________________
सू० १५८-१७३] स्वरान्ताः पुंलिङ्गाः ६
२५ क्षीरे पुष्परसे तोये मद्ये मण्डे घृते सजि । सप्तवर्थेषु कीलालं कथयन्ति मनीषिणः ॥ ३२ ॥ आकारान्तो हाहाशब्दः । हाहाः हाहौ हाहाः । हाहाम् हाहौ हाहान् । आदन्ताच्छसो नत्वाभाव इत्येके । तेन हाहाः । सवर्णे दीर्घः सह (सू० ५२ ) हाहा हाहाभ्याम् हाहाभिः । ए ऐ ऐ ( सू० ४४ ) हाहै हाहाभ्याम् हाहाभ्यः । हाहाः हाहाभ्याम् हाहाभ्यः । हाहाः हाहौः । 'आकारान्तेषु आबन्तानामेव नुडागमो नान्येषाम्' इति नियमात् । सवर्णे दीर्घः सह (सू० ५२) हाहाम् । हाहे हाहौः हाहासु । हेहाहाः हेहाही हेहाहाः ॥ तथैव इहूशब्दः ॥ इकारान्तः पुंलिङ्गो हरिशब्दः । तत्र प्रथमैकवचने हरि सि इति स्थिते । स्रोर्विसर्गः (सू० १२४ ) हरिः॥ १५८
औ यू ३८ ॥ इकारान्तादुकारान्ताच्च परस्य औकारो यू आपद्यते ई ऊ भवतः । हरी । हरि जस् इति स्थिते ॥ १५९ एओ जसि ३९॥ इकारान्तस्य उकारान्तस्य च जसि परे एकार ओकारश्च भवति । ए अय् (सू० ४१) हरयः ॥ १६० धौ ४० ॥ इकारान्तस्य उकारान्तस्य च धिविषये एकार ओकारश्च भवति । हेहरे हेहरी हेहरयः। हरिम् हरि हरीन् ॥१६१ टा नास्त्रियाम् ४१ ॥ इकारान्तादुकारान्ताच्च परष्टा ना भवति अस्त्रियाम् । हरिणा हरिभ्याम् हरिभिः ॥ १६२ डिति ४२ ॥ इकारान्तस्य उकारान्तस्य ब मिति परे एकार ओकारश्च भवति । ए अय् (सू ४१) हरये हरिभ्याम् हरिभ्यः ॥ १६३ ङस्य ४३ ॥ एदुभ्यां परस्य सिङसोरकारस्य लोपो भवति । हरेः हरिभ्याम् हरिभ्यः । हरेः होः हरीणाम् ॥ १६४ डेरौ डित ४४ ॥ इदुभ्यामुत्तरस्य डेरौ भवति स च डित् । डिवाडिलोपः ॥ १६५ डिति टे: ४५॥