SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ १२६ सारखतव्याकरणम् । [वृत्तिः २ तासी स्यप् इत्येतेषामिडागमो भवति ॥ गुणावादेशौ। षत्वम् । भविषीष्ट भविषीयास्ताम् भविषीरन् । भविषीष्ठाः भविषीयास्थाम् भविपीध्वम् । सीव्यवधानेऽपि ढत्वम् । भविषीढ़म् । भविषीय भविषीवहि भविषीमहि । हरिभक्ति भविषीष्ठाः ॥ ७२१ श्वस्तने ४० ॥ श्वो आगतेऽह्नि भाविन्यर्थे तादयो भवन्ति ॥ एषां संज्ञा लुट् ॥ ॥परस्मैपदानि ॥ एकवचनानि । द्विवचनानि । बहुवचनानि । प्रथमः ता. तारौ तारस् मध्यमः तासि तास्थस् तास्थ उत्तमः तामि ताखस् तासस ॥ आत्मनेपदानि ॥ प्रथमः ता तारौ तारस् मध्यमः तासे तासाथे ताध्वे उत्तमः ताहे ताखहे तास्महे इड्गुणावः । भविता भवितारौ भवितारः । भवितासि भवितास्थः भवितास्थ । भवितास्मि भविताखः भवितास्मः । श्वस्ते हरिः प्रत्यक्षो भविता । भविता भवितारौ भवितारः । भवितासे भवितासाथे भविताध्वे । भविताहे भवितावहे भवितास्महे । श्वो हरि भवितासे ॥ ७२२ त्यादौ भविष्यति स्थप ४१ ॥ धातोर्भविष्यति काले स्यप् प्रत्ययो भवति तिबादिष्वष्टादशसु परेषु ॥ अस्य संज्ञा लट् ॥ भविष्यति भविष्यतः भविष्यन्ति । भविष्यसि भविन्यथः भविष्यथ । भविष्यामि भविष्यावः भविष्यामः । कल्किधर्मप्रवर्तको भविष्यति । भविष्यते भविष्यते भविष्यन्ते । भविष्यसे १ परस्मैपदेष्वात्मनेपदेषु चेति नेयम् । साय
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy