________________
सू०९०४-९११] अदादिषु परस्मैपदिनः ४
१६३
९०४ मृजेर्गुणनिमित्ते प्रत्यये परे वृद्धिर्वाच्या किति डिति खरे वा २५ ॥ षत्वम् ष्टुत्वम् ॥ ९०५ रात्सस्य २६ ॥ रेफादुत्तरस्य सस्येव लोपः स्यान्न त्वन्यस्य ॥ मार्टि मृष्टः मृजन्ति-मार्जन्ति । मार्कि मृष्टम् मृष्ट । मामि मृज्वः मृज्मः । मृज्यात् । माष्टुं मृष्टात् मृष्टाम् मृजन्तु मार्जन्तु । मृड़ि-मृष्टात् मृष्टम् मृष्ट । मार्जानि मार्जाव मार्जाम । अमाई-अमाई अमृष्टाम् अमृजन् अमार्जन् । अमा-अमाई अमृष्टम् अमृष्ट । अमार्जम् अमृज्व अमृज्म । ममार्ज ममृजतुः-ममार्जतुः ममृजुः ममार्जुः । ममार्जिथ-ममार्छ ममृजथुः-ममार्जथुः । मृज्यात् । मार्जिता-माष्ट। मार्जिष्यति-मायति । अमार्जिष्यत्-अमा_त् । अमार्जीत् अमार्जिष्टाम् अमार्जिषुः । अमाीत् अमाम् अमाद्दुः । वच परिभाषणे । वक्ति वक्तः॥ ९०६ नहि वचिरन्तिपरः प्रयोक्तव्यः किंतु वदन्तीत्युच्चारणीयम् २७ ॥ वदन्ति । वक्षि वक्थः वक्थ । वच्मि वच्वः वच्मः । वच्यात् । वक्तु-वक्तात् वक्ताम् वचन्तु । वग्धि-वक्तात् वक्तम् वक्त । अवक्-अवग् अवक्ताम् अवचन् । अवक्-अवग् अवक्तम् अवक्त । अवचम् अवच्च अवच्म । णबादौ पूर्वस्य (सू० ८३० ) उवाच । यजां यवराणां रवृतः संप्रसारणम् (सू० ८३१) ऊचतुः ऊचुः । उवचिथ-उवक्थ । उच्यात् । वक्ता वक्ष्यति । अवक्ष्यत् ॥ अस्यतिवक्ति (सू० ८७८) इति ङः ॥ ९०७ डे वचेरुमागमो वक्तव्यः २८ ॥ उ ओ (सू० ४५) अवोचत् अवोचताम् अवोचन् । रुदिर अश्रुविमोचने ९०८ रुदादेश्चतुर्णा ह्रसादेः २९ ॥ रुदादेः परेषां तिबादिचतुर्णी मध्ये हकारवसादेः प्रत्ययस्येद् भवति ॥
रोदितिः स्वपितिश्चैव श्वसितिः प्राणितिस्तथा । जक्षितिश्चैव विज्ञेयो रुदादिपञ्चको गणः ॥ १९॥