंसायाम् । नर् अदर्शने । तृप् प्रीणने । तृप् हर्षविमोचनयोः । द्रुह जिघांसायाम् । मुह वैचित्ये । ष्णुह उद्गिरणे। निह प्रीतौ । एते रधादयः । सेधिता । पक्षे ॥ ७५३ तथोर्धः ७२ ॥ दधाति विना झभान्ताद्धातोः परयोस्तकारथकारयोर्धकारादेशो भवति ॥ झबे जबाः ( सू० ३५) सेद्धा । सेधिष्यति-सेत्स्यति । असेधिष्यत्-असेत्स्यत् । असेधीत् असेधिष्टाम् असेधिषुः । इडभावे ॥ ७५४ अनिटो नामिवतः ७३ ॥ नामिवतोऽनिटो धातोः परस्मैपदे परे सिप्रत्यये वृद्धिर्भवति ।। चपत्वम् । सेः (सू० ७३६) असैत्सीत् असैद्धाम्॥७५५प्रत्ययलोपे प्रत्ययलक्षणं कार्य भवति ७४ ॥७५६ झसात् ७५ ॥ झसादुत्तरस्य सेलोपो भवति झसे परे ॥ असैत्सुः । असैत्सीः असैद्धम् असैद्ध । असैत्सम् असैत्ख असैत्म । खद स्थैर्ये हिंसायां च । खदति । खदेत् । खदतु । अखदत् ॥ ७५७ अत उपधायाः ७६ ॥ धातोरुपधाया अकारस्य वृद्धिर्भवति निति णिति च परे ॥ त्वम् ।