SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ सू० ७२३–७३९ ] भ्वादयः परस्मैपदिनः १ १२७ भविष्येथे भविष्यध्वे । भविष्ये भविष्यावहे भविष्यामहे । सावर्णी राज्यं भविष्यते ॥ ७२३ स्यप क्रियातिक्रमे ४२ ॥ धातोः क्रियाया अतिक्रमे कुतश्चिद्वैगुण्यादनिष्पत्तौ सत्यां दिवादिपरः स्याप् प्रत्ययो भवति भविष्येऽर्थे क्वचिद्भूतेऽपि ॥ अस्य संज्ञा लइ ॥ अडागमः । अभविष्यत् अभविष्यद् अभविष्यताम् अभविष्यन् । अभविष्यः अभविष्यतम् अभविष्यत । अभविष्यम् अभविष्याव अभविष्याम । यदि सुवृष्टिः सुराज्यं चाभविष्यत्तदा सुभिक्षमभवि - ष्यत् । अभविष्यत अभविष्येताम् अभविष्यन्त । अभविष्यथाः अभविष्येथाम् अभविष्यध्वम् । अभविष्ये अभविष्यावहि अभविप्यामहि । यद्यभविष्यत द्रव्यं भवांस्तदा रम्यमभविष्यत ॥ ७२४ भूते सिः ४३ ॥ धातोर्भूतमात्रे काले सिः प्रत्ययो भवति दिवादिपरः ॥ अस्य संज्ञा लुङ् ॥ इकारः सेरिति विशेषणार्थः । अभूस् त् इति स्थिते ॥ ७२५ दादेः पे ४४ ॥ परस्मैपदे परे अपत् दाधास्थेण भूपिबतिभ्यः परस्य सेलोंपो भवति ॥ ७२६ शाच्छासाघाटो वेति वक्तव्यम् ४५ ॥ ७२७ भुवः सिलोपो लुग्वाच्यः ४६ ॥ लुकि न तन्निमित्तम् (सू० १७९ ) तेन गुणेड्वृद्धयो न । अभूत् अभूताम् ॥ ७२८ भुवः सिलोपे खरे वुग्वक्तव्यः ४७ ॥ अभुवन् । अभूः अभूतम् अभूत । अभूवम् अभूव अभूम । अभूदृष्टिः । आत्मनेपदे । सिः इट् गुणावौ षत्वं ष्टुत्वं अटू । अभविष्ट अभाविषाताम् ॥ ७२९ आतोऽन्तोऽदनतः ४८ ॥ आत आत्मनेपदस्यान्त इत्येतस्याद्भवति अकारादुत्तरस्य तु न ॥ अभविषत । अभविष्ठाः अभविषाथाम् ॥ ७३० ध्वे च सेर्लोपः ४९ ॥ ध्वे परे सेर्लोपो भवति ॥ सस्य वा द इति केचित् । अभविध्वम्-अभविदम् । अभविषि अभविष्वहि । अभविष्महि । देवदत्तो राज्यम 1
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy