SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ सू० १८४-१९० ] स्वरान्ताः पुंलिङ्गाः ६ २९ ग्रामणीप्रभृतयः । एवमूकारान्तो यवलूशब्दः । यवलूः यवल्वौ यवत्वः। यवत्वम् यवल्वौ यवत्वः । यवत्वा यवलूभ्याम् यवलूभिः । यवल्वे यवलूभ्याम् यवलूभ्यः । यवल्वः यवलूभ्याम् यवलूभ्यः । यवस्वः यवल्वोः यवलूनाम् । यवल्वाम् यवल्वि यवत्वोः यवलूषु । हेयवलूः हेयवल्वौ हेयवत्वः ॥ एवं वर्षाभू पुनर्भूप्रभृतयः ॥ संयोगपूर्वस्य तु सुश्रियो कटघुवौ ॥ एकखरे तु नियौ लुवौ ॥ कारकाव्ययपूर्वत्वाभावे तु परमनियौ । धात्ववयवसंयोगपूर्वकारोकारयोरेव न य्वौ । तेन उन्यौ ॥ नाम्नश्च कृता समास इति कृत्समास एव। तद्व्यतिरिक्ते समासे तु न य्वौ । तेन कुधियौ इति । बहुव्रीहौ तु इयुवौ स्तः ।। ईकारान्तो वातप्रमीशब्दः । वातप्रमीः वातप्रम्यौ वातप्रम्यः । वातप्रमीम् वातप्रम्यौ वातप्रमीन् । वातप्रम्या वातप्रमीभ्याम् वातप्रमीभिः। वातप्रम्ये वातप्रमीभ्याम् वातप्रमीभ्यः । वातप्रम्यः वातप्रमीभ्याम् वातप्रमीभ्यः। वातप्रम्यः वातप्रम्योः वातप्रम्याम् । वातप्रमी वातप्रम्योः वातप्रमीषु । हेवातप्रमीः हेवातप्रम्यौ हेवातप्रम्यः ।। अमि वातप्रमीमाहुः शसि वातप्रमीनिति । - ङौ तु वातप्रमी शेषं ग्रामणीसदृशं भवेत् ॥ ३३ ॥ · तथैवोकारान्तो हूहूशब्दः। हूहूः इह्वौ हूह्वः । इहूम् इह्वौ हूहून् । हूहा हूहूभ्याम् इहूभिः । इत्यादि ।। ऋकारान्तः पितृशब्दः । पितृ सि इति स्थिते ॥ १८४ सेरा ६४ ॥ ऋकारान्तात्परस्य सेरा भवति स च डित् । डित्त्वाहिलोपः । पिता ॥ १८५ अर् पञ्चसु ६५ ॥ ऋकारस्यार भवति पञ्चसु स्यादिषु परेषु । पितरौ पितरः । मिवरम् पितरौ पितॄन् । ऋ रम् (सू० ३९) पित्रा पितृभ्याम् पितृभिः । पित्रे पितृभ्याम् पितृभ्यः । ऋतो छ उः (सू० १७३)
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy