________________
सू० ७६४-७७३] भ्वादयः परस्मैपदिनः १
१३३
1
नदति । नदेत् । नदतु । अनदत् । प्रपूर्वः । प्रादेश्व ( सू० ७५० ) इति णत्वम् । प्रणदति । गदादित्वात् प्रणिनदति । ननाद नेदतुः नेदुः । नेदिथ नेदधुः नेद । ननाद-ननद नेदिव नेदिम । नद्यात् । नदिता । नदिष्यति । अनदिष्यत् । अनादीत् अनादिष्टाम् अनादिषुः । अनदीत् अनदिष्टाम् । अर्द गतौ याचने च । अर्दति अर्देत् । अर्दतु। आर्दत् । द्वित्वे कृते । आवोर्णादौ ( सू० ७१२ ) आ अर्द इति स्थिते || ७६४ नुगशाम् ८३ ॥ अश्वोर्ककारादिधातूनां संयोगान्ताकारादिधातूनां च पूर्वस्य नुगागमो भवति णादौ सति || आनर्द आनर्दतुः आनर्दुः । आनर्दिथ आनर्दधुः आनर्द | आनर्द आनर्दिव आनर्दिम । अर्थात् । अर्दिता । अर्दिष्यति । आर्दिष्यत् । आर्दीत् आर्दिष्टाम् आर्दिषुः । इदि परमैश्वर्ये । इन्दति । इन्देत् । इन्दतु ।। ७६५ स्वरादेः ८४ ॥ स्वरादेर्धातोर्द्वितीयोऽडागमो भवति दिबादौ परे ॥ अ इ ए (सू०४३) ए ऐ ऐ (सू० ४४ ) ऐन्दत् । इन्द् प् इति स्थिते ॥ ७६६ कासादिप्रत्ययादाम्कृअस्भूपरः ८५ || कास्आसूदय् अय्नाम्यादिगुरुमद्धात्वनेकखरधातुभ्यः प्रत्ययान्ताच्च णबादौ परे आम् प्रत्ययो भवति कृ-अस्-भूपरः प्रयोक्तव्यः ॥ कास्ट दीप्तौ । आस् उपवेशने । दयू दानगतिहिंसादानेषु । अय् गतौ । एते कासादयः ॥ ७६७ विद्दरिद्राकास्काशजागृउष एभ्यो वाम् ८६ ॥ विद् ज्ञाने । दरिद्रा दुर्गतौ । काश विकचने । जागृ निद्राक्षये । उष दाहे । एते विदादयः । इन्दां कृ-ण प् इति स्थिते । कृ इत्येतस्य द्वित्वम् ॥ ७६८ रः ८७ ॥ पूर्वसंबन्धिन ऋकारस्याकारो भवति ॥ चुत्वम् ॥ ७६९ धातोर्नामिनः ८८ ॥ धातोरन्त्यभूतस्य नामिनो वृद्धिर्भवति ञिति णिति च परे । इन्दांचकार इन्दांचक्रतुः इन्दां चक्रुः । क्रादि
1