________________
सू० १३६-१५१] स्वरान्ताः पुंलिङ्गाः ६
१३६ ङसिरत १६॥ अकारात्परो ङसिरत् भवति । देवात् । देवाभ्याम् । देवेभ्यः । षष्ठयेकवचने देव ङस् इति स्थिते ।। १३७ उसस्य १७ ॥ अकारात्परो ङस् स्यो भवति । देवस्य ॥ १३८ ओसि १८ ॥ अकारस्य ओसि परे एत्वं भवति । ए अय् (सू० ४१) देवयोः ॥ १३९ नुडामः १९ ॥ समानात्परस्यामो नुडागमो भवति । टित्वादादौ । उकार उच्चारणार्थः॥१४० नामि २० ॥ नामि परे पूर्वस्य दीर्घो भवति । देवानाम् । सप्तम्येकवचने देव ङि इति स्थिते । अ इ ए (सू० ४३ ) देवे । देवयोः । बहुत्वविवक्षायां देव सुप् इति स्थिते पकारः पित्कार्यार्थः। ( पकारस्येत्संज्ञायां लोपः ) इत्येत्वे कृते । एस्भि बहुत्वे (सू० १३५ ) ॥१४१ किलापः सः कृतस्य २१ ॥ कवर्गादिलाच प्रत्याहारादुत्तरस्य केनचित्सूत्रेण कृतस्य सकारस्य षकारादेशो भवति । अन्ते स्थितस्य तु न भवति । देवेषु ॥ १४२ आमन्त्रणे सिर्धिः २२॥ आमन्त्रणमभिमुखीकरणं तस्मिन्नर्थे विहितः सिर्घिसंज्ञो भवति ।। १४३ समानाद्धेर्लोपोऽधातोः २३ ॥ समानादुत्तरस्य धेर्लोपो भवत्यधातोः । इखात्समानादुत्तरस्येति ज्ञेयम् ॥ १४४ आभिमुख्याभिव्यक्तये हेशब्दस्य प्राक् प्रयोगः २४ ॥ हे देव हे देवौ हे देवाः ॥ एवं घटपटस्तम्भकुम्भादयोऽप्यकारान्ताः पुंलिङ्गाः । अकारान्तानामपि सर्वादीनां तु विशेषः । सर्व विश्व उभ उभय अन्य अन्यतर इतर इतर डतम कतर कतम सम सिम मेम एक पूर्व पर अवर दक्षिण उत्तर अपर अधर ख अन्तर त्वद् तद् यद् एतद् इदम् अदसू द्वि किम् युष्मत् असत् भवत् । एते सर्वदयस्त्रिलिङ्गाः । तत्र पुंलिङ्गे रूपनयः । अकारान्तः सर्वशब्दः । सर्वः सर्वो ॥ १४५ जसी २५॥ सर्वादेरकारान्तात्परो