________________
३०
सारस्वतव्याकरणम्।
[वृत्तिः १ पितुः पितृभ्याम् पितृभ्यः । पितुः पित्रोः पितृणाम् ॥ १८६ डौ ६६ ॥ ऋकारस्यार् भवति डौ परे । पितरि पित्रोः पितृषु । पितृ धि इति स्थिते ॥ १८७ धेरर् ६७ ॥ ऋकारान्तात्परस्य धेरर भवति स च डित् । डित्त्वाहिलोपः । हेपितः हेपितरौ हेपितरः । एवं जामातृभ्रात्रादयः ॥ एवं नृशब्दः । सेरा (सू० १८४ ) ना नरौ नरः । नरम् नरौ नृन् । ब्रा नृभ्याम् नृभिः । ने नृभ्याम् नृभ्यः । ऋतो ङ उः ( सू. १७३ ) नुः नृभ्याम् नृभ्यः । नुः नोः ॥ १८८ नुर्वा नामि दीर्घः ६८ ॥ नृशब्दस्य नामि परे पूर्वस्य दी| वा भवति । नृणां नृणाम् । डो (सू० १८६) नरि ब्रोः नृषु । हेनः हेनरौ हेनरः ॥ कर्तृशब्दस्य पञ्चसु विशेषः ॥ १८९ स्तुरार् ६९ ॥ सकारतृप्रत्ययसंबन्धिन ऋकारस्याऽऽर् भवति पञ्चलु परेषु । कर्तासि इति स्थिते । यदादेशस्तद्वद्भवति । सेरा ( सू० १८४ ) डित्त्वाहिलोपः । कर्ता कर्तारौ कर्तारः । कर्तारम् कर्तारौ कर्तृन् । का कर्तृभ्याम् कर्तृभिः । कर्ने कर्तृभ्याम् कर्तृभ्यः । ऋतो ङ उः ( सू० १७३) कर्तुः कर्तृभ्याम् कर्तृभ्यः। कर्तुः कोंः कर्तृणाम् । कर्तरि कोंः कर्तृषु । धेरर् (सू० १८७) हेकर्तः हेकर्तारौ हेकर्तारः । इत्यादि पूर्ववत्प्रक्रिया ॥ एवं नप्तहोतृक्षत्तृधातृगोप्तृप्रशास्तृपोतृउद्गातृप्रभृतयः॥
खसा नप्ता च नेष्टा च त्वष्टा कर्ता तथैव च । . होता पोता प्रशास्ता च ह्यष्टौ स्वस्रादयः स्मृताः॥ ३४ ॥ १९० उकारान्तस्यापि क्रोष्टशब्दस्य पञ्चवधिषु तृप्रत्ययान्तता वा वक्तव्या ७० ॥ क्रोष्ट सि इति स्थिते । स्तुरार् (सू० १८९) । सेरो (सू० १८४ ) क्रोष्टा क्रोष्टारौ कोष्टारः । कोष्टा