SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ २० सारस्वतव्याकरणम् । [वृत्तिः १ शेषणार्थः । चकारस्येत्संज्ञायां तस्य लोपः । देव अस् इति स्थिते । दीर्घविसर्गौ । देवाः ॥ १२५ अकाराजसोऽसुक् कचिद्वक्तव्यश्छन्दसि ५॥ कित्त्वादन्ते । देवासः । ब्राह्मणासः । द्वितीयैकवचने देव अम् इति स्थिते ॥ १२६ अम्शसोरस्य ६॥ समानादुत्तरयोरमशस्रोरकारस्य लोपो भवत्यधातोः । देवम् । पूर्ववत् देवौ । बहुवचने देव शस् इति स्थिते । ककरानुबन्धः शसि (सू० १२८) इति विशेषणार्थः ॥ १२७ सो नः पुंसः ७॥ पुंलिङ्गात्समानादुत्तरस्य शसः सकारस्य नकारादेशो भवति ॥ १२८ शसि ८ ॥ शसि परे पूर्वस्य दीर्घो भवति ॥ १२९ यदादेशस्तद्वद्भवति ९ ॥ देवान् । तृतीयैकवचने देव टा इति स्थिते । टकारानुबन्धः टेन ( सू० १३० ) इति विशेषणार्थः ॥ १३० टेन १० ॥ अकारात्परष्टा इन भवति । अ इ ए (सू० ४३ ) देवेन ॥ १३१ अद्भि ११ ॥ अकार आ भवति भकारे परे । देवाभ्याम् । देव भिस् इति स्थिते ॥ १३२ भ्यः १२ ॥ अकारात्परस्य भिसो भकारस्याकारो भवति । अ इ ए (सू० ४३) वृद्धिविसर्जनीयौ । देवैः ॥ १३३ अकारस्य भिसि छन्दस्येकारो वक्तव्यः १३ ॥ देवेभिः । कमिः । चतुर्थ्येकवचने देव डे इति स्थिते । डकारो डिकायोथैः सर्वत्र ॥ १३४ डे अक् १४ ॥ अकारात्परस्य डे इत्येतस्यागागमो भवति । कित्वादन्ते । ए अय् (सू० ४१) सवर्णे दीर्घः । देवाय । देवाभ्याम् ॥ १३५ एस्भि बहुत्वे १५ ॥ अकारस्य एवं भवति सकारे भकारे च परे बहुत्वे सति । देवेभ्यः । पञ्चम्येकवचने देव सि इति स्थिते । इकारः प्रत्ययभेदज्ञापनार्थः । १ उचरितप्रध्वंसो अनुबन्धः।
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy