SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ सारस्वतव्याकरणम् । - [वृत्तिः १ जसू ई भवति (गुरुः शिच सर्वस्य वक्तव्यः)। अइए (सू० ४३) सर्वे । सर्वम् सौं सर्वान् । पूर्ववत्प्रक्रिया ॥ १४६ रुनॊणोऽनन्ते २६ ॥ षकाररेफऋवर्णेभ्यः परस्य नकारस्य णकारादेशो भवति । अन्ते स्थितस्य न भवति । तेन सर्वानित्यादि । १४७ अवकुपवन्तरेऽपि २७ ।। अवप्रत्याहारेण कवर्गेण पवर्गेण च मध्ये व्यवधानेऽपि भवति नान्येन । सर्वेण सर्वाभ्याम् सर्वैः। चतुर्थंकवचने सर्व डे इति स्थिते ॥ १४८ सर्वादेः सन २८ ॥ सर्वादेरकारान्तात्परस्य चतुर्थ्येकवचनस्य मडागमो भवति । टकारः स्थाननियमार्थः । ए ऐ ऐ ( सू० ४४ ) सर्वस्मै सर्वाभ्याम् सर्वेभ्यः । पञ्चम्येकवचने । सर्व अत् इति स्थिते ॥१४९ अतः २९ ॥ सर्वादेरकारान्तात्परस्यातः स्मडागमो भवति दीर्घः । सर्वस्मात् सर्वाभ्याम् सर्वेभ्यः । सर्वस्य सर्वयोः ॥१५० सुडामः ३० ॥ सर्वादेरवर्णान्तात्परस्यामः सुडागमो भवति । सर्वेषाम् । सप्तम्येकवचने सर्व ङि इति स्थिते ।। १५१ डिमिन् ३१ ॥ सर्वादेरकारान्तात्परो ङि स्मन् भवति । सर्वस्मिन् सर्वयोः सर्वेषु । हे सर्व हे सर्वी हे सर्वे । इत्यादि ॥ एवं विश्वादीनामेकशब्दपर्यन्तानां सर्वशब्दवद्रूपं ज्ञेयम् ॥ डतरडतमौ विहाय तौ प्रत्ययौ ततस्तदन्ताः शब्दा ग्राह्याः । तथैव विश्वशब्दः । विश्वः विश्वौ विश्वे। इत्यादि ॥ उभशब्दो नित्यं द्विवचनान्तः । उभौर उभाभ्याम् ३ उभयोः २ हे उभौ ॥ उभयशब्दस्य द्विवचनाभावादेकवचनबहुवचने भवतः । उभयः उभये । उभयम् उभयान् । उभयेन १ मडादिप्रत्ययेषु टकारः सर्वत्र स्थाननियमार्थः। २ 'एस्भि बहुस्वे सू० १३५' इत्यकारस्येवम् 'किलात्षः सः कृतस्य' सू० ३४१ इति षलम् । ३ आभिमुख्याभिव्यक्तये संबुद्धौ सर्वत्र हेशब्दस्य प्राक्प्रयोगः 'सू० १४४ ।'
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy