SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ २६ सारस्वतव्याकरणम् । [ वृत्ति: १ 1 डिति परे टेर्लोपो भवति । हरौ हर्योः हरिषु ॥ एवं अग्निगिरिरविकविप्रभृतयः पुंलिङ्गाः ॥ उकारान्ताश्च विष्णुवायुभानुप्रभृतयोऽप्येतैरेव सूत्रैः सिद्ध्यन्ति । भानुः भानू भानवः । भानुम् भानु भानून् । भानुना भानुभ्याम् भानुभिः । भानवे भानुभ्याम् भानुभ्यः । भानोः भानुभ्याम् भानुभ्यः । भानोः भान्वोः भानूनाम् । भानौ भान्वोः भानुषु । हेभानो हेभानू हेभानवः । इत्यादि ॥ एवं विष्णुवायुप्रभृतयः । इकारान्तस्यापि सखिशब्दस्य भेदः । सखि सि इति स्थिते ॥ १६६ सेर्डाऽधे: ४६ ॥ सखिशब्दस्य सेरधे भवति । ङित्त्वा - ट्टिलोपः । सखा ॥ १६७ ऐ सख्युः ४७ ॥ सखिशब्दस्यैकारादेशो भवति धिवर्जितेषु पञ्चसु परेषु ॥ १६८ षष्ठीनिर्दिष्टस्यादेशस्तदन्तस्य ज्ञेयः ४८ || आयादेशः । सखायौ ॥ १६९ द्विवचनस्यावा छन्दसि ४९ ॥ द्विवचनस्यौकारश्छन्दस्याकारमापद्यते । सखायासखायः । सखायम् सखायौ - सखाया सखीन् ॥ १७० सखिपत्योरिक् ५० ॥ सखिपतिशब्दयोरिगागमो भवति टाडैङिषु परतः दीर्घत्वान्ना न भवति । सख्या । ऋषिप्रयोगसिद्ध्यर्थमाह ॥ १७१ आगमजमनित्यम् ५१ ॥ आगमजं कार्यमनित्यं स्यात् वा छन्दसि । सखिना सखिभ्याम् सखिभिः । सख्ये सखिभ्याम् सखिभ्यः ॥ १७२ ऋङ्कडे ५२ ॥ सखिपतिशब्दयोगागमो भवति ङसिङसोर्डकारे परे । सख्यृ अस् इति स्थिते ॥ १७३ ऋतो ङ उः ५३ ॥ ऋकारान्तात्परस्य ङसिङसोरकारस्य उकारो भवति स च डित् । डित्त्वाट्टिलोपः । सख्युः सखिभ्याम् सखिभ्यः । सख्युः सख्योः सखीनाम् । सप्तम्येकवचने डेरौ डिदित्यौकारे कृते सखिपत्योरिगागमः । सख्यौ - सख्योः सखिषु । अधेरिति विशेषणादेकारो ·
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy