________________
२८
सारस्वतव्याकरणम् ।
[ वृत्तिः १
सुश्रियः । सुश्रियम् सुश्रियौ सुश्रियः । सुश्रिया सुश्रीभ्याम् सुश्रीभिः । सुश्रिये सुश्रीभ्याम् सुश्रीभ्यः । सुश्रियः सुश्रीभ्याम् सुश्रीभ्यः । सुश्रियः सुश्रियोः सुश्रियाम् । सुश्रियि सुश्रियोः सुश्रीषु । हेसुश्रीः हेसुश्रियौ हे सुश्रियः ॥ तथैव सुधीशब्दः । सुष्ठु ध्यायतीति सुधीः सुधियौ सुधियः । सुधियम् । इत्यादि ॥ एवमुकारान्तः खयम्भूशब्दः । खयं भवतीति स्वयम्भूः स्वयम्भुवौ स्वयम्भुवः । स्वयम्भुवम् स्वयम्भुवौ स्वयम्भुवः । खयम्भुवा खयम्भूभ्याम् खयम्भूभिः । खयम्भुवे खयम्भूभ्यां स्वयम्भूभ्यः । स्वयम्भुवः स्वयम्भूभ्याम् स्वयम्भूभ्यः । स्वयम्भुवः स्वयम्भुवोः स्वयम्भुवाम् । स्वयम्भुवि खयम्भुवोः स्वयम्भूषु । हेखयम्भूः स्वयम्भुवौ हेस्वयम्भुवः । इत्यादि || सेनाँनीशब्दस्याविशेषो हसादौ । स्वरादौ तु विशेषः । अधिपतिः ॥ १८१ खौ वा ६१ ॥ धातोरवयवसंयोगः पूर्वो यस्मादीकारादूकाराच्च नास्ति तदन्तस्यानेकस्वरस्य कारकाव्ययपूर्वस्यैकस्वरस्य च धातोरीकारस्य ऊकारस्य च यकारवकारौ भवतः खरे परे वर्षाभू पुनर्भूव्यतिरिक्त भूशब्दसुधीशब्दौ वर्जयित्वा । वाग्रहणादियं विवक्षा । सेनानीः सेनान्यौ सेनान्यः । सेनान्यम् सेनान्यौ सेनान्यः । सेनान्या सेनानीभ्याम् सेनानीभिः । सेनान्ये सेनानीभ्याम् सेनानीभ्यः । सेनान्यः सेनानीभ्याम् सेनानीभ्यः । सेनान्यः सेनाI न्योः ॥ १८२ सेनान्यादीनां वामो नुङ्गक्तव्यः ६२ ॥ सेनानीनाम्सेनान्याम् । सेनानी ङि इति स्थिते ॥ १८३ आम् ङेर्नियश्च ६३ ॥ आबन्तादीबन्तान्नीशब्दाच्चोत्तरस्य डेरामादेशो भवति । सेनान्याम् सेनान्योः सेनानीषु । हेसेनानीः हेसेनान्यौ हेसेनान्यः ॥ एवं
१ सुष्ठु ध्यायति तत्त्वमिति सुधीः । २ स्वयमेव भवतीति स्वयंभूः । ३ सेनां नयतीति सेनानीः ।