________________
सू० १७४-१८३ ] स्वरान्ताः पुंलिङ्गाः ६
२७ ऽधिविषये । हेसखे हेसखायौ हेसखायः । पतिशब्दस्य भेदः । स इत्थं । पतिशब्दस्य प्रथमाद्वितीययोर्हरिशब्दवत्प्रक्रिया । पतिः पती पतयः। पतिम् पती पतीन् । तृतीयादौ तु सखिशब्दवत्प्रक्रिया। पत्या-पतिना पतिभ्याम् पतिभिः । पत्ये पतिभ्याम् पतिभ्यः । पत्युः पतिभ्याम् पतिभ्यः । पत्युः पत्योः पतीनाम् । पत्यो पत्योः पतिषु । हे पते हेपती हेपतयः ॥ १७४ पतिरसमास एव सखिशब्दवद्वक्तव्यः५४॥ टादौ खरे परे षष्ठीयुक्तश्छन्दसि वा । सीतायाः पतये नम इत्यादिप्रयोगदर्शनात् । ततः समासान्तस्य नादयो भवन्ति । प्रजापतिना प्रजापतये । श्रीपतिना श्रीपतये इत्यादि ॥ द्विशब्दो नित्यं द्विवचनान्तः। द्वि औ इति स्थिते॥१७५ त्यादेष्टेरः स्यादौ ५५ ॥ त्यदादेष्टेरकारो भवति स्यादौ परे । द्वौ द्वौ द्वाभ्याम् द्वाभ्याम् द्वाभ्याम् द्वयोः द्वयोः ॥ त्रिशब्दो नित्यं बहुवचनान्तः । त्रि अस् इति स्थिते। ए ओ जसि ( सू० १५९) त्रयः त्रीन् त्रिभिः त्रिभ्यः त्रिभ्यः ॥ १७६ त्रेरयङ् ५६ ॥ त्रिशब्दस्यायङादेशो भवति नामि परे ॥ ङकारोऽन्त्यादेशार्थः ॥ १७७ दिन्त्यस्य वक्तव्यः ५७ ॥ त्रयाणाम् । त्रिषु ॥ कतिशब्दो नित्यं बहुवचनान्तस्त्रिषु लिङ्गेषु सरूपः । कति जसू इति स्थिते ॥ १७८ डतेश्व ५८ ॥ डत्यन्तात्परयोजश्शसोर्लक् भवति ॥ १७९ लुकि न तनिमित्तम् ५९ ॥ लुकि जाते सति तन्निमित्तं कार्य न स्यात् । कति कति कतिभिः कतिभ्यः कतिभ्यः कतीनाम् कतिषु । हेकति॥ ईकारान्तः पुंलिङ्गः सुश्रीशब्दः । सुश्रीः ॥ १८० य्वोर्धातोरियुवौ खरे ६० ॥ धातोरिकारोकारयोरियुवौ भवतः खरे परे । सुश्रियौ
-
१'सो नः पुंसः सू० १२७ ।