________________
सारस्वतव्याकरणम् । [वृत्तिः १ द्वितीयेन द्वितीयाभ्याम् द्वितीयैः। द्वितीयस्मै-द्वितीयाय द्वितीयाभ्याम् द्वितीयेभ्यः । द्वितीयस्मात्-द्वितीयात् द्वितीयाभ्याम् द्वितीयेभ्यः । द्वितीयस्य द्वितीययोः द्वितीयानाम् । द्वितीयस्मिन् द्वितीये द्वितीययोः द्वितीयेषु । हे द्वितीय हे द्वितीयौ हे द्वितीयाः । एवं तृतीयः ॥ आकारान्तः पुंलिङ्गो मासशब्दः॥१५५मासस्सालोपो वा ३५॥ मासशब्दस्याकारस्य लोपो वा भवति सर्वासु विभक्तिषु परतः इत्येके ॥ १५६ हसेपः सेर्लोपः ३६ ॥ हसान्तादीबन्ताच्च परस्य सेलोपो भवति । माः-मासः मासौ-मासौ मासः मासाः । मास-मासम् मासौ-मासौ मासः-मासान् । मासा-मासेन । सोर्विसर्गः (सू० १२४) आदबे लोपश् ( सू० १११ ) माभ्यां-मासाभ्याम् माभिः मासैः । मासे-मासाय माभ्यां-मासाभ्याम् माभ्यः-मासेभ्यः । मासः मासात् माभ्यां-मासाभ्याम् माभ्यः-मासेभ्यः । मासः-मासस्य मासोः-मासयोः मासां-मासानाम् । मासि-मासे मासोः-मासयोः मास्सु-मासेषु । हेमाः हेमासः हेमासौ-हेमासौ हेमासः-हेमासाः ॥ आकारान्तः पुंलिङ्गः सोमपाशब्दः । सोमपाः सोमपौ सोमपाः । सोमपाम् सोमपौ ॥ १५७ आतो धातोर्लोपः ३७ ॥ धातुसंबन्धिन आकारस्य लोपो भवति शसादौ खरे परे । सोमपः । किबन्ता धातवो यद्यपि शब्दत्वं प्राप्तास्तथापि धातुत्वं न जहूति । सोमपा सोमपाभ्याम् सोमपाभिः । सोमपे सोमपाभ्याम् सोमपाभ्यः। सोमपः सोमपाभ्याम् सोमपाभ्यः । सोमपः सोमपोः सोमपाम् । सोमपि सोमपोः सोमपासु । अधातोरिति विशेषणाद्धेर्लोपो नास्ति । हेसोमपाः हेसोमपौ हेसोमपाः ॥ एवं कीलालपा, शङ्खध्मा, मधुपा, विश्वपा, धनंदा, वक़दाप्रभृतयः ॥