SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ १६४ सारस्वतव्याकरणम् । [वृत्तिः २ रोदिति रुदितः रुदन्ति । रोदिषि रुदिथः रुदिथ । रोदिमि रुदिवः रुदिमः । रुद्यात् । रोदितु-रुदिताद्वा रुदिताम् रुदन्तु रुदिहि-रुदिताद्वा रुदितम् रुदित । रोदानि रोदाव रोदाम ॥ ९०९ रुदादेर्दिस्योरीधटौ च वक्तव्यौ ३० ॥ अरोदीत् अरोदत् । रुरोद रुरुदतुः । रुद्यात् । रोदिता । रोदिष्यति । अरोदिष्यत् । अरोदीत् । इरितो वा (सू० ७४०) अरुदत् । जिष्वप् शये । जि इत् । खपिति । खप्यात् । खपितु-खपिताद्वा । अस्वपीत् । अखपत् । संप्रसारणम् । सुष्वाप सुषुपतुः सुषुपुः । सुष्वपिथ-सुष्वप्थ । सुप्यात् । खप्ता। खप्स्यति । अखप्स्यत् अखाप्सीत् अवाप्ताम् अखाप्सुः। श्वस् प्राणने । श्वसिति । श्वस्यात् । श्वसितु । अश्वसीत् । अश्वसत् अश्वसिताम् अश्वसन् । शश्वास शश्वसतुः शश्वसुः । श्वस्यात् । श्वसिता । श्वसिष्यति । अश्वासष्यत् । यन्तक्षण (सू० ७८०) इति वृद्ध्यभावः । अश्वसीत् । अन प्राणने ॥ ९१० अनिति ३१ ॥ प्रपूर्वः । [ उपसर्गस्थानिमित्तादनितेर्नस्य णत्वं वाच्यम् ] ॥प्राणिति । अन्यात् । अनितु । आनीत् । आनत् । आन आनतुः आनुः । अन्यात् । अनिष्यति । आनिष्यत् । आनीत् आनिष्टाम् आनिषुः। जक्षभक्षहसनयोः । जक्षिति जक्षितः ॥ ९११ जक्षादेरन्तोऽदन उस् ३२ ॥ जक्षजागृदरिद्राशास्चकासृभ्यः परस्य अन्त अत् अन उस् भवति ॥ जक्षति जक्षिषि । जक्ष्यात् । जक्षितु । अबक्षीत् । अजक्षत् । जजक्ष । जक्ष्यात् । जक्षिता । जक्षिष्यति । अजक्षिष्यत् । अजक्षीत् । जागृ निद्राक्षये । जागर्ति जागृतः जाग्रति । जागर्षि । जागृयात् । जागर्तु-जागृतात् जागृताम् जाग्रतु । जागृहिजागृताद्वा जागृतम् जागृत । जागराणि जागराव जागराम । गुणः (सू० ६९२) । दिस्योर्हसात् (सू० ८८५) स्रोविसर्गः (सू०.
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy