SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ १३२ सारस्वतव्याकरणम् । [वृत्तिः २ चखाद चखदतुः चखदुः । चखदिथ चखदथुः चखद ॥ ७५८ गलुत्तमो वा णिद्वक्तव्यः ७७ ॥ चखाद-चखद चखदिव चखदिम । खद्यात् । खदिता । खदिष्यति । अखदिष्यत् ॥ ७५९ णित्पे ७८ ॥ परस्मैपदे परे सिणिद्भवति । अत उपधायाः (सू० ७५७ ) इति वृद्धिः । अखादीत् अखादिष्टाम् अखादिषुः ॥ ७६० हसादेर्लघ्वकारोपधस्य वा वृद्धिः सेटि सौ वाच्या ७९ ॥ अखदीत् । गद् व्यक्तायां वाचि । गदति ॥ ७६१ उपसर्गस्थानिमित्तानेर्गदादौ णत्वं वाच्यम् ८० ॥ 'गद् नद् पत् पदू स्था अपित् दा धा मा सो हन् या वा द्रा प्सा वा वह चि शम् दिह् एते गदादयः । गद् व्यक्तायां वाचि । नद् अव्यक्ते शब्दे । पत्ल पतने । पद् गतौ । ष्ठा गतिनिवृत्तौ । डुदाञ् दाने । डुधाञ् धारगपोषणयोः । माङ् माने । षोऽन्तकर्मणि । हन् हिंसागत्योः। या मापणे । वा गतिगन्धनयोः । द्रा कुत्सायां गतौ च । प्सा भक्षणे। टुवम् बीजतन्तुसन्ताने । वह प्रापणे । चिञ् चयने । शम् उपशमे । दिह उपचये । प्रणिगदति । गदेत् । गदतु । अगदत् । कुहोश्चः (सू० ७४६) जगाद जगदतुः जगदुः । जगदिथ जगदथुः जमद । गद्यात् गदिता । गदिष्यति । अगदिष्यत् । अगादीत्-अगदीत् । रद विलखने । रदति । रदेत् । रदतु । अरदत् रराद ।। ७६२ लोपः पचा कित्ये चास्य ८१ ॥ पचादीनामनादेशादीनां किति णादौ सति पूर्वस्य लोपः । असंयुक्तहसयोर्मध्यस्थस्याकारस्यैकारः ॥ रेदतुः रेदुः ॥ ७६३ सेटि थपि एत्पूर्वलोपौ वक्तव्यौ ८२ ॥ रेदिथ रेदथुः रेद । रराद-ररद रेदिव रेदिम । रद्यात् । रदिता । रदिष्यति । अरदिष्यत् । अरादीत् अरादिष्टाम् अरादिषुः । अरदीत् । णद् अव्यक्ते शब्दे । आदेः ष्णः सः (सू० ७४८)
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy