________________
सू० १५२ - १५७] स्वरान्ताः पुंलिङ्गाः ६
२३
उभयैः । उभयस्मै उभयेभ्यः । उभयस्मात् उभयेभ्यः । उभयस्य उभयेषाम् । उभयस्मिन् उभयेषु । हे उभय हे उभये ॥ अन्यः अन्यौ अन्ये । इत्यादि ॥ इतरः इतरौ इतरे । इत्यादि । कतरः कतरौ कतरे । इत्यादि । एवमेकशब्द पर्यन्तानां रूपं ज्ञेयम् ॥ पूर्वादीनां तु विशेषः । पूर्वः पूर्वौ ॥ १५२ पूर्वादीनां तु नवानां जस ईकारो वा वक्तव्यः ३२ ॥ पूर्वे-पूर्वाः । पूर्वम् पूर्वी पूर्वान् । पूर्वेण पूर्वाभ्याम् पूर्वैः । पूर्वस्मै पूर्वाभ्याम् पूर्वेभ्यः ॥ १५३ पूर्वादिभ्यो नवभ्यो ङसिङयोः स्मात्स्मिनौ वा वक्तव्यौ ३३ ॥ पूर्वस्मात् - पूर्वात् । पूर्वाभ्याम् पूर्वेभ्यः । पूर्वस्य पूर्वयोः पूर्वेषाम् । पूर्वस्मिन् - पूर्वे पूर्वयोः पूर्वेषु । हे पूर्व हे पूर्वी हे पूर्वे - हे पूर्वाः ॥ एवं परशब्दः । पर परौ परे - पराः । इत्यादि ॥ एवमन्तरशब्दपर्यन्तानां रूपं ज्ञेयम् ॥ सर्वादिः सर्वनामाख्यो न चेद्रौणोऽथवाभिधा ॥ ३० ॥ पूर्वादिश्व व्यवस्थायां समोऽतुल्येऽन्तरोपुर । परिधाने बहिर्योगे खोऽर्थज्ञात्यन्यवाच्यपि ॥ ३१ ॥ १५४ प्रथमचरमतयायडल्पार्धकतिपयनेमानां जसी वा ३४ ॥ प्रथम : प्रथम प्रथमे प्रथमाः । चरमः चरमौ चरमे चरमाः ॥ शेषं देववत् । नेमे-नेमाः ॥ शेषं सर्ववत् । तयायडौ प्रत्ययौ ततस्तदन्ताः शब्दा ग्राह्याः । तयप्रत्ययान्तो द्वितयशब्दः । द्वितयः द्वितयौ द्वितये द्वितयाः । एवं त्रितयशब्दः ॥ अयप्रत्ययान्तो द्वयः त्रयश्च ॥ एवं नेमपर्यन्तानां रूपं ज्ञेयम् ॥ [ तीयस्य सर्ववद्रूपं ङित्सु वा वक्तव्यम् ] | द्वितीयः द्वितीयौ द्वितीयाः । द्वितीयं द्वितीयौ द्वितीयान् ।
१ खाभिधेयापेक्षावधिनियमो व्यवस्था | व्यवस्थायां किम् । दक्षिणा गाथकाः ॥ कुशला इत्यर्थः ।