SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ सू० ९१२-९१९] अदादिषु परस्मैपदिनः ४ १२४) अजागः अजागृताम् ॥ ९१२ उस जागर्तेर्धातोर्गुणो वक्तव्यः ३३ ॥ अजागरुः । अजागः अजागृतम् अजागृत । अजागरम् अजागृव अजागृम । जजागार ॥ ९१३ जागतेः किति गुणो वक्तव्यः ३४ ॥ जजागरतुः । जजागरुः । जजागरिथ जजागरथुः जजागर । जजागार - जजागर जजागरिव जजागरिम | विद् (सू० ७६७ ) इति पक्षे आम् । जागरांचकार जागरामास जागरांबभूव । जागर्यात् । जागरिता । जागरिष्यति । अजागरिष्यत् । ह्रयन्तक्षण ( सू० ७८० ) इति न वृद्धिः । अजागरीत् । दरिद्रा दुर्गतौ । दरिद्राति ॥ ९१४ दरिद्रातेरिदालोपश्च ङिति ३५ | दरिद्रातेराकारस्य लोपो भवति ङिति खरे परे इकारश्च ङिति हसे परे ॥ दरिद्रतः दरिद्रति । दरिद्रासि दरिद्रिथः दरिद्रिथ । दरिद्रामि दरिद्रिवः दरिद्रिमः । दरिद्रियात् । दरिद्रातु - दरिद्रताद्वा दरिद्रताम् दरिद्रतु । दरिद्राहि दरिद्रताद्वा दरिद्रतम् दरिद्रित । दरिद्राणि दरिद्राव दारद्राम । अदरिद्रात् अदरिद्रिताम् अदरिद्रुः । अदरिद्राः अदरिद्रितम् अदरिद्रित । अदरिद्राम् अदरिद्रिव अदरिद्रिम || ९१५ ण वुणसयुटो हित्वा अन्यस्माद्दरिद्रातेरनप्यालोपो लुङि वा ३६ ॥ ददरिद्रौ ददरिद्रतुः ददरिदुः । ददरिद्रिथ ददरिद्रथुः । पक्षे । दरिद्राञ्चकार । दरिद्र्यात् । दरिद्रता । दरिद्विष्यति । अदरिद्विष्यत् । अदरिद्रीत् अदरिद्रिष्टाम् अदरिद्विषुः । पक्षे । अदरिद्रासीत् अदरिद्रासिष्टाम् अदरिद्रासिषुः । शास् अनुशिष्टौ । शास्ति । ९१६ शासेरिः ३७|| कितीत्यनुवृत्तम् । शास्तेराकारस्येकारादेशो भवति किति ङिति हसे ङे च परे ॥ घसादेः षः ( सू० ८३२) शिष्टः शासति । शास्ति शिष्टः शिष्ट । शास्मि शिष्वः शिष्मः । शिष्यात् । शास्तु १६५
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy