________________
सू० ७१७-७२२ ] भ्वादयः परस्मैपदिनः १
१२५
डुभृञ् धारणपोषणयोः । वृञ् संवरणे । द्रु गतौ । श्रु श्रवणे । नु प्रस्रवणे । ष्टुञ् स्तुतौ । कृसृभृवृदुश्रुतुस्तु इत्येतस्मात्परस्य वसादे - र्णादेर्गणस्येट् न भवत्यन्यस्माद्भवतीति नियमादनिटोsपीडागमः । 'यदागमास्तद्गुणीभूतास्तग्रहणेन गृह्यन्ते' इति न्यायादिटोऽपि बा - द्यन्तत्वेन थपि वुक् । बभूविथ बभूवथुः बभूव । बभूव बभूविव बभूविम । बलिर्बलवान् बभूव । बभूवे बभूवाते बभूविरे । बभूविषे बभूवाथे ॥ ७१७ नामिनोऽचतुर्णां धो ढः ३६ ॥ नाम्यन्ताद्धातोरुत्तरस्य तिबादिचतुष्कव्यतिरिक्तस्य लिङो लुलिटोश्च धस्य ढो भवति ॥ अत्र सेटो हलाद्वेति वक्तव्यम् ॥ बभूविध्वे- बभूविदवे । बभूवे बभूविवहे बभूविमहे । रामो राज्यं बभूवे ॥ ७९८ आशिषि ॥ धातोराशिषि यादादयो भवन्ति ॥ एषां संज्ञा लिङ् ॥
1
एकवचनानि ।
॥ परस्मैपदानि ॥ द्विवचनानि ।
प्रथमः यात्
मध्यमः
यास्
उत्तमः
यासम्
यास्ताम्
यास्तम्
याख
॥ आत्मनेपदानि ॥
सीष्ट
सीष्ठास्
बहुवचनानि ।
यासुस्
यास्त
यास्म
प्रथमः
सीयास्ताम्
मध्यमः
सीयास्थाम् सीवहि
उत्तमः सीय
७१९ आशीर्वादादेः पं किदिति वक्तव्यम् ३८ ॥ ततो गुणाभावः । भूयात् भूयास्ताम् भूयासुः । भूयाः भूयास्तम् भूयास्त । भूयासम् भूयाख भूयास्म । स श्रीमान् भूयात् । भू सीष्ट इति स्थिते ॥ ७२० सिसतासीस्यपामिट् ३९ ॥ धातोः परेषां सिस
सीरन्
सीध्वम्
सीमहि